अवशिष्टं दृष्टान्तसिद्धौ वक्ष्याम:...

विकिपुस्तकानि तः

प्र.-स्पष्टीकुरुत – ‘‘अवशिष्टं दृष्टान्तसिद्धौ वक्ष्याम:’’
उ. पञ्चममिथ्यात्वप्रकरणस्य उपसंहारवाक्यमिदम्।ग्रन्थकृता ‘सद्विविक्तत्वम्’ इति मिथ्यात्वलक्षणं कृतम्।तस्य निरूपणमपि कृतम्।तत्र सम्भाव्याक्षेपानां निरसनं कृतम्।
एक: आक्षेप: इतोऽपि अवशिष्ट:।मिथ्यात्वस्य उदाहरणं शुक्तिरजतम् इति ग्रन्थाकारेण उक्तम्।परं माध्वमते शुक्तिरजतम् अलीकं (असत्) वर्तते, न तु मिथ्या।
अत: इदानीं सिद्धान्तिना दृष्टान्तस्य अलीकत्वं निराकृत्य मिथ्यात्वं स्थापनीयम्।तच्च कार्यमवशिष्टम्।एतदवशिष्टं कार्यं दृष्टान्तनिरूपणावसरे करोमीति प्रकृतवचने ग्रन्थकारेण प्रतिपादितम्।

लघूत्तरप्रश्ना:   दीर्घोत्तरप्रश्ना: