कौशिक सूत्र / अष्टमोऽध्यायः

विकिपुस्तकानि तः
अग्नीन् आधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकम् अग्निं दीपयति (कौसू-८.१[६०].१
अहोरात्रौ वा (कौसू-८.१[६०].२
याथाकामी वा (कौसू-८.१[६०].३
संवत्सरं तु प्रशस्तम् (कौसू-८.१[६०].४
सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः (कौसू-८.१[६०].५
औपासनौ चउभौ हि विज्ञायेते (कौसू-८.१[६०].६
तस्मिन् देवहेडनेनाज्यं जुहुयात् (कौसू-८.१[६०].७
समिधोअभ्यादध्यात् (कौसू-८.१[६०].८
शकलान् वा (कौसू-८.१[६०].९
तस्मिन् यथाकामं सवान् ददातिएकं द्वौ सर्वान् वा (कौसू-८.१[६०].१०
अपि वाएकैकम् आत्माशिषो दातारं वाचयति (कौसू-८.१[६०].११
पराशिषोअनुमन्त्रणम् अनिर्दिष्टाशिषश् च (कौसू-८.१[६०].१२
दातारौ कर्माणि कुरुतः (कौसू-८.१[६०].१३
तौ यथालिङ्गम् अनुमन्त्रयते (कौसू-८.१[६०].१४
उभयलिङ्गैर् उभौ पुंलिङ्गैर् दातारं स्त्रीलिङ्गैः पत्नीम् (कौसू-८.१[६०].१५
उदहृत्संप्रैषवर्जम् (कौसू-८.१[६०].१६
अथ देवयजनम् (कौसू-८.१[६०].१७
तद् यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् आकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश् च लोमभिः पशूनाम् (कौसू-८.१[६०].१८
{अग्ने जायस्व [११.१.१]}इति मन्थन्तौअनुमन्त्रयते (कौसू-८.१[६०].१९
पत्नी मन्त्रं संनमयति (कौसू-८.१[६०].२०
यजमानश् च [एम्. Caland, Kल्. ष्छ्र्. p. ८९, Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४] (कौसू-८.१[६०].२१
{कृणुत धूमं [११.१.२]}इति धूमम् (कौसू-८.१[६०].२२
{अग्ने ऽजनिष्ठा [११.१.३]} इति जातम् (कौसू-८.१[६०].२३
{समिद्धो अग्ने [११.१.४]}इति समिध्यमानम् (कौसू-८.१[६०].२४
{परेहि नारि [११.१.१३]}इत्य् उदहृतं संप्रेष्यतिअनुगुप्ताम् अलंकृताम् (कौसू-८.१[६०].२५
{एमा अगुर् [११.१.१४अ]} इत्य् आयतीम् अनुमन्त्रयते (कौसू-८.१[६०].२६
{उत् तिष्ठ नारि [११.१.१४ब्]}इति पत्नीं संप्रेष्यति (कौसू-८.१[६०].२७
{प्रति कुम्भं गृभाय [११.१.१४द्]}इति प्रतिगृह्णाति (कौसू-८.१[६०].२८
{ऊर्जो भागो [११.१.१५]}इति निदधाति (कौसू-८.१[६०].२९
{इयं मही [११.१.८]}इति चर्मास्तृणाति प्राग्ग्रीवम् उत्तरलोम (कौसू-८.१[६०].३०
{पुमान् पुंसो [१२.३.१]}इति चर्मारोहयति (कौसू-८.१[६०].३१
पत्नी ह्वयमानम् (कौसू-८.१[६०].३२
तृतीयस्याम् अपत्यम् अन्वाह्वयति (कौसू-८.१[६०].३३
{ऋषिप्रशिष्टा [११.१.१५ब्]}इत्य् उदपात्रं चर्मणि निदधाति (कौसू-८.१[६०].३४
