आर्या-सप्तशती
विकिपीडिया, एक मुक्त ज्ञानकोष से
गोवर्धनाचार्य-विरचिता आर्या-सप्तशती
॥ श्रीः ॥
[संपादित करें] ग्रन्थारम्भ-व्रज्या
पाणि-ग्रहे पुलकितं वपुर् ऐशं भूति-भूषितं जयति ।
अङ्कुरित इव मनो-भूर् यस्मिन् भस्मावशेषो ऽपि ॥आस *१॥
मा वम संवृणु विषम् इदम् इति सातङ्कं पितामहेनोक्तः ।
प्रातर् जयति सलज्जः कज्जल-मलिनाधरः शम्भुः ॥आस *२॥
जयति प्रिया-पदान्ते गरल-ग्रैवेयकः स्मरारातिः ।
विषम-विशिखे विशन्न् इव शरणं गल-बद्ध-करवालः ॥आस *३॥
जयति ललाट-कटाक्षः शशि-मौलेः पक्ष्मलः प्रियाग्रणतौ ।
धनुषि स्मरेण निहितः स-कण्टकः केतकेषुर् इव ॥आस *४॥
जयति जटा-किञ्जल्कं गङ्गा-मधु मुण्ड-वलय-बीजम् अयम् ।
गल-गरल-पङ्क-सम्भवम् अभोरुहम् आननं शम्भोः ॥आस *५॥
सन्ध्या-सलिलाञ्जलिम् अपि कङ्कण-फणि-पीयमानम् अविजानन् ।
गौरी-मुखार्पित-मना विजया-हसितः शिवो जयति ॥आस *६॥
प्रतिबिम्बित-गौरी-मुख-विलोकनोत्कम्प-शिथिल-कर-गलितः ।
स्वेद-भर-पूर्यमाणः शम्भोः सलिलाज् जलिर् जयति ॥आस *७॥
प्रणय-कुपित-प्रिया-पद-लाक्षा-सन्ध्यानुबन्ध-मधुरेन्दुः ।
तद्-वलय-कनक-निकष-ग्राव-ग्रीवः शिवो जयति ॥आस *८॥
पूर्ण-नखेन्दुर् द्विगुणित-मञ्जीरा प्रेम-शृङ्खला जयति ।
हर-शशि-लेखा गौरी-चरणाङ्गुलि-मध्य-गुल्फेषु ॥आस *९॥
श्री-कर-पिहितं चक्षुः सुखयतु वः पुण्डरीक-नयनस्य ।
जघनम् इवेक्षितुम् आगतम् अब्ज-निभं नाभि-सुषिरेण ॥आस *१०॥
श्यामं श्री-कुच-कुङ्कुम-पिञ्जरितम् उरो मुरद्विषो जयति ।
दिन-मुख-नभ इव कौस्तुभ-विभाकरो यद् विभूषयति ॥आस *११॥
प्रतिबिम्बित-प्रिया-तनु स-कौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितम् अभ्यस्यति लक्ष्मीर् यद् वीक्ष्य मुकुरम् इव ॥आस *१२॥
केलि-चलाङ्गुलि-लम्भित-लक्ष्मी-नाभिर् मुरद्विषश् चरणः ।
स जयति येन कृता श्रीर् अनुरूपा पद्मनाभस्य ॥आस *१३॥
रोमावली मुरारेः श्रीवत्स-निषेविताग्र-भागा वः ।
उन्नाल-नाभि-नलिन-च्छायेवोत्तापम् अपहरतु ॥आस *१४॥
आदाय सप्त-तन्त्रोचितां विपञ्चीम् इव त्रयीं गायन् ।
मधुरं तुरङ्ग-वदनोचितं हरिर् जयति हय-मूर्धा ॥आस *१५॥
स जयति महाबाहो जल-निधि-जठरे चिरं निमग्नापि ।
येनान्त्रैर् इव सह फणि-गणैर् बलाद् उद्धृता धरणी ॥आस *१६॥
ब्रह्माण्ड-कुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्-फण-चक्रे धरा शराव-श्रियं वहति ॥आस *१७॥
चण्डी-जङ्घा-काण्डः शिरसा चरण-स्पृशि प्रिये जयति ।
शङ्कर-पर्यन्त-जितो विजय-स्तम्भः स्मरस्येव ॥आस *१८॥
उन्नाल-नाभि-पङ्केरुह इव येनावभाति शम्भुर् अपि ।
जयति पुरुषायितायास् तद्-आननं शैल-कन्यायाः ॥आस *१९॥
अङ्क-निलीन-गजानन-शङ्काकुल-बाहुलेय-हृत-वसनौ ।
स-स्मित-हर-कर-कलितौ हिम-गिरि-तनया-स्तनौ जयतः ॥आस *२०॥
कण्ठोचितो ऽपि हुङ्कृति-मात्र-निरस्तः पदान्तिके पतितः ।
यस्याश् चन्द्र-शिखः स्मर-भल्ल-निभो जयति सा चण्डी ॥आस *२१॥
देवेऽर्पित-वरण-स्रजि बहुमाये वहति कैटभी-रूपम् ।
जयति सुरासुर-हसिता लज्जा-जिह्मेक्षणा लक्ष्मीः ॥आस *२२॥
तान् असुरान् अपि हरिम् अपि तं वन्दे कपट-कैटभी-रूपम् ।
यैर् यद् बिम्बाधर-मधु-लुब्धैः पीयुषम् अपि मुमुचे ॥आस *२३॥
तल्पी-कृताहिर् अगणित-गरुडो हाराभिहत-विधिर् जयति ।
फण-शत-पीत-श्वासो रागान्धायाः श्रियः केलिः ॥आस *२४॥
स्मेरान् अनेन हरिणा यत् स्पृहम् आकार-वेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभी-ध्यानम् ॥आस *२५॥
कृत-कान्त-केलि-कुतुक-श्री-शीत-श्वास-सेक-निद्राणः ।
घोरित-विततालि-रुतो नाभि-सरोजे विधिर् जयति ॥आस *२६॥
एक-रद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्च-कर ।
जय षण्-मुख-नुत सप्त-च्छद-गन्धि-मदाष्ट-तनु-तनय ॥आस *२७॥
मङ्गल-कलश-द्वय-मय-कुम्भम् अदम्भेन भजत गज-वदनम् ।
यद्-दान-तोय-तरलैस् तिल-तुलनालम्बि रोलम्बैः ॥आस *२८॥
याभिर् अनङ्गः साङ्गी-कृतः स्त्रियो ऽस्त्री-कृताश् च ता येन ।
वामाचरण-प्रवणौ प्रणम्ततौ कामिनी-कामौ ॥आस *२९॥
विहित-घनालङ्कारं विचित्र-वर्णावली-मय-स्फुरणम् ।
शक्रायुधम् इव वक्रं वल्मीक-भुवं कविं नौमि ॥आस *३०॥
व्यास-गिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणयैव सञ्ज्ञां यद् अङ्कितां भारती वहति ॥आस *३१॥
सति काकुत्स्थ-कुलोन्नति-कारिणि रामायणे किम् अन्येन ।
रोहति कुल्या गङ्गा-पूरे किं बहुरसे वहति ॥आस *३२॥
अतिदीर्घ-जीवि-दोषाद् व्यासेन यशो ऽपहारितं हन्त ।
कैर् नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥आस *३३॥
श्री-रामायण-भारत-बृहत्-कथानां कवीन् नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर् भिन्ना ॥आस *३४॥
साकूत-मधुर-कोमल-विलासिनी-कण्ठ-कूजित-प्राये ।
शिक्ष-समयेऽपि मुदे रत-लीला-कालिदासोक्ती ॥आस *३५॥
भवभूतेः सम्बन्धाद् भूधर-भूर् एव भारती भाति ।
एतत्-कृत-कारुण्ये किम् अन्यथा रोदिति ग्रावा ॥आस *३६॥
जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यम् अधिकम् आप्तुं वाणी बाणो बभूवेति ॥आस *३७॥
यं गणयति गुरोर् अनु यस्यास् ते धर्म-कर्म सङ्कुचितम् ।
कविम् अहम् उशनसम् इव तं तातं नीलाम्बरं वन्दे ॥आस *३८॥
सकल-कलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुद-बन्धोश् च ।
सेन-कुल-तिल-भूपतिर् एको राका-प्रदोषश् च ॥आस *३९॥
काव्यस्याक्षर-मैत्री-भाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थ-बोधाय ॥आस *४०॥
वंशे घुण इव न विशति दोषो रस-भाविते सतां मनसि ।
रसम् अपि तु न प्रतीच्छति बहु-दोषः सन्निपातीव ॥आस *४१॥
विगुणो ऽपि काव्य-बन्धः साधूनाम् आननं गतः स्वदते ।
फूत्कारो ऽपि सुवंशैर् अनूद्यमानः श्रुतिं हरति ॥आस *४२॥
स्वयम् अपि भूरि-च्छिद्रश् चापलम् अपि सर्वतोमुखं तन्वन् ।
तितौस् तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥आस *४३॥
अन्तर्-गूढानर्थानव्यञ्जयतः प्रसाद-रहितस्य ।
सन्दर्भस्य नदस्य च न रसः प्रीत्यै रस-ज्ञानाम् ॥आस *४४॥
यदसेवनीयम् असताम् अमृत-प्रायं सुवर्ण-विन्यासम् ।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥आस *४५॥
सत्-कवि-रसना-शूर्पी-निस्तुषतर-शब्द-शालि-पाकेन ।
तृप्तो दयिताधरम् अपि नाद्रियते का सुधा दासी ॥आस *४६॥
अकलित-शब्दालङ्कृतिर् अनुकूला स्खलि-पद-निवेशापि ।
अभिसारिकेव रमयति सूक्तिः सोत्कर्ष-शृङ्गारा ॥आस *४७॥
अध्वनि पद-ग्रह-परं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यम् अभिज्ञ-सभायां मञ्जीरं केलि-वेलायाम् ॥आस *४८॥
आस्वादित-दयिताधर-सुधा-रसस्यैव सूक्तयो मधुराः ।
अकलित-रसाल-मुकुलो न कोकिलः कलम् उदञ्चयति ॥आस *४९॥
बाला-कटाक्ष-सूत्रितम् असती-नेत्र-त्रिभाग-कृत-भाष्यम् ।
कवि-माणवका दूती-व्याख्यातम् अधीयते भावम् ॥आस *५०॥
मसृण-पद-गीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥आस *५१॥
वाणी प्राकृत-समुचित-रसा बलेनैव संस्कृतं नीता ।
निम्नानुरूप-नीरा कलिन्द-कन्येव गगन-तलम् ॥आस *५२॥
आर्या-सप्तशतीयं प्रगल्भ-मनसाम् अनादृता येषाम् ।
दूती-रहिता इव ते न कामिनी-मनसि निविशन्ते ॥आस *५३॥
रत-रीति-वीत-वसना प्रियेव शुद्धापि वाङ्-मुदे सरसा ।
अरसा सालङ्कृतिर् अपि न रोचते शालभञ्जीव ॥आस *५४॥
इति ग्रन्थारम्भ-व्रज्या समाप्ता ।
[संपादित करें] अ-कार-व्रज्या
अवधि-दिनावधि-जीवाः प्रसीद जीवन्तु पथिक-जनजायाः ।
दुर्लङ्घ्य-वर्त्म-शैलौ स्तनौ पिधेहि प्रपापालि ॥आस १॥
अतिवत्सला सुशीला सेवा-चतुरा मनो ऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सप्त्नी-स्तनोद्भेदे ॥आस २॥
अयि कूल-निचुल-मूलोच्छेदन-दुःशील-वीचि-वाचाले ।
बक-विघस-पङ्क-सारा न चिरात् कावेरि भवितासि ॥आस ३॥
अयि विविध-वचन-रचने ददासि चन्द्रं करे समानीय ।
व्यसन-दिवसेषु दूति क्व पुनस् त्वं दर्शनीयासि ॥आस ४॥
अस्तु म्लानिर् लोको लाञ्छनम् अपदिशतु हीयताम् ओजः ।
तद् अपि न मुञ्चति स त्वां वसुधा-छायाम् इव सुधांशुः ॥आस ५॥
अतिचापलं वितन्वन्न् अन्तर्निविशन् निकाम-काठिन्यः ।
मुखरयसि स्वयम् एतां सद्-वृत्तां शङ्कुर् इव घण्टाम् ॥आस ६॥
अङ्गेषु जीर्यति परं खञ्जन-यूनोर् मनोभव-प्रसरः ।
न पुनर् अनन्तर्-गर्भित-निधिनि धरा-मण्डले केलिः ॥आस ७॥
अन्धत्वम् अन्ध-समये बधिरत्वं बधिर-काल आलम्ब्य ।
श्री-केशवयोः प्रणयी प्रजापतिर् नाभि-वास्तव्यः ॥आस ८॥
अयि कोष-कार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
यन् न विदार्य विचारित-जठरस् त्वं स खलु ते लाभः ॥आस ९॥
अगणित-महिमा लङ्घित-गुरुर् अधनेहः स्तनन्धय-विरोधी ।
इष्टाकीर्तिस् तस्यास् त्वयि रागः प्राण-निरपेक्षः ॥आस १०॥
अपराधाद् अधिकं मां व्यथयति तव कपट-वचन-रचनेयम् ।
शस्त्राघातो न तथा सूची-व्यध-वेदना यादृक् ॥आस ११॥
असती-लोचन-मुकुरे किम् अपि प्रतिफलति यन् मनोवर्ति ।
सारस्वतम् अपि चक्षुः सतिमिरम् इव तन् न लक्षयति ॥आस १२॥
अन्य-मुखे दुर्वादो यः प्रिय-वदने स एव परिहासः ।
इतरेन्धन-जन्मा यो धूमः सो ऽगुरुभवो धूपः ॥आस १३॥
अयि सुभग कुतुक-तरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विष-कुसुमे ॥आस १४॥
अयि मुग्ध-गन्ध-सिन्धुर-शङ्का-मात्रेण दन्तिनो दलिताः ।
उपभुञ्जते करेणूः केवलम् इह मत्-कुणाः करिणः ॥आस १५॥
अतिविनय-वामन-तनुर् विलङ्घते गेह-देहलीं न वधूः ।
अस्याः पुनर् आरभटीं कुसुम्भवाटी विजानाति ॥आस १६॥
अन्तर्-गतैर् गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर् यद् असौ वनेचरं हरिणम् अपि हरति ॥आस १७॥
अलुलित-सकल-विभूषां प्रातर् बालां विलोक्य मुदितं प्राक् ।
प्रिय-शिरसि वीक्ष्य यावकम् अथ निःश्वसितं सपत्नीभिः ॥आस १८॥
अयि लज्जावति निभर-निशीथ-रत-निःसहाङ्गि सुख-सुप्ते ।
लोचन-कोकनद-च्छदम् उन्मीलय सुप्रभातं ते ॥आस १९॥
अमिलित-वदनम् अपीडित-वक्षोरुहम् अतिविदूर-जघनोरु ।
शपथ-शतेन भुजाभ्यां केवलम् आलिङ्गितो ऽस्मि तया ॥आस २०॥
अतिपूजित-तारेयं दृष्टिः श्रुति-लङ्घन-क्षमा सुतनु ।
जिन-सिद्धान्त-स्थितिर् इव स-वासना कं न मोहयति ॥आस २१॥
अलम् अविषय-भय-लज्जा-वञ्चितम् आत्मानम् इयम् इयत् समयम् ।
नव-परिचित-दयित-गुणा शोचति नालपति शयन-सखीः ॥आस २२॥
अनुराग-वर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुर-रिपुणेव गौरी वर-तनुर् अर्धावशिष्टैव ॥आस २३॥
अन्य-प्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्-गतिम् इच्छन्त्यः सखि भवन्ति विफल-श्रमाः हास्याः ॥आस २४॥
अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास् त्वम् इव सम्भोगे ॥आस २५॥
अनयन-पथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपन-शिला वासरे ज्वलति ॥आस २६॥
अविभाव्यो मित्रेऽपि स्थिति-मात्रेणैव नन्दयन् दयितः ।
रहसि व्यपदेशाद् अयम् अर्थः इवाराजके भोग्यः ॥आस २७॥
अश्रौषीर् अपराधान् मम तथ्यं कथय मन्-मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मान-चौराननः कितवः ॥आस २८॥
अन्योन्यम् अनु स्रोतसम् अन्यद् अथान्यत् तटात् तटं भजतोः ।
उदितेऽर्केऽपि न माघ-स्नानं प्रसमाप्यते यूनोः ॥आस २९॥
अयि चूत-वल्लि फल-भर-नताङ्गि विष्वग्-विकासि-सौरभ्ये ।
श्वपच-घट-कर्पराङ्का त्वं किल फलितापि विफलैव ॥आस ३०॥
अञ्जलिर् अकारि लोकैर् म्लानिम् अनाप्तैव रञ्जिता जगती ।
सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥आस ३१॥
अगृहीतानुनयां माम् उपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसभं करोषि मयि चेत् त्वद् उपरि वपुर् अद्य मोक्ष्यामि ॥आस ३२॥
अस्थिर-रागः कितवो मानी चपलो विदूषकस् त्वम् असि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुर् भवसि ॥आस ३३॥
अकरुण कातर-मनसो दर्शित-नीरा निरन्तरालेयम् ।
त्वाम् अनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥आस ३४॥
अन्तः-कलुष-स्तम्भित-रसया भृङ्गारनालयेव मम ।
अप्य् उन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥आस ३५॥
अयि सरले सरल-तरोर् मद-मुदित-द्विप-कपोल-पालेश् च ।
अन्योन्य-मुग्ध-गन्ध-व्यतिहारः कषणम् आचष्टे ॥आस ३६॥
अस्याः कर-रुह-खण्डित-काण्ड-पट-प्रकट-निर्गता दृष्टिः ।
पट-विगलित-निष्कलुषा स्वदते पीयूष-धारेव ॥आस ३७॥
अस्याः पति-गृह-गमने करोति माताश्रु-पिच्छिलां पदवीम् ।
गुण-गर्विता पुनर् असौ हसति शनैः शुष्क-रुदित-मुखी ॥आस ३८॥
अङ्के निवेश्य कूणित-दृशः शनैर् अकरुणेति शंसन्त्याः ।
मोक्ष्यामि वेणि-बन्धं कदा नखैर् गन्ध-तैलाक्तैः ॥आस ३९॥
अलम् अनलङ्कृति-सुभगे भूषणम् उपहास-विषयम् इतरासाम् ।
कुरुषे वनस्पति-लता प्रसूनम् इव बन्ध्य-वल्लीनाम् ॥आस ४०॥
अबुधा अजङ्गमा अपि कयापि गत्या परं पदम् अवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नय-बल-गुटिका इव जनेन ॥आस ४१॥
अतिशील-शीत-लतया लोकेषु सखी मृदु-प्रतापा नः ।
क्षण-वाम्य-दह्यमानः प्रतापम् अस्याः प्रियो वेद ॥आस ४२॥
अन्यास्व् अपि गृहिणीति ध्यायन्न् अभिलषितम् आप्नोति ।
पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥आस ४३॥
अनुपेत्य नीच-भावं बालक परितो गभीर-मधुरस्य ।
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥आस ४४॥
अधिवासनम् आधेयं गुण-मार्गम् अपेक्षते न च ग्रथनाम् ।
कलयति युवजन-मौलिं केतक-कलिका स्वरूपेण ॥आस ४५॥
अपनीत-निखिल-तापां सुभग स्व-करेण विनिहितां भवता ।
पतिशयन-वार-पालि-ज्वरौषधं वहति सा मालाम् ॥आस ४६॥
अगणित-गुणेन सुन्दर कृत्वा चारित्रम् अप्य् उदासीनम् ।
भवतानन्य-गतिः सा विहितावर्तेन तरणिर् इव ॥आस ४७॥
अनुरक्त-रामया पुनर् आगतये स्थापितोत्तरीयस्य ।
अप्य् एक-वाससस् तव सर्व-युवभ्यो ऽधिका शोभा ॥आस ४८॥
अर्धः प्राणित्य् एको मृत इतरो मे विधुन्तुदस्येव ।
सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥आस ४९॥
अवधीरितो ऽपि निद्रा-मिषेण माहात्म्यम् असृणया प्रियया ।
अवबोधितो ऽस्मि चपलो बाष्प-स्थित-मितेन तल्पेन ॥आस ५०॥
अयि शब्द-मात्र-साम्याद् आस्वादित-शर्करस्य तव पथिक ।
स्वल्पो रसना-च्छेदः पुरतो जन-हास्यता महती ॥आस ५१॥
अभिनव-यौवन-दुर्जय-विपक्ष-जन-हन्यमानमानापि ।
सूनोः पितृ-प्रियत्वाद् बिभर्ति सुभगा-मदं गृहिणी ॥आस ५२॥
अपमानितम् इव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।
स्नानोत्सुक-तरुणी-स्तन-कलश-निबद्धं पयो विशति ॥आस ५३॥
अलसयति गात्रम् अखिलं क्लेशं मोचयति लोचनं हरति ।
स्वाप इव प्रेयान् मम मोक्तुं न ददाति शयनीयम् ॥आस ५४॥
अंसावलम्बि-कर-धृत-कचम् अभिषेकार्द्र-धवल-नख-रेखम् ।
धौताधर-नयनं वपुर् अस्त्रम् अनङ्गस्य तव निशितम् ॥आस ५५॥
अविनिहितं विनिहितम् इव युवसु स्वच्छेषु वार-वाम-दृशः ।
उपदर्शयन्ति हृदयं दर्पण-बिम्बेषु वदनम् इव ॥आस ५६॥
अतिलज्जया त्वयैव प्रकटः प्रेयान् अकारि निभृतो ऽपि ।
प्रासाद-मौलिर् उपरि प्रसरन्त्या वैजयन्त्य् एव ॥आस ५७॥
अन्योन्य-ग्रथनागुण-योगाद् गावः पदार्पणैर् बहुभिः ।
खलम् अपि तुदन्ति मेढी-भूतं मध्य-स्थम् आलम्ब्य ॥आस ५८॥
अननुग्रहेण न तथा व्यथयति कटु-कूजितैर् यथा पिशुनः ।
रुधिरादानाद् अधिकं दुनोति कर्णे क्वणन् मशकः ॥आस ५९॥
अग्रे लघिमा पश्चान् महतापि पिधीयते न हि महिम्ना ।
वामन इति त्रिविक्रमम् अभिदधति दशावतार-विदः ॥आस ६०॥
अङ्के स्तनन्धयस् तव चरणे परिचारिका प्रियः पृष्ठे ।
अस्ति किम् उ लभ्यम् अधिकं गृहिणि यदा शङ्कसे बालाम् ॥आस ६१॥
अधर उदस्तः कूजितम् आमीलितम् अक्षि लोलितो मौलिः ।
आसादितम् इव चुम्बन-सुखम् अस्पर्शेऽपि तरुणाभ्याम् ॥आस ६२॥
अतिरभसेन भुजो ऽयं वृति-विवरेण प्रवेशितः सदनम् ।
दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥आस ६३॥
अम्बर-मध्य-निविष्टं तवेदम् अतिचपलम् अलघु जघन-तटम् ।
चातक इव नवम् अभ्रं निरीक्षमाणो न तृप्यामि ॥आस ६४॥
अयम् अन्धकार-सिन्धुर-भाराक्रान्तावनी-भराक्रान्तः ।
उन्नत-पूर्वाद्रि-मुखः कूर्मः सन्ध्यास्रम् उद्वमति ॥आस ६५॥
अन्तर्भूतो निवसति जडे जडः शिशिर-महसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टो ऽपि निःसरति ॥आस ६६॥
अगणित-जनापवादा त्वत्-पाणि-स्पर्श-हर्ष-तरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥आस ६७॥
अप्य् एक-वंश-जनुषोः पश्यत पूर्णत्व-तुच्छता-भाजोः ।
ज्या-कार्मुकयोः कश्चिद् गुण-भूतः कश्चिद् अपि भर्ता ॥आस ६८॥
अभिनव-केलि-क्लान्ता कलयति बाला क्रमेण घर्माम्भः ।
ज्याम् अर्पयितुं नमिता कुसुमास्त्र-धनुर् लतेव मधु ॥आस ६९॥
असती कुलजा धीरा प्रौढा प्रतिवेशिनी यद् आसक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥आस ७०॥
अविरल-पतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतम् इदम् ।
शत-धौतम् आज्यम् इव मे स्मर-शर-दाह-व्यथां हरति ॥आस ७१॥
अन्तर् निपतित-गुञ्जा-गुण-रमणीयश् चकास्ति केदारः ।
निज-गोपी-विनय-व्यय-खेदेन विदीर्ण-हृदय इव ॥आस ७२॥
अमुना हतम् इदम् इदम् इति रुदती प्रतिवेशिनेऽङ्गम् अङ्गम् इयम् ।
रोष-मिष-दलित-लज्जा गृहिणी दर्शयति पति-पुरतः ॥आस ७३॥
इति विभाव्याख्या-समेता अ-कार-व्रज्या ॥
[संपादित करें] आ-कार-व्रज्या
आन्तरम् अपि बहिरि व हि व्यञ्जयितुं रसम् अशेषतः सततम् ।
असती सत्-कवि-सूक्तिः काच-घटीति त्रयं वेद ॥आस ७४॥
आलोक एव विमुखी क्वचिद् अपि दिवसे न दक्षिणा भवसि ।
छायेव तद् अपि तापं त्वम् एव मे हरसि मानवति ॥आस ७५॥
आज्ञा काकुर् याच्ञा-क्षेपो हसितं च शुष्क-रुदितं च ।
इति निधुवन-पाण्डित्यं ध्यायंस् तस्या न तृप्यामि ॥आस ७६॥
आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमय-मानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥आस ७७॥
आसाद्य भङ्गम् अनया द्यूते विहिताभिरुचित-केलि-पणे ।
