कादम्बर्या: मङ्गलपद्यम्

विकिपुस्तकानि तः

कादम्बर्याः मङ्गलपद्यम्
मङ्गलपद्यम् १
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः॥१
अन्वयः -
प्रजानां जन्मनि रजोजुषे, प्रजानां स्थितौ सत्त्ववृत्तये, प्रजानां प्रलये तमःस्पृशे (एवं सर्गस्थितिनाशहेतवे) त्रिगुणात्मने त्रयीमयाय अजाय नमः॥१॥

मङ्गलपद्यम् २
जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः।
सुरासुराधीशशिखान्तशायिनो भवच्छिदत्र्यम्बकपादपांसवः॥२
अन्वयः -
बाणासुरमौलिलालिताः, दशास्यचूडामणिचक्रचुम्बिताः, सुरासुराधीशशिखान्त-शायिनः भवच्छिदः त्र्यम्बकपादपांसवः जयन्ति॥२॥

मङ्गलपद्यम् ३
जयत्युपेन्द्र‘ स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया।
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम्॥३
अन्वयः -
यः बिभित्सया क्षणलब्धलक्ष्यया कोपारुणया दृशा एव दूरात् रिपोः उरः स्वयं भयाद् भिन्नम् इव अस्रपाटलं चकार सः उपेन्द्रः जयति॥३॥

अन्वय: -
महाहे: विषम् इव सुदु:सहं दुर्वच: यस्य मुखे सदा सन्निहितं, (तस्मात्) अकारणाविष्कृतवैरदारुणात् असज्जनात् कस्य भयं न जायते?॥५॥

अन्वय: -
स्फुरत्कलालापविलासकोमला शय्यां स्वयमभ्युपागता अभिनवा वधू: रसेन जनस्य हृदि कौतुकाधिकं रागं करोति इव,
स्फुरत्कलालापविलासकोमला शय्यां स्वयमभ्युपागता अभिनवा कथा रसेन जनस्य हृदि कौतुकाधिकं रागं करोति॥८॥

अन्वय: -
उज्ज्वलदीपकोपमै: चम्पककुड्मलै: उपपादिता: निरन्तरश्लेषघना:, सुजातय: (शोभनजातिपुष्पयुता:) महास्रज: इव
उज्ज्वलदीपकोपमै: (अलङ्कारै:) पदार्थै: उपपादिता: निरन्तरश्लेषघना: सुजातय: (उत्तमच्छन्दोयुता:) कथा: कं न हरन्ति?॥९॥

कादम्बरीप्रश्नोत्तरसङ्ग्रह: