काव्यप्रकाश
Wikibooks इत्यस्मात्
ॐ नमः शिवाय
काव्यप्रकाशकारिकावली
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् |
नवरसरुचितां निर्मितिमादधती भारती कवेर्जयति || काप्र-१ ||
काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये |
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे || काप्र-२ ||
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् |
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे || काप्र-३ ||
तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि |
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः || काप्र-४ ||
अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् |
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् || काप्र-५ ||
स्याद्वाचको लाक्षणिकः शब्दो ऽत्र व्यञ्जकस्त्रिधा |
वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थो ऽपि केषुचित् || काप्र-६ ||
सर्वेषां प्रायशो ऽर्थानां व्यञ्जकत्वमपीष्यते |
साक्षात्संकेतितं यो ऽर्थमभिधत्ते स व्=अचकः || काप्र-७ ||
सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा |
स मुख्यो ऽर्थस्तत्र मुख्यो व्यापारो ऽस्याभिधोच्यते || काप्र-८ ||
मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् |
अन्यो ऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया || काप्र-९ ||
स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् |
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा || काप्र-१० ||
सारोपान्या तु यत्रोक्तौ विष्यी विषयस्तथा |
विष्यय्यन्तःकृतेन्यस्मिन् सा स्यात्साध्यवसानिका || काप्र-११ ||
भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा |
गौणौ शुद्धौ च विज्ञेयौ लक्षणा तेन षड्विधा || काप्र-१२ ||
व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने |
तच्च गूढमगूढं वा तदेषा कथिता त्रिधा || काप्र-१३ ||
तद्भूलक्षिणिकस्तत्र व्यापारो व्यञ्जनात्मकः |
यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते || काप्र-१४ ||
फले शब्दैकगम्ये ऽत्र व्यञ्जनान्नापरा क्रिया |
नाभिधा समयाभावाद्धेत्वभावान्न लक्षणा || काप्र-१५ ||
लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो |
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः || काप्र-१६ ||
एवमप्यनवस्था स्याद् या मूलक्षयकारिणी |
प्रयोजनेन सहितं लक्षणीयं न युज्यते || काप्र-१७ ||
ज्ञानस्य विष्यो ह्यन्यः फलमन्यदुदाहृतम् |
विशिष्टे लक्षणा नैवं विशेषाः स्युस्तु लक्षिते || काप्र-१८ ||
अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते |
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् || काप्र-१९ ||
तद्युक्तो व्यञ्जकः शब्दो यत्सो ऽर्थान्तरयुक् तथा |
अर्थो ऽपि व्यञ्जकस्तत्र सहकारितया मतः || काप्र-२० ||
अर्थाः प्रोक्ताः पुरा तेषामर्ह्तव्यञ्जकतोच्यते |
वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः || काप्र-२१ ||
प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम् |
यो ऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा || काप्र-२२ ||
शब्दप्रमाणवेद्योर्ऽर्थो व्यनक्त्यर्थान्तरं यतः |
अर्थस्य व्य्ञ्जकत्वे तच्छब्दस्य सहकारिता || काप्र-२३ ||
अविवक्षितवाच्यो तस्तत्र वाच्यं भवेद्ध्वनौ |
अर्थान्तरे सङ्क्रिमितमत्यन्तं वा तिरस्कृतम् || काप्र-२४ ||
विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः |
पो ऽप्यलक्ष्यक्रमव्यञ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः || काप्र-२५ ||
रसभावतदाभावभावशान्त्यादिरक्रमः |
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः || काप्र-२६ ||
कारणान्यथ कार्याणि सहकारीणि यानि च |
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः || काप्र-२७ ||
विभावा अबुभावास्तत् कथ्यन्ते व्यभिचारिणः |
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः || काप्र-२८ ||
सृङ्गारहास्यकरुणरौद्रवीरभयानकाः |
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः || काप्र-२९ ||
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा |
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः || काप्र-३० ||
निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः |
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः || काप्र-३१ ||
व्रीडा चपलता हर्ष आवेगो जडता तथा |
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च || काप्र-३२ ||
सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता |
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च || काप्र-३३ ||
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः |
त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः || काप्र-३४ ||
निर्वेदस्थायिभावो ऽस्ति शान्तो ऽपि नवमो रसः |
रतिर्देवादिविषया व्यभिचारी तथाञ्जितः || काप्र-३५ ||
भावः प्रोक्तस्तदाभासा अनौचित्यप्रवर्त्तिताः |
भावस्य शान्तिरुदयः सन्धिः शबलता तथा || काप्र-३६ ||
मुख्ये रसे ऽपि तेङ्गित्वं प्राप्नुवन्ति कदाचन |
अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः || काप्र-३७ ||
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः |
अलङ्कारो ऽथ वस्त्वेव शब्दाद्यत्रावभासते || काप्र-३८ ||
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा |
अर्थशक्त्युद्भवो ऽप्यर्थो व्यञ्जकः संभवी स्वतः || काप्र-३९ ||
प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा |
वस्तु वालङ्कृतिर्वेत्य् षड्भेदो ऽसौ व्यनक्ति यत् || काप्र-४० ||
वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः |
शब्दार्थोभयभूरेको भेदा अष्टादशास्य तत् || काप्र-४१ ||
रसादीनामनन्तत्वाद्भेद एको हि गण्यते |
वाक्ये द्व्युत्थः पदे ऽप्यन्ये प्रबन्धे ऽप्यर्थशक्तिभूः || काप्र-४२ ||
पदैकदेशरचनावर्णेष्वपि रसादयः |
भेदास्तदेकपञ्चाशत्तेषां चान्योन्ययोजने || काप्र-४३ ||
संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया |
वेदखाब्धिवियच्चन्द्राः शरेषुयुगखेन्दवः || काप्र-४४ ||
अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गम्स्फुटम् |
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् || काप्र-४५ ||
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः |
एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् || काप्र-४६ ||
सालङ्कारैर्ध्वनेस्तैश्च योगः ससृष्टिसङ्करैः |
अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी || काप्र-४७ ||
शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् |
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः || काप्र-४८ ||
मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः |
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः || काप्र-४९ ||
दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् |
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् || काप्र-५० ||
सन्दिग्धमप्रत्=इतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् |
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव || काप्र-५१ ||
अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् |
वाक्ये ऽपि दोषाः सन्त्येते पदस्यांशे ऽपि केचन || काप्र-५२ ||
प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् |
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् || काप्र-५३ ||
अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् |
अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् || काप्र-५४ ||
भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा |
अर्थोपुष्टः कष्टो व्याहतपुनरेक्तदुष्क्रमग्राम्याः || काप्र-५५ ||
संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च |
अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः || काप्र-५६ ||
साकाङ्क्षोपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः |
विध्यनुवादायुक्तत्यक्तपुनःस्वीकृतोश्लीलः || काप्र-५७ ||
कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः |
संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् || काप्र-५८ ||
ख्याते ऽर्थे निर्हेतोरदुष्टतानुक्रणे तु सर्वेषाम् |
वक्त्राद्यौचित्यवशाद्दोषो ऽपि गुणः क्वचित्क्वचिन्नोभौ || काप्र-५९ ||
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता |
कष्टकल्पनया व्यक्तिरनुभावविभावयोः || काप्र-६० ||
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः |
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः || काप्र-६१ ||
अङ्गिनोननुसंधानं प्रकृतीनां विपर्ययः |
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः || काप्र-६२ ||
न दोषः स्वपदेनोक्तावपि संचारिणः क्वचिद् |
संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा || काप्र-६३ ||
आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः |
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः || काप्र-६४ ||
स्मर्यमाणो विरुद्धो ऽपि साम्येनाथ विवक्षितः |
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् || काप्र-६५ ||
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः |
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः || काप्र-६६ ||
उपकुर्वन्ति तं सन्तं येङ्गद्वारेण जातुचित् |
हारादिवदलङ्कारास्तेनप्रासोपमादयः || काप्र-६७ ||
माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश |
आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् || काप्र-६८ ||
करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् |
दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति || काप्र-६९ ||
बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च |
शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः || काप्र-७० ||
व्याप्नोत्यन्यत् प्रसादो ऽसौ सर्वत्र विहितस्थितिः |
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता || काप्र-७१ ||
केचिदन्तर्भवब्त्येषु दोषत्यागात्परे श्रिताः |
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश || काप्र-७२ ||
तेन नार्थगुणा वाच्याः प्रोक्ताः शब्दगुणाश्च ये |
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः || काप्र-७३ ||
मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू |
आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा || काप्र-७४ ||
योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः |
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि || काप्र-७५ ||
श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् |
साधारणः समग्राणां स प्रसादो गुणो मतः || काप्र-७६ ||
वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् |
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते || काप्र-७७ ||
यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते |
श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा || काप्र-७८ ||
वर्णसाम्यमनुप्रासश् छेकवृत्तिगतो द्विधा |
सो ऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः || काप्र-७९ ||
माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते |
ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः || काप्र-८० ||
केषाञ्चिदेता वैदर्भीप्रमुखा रीतयो मताः |
शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः || काप्र-८१ ||
पदानां सः पदस्यापि वृत्तावन्यत्र तत्र वा |
नाम्नः स वृत्त्यवृत्त्योश्च तदेवं पञ्चधा मतः || काप्र-८२ ||
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः |
यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् || काप्र-८३ ||
वाच्यभेदेन भिन्ना तद् युगपद्भाषणस्पृशः |
श्लिष्यन्ति शब्दाः श्लेषोसावक्षरादिभिरष्टधा || काप्र-८४ ||
भेदाभावात्प्रकृत्यादेर्भेदो ऽपि नवमो भवेत् |
तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता || काप्र-८५ ||
पुनरेक्तवदाभासो विभिन्नाकारशब्दगा |
एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् || काप्र-८६ ||
साधर्म्यमुपमा भेदे पूर्णा लुप्ता च साग्रिमा |
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा || काप्र-८७ ||
तद्वद् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः |
उपमानानुपादाने वाक्यगाथ समासगा || काप्र-८८ ||
वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि |
कर्मकर्त्रोर्णमुल्येतद्द्विलोपे क्विप्समासगा || काप्र-८९ ||
धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते |
क्यचि वाद्युपमेयासे त्रिलोपे च समासगा || काप्र-९० ||
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे |
अनन्वयो विपर्यास उपमेयोपमा तयोः || काप्र-९१ ||
संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् |
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः || काप्र-९२ ||
तद्रूपकमभेदो य उपमानोपमेययोः |
समस्तवस्तुचिष्यं श्रौता आरोपिता यदा || काप्र-९३ ||
श्रौता आर्थश्च ते यस्मिन्नेकदेशशविवर्ति तत् |
साङ्गमेतन् निरङ्गं तु शुद्धं माला तु पूर्ववत् || काप्र-९४ ||
नियतारोपणोपायः स्यादारोपः परस्य यः |
तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा || काप्र-९५ ||
प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः |
श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् || काप्र-९६ ||
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्निदर्शना |
अभवन्वस्तुसंबन्ध उपमापरिकल्पकः || काप्र-९७ ||
स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा |
अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया || काप्र-९८ ||
कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति |
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा || काप्र-९९ ||
निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् |
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् || काप्र-१०० ||
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः |
विज्ञेयातिशयोक्तिः सा प्रतिवस्तूपमा तु सा || काप्र-१०१ ||
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः |
दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् || काप्र-१०२ ||
सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् |
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् || काप्र-१०३ ||
मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् |
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता || काप्र-१०४ ||
उपमानाद्यदन्यस्य व्यतिरेकः स एव सः |
हेत्वोर्कुतावनुक्तीनां त्रये साम्ये निवेदिते || काप्र-१०५ ||
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् |
निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया || काप्र-१०६ ||
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः |
क्रियायाः प्रतिषेधे ऽपि फलव्यक्तिर्विभावना || काप्र-१०७ ||
विशेषोक्तिरखण्डेषु कारणेषु फलावचः |
यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः || काप्र-१०८ ||
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते |
यत्तु सो ऽर्थान्तरन्यासः साधर्म्येणेतरेण वा || काप्र-१०९ ||
विरोधः सोविरोधे ऽपि विरुद्धत्वेन यद्वचः |
जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः || काप्र-११० ||
क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश |
स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् || काप्र-१११ ||
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा |
सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् || काप्र-११२ ||
विनोक्तिः सा बिनान्येन यत्रान्यः सन्न नेतरः |
परिवृत्तिर्विनिमयो यो ऽर्थानां स्यात्समासमैः || काप्र-११३ ||
प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः |
तद्भाविकं काव्यलिङ्गं हेतोर्वाक्यपदार्थता || काप्र-११४ ||
पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः |
उदात्तं वस्तुनः संपत् महतां चोपलक्षणम् || काप्र-११५ ||
तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् |
समुच्चयो ऽसौ स त्वन्यो युगपद् या गुणक्रियाः || काप्र-११६ ||
एकं क्रमेणानेकस्मिन् पर्यायो ऽन्यस्ततो ऽन्यथा |
अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः || काप्र-११७ ||
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः |
व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् || काप्र-११८ ||
किञ्चित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते |
तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता || काप्र-११९ ||
यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता |
तदा कारणमाला स्यात् क्रियया तु परस्परम् || काप्र-१२० ||
वस्तुनोर्जनने ऽन्योन्यमुत्तरश्रुतिमात्रतः |
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति || काप्र-१२१ ||
असकृद् यदसंभाव्यमुत्तरं स्यात् तदुत्तरम् |
कुतो ऽपि लक्षितः सूक्ष्मो ऽप्यर्थो ऽन्यस्मै प्रकाश्यते || काप्र-१२२ ||
धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते |
उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः || काप्र-१२३ ||
भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः |
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः || काप्र-१२४ ||
समाधिः सुकरं कार्यं कारणान्तरयोगतः |
समं योग्यतया योगो यदि संभावितः क्वचित् || काप्र-१२५ ||
क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् |
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् || काप्र-१२६ ||
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये |
क्रमेण च विरुद्धे यत् स एष विषमो मतः || काप्र-१२७ ||
महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् |
आश्रयाश्रयिणौ स्यातां तनुत्वे ऽप्यधिकं तु तत् || काप्र-१२८ ||
प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया |
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते || काप्र-१२९ ||
समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते |
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् || काप्र-१३० ||
स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् |
विशेषणतया यत्र वस्तु सैकावली द्विधा || काप्र-१३१ ||
यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः |
स्मरणं भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने || काप्र-१३२ ||
आक्षेप उपमानस्य प्रतीपमुपमेयता |
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् || काप्र-१३३ ||
प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया |
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् || काप्र-१३४ ||
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः |
एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा || काप्र-१३५ ||
अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः |
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः || काप्र-१३६ ||
स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् |
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः || काप्र-१३७ ||
तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः |
यद्यथा साधितं केनाप्यपरेण तदन्यथा || काप्र-१३८ ||
तथैव यद्विधीयेत स व्याघात इति स्मृतिः |
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः || काप्र-१३९ ||
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः |
एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः || काप्र-१४० ||
स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् |
व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः || काप्र-१४१ ||
एषां दोषा यथायोगं संभवन्तो ऽपि केचन |
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः || काप्र-१४२ ||
इति काव्यप्रकाशीयकारिकावली समाप्ता
[संपादयतु] सन्दर्भ
उपरोक्त सामग्री यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (30-01-2008)