निःसारयताक्षानिति कपट-रुषोत्सारिताः सख्यः ॥आस ७८॥
आदरणीय-गुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघव-दोषो ऽयं सौध-पताकेव यच् चलसि ॥आस ७९॥
आर्द्रम् अपि स्तन-जघनान् निरस्य सुतनु त्वयैतद् उन्मुक्तम् ।
ख-स्थम् अवाप्तुम् इव त्वां तपनांशून् अंशुकं पिबति ॥आस ८०॥
आरोपिता शिलायाम् अश्मेव त्वं भवेति मन्त्रेण ।
मग्नापि परिणयापदि जार-मुखं वीक्ष्य हसितैव ॥आस ८१॥
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वम् एव श्रीर् इव कमलस्य मम मनसः ॥आस ८२॥
आसाद्य दक्षिणां दिशम् अविलम्बं त्यजति चोत्तरां तरणिः ।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥आस ८३॥
आदान-पान-लेपैः काश्चिद् गरलोपताप-हारिण्यः ।
सदसि स्थितैव सिद्धौषधि-वल्ली कापि जीवयति ॥आस ८४॥
आन्दोल-लोल-केशीं चल-काञ्ची-किङ्किणी-गण-क्वणिताम् ।
स्मरसि पुरुषायितां तां स्मर-चामर-चिह्न-यष्टिम् इव ॥आस ८५॥
आक्षिपसि कर्णम् अक्ष्णा बलिर् अपि बद्धस् त्वया त्रिधा मध्ये ।
इति जित-सकल-वदान्ये तनु-दाने लज्जसे सुतनु ॥आस ८६॥
आक्षेप-चरण-लङ्घन-केश-ग्रह-केलि-कुतुक-तरलेन ।
स्त्रीणां पतिर् अपि गुरुर् इति धर्मं न श्राविता सुतनुः ॥आस ८७॥
आगच्छतानवेक्षित-पृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनां-शुकम् अपि वोढुं नशक्तेन ॥आस ८८॥
आकुञ्चितैक-जङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसित-क्रमन-मद्-उदर-स्फुट-नाभि शयनम् इदम् ॥आस ८९॥
आदाय धनम् अनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजक-गृहिण्या कृता दिनैः कतिपयैर् निःस्वा ॥आस ९०॥
आस्तां वरम् अवकेशी मा दोह-दमस्य रचय पूग-तरोः ।
एतस्मात् फलिताद् अपि केवलम् उद्वेगम् अधिगच्छ ॥आस ९१॥
आरब्धम् अब्धि-मथनं स्वहस्तयित्वा द्वि-जिह्वम् अमरैर् यत् ।
उचितस् तत्-परिणामो विषमं विषम् एव यज् जातम् ॥आस ९२॥
आवर्जितालकालि श्वासोत्कम्प-स्तनार्पितैक-भुजम् ।
शयनं रति-विवश-तनोः स्मरामि शिथिलांशुकं तस्याः ॥आस ९३॥
आम्राङ्कुरो ऽयम् अरुण-श्यामल-रुचिर् अस्थि-निर्गतः सुतनु ।
नव-कमठ-कर्पर-पुटान् मूर्धेवोर्ध्वं गतः स्फुरति ॥आस ९४॥
आभङ्गुराग्र-बहु-गुण-दीर्घास्वाद-प्रदा प्रिया-दृष्टिः ।
कर्षति मनो मदीयं ह्रद-मीनं बडिश-रज्जुर् इव ॥आस ९५॥
आलप यथा यथेच्छसि युक्तं तव कितव किम् अपवारयसि ।
स्त्री-जाति-लाञ्छनम् असौ जीवित-रङ्का सखी सुभग ॥आस ९६॥
आस्वादितो ऽसि मोहाद् बत विदिता वदन-माधुरी भवतः ।
मधु-लिप्त-क्षुर रसनाच् छेदाय परं विजानासि ॥आस ९७॥
आकृष्टि-भग्न-कटकं केन तव प्रकृति-कोमलं सुभगे ।
धन्येन भुज-मृणालं ग्राह्यं मदनस्य राज्यम् इव ॥आस ९८॥
आरुह्य दूरम् अगणित-रौद्र-क्लेशा प्रकाशयन्ती स्वम् ।
वात-प्रतीच्छन-पटी वहित्रम् इव हरसि मां सुतनु ॥आस ९९॥
आयासः पर-हिंसा वैतंसिक-सारमेय तव सारः ।
त्वाम् अपसार्य विभाज्यः कुरङ्ग एषो ऽधुनैवान्यैः ॥आस १००॥
आनयति पथिक-तरुणं हरिण इह प्रापयन्न् इवात्मानम् ।
उपकलम् अगो ऽपि कोमल-कलम् आवलिक-वलनोत्तरलः ॥आस १०१॥
आसीद् एव यद् आर्द्रः किम् अपि तदा किम् अयम् आहतो ऽप्य् आह ।
निष्ठुर-भावाद् अधुना कटूनि सखि रटति पटह इव ॥आस १०२॥
आज्ञा-करश् च ताडन-परिभव-सहनश् च सत्यम् अहम् अस्याः ।
न तु शील-शीतलेयं प्रियेतरद् वक्तुम् अपि वेद ॥आस १०३॥
आधाय दुग्ध-कलशे मन्थानं श्रान्त-दोर्-लता गोपी ।
अप्राप्त-पारिजाता दैवे दोषं निवेशयति ॥आस १०४॥
आस्तां मानः कथनं सखीषु वा मयि निवेद्य-दुर्विनये ।
शिथिलित-रति-गुण-गर्वा ममापि सा लज्जिता सुतनुः ॥आस १०५॥
आवर्तैर् आतर्पण-शोभां डिण्डीर-पाण्डुरैर् दधती ।
गायति मुखरित-सलिला प्रिय-सङ्गम-मङ्गलं सुरसा ॥आस १०६॥
इति विभाव्याख्या-समेता आ-कार-व्रज्या ॥
[संपादित करें] इ-कार-व्रज्या
इयम् उद्गतिं हरन्ती-नेत्र-निकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिन-निद्रा ॥आस १०७॥
इदम् उभय-भित्ति-सन्तत-हार-गुणान्तर्-गतैक-कुच-मुकुलम् ।
गुटिका-धनुर् इव बाला-वपुः स्मरः श्रयति कुतुकेन ॥आस १०८॥
इह शिखरि-शिखरावलम्बिनि विनोद-दर-तरल-वपुषि तरु-हरिणे ।
पश्याभिलषति पतितुं विहगी निज-नीड-मोहेन ॥आस १०९॥
इक्षुर् नदी-प्रवाहो द्यूतं मान-ग्रहश् च हे सुतनु ।
भ्रू-लतिका च तवेयं भङ्गे रसम् अधिकम् आवहति ॥आस ११०॥
इन्दोर् इवास्य पुरतो यद् विमुखी साप-वारणा भ्रमसि ।
तत् कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥आस १११॥
इह कपट-कुतुक-तरलित-दृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभस-तरलितेयं व्याध-वधूर् वालधौ वलते ॥आस ११२॥
इह वहति बहु महोदधिविभूषणा मानगर्वम् इयम् उर्वी ।
देवस्य कमठमूर्तेः न पृष्ठं अपि निखिलम् आप्नोति ॥आस ११३॥
इति विभाव्याख्या-समेता इ-कार-व्रज्या ॥
[संपादित करें] ई-कार-व्रज्या
ईर्ष्या-रोष-ज्वलितो-निज-पति-सङ्गं विचिन्तयंस् तस्याः ।
च्युत-वसन-जघन-भावन-सान्द्रानन्देन निर्वामि ॥आस ११४॥
ईश्वर-परिग्रहोचित-मोहो ऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधान-सारा वीत-रसा कितव-कलिकेयम् ॥आस ११५॥
ईषद् अवशिष्ट-जडिमा शिशिरे गत-मात्र एव चिरम् अङ्गैः ।
नव-यौवनेव तन्वी निषेव्यते निर्भरं वापी ॥आस ११६॥
इति विभाव्याख्या-समेता ई-कार-व्रज्या ॥
[संपादित करें] उ-कार-व्रज्या
उल्लसित-भ्रू-धनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चल-भावम् आनीताः ॥आस ११७॥
उपनीय यन् नितम्बे भुजङ्गम् उच्चैर् अलम्बि विबुधैः श्रीः ।
एकः स मन्दर-गिरिः सखि गरिमाणं समुद्वहतु ॥आस ११८॥
उल्लसित-लाञ्छनो ऽयं ज्योत्स्ना-वर्षी सुधाकरः स्फुरति ।
आसक्त-कृष्ण-चरणः शकट इव प्रकटित-क्षीरः ॥आस ११९॥
उपचारानुनयास् ते कितवस्योपेक्षिताः सखी-वचसा ।
अधुना निष्ठुरम् अपि यदि स वदति कलिकैतवाद् यामि ॥आस १२०॥
उषसि परिवर्तयन्त्या मुक्ता-दामोपवीततां नीतम् ।
पुरुषायित-वैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥आस १२१॥
उड्डीनानाम् एषां प्रासादात् तरुणि पक्षिणां पङ्क्तिः ।
विस्फुरति वैजयन्ती-पवन-च्छिन्नापविद्धेव ॥आस १२२॥
उज्जागरित-भ्रामित-दन्तुर-दल-रुद्ध-मधुकर-प्रकरे ।
काञ्चन-केतकि मा तव विकसतु सौरभ्य-सम्भारः ॥आस १२३॥
उल्लसित-भ्रूः किम् अतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचार-विरसः पाकः प्रेम्णो गुडस्येव ॥आस १२४॥
उद्दिश्य निःसरन्तीं सखीम् इयं कपट-कोप-कुटिल-भ्रूः ।
एवम् अवतंसम् आक्षिपद् आहत-दीपो यथा पतति ॥आस १२५॥
उदितो ऽपि तुहिन-गहने गगन-प्रान्ते न दीप्यते तपनः ।
कठिन-घृत-पूर-पूर्णे शराव-शिरसि प्रदीप इव ॥आस १२६॥
उद्गमनोपनिवेशन-शयन-परावृत्ति-वलन-चलनेषु ।
अनिशं स मोहयति मां हृल्-लग्नः श्वास इव दयितः ॥आस १२७॥
उज्झित-सौभाग्य-मद-स्फुट-याच्ञानङ्ग-भीतयोर् यूनोः ।
अकलित-मनसोर् एका दृष्टिर् दूती निसृष्टार्थी ॥आस १२८॥
उत्तम-भुजङ्ग-सङ्गम-निस्पन्द-नितम्ब-चापलस् तस्याः ।
मन्दर-गिरिर् इव विबुधैर् इतस् ततः कृष्यते कायः ॥आस १२९॥
उपनीय कलम-कुडवं कथयति सभयश् चिकित्सके हलिकः ।
शोणं सोमार्ध-निभं वधू-स्तने व्याधिम् उपजातम् ॥आस १३०॥
उन्मुकुलिताधर-पुटे-भूति-कण-त्रास-मीलितार्धाक्षि ।
धूमो ऽपि नेह विरम-भ्रमरो ऽयं श्वसितम् अनुसरति ॥आस १३१॥
उपरि परिप्लवते मम बालेयं गृहिणि हंस-मालेव ।
सरस इव नलिन-नाला त्वम् आशयं प्राप्य वससि पुनः ॥आस १३२॥
उत्कम्प-घर्म-पिच्छिल-दोः-साधिक-हस्त-विच्युतश् चौरः ।
शिवम् आशास्ते सुतनु-स्तनयोस् तव पञ्चलाञ्चलयोः ॥आस १३३॥
उत्क्षिप्त-बाहु-दर्शित-भुज-मूलं चूत-मुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परम् उच्च-पद-लाभः ॥आस १३४॥
उच्च-कुच-कुम्भ-निहितो हृदयं चालयति जघन-लग्नाग्रः ।
अतिनिम्न-मध्य-सङ्क्रम-दारु-निभस् तरुणि तव हारः ॥आस १३५॥
उल्लसित-शीत-दीधिति-कलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुध-विधृत-धनुर्-निर्गत-मकरन्द-बिन्दु-निभाः ॥आस १३६॥
उपनीय प्रियम् असमय-विदं च मे दग्ध-मानम् अपनीय ।
नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥आस १३७॥
उत्तम-वनितैक-गतिः करीव सरसी-पयः सखी-धैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥आस १३८॥
इति विभाव्याख्या-समेता उ-कार-व्रज्या ॥
[संपादित करें] ऊ-कार-व्रज्या
ऊढामुनातिवाहय पृष्ठे लग्नापि कालम् अचलापि ।
सर्वंसहे कठोर-त्वचः किम् अङ्केन कमठस्य ॥आस १३९॥
इति विभाव्याख्या-समेता ऊ-कार-व्रज्या ॥
[संपादित करें] ऋ-कार-व्रज्या
ऋजुना निधेहि चरणौ परिहर सखि निखिल-नागराचारम् ।
इह डाकिनीति पल्ली-पतिः कटाक्षेऽपि दण्डयति ॥आस १४०॥
ऋषभो ऽत्र गीयत इति श्रुत्वा स्वर-पारगा वयं प्राप्ताः ।
को वेद गोष्ठम् एतद् गो-शान्तौ विहित-बहु-मानम् ॥आस १४१॥
इति विभाव्याख्या-समेता ऋ-कार-व्रज्या ॥
[संपादित करें] ए-कार-व्रज्या
एको हरः प्रियाधर-गुण-वेदी दिविषदो ऽपरे मूढाः ।
विषम् अमृतं वा समम् इति यः पश्यन् गरलम् एव पपौ ॥आस १४२॥
एष्यति मा पुनर् अयम् इति गमने यद् अमङ्गलं मयाकारि ।
अधुना तद् एव कारणम् अवस्थितौ दग्ध-गेह-पतेः ॥आस १४३॥
एकैकशो युव-जनं विलङ्घमानाक्ष-निकरम् इव तरला ।
विश्राम्यति सुभग त्वाम् अङ्गुलिर् आसाद्य मेरुम् इव ॥आस १४४॥
एकः स एव जीवति स्वहृदय-शून्यो ऽपि सहृदयो राहुः ।
यः सकल-लघिम-कारणम् उदरं न बिभर्ति दुष्पूरम् ॥आस १४५॥
एकेन चूर्ण-कुन्तलम् अपरेण करेण चिबुकम् उन्नमयन् ।
पश्यामि बाष्प-धौत-श्रुति नगर-द्वारि तद्-वदनम् ॥आस १४६॥
एकं जीवन-मूलं चञ्चलम् अपि तापयन्तम् अपि सततम् ।
अन्तर् वहति वराकी सा त्वां नासेव निःश्वासम् ॥आस १४७॥
एकं वदति मनो मम यामि न यामीति हृदयम् अपरं मे ।
हृदय-द्वयम् उचितं तव सुन्दरि हृत-कान्त-चित्तायाः ॥आस १४८॥
एरण्ड-पत्त्र-शयना जनयन्ती स्वेदम् अलघु-जघन-तटा ।
धूलि-पुटीव मिलन्ती स्मर-ज्वरं हरति हलिक-वधूः ॥आस १४९॥
इति विभाव्याख्या-समेता ए-कार-व्रज्या ॥
[संपादित करें] क-कार-व्रज्या
केलि-निलयं सखीम् इव नयति नवोढां स्वयं न मां भजते ।
इत्थं गृहिणीम् अर्ये स्तुवति प्रतिवेशिना हसितम् ॥आस १५०॥
काल-क्रम-कमनीय-क्रोडेयं केतकीति काशंसा ।
वृद्धिर् यथा यथा स्यास् तथा तथा कण्टकोत्कर्षः ॥आस १५१॥
कृतकस्वाप मदीय-श्वास-ध्वनि-दत्त-कर्ण किं तीव्रैः ।
विध्यसि मां निःश्वासैः स्मरः शरैः शब्द-वेधीव ॥आस १५२॥
क्व स निर्मोक-दुकूलः क्वालङ्करणाय फणि-मणि-श्रेणी ।
कालिय-भुजङ्ग-गमनाद् यमुने विश्वस्य गम्यासि ॥आस १५३॥
किञ्चिन् न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पद-पतिते केवलम् अकारि शुक-पञ्जरो विमुखः ॥आस १५४॥
कृत-हसित-हस्त-तालं मन्मथ-तरलैर् विलोकितां युवभिः ।
क्षिप्तः क्षिप्तो निपतन्न् अङ्गे नर्तयति भृङ्गस् ताम् ॥आस १५५॥
कमल-मुखि सर्वतोमुख-निवारणं विदधद् एव भूषयति ।
रोधो ऽरुद्ध-स्वरसास् तरङ्गिणीस् तरल-नयनाश् च ॥आस १५६॥
कितव प्रपञ्चिता सा भवता मन्दाक्ष-मन्द-सञ्चारा ।
बहु-दायैर् अपि सम्प्रति पाशकसारीव नायाति ॥आस १५७॥
कः श्लाघनीय-जन्मा माघ-निशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिल-दीर्घः कथयति काञ्ची-निनादो ऽयम् ॥आस १५८॥
किम् अशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।
सा गिरिश-भुज-भुजङ्गम-फेणोपधानाद्य निद्राति ॥आस १५९॥
कृत्रिम-कनकेनेव प्रेम्णा मुषितस्य वार-वनिताभिः ।
लघुर् इव वित्त-विनाश-क्लेशो जन-हास्यता महती ॥आस १६०॥
किं पर्व-दिवसम् आर्जित-दन्तोष्ठि निजं वपुर् न मण्डयसि ।
स त्वां त्यजति न पर्वस्व् अपि मधुराम् इक्षु-यष्टिम् इव ॥आस १६१॥
कष्टं साहस-कारिणि तव नयनार्धेन सो ऽध्वनि स्पृष्टः ।
उपवीताद् अपि विदितो न द्विज-देहस् तपस्वी ते ॥आस १६२॥
क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्य् एव ।
रौद्रेऽनभ्रेऽपि नभः-सुरापगा-वारि-वृष्टिर् एव ॥आस १६३॥
कूप-प्रभवाणां परम् उचितम् अपां पट्ट-बन्धनं मन्ये ।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥आस १६४॥
कररुह-शिखा-निखात भ्रान्त्वा विश्रान्त रजनि-दुरवाप ।
रविर् इव यन्त्रोल्लिखितः कृशो ऽपि लोकस्य हरसि दृशम् ॥आस १६५॥
किं करवाणि दिवा-निशम् अपि लग्ना सहज-शीतल-प्रकृतिः ।
हन्त सुखयामि न प्रियम् आत्मानम् इवात्मनश् छाया ॥आस १६६॥
केशैः शिरसो गरिमा मरणं पीयूष-कुण्ड-पातेन ।
दयित-वहनेन वक्षसि यदि भारस् तद् इदम् अचिकित्स्यम् ॥आस १६७॥
किञ्चित् कर्कशताम् अनु रसं प्रदास्यन् निसर्ग-मधुरं मे ।
इक्षोर् इव ते सुन्दरि मानस्य ग्रन्थिर् अपि काम्यः ॥आस १६८॥
केन गिरिशस्य दत्ता बुद्धिर् भुजगं जटावनेऽर्पयितुम् ।
येन रति-रभस-कान्ता-कर-चिकुराकर्षणं मुषितम् ॥आस १६९॥
कर-चरण-काञ्चि-हार-प्रहारम् अवचिन्त्य बल-गृहीत-कचः ।
प्रणयी चुम्बति दयिता-वदनं स्फुरद्-अधरम् अरुणाक्षम् ॥आस १७०॥
कुरुतां चापलम् अधुना कलयतु सुरसासि यादृशी तद् अपि ।
सुन्दरि हरीतकीम् अनु परिपीता वारिधारेव ॥आस १७१॥
कज्जल-तिलक-कलङ्कित-मुख-चन्द्रे गलित-सलिल-कण-केशि ।
नव-विरह-दहन-तूलो जीवयितव्यस् त्वया कतमः ॥आस १७२॥
कृच्छ्रानुवृत्तयो ऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृण-मात्र-जीवना अपि करिणो दान-द्रवार्द्र-कराः ॥आस १७३॥
किं हसथ किं प्रधावथ किं जनम् आह्वयथ बालका विफलम् ।
तद् अथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥आस १७४॥
कातरता-केकरित-स्मर-लज्जा-रोष-मसृण-मधुराक्षी ।
योक्तुं न मोक्तुम् अथवा वलतेऽसाव् अर्थ-लब्ध-रतिः ॥आस १७५॥
केतक-गर्भे गन्धादरेण दूराद् अमी द्रुतम् उपेताः ।
मदन-स्यन्दन-वाजित इव मधुपा धूलिम् आददते ॥आस १७६॥
को वक्रिमा गुणाः के का कान्तिः शिशिर-किरण-लेखानाम् ।
अन्तः प्रविश्य यासाम् आक्रान्तं पशु-विशेषेण ॥आस १७७॥
कृत-विविध-मथन-यत्नः पराभावाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यम् अदात् स्वयंवरेण श्रियं विष्णुः ॥आस १७८॥
किं पुत्रि गण्ड-शैल-भ्रमेण नव-नीरदेषु निद्रासि ।
अनुभव चपलाविलसित-गर्जित-देशान्तर-भ्रान्तीः ॥आस १७९॥
कान्तः पदेन हत इति सरलाम् अपराध्य किं प्रसादयथ ।
सो ऽप्य् एवम् एव सुलभः पद-प्रहारः प्रसादः किम् ॥आस १८०॥
कर्ण-गतेयम् अमोघा दृष्टिस् तव शक्तिर् इन्द्र-दत्ता च ।
सा नासादित-विजया क्वचिद् अपि नापार्थ-पतितेयम् ॥आस १८१॥
क्लेशयसि किम् इति दूतीर् यद् अशक्यं सुमुखि तव कटाक्षेण ।
कामो ऽपि तत्र सायकम् अकीर्ति-शङ्की न सन्धत्ते ॥आस १८२॥
को वेद मूल्यम् अक्ष-द्यूते प्रभुणा पणीकृतस्य विधोः ।
प्रतिविजये यत् प्रतिपणम् अधरं घर-नन्दिनी विदधे ॥आस १८३॥
कुपितां चरण-प्रहरण-भयेन मुञ्चामि न खलु चण्डि त्वाम् ।
अलिर् अनिल-चपल-किसलय-ताडन-सहनो लतां भजते ॥आस १८४॥
कोपाकृष्ट-भ्रू-स्मर-शरासने संवृणु प्रिये पततः ।
छिन्न-ज्या-मधुपान् इव कज्जल-मलिनाश्रु-जल-बिन्दून् ॥आस १८५॥
कामेनापि न भेत्तुं किम् उ हृदयम् अपारि बाल-वनितानाम् ।
मूढ-विशिख-प्रहारोच्छूनम् इवाभाति यद्-वक्षः ॥आस १८६॥
किं पर-जीवैर् दीव्यसि विस्मय-मधुराक्षि गच्छ सखि दूरम् ।
अहिम् अधिचत्वरम् उरग-ग्राही खेलयतु निर्विघ्नः ॥आस १८७॥
कर-चरणेन प्रहरति यथा यथाङ्गेषु कोप-तरलाक्षी ।
रोषयति परुष-वचनैस् तथा तथा प्रेयसीं रसिकः ॥आस १८८॥
कस् तां निन्दति लुम्पति कः स्मर-फलकस्य वर्णकं मुग्धः ।
को भवति रत्न-कण्टकम् अमृते कस्यारुचिर् उदेति ॥आस १८९॥
कोपवति पाणि-लीला-चञ्चल-चूताङ्कुरे त्वयि भ्रमति ।
कर-कम्पित-करवाले स्मर इव सा मूर्च्छिता सुतनुः ॥आस १९०॥
कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।
तद्-भावनेन भजतो मम गोत्र-स्खलनम् अनिवार्यम् ॥आस १९१॥
कुत इह कुरङ्ग-शावक केदारे कलम् अमञ्जरीं त्यजसि ।
तृण-बाणस् तृण-धन्वा तृण-घटितः कपट-पुरुषो ऽयम् ॥आस १९२॥
इति विभाव्याख्या-समेता क-कार-व्रज्या ॥
[संपादित करें] ख-कार-व्रज्या
खल-सख्यं प्राङ् मधुरं वयो ऽनतराले निदाघ-दिनम् अन्ते ।
एकआदि-मध्य-परिणति-रमणीया साधु-जन-मैत्री ॥आस १९३॥
इति विभाव्याख्या-समेता ख-कार-व्रज्या ॥
[संपादित करें] ग-कार-व्रज्या
गुणम् अधिगतम् अपि धनवान् न चिरान् नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुम् अम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥आस १९४॥
गुरुर् अपि लघूपनीतो न निमज्जति नियतम् आशये महतः ।
वानकरोपनीतः शैलो मकरालयस्येव ॥आस १९५॥
गौरी-पतेर् गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पम् अपि विशति ॥आस १९६॥
गृहपति-पुरतो जारं कपट-कथा-कथित-मन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥आस १९७॥
गति-गञ्जित-वर-युवतिः करी कपोलौ करोतु मद-मलिनौ ।
मुख-बन्ध-मात्र-सिन्धुर लबोदर किं मदं वहसि ॥आस १९८॥
गेहिन्याः शृण्वन्ती गोत्र-स्खलितापराधतो मानम् ।
स्निग्धां प्रिये स-गर्वां सखीषु बाला दृशं दिशति ॥आस १९९॥
ग्रीष्ंअ-मये समयेऽस्मिन् विनिर्मितं कलय केलि-वन-मूले ।
अलम् आलवाल-वलय-च्छलेन कुण्डलितम् इव शैत्यम् ॥आस २००॥
गुण-बद्ध-चरण इति मा लीला-विहगं विमुञ्च सखि मुग्धे ।
अस्मिन् वलयित-शाखे क्षणेन गुण-यन्त्रणं त्रुटति ॥आस २०१॥
गुरु-गर्जि-सान्द्र-विद्युद्-भय-मुद्रित-कर्ण-चक्षुषां पुरतः ।
बाला चुम्बति जारं वज्राद् अधिको हि मदनेषुः ॥आस २०२॥
गृहिणी-गुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
मानः प्रभुता वाम्यं विभूषणं वाम-नयनानाम् ॥आस २०३॥
गुणम् आन्तरम् अगुणं वा लक्ष्मीर् गङ्गा च वेद हरि-हरयोः ।
एका पदेऽपि रमते न वसति निहिता शिरस्य् अपरा ॥आस २०४॥
गत्वा जीवित-संशयम् अभ्यस्तः सोढुम् अतिचिराद् विरहः ।
अकरुणः पुनर् अपि दित्ससि सुरत-दुरभ्यासम् अस्माकम् ॥आस २०५॥
गोत्र-स्खलित-प्रश्नेऽप्य् उत्तरम् अतिशील-शीतलं दत्त्वा ।
निःश्वस्य मोघ-रूपे स्व-वपुषि निहितं तया चक्षुः ॥आस २०६॥
गन्ध-ग्राहिणि शालोन्मीलित-निर्यास-निहित-निखिलाङ्गि ।
उपभुक्त-मुक्त-भूरुह-शतेऽधुना भ्रमरि न भ्रमसि ॥आस २०७॥
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जा-फलैः कनकम् ॥आस २०८॥
गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौका-द्वितयार्पित-गुण इव हृदयं द्विधा भवति ॥आस २०९॥
गुण आकर्षण-योग्यो धनुष इवैको ऽपि लक्ष-लाभाय ।
लूतातन्तुभिर् इव किं गुणैर् विमर्दासहैर् बहुभिः ॥आस २१०॥
गायति गीते वंशे वादयति स विपञ्चीषु ।
पाठयति पञ्जर-शुकं तव सन्देशाक्षरं रामा ॥आस २११॥
गणयति न मधु-व्ययम् अयम् अविरतम् आपिबतु मधुकरः कुमुदम् ।
सौभाग्य-मानवान् परम् असूयति द्यु-मणये चन्द्रः ॥आस २१२॥
गुण-विधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।
हृतम् अमुना मालायाः समीरणेनेव सौरभ्यम् ॥आस २१३॥
गुरु-सदने नेदीयसि चरण-गते मयि च मूकयापि तया ।
नूपुरम् अपास्य पदयोः किं न प्रियम् ईरितं प्रियया ॥आस २१४॥
ग्रन्थिलतया किम् इक्षोः किम् अपभ्रंशेन भवति गीतस्य ।
किम् अनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥आस २१५॥
गेहिन्या चिकुर-ग्रह-समय-ससीत्कार-मीलित-दृशापि ।
बाला-कपोल-पुलकं विलोक्य निहितो ऽस्मि शिरसि पदा ॥आस २१६॥
गुरु-पक्ष्म जागरारुण-घूर्णत्-तारं कथञ्चिद् अपि वलते ।
नयनम् इदं स्फुट-नख-पद-निवेश् अ-कृत-कोप-कुटिल-भ्रु ॥आस २१७॥
इति विभाव्याख्या-समेता ग-कार-व्रज्या ॥
[संपादित करें] घ-कार-व्रज्या
घटित-जघनं निपीडित-पीनोरु न्यस्त-निखिल-कुच-भारम् ।
आलिङ्गन्त्य् अपि बाला वदत्य् असौ मुञ्च मुञ्चेति ॥आस २१८॥
घटित-पलाश-कपाटं निशि निशि सुखिनो हि शेरते पद्माः ।
उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥आस २१९॥
घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीप-कलिकाश् च ।
प्रातः प्रस्थित-पान्थ-स्त्री-हृदयं स्फुटति कमलं च ॥आस २२०॥
इति विभाव्याख्या-समेता घ-कार-व्रज्या ॥
[संपादित करें] च-कार-व्रज्या
चपलस्य पलित-लाञ्छित-चिकुरं दयितस्य मौलिम् अवलोक्य ।
खेदोचितेऽपि समये संमदम् एवाददे गृहिणी ॥आस २२१॥
चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।
तृप्यामि पङ्किलाम् इव पिबन् नदीं नलिन-नालेन ॥आस २२२॥
चपल-भुजङ्गी-भुक्तोज्झित शीतल-गन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूष-सदागते गच्छ ॥आस २२३॥
चिर-पथिक द्राघिम-मिलद्-अलक-लता-शैवलावलि-ग्रथिला ।
कर-तोयेव मृगाक्ष्या दृष्टिर् इदानीं सदानीरा ॥आस २२४॥
चण्डि दर-चपल-चेल-व्यक्तोरु-विलोकनैक-रसिकेन ।
धूलि-भयाद् अपि न मया चरण-हृतौ कुञ्चितं चक्षुः ॥आस २२५॥
चल-कुण्डल-चलद्-अलक-स्खलद्-उरसिज-वसन-सज्जद्-ऊरु-युगम् ।
जघन-भर-क्लम-कूणित-नयनम् इदं हरति गतम् अस्याः ॥आस २२६॥
चरणैः पराग-सैकतम् अफलम् इदं लिखसि मधुप केतक्याः ।
इह वसति कान्ति-सारे नान्तः-सलिलापि मधु-सिन्धुः ॥आस २२७॥
चिर-काल-पथिक शङ्का-तरङ्गिताक्षः किम् ईक्षसे मुग्ध ।
त्वन्-निस्त्रिंशाश्लेष-व्रण-किणराजीयम् एतस्याः ॥आस २२८॥
चपलां यथा मदान्धश् छायामयम् आत्मनः करो हन्ति ।
आस्फालयति करं प्रतिगजस् तथायं पुरो रुद्धः ॥आस २२९॥
चुम्बन-लोलुप-मद्-अधर-हृत-काश्मीरं स्मरन् न तृप्यामि ।
हृदय-द्विरदालान-स्तम्भं तस्यास् तद्-ऊरु-युगम् ॥आस २३०॥
चिकुर-विसारण-तिर्यङ्-नत-कण्ठी विमुख-वृत्तिर् अपि बाला ।
त्वाम् इयम् अङ्गुलि-कल्पित-कचावकाशा विलोकयति ॥आस २३१॥
चुम्बन-हृताञ्जनार्घं स्फुट-जागर-रागम् ईक्षणं क्षिपसि ।
किम् उषसि वियोग-कातरम् असमेषुर् इवार्ध-नाराचम् ॥आस २३२॥
इति विभाव्याख्या-समेता च-कार-व्रज्या ॥
[संपादित करें] छ-कार-व्रज्या
छाया-ग्राही चन्द्रः कूटत्वं सततम् अम्बुजं व्रजति ।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥आस २३३॥
छाया-मात्रं पश्यन्न् अधोमुखो ऽप्य् उद्गतेन धैर्येण ।
तुदति मम हृदय-निपुणा राधा-चक्रं किरीतीव ॥आस २३४॥
इति विभाव्याख्या-समेता छ-कार-व्रज्या ॥
[संपादित करें] ज-कार-व्रज्या
जल-बिन्दवः कतिपये नयनाद् गमनोद्यमे तव स्खलिताः ।
कान्ते मम गन्तव्या भूर् एतैर् एव पिच्छिलिता ॥आस २३५॥
जृम्भोत्तम्भित-दोर्-युग-यन्त्रित-ताटङ्क-पीडित-कपोलम् ।
तस्याः स्मरामि जल-कण-लुलिताञ्जनम् अलस-दृष्टि मुखम् ॥आस २३६॥
जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
अति शरद्-अनुरूपं तव शीलम् इदं जाति-शालिन्याः ॥आस २३७॥
इति विभाव्याख्या-समेता ज-कार-व्रज्या ॥
[संपादित करें] झ-कार-व्रज्या
झङ्कृत-कङ्कण-पाणि-क्षेपैः स्तम्भावलम्बनैर् मौनैः ।
शोभयसि शुष्क-रुदितैर् अपि सुन्दरि मन्दिर-द्वारम् ॥आस २४६॥
इति विभाव्याख्या-समेता झ-कार-व्रज्या ॥
[संपादित करें] ढ-कार-व्रज्या
ढक्काम् आहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
स्त्रीणां करिणीनाम् इव मदः पुनः स्व-कुल-नाशाय ॥आस २४७॥
इति विभाव्याख्या-समेता ढ-कार-व्रज्या ॥
[संपादित करें] त-कार-व्रज्या
तां तापयन्ति मन्मथ-बाणास् त्वां प्रीणयन्ति बत सुभग ।
तपन-करास् तपन-शिलां ज्वलयन्ति विधुं मधुरयन्ति ॥आस २४८॥
तव सुतनु सानुमत्या बहु-धातु-जनित-नितम्ब-रागायाः ।
गिरि-वर-भुव इव लाभेनाप्नोमि द्व्य्-अङ्गुलेन दिवम् ॥आस २४९॥
त्यक्तो मुञ्चति जीवनम् उज्झति नानुग्रहेऽपि लोलुत्वम् ।
किं प्रावृषेव पद्माकरस्य करणीयम् अस्य मया ॥आस २५०॥
त्वद्-विरहापदि पाण्डुस् तन्वङ्गी छाययैव केवलया ।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥आस २५१॥
त्वयि विनिवेशित-चित्ता सुभग गता केवलेन कायेन ।
घन-जाल-रुद्ध-मीना नदीव सा नीर-मात्रेण ॥आस २५२॥
त्वयि संसक्तं तस्याः कठोरतर हृदयम् असम-शर-तरलम् ।
मारुत-चलम् अञ्चलम् इव कण्टक-सम्पर्कतः स्फुटितम् ॥आस २५३॥
त्वम् असूर्यंपश्या सखि पदम् अपि न विनापवारणं भ्रमसि ।
छाये किम् इह विधेयं मुञ्चन्ति न मूर्तिमन्तस् त्वाम् ॥आस २५४॥
तव विरहे विस्तारित-रजनौ जनितेन्दु-चन्दन-द्वेषे ।
विसिनीव माघ-मासे विना हुताशने सा दग्धा ॥आस २५५॥
तरुणि त्वच्-चरणाहति-कुसुमित-कङ्केल्लि-कोरक-प्रकरम् ।
कुटिल-चरिता सपत्नी न पिबति बत शोक-विकलापि ॥आस २५६॥
तल्पे प्रभुर् इव गुरुर् इव मनसिज-तन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीर् इव गुरु-जन-पुरतो मूर्तेव सा व्रीडा ॥आस २५७॥
त्वम् अलभ्या मम तावन् मोक्तुम् अशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥आस २५८॥
तपसा क्लेशित एष प्रौढ-बलो न खलु फाल्गुनेऽप्य् आसीत् ।
मधुना प्रमत्तम् अधुना को मदनं मिहिरम् इव सहते ॥आस २५९॥
त्वद्-गमन-दिवस-गण-नावलक्ष-रेखाभिर् अङ्किता सुभग ।
गण्ड-स्थलीव तस्याः पाण्डुरिता भवन-भित्तिर् अपि ॥आस २६०॥
तस्याग्राम्यस्याहं सखि वक्र-स्निग्ध-मधुरया दृष्ट्या ।
विद्धा तद्-एक-नेया पोत्रिण इव दंष्ट्रया धरणी ॥आस २६१॥
त्वयि कुग्राम-वट-द्रुम वैश्रवणो वसतु वा लक्ष्मीः ।
पामर-कुठार-पातात् कासर-शिरसैव ते रक्षा ॥आस २६२॥
तव मुखर वदन-दोषं सहमाना मोक्तुम् अक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥आस २६३॥
तृण-मुखम् इव न खलु त्वां त्यजन्त्य् अमी हरिण वैरिणः शवराः ।
यशसैव जीवितम् इदं त्यज योजित-शृङ्ग-सङ्ग्रामः ॥आस २६४॥
त्रिपुर-रिपोर् इव गङ्गा मम मानिनि जनित-मदन-दाहस्य ।
जीवनम् अर्पित-शिरसो ददासि चिकुर-ग्रहेणैव ॥आस २६५॥
त्वत्-सङ्कथासु मुखरः सनिन्द-सानन्द-सावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥आस २६६॥
त्वयि सर्पति पथि दृष्टिः सुन्दर वृति-विवर-निर्गता तस्याः ।
दर-तरल-भिन्न-शैवल-जाला शफरीव विस्फुरति ॥आस २६७॥
ते सुतनु शून्य-हृदया ये शङ्खं शून्य-हृदयम् अभिदधति ।
अङ्गीकृत-कर-पत्त्रो यस् तव हस्त-ग्रहं कुरुते ॥आस २६८॥
ते श्रेष्ठिनः क्व सम्प्रति शक्र-ध्वज यैः कृतस् तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास् त्वां विधित्सन्ति ॥आस २६९॥
तानवम् एत्य छिन्नः परोपहित-राग-मदन-सङ्घटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥आस २७०॥
तस्मिन् गतार्द्र-भावे वीत-रसे शुण्ठि-शकल इव पुरुषे ।
अपि भूति-भाजि मलिने नागर-शब्दो विडम्बाय ॥आस २७१॥
तमसि घने विषमे पथि जम्बुकम् उल्का-मुखं प्रपन्नाः स्मः ।
किं कुर्मः सो ऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥आस २७२॥
त्वाम् अभिलषतो मानिनि मम गरिम-गुणो ऽपि दोषतां यातः ।
पङ्किल-कूलां तटिनीं यियासतः सिन्धुर् अस्य् एव ॥आस २७३॥
तिमिरेऽपि दूर-दृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्ख-मय-वलय-राजी गृह-पति-शिरसा सह स्फुटतु ॥आस २७४॥
तव वृत्तेन गुणेन च समुचित-सम्पन्न-कण्ठ-लुठनायाः ।
हार-स्रज इव सुन्दरि कृतः पुनर् नायकस् तरलः ॥आस २७५॥
इति विभाव्याख्या-समेता त-कार-व्रज्या ॥
[संपादित करें] द-कार-व्रज्या
दर्शन-विनीत-माना गृहिणी हर्षोल्लसत्-कपोल-तलम् ।
चुम्बन-निषेध-मिषतो वदनं पिदधाति पाणिभ्याम् ॥आस २७६॥
देह-स्तम्भः स्खलनं शैथिल्यं वेपथुः प्रिय-ध्यानम् ।
पथि पथि गगनाश्लेषः कामिनि कस् तेऽभिसार-गुणः ॥आस २७७॥
द्राघयता दिवसानि त्वदीय-विरहेण तीव्र-तापेन ।
ग्रीष्मेणेव नलिन्या जीवनम् अल्पीकृतं तस्याः ॥आस २७८॥
दुर्जन-सहवासाद् अपि शीलोत्कर्षं न सज्जनस् त्यजति ।
प्रतिपर्व-तपन-वासी निःसृत-मात्रः शशी शीतः ॥आस २७९॥
दयित-प्रहितां दूतीम् आलम्ब्य करेण तमसि गच्छन्ती ।
स्वेद-च्युत-मृगनाभिर् दूराद् गौराङ्गि दृश्यासि ॥आस २८०॥
दयिता-गुणः प्रकाशं नीतः स्वस्यैव वदन-दोषेण ।
प्रतिदिन-विदलित-वाटी-वृति-गह्टनैः खिद्यसे किम् इति ॥आस २८१॥
दाक्षिण्यान् म्रदिमानं दधतं मा भानुम् एनम् अवमंस्थाः ।
रौद्रीम् उपागतेऽस्मिन् कः क्षमते दृष्टिम् अपि दातुम् ॥आस २८२॥
दृष्ट्यैव विरह-कातर-तारकया प्रिय-मुखे समर्पितया ।
यान्ति मृग-वल्लभायाः पुलिन्द-बाणार्दिताः प्राणाः ॥आस २८३॥
दूर-स्थापित-हृदयो गूढ-रहस्यो निकामम् आशङ्कः ।
आश्लेषो बालानां भवति खलानां च सम्भेदः ॥आस २८४॥
द्वारे गुरवः कोणे शुकः सकाशे शिशुर् गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयात-महः ॥आस २८५॥
दधि-कण-मुक्ता-भरण-श्वासोत्तुङ्ग-स्तनार्पण-मनोज्ञम् ।
प्रियम् आलिङ्गति गोपी मन्थन-श्रम-मन्थरैर् अङ्गैः ॥आस २८६॥
दलितोद्वेगेन सखि प्रियेण लग्नेन रागम् आवहता ।
मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥आस २८७॥
दृष्टम् अदृष्ट-प्रायं दयितं कृत्वा प्रकाशितस् तनया ।
हृदयं करेण ताडितम् अथ मिथ्या व्यञ्जित-त्रपया ॥आस २८८॥
दर्शित-यमुनोच्छ्राये भ्रू-विभ्रम-भाजि वलति तव नयने ।
क्षिप्त-हले हलधर इव सर्वं पुरमर्जितं सुतनु ॥आस २८९॥
दयित-प्रार्थित-दुर्लभ-मुख-मदिरा-सारसेक-सुकुमारः ।
व्यथयति विरहे बकुलः क्व परिचयः प्रकृति-कठिनानाम् ॥आस २९०॥
द्वित्रैर् एष्यामि दिनैर् इति किं तद् वचसि सखि तवाश्वासः ।
कथयति चिर-पथिकं तं दूर-निखातो नखाङ्कस् ते ॥आस २९१॥
दयित-स्पर्शोन्मीलित-धर्म-जल-स्खलित-चरण-खलाक्षे ।
गर्व-भर-मुखरिते सखि तच्-चिकुरान् किम् अपराधयसि ॥आस २९२॥
दुष्ट-ग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलम् अङ्गार-कवत्-कृतं येन ॥आस २९३॥
दर्शित-चापोच्छ्रायैस् तेजोवद्भिः सुगोत्र-सञ्जातैः ।
हीरैर् अप्स्व् अपि वीरैर् आपत्स्व् अपि गम्यते नाधः ॥आस २९४॥
दर-निद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून् मे ।
मुग्धे तव दृष्टिर् असाव् अर्जुन-यन्त्रेषुर् इव हन्ति ॥आस २९५॥
दुर्गत-गृहिणी तनये करुणार्द्रा प्रियतमे च