अंशित्वहेतौ विरुद्धत्वरूपं दूषणं…

विकिपुस्तकानि तः

प्र.- अंशित्वहेतौ विरुद्धत्वरूपं दूषणं निराकुरुत।
उ.
चित्सुखीयानुमाने अंशित्वम् इति हेतु: वर्तते।तत्र विरुद्धदोष: पूर्वपक्षेण दर्शित:।तस्य निराकरणम् अद्वैतसिद्धिकारेण एवं क्रियते -
१ अंशी पट: अंशसमवेत: अस्तीति मान्यम्।
२ स च पट: एतत्तन्तुसमवेतोऽस्ति इत्यपि अनुमतम्।
३ पट: एतत्तन्तुसमवेतोऽस्ति अत: तत्र एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वम् अस्तीति पूर्वपक्षस्य मतं तु न अस्माभि: मन्यते।यतो हि एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वम् एतत्तन्तुसमवेतत्वं प्रति प्रयोजकं नास्ति, प्रमेयादौ व्यभिचारदर्शनात्।पटे प्रमेयत्वम् अस्ति, परं तत् समवायसम्बन्धेन नास्ति इति वैशेषिकमतम्।प्रमेयत्वे एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्वं विद्यते, परम् एतत्तन्तुसमवेतत्वं न विद्यते।
पूर्वपक्षेण अंशित्वम् (हेतु:) एतत्तन्तुनिष्ठात्यन्ताभाव-अप्रतियोगित्वस्य (साध्याभावस्य )व्याप्यम् इति यदुक्तं तदसत्।
साध्याभावव्याप्यो हेतु: विरुद्ध:।अत्र हेतु: साध्याभावव्याप्य: नास्ति अत: विरुद्धदोष: अपि नास्ति। .......................................................

लघूत्तरप्रश्ना: