अर्थशास्त्रम् अध्याय 08

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

(प्रकृति.व्यसन.वर्ग:)

अशा-०८.१.०१
व्यसन.यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा_इति व्यसन.चिन्ता ॥

अशा-०८.१.०२
दैवं मानुषं वा प्रकृति.व्यसनम् अनय.अपनयाभ्यां सम्भवति ॥

अशा-०८.१.०३
गुण.प्रातिलोम्यम् अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम् ॥

अशा-०८.१.०४
व्यस्यत्य् एनं श्रेयस इति व्यसनम् ॥

अशा-०८.१.०५
"स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्र.व्यसनानां पूर्वं पूर्वं गरीयः" इत्य् आचार्याः ॥

अशा-०८.१.०६
न_इति भरद्वाजः ॥

अशा-०८.१.०७
"स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः ॥

अशा-०८.१.०८
मन्त्रो मन्त्र.फल.अवाप्तिः कर्म.अनुष्ठानम् आय.व्यय.कर्म दण्ड.प्रणयनम् अमित्र.अटवी.प्रतिषेधो राज्य.रक्षणं व्यसन.प्रतीकारः कुमार.रक्षणम् अभिषेकश् च कुमाराणाम् आयत्तम् अमात्येषु ॥

अशा-०८.१.०९
तेषाम् अभावे तद्.अभावः, छिन्न.पक्षस्य_इव राज्ञश् चेष्टा.नाशश् च ॥

अशा-०८.१.१०
व्यसनेषु च_आसन्नः पर.उपजापः ॥

अशा-०८.१.११
वैगुण्ये च प्राण.आबाधः प्राण.अन्तिक.चरत्वाद् राज्ञः" इति ॥

अशा-०८.१.१२
न_इति कौटिल्यः ॥

अशा-०८.१.१३
मन्त्रि.पुरोहित.आदि.भृत्य.वर्गम् अध्यक्ष.प्रचारं पुरुष.द्रव्य.प्रकृति.व्यसन.प्रतीकारम् एधनं च राजा_एव करोति ॥

अशा-०८.१.१४
व्यसनिषु वा_अमात्येष्व् अन्यान् अव्यसनिनः करोति ॥

अशा-०८.१.१५
पूज्य.पूजने दूष्य.अवग्रहे च नित्य.युक्तस् तिष्ठति ॥

अशा-०८.१.१६
स्वामी च सम्पन्नः स्व.सम्पद्भिः प्रकृतीः सम्पादयति ॥

अशा-०८.१.१७
स यत्.शीलस् तत्.शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्.आयत्तत्वात् ॥

अशा-०८.१.१८
तत्.कूट.स्थानीयो हि स्वामी_इति ॥

अशा-०८.१.१९
"अमात्य.जन.पद.व्यसनयोर् जन.पद.व्यसनं गरीयः" इति विशाल.अक्षः ॥

अशा-०८.१.२०
"कोशो दण्डः कुप्यं विष्टिर् वाहनं निचयाश् च जन.पदाद् उत्तिष्ठन्ते ॥

अशा-०८.१.२१
तेषाम् अभावो जन.पद.अभावे, स्वाम्य्.अमात्ययोश् च_अनन्तरः" इति ॥

अशा-०८.१.२२
न_इति कौटिल्यः ॥

अशा-०८.१.२३
अमात्य.मूलाः सर्व.आरम्भाः - जन.पदस्य कर्म.सिद्धयः स्वतः परतश् च योग.क्षेम.साधनं व्यसन.प्रतीकारः शून्य.निवेश.उपचयौ दण्ड.कर.अनुग्रहश् च_इति ॥

अशा-०८.१.२४
"जन.पद.दुर्ग.व्यसनयोर् दुर्ग.व्यसनम्" इति पाराशराः ॥

अशा-०८.१.२५
"दुर्गे हि कोश.दण्ड.उत्पत्तिर् आपदि स्थानं च जन.पदस्य ॥

अशा-०८.१.२६
शक्तिमत्तराश् च पौरा जानपदेभ्यो नित्याश् च_आपदि सहाया राज्ञः ॥

अशा-०८.१.२७
जानपदास् त्व् अमित्र.साधारणाः" इति ॥

अशा-०८.१.२८
न_इति कौटिल्यः ॥

अशा-०८.१.२९
जन.पद.मूला दुर्ग.कोश.दण्ड.सेतु.वार्त्ता.आरम्भाः ॥

अशा-०८.१.३०
शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ॥

अशा-०८.१.३१
पर्वत.अन्तर्.द्वीपाश् च दुर्गा न_अध्युष्यन्ते जन.पद.अभावात् ॥

अशा-०८.१.३२
कर्षक.प्राये तु दुर्ग.व्यसनम्, आयुधीय.प्राये तु जन.पदे जन.पद.व्यसनम् इति ॥

अशा-०८.१.३३
"दुर्ग.कोश.व्यसनयोः कोश.व्यसनम्" इति पिशुनः ॥

अशा-०८.१.३४
"कोश.मूलो हि दुर्ग.संस्कारो दुर्ग.रक्षणं जन.पद.मित्र.अमित्र.निग्रहो देश.अन्तरितानाम् उत्साहनं दण्ड.बल.व्यवहारश् च ॥

अशा-०८.१.३५
दुर्गः कोशाद् उपजाप्यः परेषाम् ॥

अशा-०८.१.३६
कोशम् आदाय च व्यसने शक्यम् अपयातुम्, न दुर्गम्" इति ॥

अशा-०८.१.३७
न_इति कौटिल्यः ॥

अशा-०८.१.३८
दुर्ग.अर्पणः कोशो दण्डस् तूष्णीं.युद्धं स्व.पक्ष.निग्रहो दण्ड.बल.व्यवहार आसार.प्रतिग्रहः पर.चक्र.अटवी.प्रतिषेधश् च ॥

अशा-०८.१.३९
दुर्ग.अभावे च कोशः परेषाम् ॥

अशा-०८.१.४०
दृश्यते हि दुर्गवताम् अनुच्छित्तिर् इति ॥

अशा-०८.१.४१
"कोश.दण्डव्यसनयोर् दण्ड.व्यसनम्" इति कौणपदन्तः ॥

अशा-०८.१.४२
"दण्ड.मूलो हि मित्र.अमित्र.निग्रहः पर.दण्ड.उत्साहनं स्व.दण्ड.प्रतिग्रहश् च ॥

अशा-०८.१.४३
दण्ड.अभावे च ध्रुवः कोश.विनाशः ॥

अशा-०८.१.४४
कोश.अभावे च शक्यः कुप्येन भूम्या पर.भूमि.स्वयं.ग्राहेण वा दण्डः पिण्डयितुम्, दण्डवता च कोशः ॥

अशा-०८.१.४५
स्वामिनश् च_आसन्न.वृत्तित्वाद् अमात्य.सधर्मा दण्डः" इति ॥

अशा-०८.१.४६
न_इति कौटिल्यः ॥

अशा-०८.१.४७
कोश.मूलो हि दण्डः ॥

अशा-०८.१.४८
कोश.अभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति ॥

अशा-०८.१.४९
सर्व.अभियोग.करश् च कोशो धर्म.काम.हेतुः ॥

अशा-०८.१.५०
देश.काल.कार्य.वशेन तु कोश.दण्डयोर् अन्यतरः प्रमाणी.भवति ॥

अशा-०८.१.५१
लम्भ.पालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति ॥

अशा-०८.१.५२
सर्व.द्रव्य.प्रयोजकत्वात् कोश.व्यसनं गरीय इति ॥

अशा-०८.१.५३
"दण्ड.मित्र.व्यसनयोर् मित्र.व्यसनम्" इति वातव्याधिः ॥

अशा-०८.१.५४
"मित्रम् अभृतं व्यवहितं च कर्म करोति, पार्ष्णि.ग्राहम् आसारम् अमित्रम् आटविकं च प्रतिकरोति, कोश.दण्ड.भूमिभिश् च_उपकरोति व्यसन.अवस्था.योगम्" इति ॥

अशा-०८.१.५५
न_इति कौटिल्यः ॥

अशा-०८.१.५६
दण्डवतो मित्रं मित्र.भावे तिष्ठति, अमित्रो वा मित्र.भावे ॥

अशा-०८.१.५७
दण्ड.मित्रयोस् तु साधारणे कार्ये सारतः स्व.युद्ध.देश.काल.लाभाद् विशेषः ॥

अशा-०८.१.५८
शीघ्र.अभियाने त्व् अमित्र.आटविक.अनभ्यन्तर.कोपे च न मित्रं विद्यते ॥

अशा-०८.१.५९
व्यसन.यौगपद्ये पर.वृद्धौ च मित्रम् अर्थ.युक्तौ तिष्ठति ॥

अशा-०८.१.६०
इति प्रकृति.व्यसन.सम्प्रधारणम् उक्तम् ॥

अशा-०८.१.६१कख’’’
प्रकृत्य्.अवयवानां तु व्यसनस्य विशेषतः ।


अशा-०८.१.६१गघ’’’
बहु.भावो_अनुरागो वा सारो वा कार्य.साधकः ॥


अशा-०८.१.६२कख’’’
द्वयोस् तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।


अशा-०८.१.६२गघ’’’
शेष.प्रकृति.साद्गुण्यं यदि स्यान् न_अविधेयकम् ॥


अशा-०८.१.६३कख’’’
शेष.प्रकृति.नाशस् तु यत्र_एक.व्यसनाद् भवेत् ।


अशा-०८.१.६३गघ’’’
व्यसनं तद् गरीयः स्यात् प्रधानस्य_इतरस्य वा ॥

(राज.राज्ययोर् व्यसन.चिन्ता)

अशा-०८.२.०१
राजा राज्यम् इति प्रकृति.संक्षेपः ॥

अशा-०८.२.०२
राज्ञो_अभ्यन्तरो बाह्यो वा कोप इति ॥

अशा-०८.२.०३
अहि.भयाद् अभ्यन्तरः कोपो बाह्य.कोपात् पापीयान्, अन्तर्.अमात्य.कोपश् च_अन्तः.कोपात् ॥

अशा-०८.२.०४
तस्मात् कोश.दण्ड.शक्तिम् आत्म.संस्थां कुर्वीत ॥

अशा-०८.२.०५
"द्वैराज्य.वैराज्ययोर् द्वैराज्यम् अन्योन्य.पक्ष.द्वेष.अनुरागाभ्यां परस्पर.संघर्षेण वा विनश्यति, वैराज्यं तु प्रकृति.चित्त.ग्रहण.अपेक्षि यथा.स्थितम् अन्यैर् भुज्यते" इत्य् आचार्याः ॥

अशा-०८.२.०६
न_इति कौटिल्यः ॥

अशा-०८.२.०७
पिता.पुत्रयोर् भ्रात्रोर् वा द्वैराज्यं तुल्य.योग.क्षेमम् अमात्य.अवग्रहं वर्तयति ॥

अशा-०८.२.०८
वैराज्यं तु जीवतः परस्य_आच्छिद्य "न_एतन् मम" इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्य_अपगच्छति_इति ॥

अशा-०८.२.०९
अन्धश् चलित.शास्त्रो वा राजा_इति "अशास्त्र.चक्षुर् अन्धो यत्.किंचन.कारी दृढ.अभिनिवेशी पर.प्रणेयो वा राज्यम् अन्यायेन_उपहन्ति, चलित.शास्त्रस् तु यत्र शास्त्राच् चलित.मतिर् भवति शक्य.अनुनयो भवति" इत्य् आचार्याः ॥

अशा-०८.२.१०
न_इति कौटिल्यः ॥

अशा-०८.२.११
अन्धो राजा शक्यते सहाय.सम्पदा यत्र तत्र वा पर्यवस्थापयितुम् ॥

अशा-०८.२.१२
चलित.शास्त्रस् तु शास्त्राद् अन्यथा.अभिनिविष्ट.बुद्धिर् अन्यायेन राज्यम् आत्मानं च_उपहन्ति_इति ॥

अशा-०८.२.१३
व्याधितो नवो वा राजा_इति "व्याधितो राजा राज्य.उपघातम् अमात्य.मूलं प्राण.आबाधं वा राज्य.मूलम् अवाप्नोति, नवस् तु राजा स्व.धर्म.अनुग्रह.परिहार.दान.मान.कर्मभिः प्रकृति.रञ्जन.उपकारैश् चरति" इत्य् आचार्याः ॥

अशा-०८.२.१४
न_इति कौटिल्यः ॥

अशा-०८.२.१५
व्याधितो राजा यथा.प्रवृत्तं राज.प्रणिधिम् अनुवर्तयति ॥

अशा-०८.२.१६
नवस् तु राजा बल.आवर्जितं "मम_इदं राज्यम्" इति यथा.इष्टम् अनवग्रहश् चरति ॥

अशा-०८.२.१७
सामुत्थायिकैर् अवगृहीतो वा राज्य.उपघातं मर्षयति ॥

अशा-०८.२.१८
प्रकृतिष्व् अरूढः सुखम् उच्छेत्तुं भवति_इति ॥

अशा-०८.२.१९
व्याधिते विशेषः पाप.रोग्य.पाप.रोगी च ॥

अशा-०८.२.२०
नवे_अप्य् अभिजातो_अनभिजात इति ॥

अशा-०८.२.२१
दुर्बलो_अभिजातो बलवान् अनभिजातो राजा_इति "दुर्बलस्य_अभिजातस्य_उपजापं दौर्बल्य.अपेक्षाः प्रकृतयः कृच्छ्रेण_उपगच्छन्ति, बलवतश् च_अनभिजातस्य बल.अपेक्षाः सुखेन" इत्य् आचार्याः ॥

अशा-०८.२.२२
न_इति कौटिल्यः ॥

अशा-०८.२.२३
दुर्बलम् अभिजातं प्रकृतयः स्वयम् उपनमन्ति, जात्यम् ऐश्वर्य.प्रकृतिर् अनुवर्तत इति ॥

अशा-०८.२.२४
बलवतश् च_अनभिजातस्य_उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥

अशा-०८.२.२५
प्रयास.वधात् सस्य.वधो मुष्टि.वधात् पापीयान्, निराजीवत्वाद् अवृष्टिर् अतिवृष्टितः ॥

अशा-०८.२.२६कख’’’
द्वयोर् द्वयोर् व्यसनयोः प्रकृतीनां बल.अबलम् ।


अशा-०८.२.२६गघ’’’
पारम्पर्य.क्रमेण_उक्तं याने स्थाने च कारणम् ॥

(पुरुष.व्यसन.वर्गह्)

अशा-०८.३.०१
अविद्या.विनयः पुरुष.व्यसन.हेतुः ॥

अशा-०८.३.०२
अविनीतो हि व्यसन.दोषान् न पश्यति ॥

अशा-०८.३.०३
तान् उपदेक्ष्यामः ॥

अशा-०८.३.०४
कोपजस् त्रि.वर्गः, कामजश् चतुर्.वर्गः ॥

अशा-०८.३.०५
तयोः कोपो गरीयान् ॥

अशा-०८.३.०६
सर्वत्र हि कोपश् चरति ॥

अशा-०८.३.०७
प्रायशश् च कोप.वशा राजानः प्रकृति.कोपैर् हताः श्रूयन्ते, काम.वशाः क्षय.निमित्तम् अरि.व्याधिभिर् इति ॥

अशा-०८.३.०८
न_इति भारद्वाजः ॥

अशा-०८.३.०९
"सत्.पुरुष.आचारः कोपो वैर.यातनम् अवज्ञा.वधो भीत.मनुष्यता च ॥

अशा-०८.३.१०
नित्यश् च कोपेन सम्बन्धः पाप.प्रतिषेध.अर्थः ॥

अशा-०८.३.११
कामः सिद्धि.लाभः सान्त्वं त्याग.शीलता सम्प्रिय.भावश् च ॥

अशा-०८.३.१२
नित्यश् च कामेन सम्बन्धः कृत.कर्मणः फल.उपभोग.अर्थः" इति ॥

अशा-०८.३.१३
न_इति कौटिल्यः ॥

अशा-०८.३.१४
द्वेष्यता शत्रु.वेदनं दुःख.आसङ्गश् च कोपः ॥

अशा-०८.३.१५
परिभवो द्रव्य.नाशः पाटच्चर.द्यूतकार.लुब्धक.गायन.वादकैश् च_अनर्थ्यैः सम्योगः कामः ॥

अशा-०८.३.१६
तयोः परिभवाद् द्वेष्यता गरीयसी ॥

अशा-०८.३.१७
परिभूतः स्वैः परैश् च_अवगृह्यते, द्वेष्यः समुच्छिद्यत इति ॥

अशा-०८.३.१८
द्रव्य.नाशात्_शत्रु.वेदनं गरीयः ॥

अशा-०८.३.१९
द्रव्य.नाशः कोश.आबाधकः, शत्रु.वेदनं प्राण.आबाधकम् इति ॥

अशा-०८.३.२०
अनर्थ्य.सम्योगाद् दुःख.सम्योगो गरीयान् ॥

अशा-०८.३.२१
अनर्थ्य.सम्योगो मुहूर्त.प्रतीकारो, दीर्घ.क्लेश.करो दुःखानाम् आसङ्ग इति ॥

अशा-०८.३.२२
तस्मात् कोपो गरीयान् ॥

अशा-०८.३.२३
वाक्.पारुष्यम् अर्थ.दूषणं दण्ड.पारुष्यम् इति ॥

अशा-०८.३.२४
"वाक्.पारुष्य.अर्थ.दूषणयोर् वाक्.पारुष्यं गरीयः" इति विशाल.अक्षः ॥

अशा-०८.३.२५
"परुष.मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ॥

अशा-०८.३.२६
दुरुक्त.शल्यं हृदि निखातं तेजः.संदीपनम् इन्द्रिय.उपतापि च" इति ॥

अशा-०८.३.२७
न_इति कौटिल्यः ॥

अशा-०८.३.२८
अर्थ.पूजा वाक्.शल्यम् अपहन्ति, वृत्ति.विलोपस् त्व् अर्थ.दूषणम् ॥

अशा-०८.३.२९
अदानम् आदानं विनाशः परित्यागो वा_अर्थस्य_इत्य् अर्थ.दूषणम् ॥

अशा-०८.३.३०
"अर्थ.दूषण.दण्ड.पारुष्ययोर् अर्थ.दूषणं गरीयः" इति पाराशराः ॥

अशा-०८.३.३१
"अर्थ.मूलौ धर्म.कामौ ॥

अशा-०८.३.३२
अर्थ.प्रतिबद्धश् च लोको वर्तते ॥

अशा-०८.३.३३
तस्य.उपघातो गरीयान्" इति ॥

अशा-०८.३.३४
न_इति कौटिल्यः ॥

अशा-०८.३.३५
सुमहता_अप्य् अर्थेन न कश्चन शरीर.विनाशम् इच्छेत् ॥

अशा-०८.३.३६
दण्ड.पारुष्याच् च तम् एव दोषम् अन्येभ्यः प्राप्नोति ॥

अशा-०८.३.३७
इति कोपजस् त्रि.वर्गः ॥

अशा-०८.३.३८
कामजस् तु मृगया द्यूतं स्त्रियः पानम् इति चतुर्.वर्गः ॥

अशा-०८.३.३९
तस्य "मृगया.द्यूतयोर् मृगया गरीयसी" इति पिशुनः ॥

अशा-०८.३.४०
"स्तेन.अमित्र.व्याल.दाव.प्रस्खलन.भय.दिन्.मोहाः क्षुत्.पिपासे च प्राण.आबाधस् तस्याम् ॥

अशा-०८.३.४१
द्यूते तु जितम् एव_अक्ष.विदुषा यथा जयत्.सेन.दुर्योधनाभ्याम्" इति ॥

अशा-०८.३.४२
न_इत्य् कौटिल्यः ॥

अशा-०८.३.४३
तयोर् अप्य् अन्यतर.पराजयो_अस्ति_इति नल.युधिष्ठिराभ्यां व्याख्यातम् ॥

अशा-०८.३.४४
तद् एव विजित.द्रव्यम् आमिषं वैर.अनुबन्धश् च ॥

अशा-०८.३.४५
सतो_अर्थस्य विप्रतिपत्तिर् असतश् च_अर्जनम् अप्रतिभुक्त.नाशो मूत्र.पुरीष.धारण.बुभुक्षा.आदिभिश् च व्याधि.लाभ इति द्यूत.दोषाः ॥

अशा-०८.३.४६
मृगयायां तु व्यायामः श्लेष्म.पित्त.मेदः.स्वेद.नाशश् चले स्थिते च काये लक्ष.परिचयः कोप.भय.स्थानेषु च मृगाणां चित्त.ज्ञानम् अनित्य.यानं च_इति ॥

अशा-०८.३.४७
"द्यूत.स्त्री.व्यसनयोः कैतव.व्यसनम्" इति कौणपदन्तः ॥

अशा-०८.३.४८
"सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्य् एव कितवः ॥

अशा-०८.३.४९
कृच्छ्रे च प्रतिपृष्टः कुप्यति ॥

अशा-०८.३.५०
स्त्री.व्यसने तु स्नान.प्रतिकर्म.भोजन.भूमिषु भवत्य् एव धर्म.अर्थ.परिप्रश्नः ॥

अशा-०८.३.५१
शक्या च स्त्री राजहिते.नियोक्तुम्, उपांशु.दण्डेन व्याधिना वा व्यावर्तयितुम् अवस्रावयितुं वा" इति ॥

अशा-०८.३.५२
न_इति कौटिल्यः ॥

अशा-०८.३.५३
सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री.व्यसनम् ॥

अशा-०८.३.५४
अदर्शनं कार्य.निर्वेदः काल.अतिपातनाद् अनर्थो धर्म.लोपश् च तन्त्र.दौर्बल्यं पान.अनुबन्धश् च_इति ॥

अशा-०८.३.५५
"स्त्री.पान.व्यसनयोः स्त्री.व्यसनम्" इति वातव्याधिः ॥

अशा-०८.३.५६
"स्त्रीषु हि बालिश्यम् अनेक.विधं निशान्त.प्रणिधौ व्याख्यातम् ॥

अशा-०८.३.५७
पाने तु शब्द.आदीनाम् इन्द्रिय.अर्थानाम् उपभोगः प्रीति.दानं परिजन.पूजनं कर्म.श्रम.वधश् च" इति ॥

अशा-०८.३.५८
न_इति कौटिल्यः ॥

अशा-०८.३.५९
स्त्री.व्यसने भवत्य् अपत्य.उत्पत्तिर् आत्म.रक्षणं च_अन्तर्.दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व.उच्छित्तिः ॥

अशा-०८.३.६०
तद् उभयं पान.व्यसने ॥

अशा-०८.३.६१
पान.सम्पत् - संज्ञा.नाशो_अनुन्मत्तस्य_उन्मत्तत्वम् अप्रेतस्य प्रेतत्वं कौपीन.दर्शनं श्रुत.प्रज्ञा.प्राण.वित्त.मित्र.हानिः सद्भिर् वियोगो_अनर्थ्य.सम्योगस् तन्त्री.गीत.नैपुण्येषु च_अर्थघ्नेषु प्रसङ्ग इति ॥

अशा-०८.३.६२
द्यूत.मद्ययोर् द्यूतम् ॥

अशा-०८.३.६३
एकेषां पण.निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष.द्वैधेन प्रकृति.कोपं करोति ॥

अशा-०८.३.६४
विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्याद् इति ॥

अशा-०८.३.६५कख’’’
असतां प्रग्रहः कामः कोपश् च_अवग्रहः सताम् ।


अशा-०८.३.६५गघ’’’
व्यसनं दोष.बाहुल्याद् अत्यन्तम् उभयं मतम् ॥


अशा-०८.३.६६कख’’’
तस्मात् कोपं च कामं च व्यसन.आरम्भम् आत्मवान् ।


अशा-०८.३.६६गघ’’’
परित्यजेन् मूल.हरं वृद्ध.सेवी जित.इन्द्रियः ॥

(पीडन.वर्गह् - स्तम्भ.वर्गह् - कोश.सन्ग.वर्गह्)

अशा-०८.४.०१
दैव.पीडनं - अग्निर् उदकं व्याधिर् दुर्भिक्षं मरक इति ॥

अशा-०८.४.०२
"अग्न्य्.उदकयोर् अग्नि.पीडनम् अप्रतिकार्यं सर्व.दाहि च, शक्य.अपगमनं तार्य.आबाधम् उदक.पीडनम्" इत्य् आचार्याः ॥

अशा-०८.४.०३
न_इत् कौटिल्यः ॥

अशा-०८.४.०४
अग्निर् ग्रामम् अर्ध.ग्रामं वा दहति, उदक.वेगस् तु ग्राम.शत.प्रवाही_इति ॥

अशा-०८.४.०५
"व्याधि.दुर्भिक्षयोर् व्याधिः प्रेत.व्याधित.उपसृष्ट.परिचारक.व्यायाम.उपरोधेन कर्माण्य् उपहन्ति, दुर्भिक्षं पुनर् अकर्म.उपघाति हिरण्य.पशु.कर.दायि च" इत्य् आचार्याः ॥

अशा-०८.४.०६
न_इति कौटिल्यः ॥

अशा-०८.४.०७
एक.देश.पीडनो व्याधिः शक्य.प्रतीकारश् च, सर्व.देश.पीडनं दुर्भिक्षं प्राणिनाम् अजीवनाय_इति ॥

अशा-०८.४.०८
तेन मरको व्याख्यातः ॥

अशा-०८.४.०९
"क्षुद्रक.मुख्य.क्षययोः क्षुद्रक.क्षयः कर्मणाम् अयोग.क्षेमं करोति, मुख्य.क्षयः कर्म.अनुष्ठान.उपरोध.धर्मा" इत्य् आचार्याः ॥

अशा-०८.४.१०
न_इति कौटिल्यः ॥

अशा-०८.४.११
शक्यः क्षुद्रक.क्षयः प्रतिसंधातुं बाहुल्यात् क्षुद्रकाणाम्, न मुख्य.क्षयः ॥

अशा-०८.४.१२
सहस्रेषु हि मुख्यो भवत्य् एको न वा सत्त्व.प्रज्ञा.आधिक्यात् तद्.आश्रयत्वात् क्षुद्रकाणाम् इति ॥

अशा-०८.४.१३
"स्व.चक्र.पर.चक्रयोः स्व.चक्रम् अतिमात्राभ्यां दण्ड.कराभ्यां पीडयत्य् अशक्यं च वारयितुम्, पर.चक्रं तु शक्यं प्रैयोद्धुम् उपसारेण संधिना वा मोक्षयितुम्" इत्य् आचार्याः ॥

अशा-०८.४.१४
न_इति कौटिल्यः ॥

अशा-०८.४.१५
स्व.चक्र.पीडनं प्रकृति.पुरुष.मुख्य.उपग्रह.विघाताभ्यां शक्यते वारयितुम् एक.देशं वा पीडयति, सर्व.देश.पीडनं तु पर.चक्रं विलोप.घात.दाह.विध्वंसन.अपवाहनैः पीडयति_इति ॥

अशा-०८.४.१६
"प्रकृति.राज.विवादयोः प्रकृइति.विवादः प्रकृतीनां भेदकः पर.अभियोगान् आवहति, राज.विवादस् तु प्रकृतीनां द्वि.गुण.भक्त.वेतन.परिहार.करो भवति" इत्य् आचार्याः ॥

अशा-०८.४.१७
न_इति कौटिल्यः ॥

अशा-०८.४.१८
शक्यः प्रकृति.विवादः प्रकृति.मुख्य.उपग्रहेण कलह.स्थान.अपनयनेन वा वारयितुम् ॥

अशा-०८.४.१९
विवदमानास् तु प्रकृतयः परस्पर.संघर्षेण_उपकुर्वन्ति ॥

अशा-०८.४.२०
राज.विवादस् तु पीडन.उच्छेदनाय प्रकृतीनां द्वि.गुण.व्यायाम.साध्य इति ॥

अशा-०८.४.२१
"देश.राज.विहारयोर् देश.विहारस् त्रैकाल्येन कर्म.फल.उपघातं करोति, राज.विहारस् तु कारु.शिल्पि.कुशीलव.वाग्.जीवन.रूप.आजीवा.वैदेहक.उपकारं करोति" इत्य् आचार्याः ॥

अशा-०८.४.२२
न_इति कौटिल्यः ॥

अशा-०८.४.२३
देश.विहारः कर्म.श्रमम् अवधा.अर्थम् अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राज.विहारस् तु स्वयं वल्लभैश् च स्वयं.ग्राह.प्रणय.पण्य.अगार.कार्य.उपग्रहैः पीडयति_इति ॥

अशा-०८.४.२४
"सुभगा.कुमारयोः कुमारः स्वयं वल्लभैश् च स्वयं.ग्राह.प्रणय.पण्य.अगार.कार्य.उपग्रहैः पीडयति, सुभगा विलास.उपभोगेन" इत्य् आचार्याः ॥

अशा-०८.४.२५
न_इति कौटिल्यः ॥

अशा-०८.४.२६
शक्यः कुमारो मन्त्रि.पुरोहिताभ्यां वारयितुम्, न सुभगा बालिश्याद् अनर्थ्य.जन.सम्योगाच् च_इति ॥

अशा-०८.४.२७
"श्रेणी.मुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेय.साहसाभ्यां पीडयति, मुख्यः कार्य.अनुग्रह.विघाताभ्याम्" इत्य् आचार्याः ॥

अशा-०८.४.२८
न_इति कौटिल्यः ॥

अशा-०८.४.२९
सुव्यावर्त्या श्रेणी समान.शील.व्यसनत्वात्, श्रेणी.मुख्य.एक.देश.उपग्रहेण वा ॥

अशा-०८.४.३०
स्तम्भ.युक्तो मुख्यः पर.प्राण.द्रव्य.उपघाताभ्यां पीडयति_इति ॥

अशा-०८.४.३१
"सम्निधातृ.समाहर्त्रोः सम्निधाता कृत.विदूषण.अत्ययाभ्यां पीडयति, समाहर्ता करण.अधिष्ठितः प्रदिष्ट.फल.उपभोगी भवति" इत्य् आचार्याः ॥

अशा-०८.४.३२
न_इति कौटिल्यः ॥

अशा-०८.४.३३
सम्निधाता कृत.अवस्थम् अन्यैः कोश.प्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वम् अर्थम् आत्मनः कृत्वा पश्चाद् राज.अर्थं करोति प्रणाशयति वा, पर.स्व.आदाने च स्व.प्रत्ययश् चरति_इति ॥

अशा-०८.४.३४
"अन्त.पाल.वैदेहकयोर् अन्त.पालश् चोर.प्रसर्ग.देय.अत्यादानाभ्यां वणिक्.पथं पीडयति, वैदेहकास् तु पण्य..प्रतिपण्य.अनुग्रहैः प्रसाधयन्ति" इत्य् आचार्याः ॥

अशा-०८.४.३५
न_इति कौटिल्यः ॥

अशा-०८.४.३६
अन्त.पालः पण्य.सम्पात.अनुग्रहेण वर्तयति, वैदेहकास् तु सम्भूय पण्यानाम् उत्कर्ष.अपकर्षं कुर्वाणाः पणे पण.शतं कुम्भे कुम्भ.शतम् इत्य् आजीवन्ति ॥

अशा-०८.४.३७
अभिजात.उपरुद्धा भूमिः पशु.व्रज.उपरुद्धा वा_इति "अभिजात.उपरुद्धा भूमिः महा.फला_अप्य् आयुधीय.उपकारिणी न क्षमा मोक्षयितुं व्यसन.आबाध.भयात्, पशु.व्रज.उपरुद्धा तु कृषि.योग्या क्षमा मोक्षयितुम् ॥

अशा-०८.४.३८
विवीतं हि क्षेत्रेण बाध्यते" इत्य् आचार्याः ॥

अशा-०८.४.३९
न_इति कौटिल्यः ॥

अशा-०८.४.४०
अभिजात.उपरुद्धा भूमिर् अत्यन्त.महा.उपकारा_अपि क्षमा मोक्षयितुं व्यसन.आबाध.भयात्, पशु.व्रज.उपरुद्धा तु कोश.वाहन.उपकारिणी न क्षमा मोक्षयितुम्, अन्यत्र सस्य.वाप.उपरोधाद् इति ॥

अशा-०८.४.४१
"प्रतिरोधक.आटविकयोः प्रतिरोधका रात्रि.सत्त्र.चराः शरीर.आक्रमिणो नित्याः शत.सहस्र.अहपारिणः प्रधान.कोपकाश् च व्यवहिताः प्रत्यन्तर.अरण्य.चराश् च_आटविकाः प्रकाशा दृस्याश् चरन्ति, एक.देश.घातकाश् च" इत्य् आचार्याः ॥

अशा-०८.४.४२
न_इति कौटिल्यः ॥

अशा-०८.४.४३
प्रतिरोधकाः प्रमत्तस्य_अपरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्व.देशस्थाः प्रभूता विक्रान्ताश् च_आटविकाः प्रकाश.योदिनो_अपहर्तारो हन्तारश् च देशानां राज.सधर्माण इति ॥

अशा-०८.४.४४
मृग.हस्ति.वनयोः मृगाः प्रभूताः प्रभूत.मांस.चर्म.उपकारिणो मन्द.ग्रास.अवक्लेशिनः सुनियम्याश् च ॥

अशा-०८.४.४५
विपरीता हस्तिनो गृह्यमाणा दुष्टाश् च देश.विनाशाय_इति ॥

अशा-०८.४.४६
स्व.पर.स्थानीय.उपकारयोः स्व.स्थानीय.उपकारो धान्य.पशु.हिरण्य.कुप्य.उपकारो जानपदानाम् आपद्य् आत्म.धारणः ॥

अशा-०८.४.४७
विपरीतः पर.स्थानीय.उपकारः ॥

अशा-०८.४.४८
इति पीडनानि - आभ्यन्तरो मुख्य.स्तम्भो बाह्यो_अमित्र.अटवी.स्तम्भः ॥ [इति स्तम्भ.वर्गह्]

अशा-०८.४.४९
ताभ्यां पीडनैर् यथा.उक्तैश् च पीडितः, सक्तो मुख्येषु, परिहार.उपहतः, प्रकीर्णो, मिथ्या.संहृतः, सामन्त.अटवी.हृत इति कोश.सङ्ग.वर्गः ॥

अशा-०८.४.५०कख’’’
पीडनानाम् अनुत्पत्ताव् उत्पन्नानां च वारणे ।


अशा-०८.४.५०गघ’’’
यतेत देश.वृद्ध्य्.अर्थं नाशे च स्तम्भ.सङ्गयोः ॥

(बल.व्यसन.वर्गह् - मित्र.व्यसन.वर्गह्)

अशा-०८.५.०१
बल.व्यसनानि - अमानितम्, विमानितम्, अभृतम्, व्याधितम्, नव.आगतम्, दूर.आयातम्, परिश्रान्तम्, परिक्षीणम्, प्रतिहतम्, हत.अग्र.वेगम्, अनृतु.प्राप्तम्, अभूमि.प्राप्तम्, आशा.निर्वेदि, परिसृप्तम्, कलत्र.गर्भि, अन्तः.शल्यम्, कुपित.मूलम्, भिन्न.गर्भम्, अपसृतम्, अतिक्षिप्तम्, उपनिविष्टम्, समाप्तम्, उपरुद्धम्, परिक्षिप्तम्, छिन्न.धान्य.पुरुष.वीवधम्, स्व.विक्षिप्तम्, मित्र.विक्षिप्तम्, दूष्य.युक्तम्, दुष्ट.पार्ष्णि.ग्राहम्, शून्य.मूलम्, अस्वामि.संहतम्, भिन्न.कूटम्, अन्धम् इति ॥

अशा-०८.५.०२
तेषाम् अमानित.विमानित.अनियतयोर् अमानितं कृत.अर्थ.मानं युध्येत, न विमानितम् अन्तः.कोपम् ॥

अशा-०८.५.०३
अभृत.व्याधितयोर् अभृतं तदात्व.कृत.वेतनं युध्येत, न व्याधितम् अकर्मण्यम् ॥

अशा-०८.५.०४
नव.आगत.दूर.आयातयोर् नव.आगतम् अन्यत उपलब्ध.देशम् अनव.मिश्रं युध्येत, न दूर.आयतम् आयत.गत.परिक्लेशम् ॥

अशा-०८.५.०५
परिश्रान्त.परिक्षीणयोः परिश्रान्तं स्नान.भोजन.स्वप्न.लब्ध.विश्रामं युध्येत, न परिक्षीणम् अन्यत्र_आहवे क्षीणयुग्य.पुरुषम् ॥

अशा-०८.५.०६
प्रतिहत.हत.अग्र.वेगयोः प्रतिहतम् अग्र.पात.भग्नं प्रवीर.पुरुष.संहतं युध्येत, न हत.अग्र.वेगम् अग्र.पात.हत.वीरम् ॥

अशा-०८.५.०७
अनृत्व्.अभूमि.प्राप्तयोर् अनृतु.प्राप्तं यथ.ऋतु.युग्य.शस्त्र.आवरणं युध्येत, न_अभूमि.प्राप्तम् अवरुद्ध.प्रसार.व्यायामम् ॥

अशा-०८.५.०८
आशा.निर्वेदि.परिसृप्तयोर् आशा.निर्वेदि लब्ध.अभिप्रायं युध्येत, न परिसृप्तम् अपसृत.मुख्यम् ॥

अशा-०८.५.०९
कलत्र.गर्भ्य्.अन्तः.शल्ययोः कलत्र.गर्भि उन्मुच्य कलत्रं युध्येत, न_अन्तः.शल्यम् अन्तर.मित्रम् ॥

अशा-०८.५.१०
कुपित.मूल.भिन्न.गर्भयोः कुपित.मूलं प्रशमित.कोपं साम.आदिभिर् युध्येत, न भिन्न.गर्भम् अन्योन्यस्माद् भिन्नम् ॥

अशा-०८.५.११
अपसृत.अतिक्षिप्तयोर् अपसृतम् एक.राज्य.अतिक्रान्तं मन्त्र.व्यायामाभ्यां सत्त्र.मित्र.अपाश्रयं युध्येत, न_अतिक्षिप्तम् अनेक.राज्य.अतिक्रान्तं बह्व्.आबाधत्वात् ॥

अशा-०८.५.१२
उपनिविष्ट.समाप्तयोर् उपनिविष्टं पृथग्.यान.स्थानम् अतिसंधाय_अरिं युध्येत, न समाप्तम् अरिणा_एक.स्थान.यानम् ॥

अशा-०८.५.१३
उपरुद्ध.परिक्षिप्तयोर् उपरुद्धम् अन्यतो निष्क्रम्य_उपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम् ॥

अशा-०८.५.१४
छिन्न.धान्य.पुरुष.वीवधयोः छिन्न.धान्यम् अन्यतो धान्यम् आनीय जङ्गम.स्थावर.आहारं वा युध्येत, न छिन्न.पुरुष.वीवधम् अनभिसारम् ॥

अशा-०८.५.१५
स्व.विक्षिप्त.मित्र.विक्षिप्तयोः स्व.विक्षिप्तं स्व.भूमौ विक्षिप्तं सैन्यम् आपदि शक्यम् आवाहयितुम्, न मित्र.विक्षिप्तं विप्रकृष्ट.देश.कालत्वात् ॥

अशा-०८.५.१६
दूष्य.युक्त.दुष्ट.पार्ष्णि.ग्राहयोर् दूष्य.युक्तम् आप्त.पुरुष.अधिष्ठितम् असंहतं युध्येत, न दुष्ट.पार्ष्णि.ग्राहं पृष्ठ.अभिघात.त्रस्तम् ॥

अशा-०८.५.१७
शून्य.मूल.अस्वामि.संहतयोः शून्य.मूलं कृत.पौर.जानपद.आरक्षं सर्व.संदोहेन युध्येत, न_अस्वामि.संहतं राज.सेना.पति.हीनम् ॥

अशा-०८.५.१८
भिन्न.कूट.अन्धयोर् भिन्न.कूटम् अन्य.अधिष्ठितं युध्येत, न_अन्धम् अदेशिकं - इति ॥

अशा-०८.५.१९कख’’’
दोष.शुद्धिर् बल.आवापः सत्त्र.स्थान.अतिसंहितम् ।


अशा-०८.५.१९गघ’’’
संधिश् च_उत्तर.पक्षस्य बल.व्यसन.साधनम् ॥


अशा-०८.५.२०कख’’’
रक्षेत् स्व.दण्डं व्यसने शत्रुभ्यो नित्यम् उत्थितः ।


अशा-०८.५.२०गघ’’’
प्रहरेद् दण्ड.रन्ध्रेषु शत्रूणां नित्यम् उत्थितः ॥


अशा-०८.५.२१कख’’’
यतो निमित्तं व्यसनं प्रकृतीनाम् अवाप्नुयात् ।


अशा-०८.५.२१गघ’’’
प्राग् एव प्रतिकुर्वीत तन् निमित्तम् अतन्द्रितः ।


अशा-०८.५.२२कख’’’
अभियातं स्वयं मित्रं सम्भूय_अन्य.वशेन वा ॥


अशा-०८.५.२२गघ’’’
परित्यक्तम् अशक्त्या वा लोभेन प्रणयेन वा ।


अशा-०८.५.२३कख’’’
विक्रीतम् अभियुञ्जाने संग्रामे वा_अपवर्तिना ॥


अशा-०८.५.२३गघ’’’
द्वैधी.भावेन वा_अमित्रं यास्यता वा_अन्यम् अन्यतः ।


अशा-०८.५.२४कख’’’
पृथग् वा सह.याने वा विश्वासेन_अतिसंहितम् ॥


अशा-०८.५.२४गघ’’’
भय.अवमान.आलस्यैर् वा व्यसनान् न प्रमोक्षितम् ।


अशा-०८.५.२५कख’’’
अवरुद्धं स्व.भूमिभ्यः समीपाद् वा भयाद् गतम् ॥


अशा-०८.५.२५गघ’’’
आच्छेदनाद् अदानाद् वा दत्त्वा वा_अप्य् अवमानितम् ।


अशा-०८.५.२६कख’’’
अत्याहारितम् अर्थं वा स्वयं पर.मुखेन वा ॥


अशा-०८.५.२६गघ’’’
अतिभारे नियुक्तं वा भङ्क्त्वा परम् उपस्थितम् ।


अशा-०८.५.२७कख’’’
उपेक्षितम् अशक्त्या वा प्रार्थयित्वा विरोधितम् ॥


अशा-०८.५.२७गघ’’’
कृच्छ्रेण साध्यते मित्रं सिद्धं च_आशु विरज्यति ।


अशा-०८.५.२८कख’’’
कृत.प्रयासं मान्यं वा मोहान् मित्रम् अमानितम् ।


अशा-०८.५.२८गघ’’’
मानितं वा न सदृशं शक्तितो वा निवारितम् ॥


अशा-०८.५.२९कख’’’
मित्र.उपघात.त्रस्तं वा शङ्कितं वा_अरि.संहितात् ।


अशा-०८.५.२९गघ’’’
दूष्यैर् वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति ॥


अशा-०८.५.३०कख’’’
तस्मान् न_उत्पादयेद् एनान् दोषान् मित्र.उपघातकान् ।


अशा-०८.५.३०गघ’’’
उत्पन्नान् वा प्रशमयेद् गुणैर् दोष.उपघातिभिः ॥

"http://sa.wikibooks.org/w/index.php?title=अर्थशास्त्रम्_अध्याय_08&oldid=3498" इत्यस्माद् पुनः प्राप्तिः