तद् {आपस् पुत्रासो [१२.३.४]}इति सापत्यौअनुनिपद्येते (कौसू-८.१[६०].३५

{प्राचींप्राचीं [१२.३.७]}इति मन्त्रोक्तम् (कौसू-८.२[६१].१
चतसृभिर् उदपात्रम् अनुपरियन्ति (कौसू-८.२[६१].२
प्रतिदिशं {ध्रुवेयं विराण् [१२.३.११]}इत्य् उपतिष्ठन्ते (कौसू-८.२[६१].३
{पितेव पुत्रान् [१२.३.१२]} इत्य् अवरोह्य भूमिं तेनउदकार्थान् कुर्वन्ति (कौसू-८.२[६१].४
पवित्रैः संप्रोक्षन्ते (कौसू-८.२[६१].५
दर्भाग्राभ्यां चर्महविः संप्रोक्षति (कौसू-८.२[६१].६
आदिष्टानां सानजानत्यै प्रयछति (कौसू-८.२[६१].७
तान्{त्रेधा भागो [११.१.५]}इति व्रीहिर् आशिषु निदधाति (कौसू-८.२[६१].८
तेषां यः पितॄणां तं श्राद्धं करोति (कौसू-८.२[६१].९
यो मनुष्याणां तं ब्राह्मणान् भोजयति (कौसू-८.२[६१].१०
यो देवानां तम् {अग्ने सहस्वान् [११.१.६]} इति दक्षिणं जानुआच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति (कौसू-८.२[६१].११
कुम्भ्या वा चतुः (कौसू-८.२[६१].१२
तान् {सप्त मेधान् [१२.३.१६]} इति सापत्यौअभिमृशतः (कौसू-८.२[६१].१३
{गृह्णामि हस्तम् [१२.३.१७च्]} इति मन्त्रोक्तम् (कौसू-८.२[६१].१४
{त्रयो वरा [११.१.१०च्]} इति त्रीन् वरान् वृणीष्वइति (कौसू-८.२[६१].१५
अनेन कर्मणा ध्रुवान् इति प्रथमं वृणीते (कौसू-८.२[६१].१६
यौअपरौ तौएव पत्नी (कौसू-८.२[६१].१७
{एतौ ग्रावाणौ [११.१.९]}{अयं ग्रावा [१२.३.१४]}इत्य् उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणिआधाय (कौसू-८.२[६१].१८
{गृहाण ग्रावाणौ [११.१.१०]}इत्य् उभयं गृह्णाति (कौसू-८.२[६१].१९
{साकं सजातैः [११.१.७]}इति व्रीहीन् उलूखल आवपति (कौसू-८.२[६१].२०
{वनस्पतिः [१२.३.१५]}इति मुसलम् उच्छ्रयति (कौसू-८.२[६१].२१
{निर्बिन्ध्य् अंशून् [११.१.९ब्]} {ग्राहिं पाप्मानम् [१२.३.१८]} इत्य् अवहन्ति (कौसू-८.२[६१].२२
{इयं ते धीतिर् [११.१.११]} {वर्षवृद्धम् [१२.३.१९च्]} इति शूर्पं गृह्णाति (कौसू-८.२[६१].२३
{ऊर्ध्वं प्रजाम् [११.१.९द्]}{विश्वव्यचा [१२.३.१९]} इत्य् उदूहन्तीम् (कौसू-८.२[६१].२४
{परा पुनीहि [११.१.११च्]} {तुषं पलावान् [१२.३.१९द्]} इति निष्पुनतीम् (कौसू-८.२[६१].२५
{पृथग् रूपाणि [१२.३.२१]}इत्य् अवक्षिणतीम् (कौसू-८.२[६१].२६
{त्रयो लोकाः [१२.३.२०]}इत्य् अवक्षीणान् अभिमृशतः (कौसू-८.२[६१].२७
{पुनर् आ यन्तु शूर्पम् [१२.३.२०द्]} इत्य् उद्वपति (कौसू-८.२[६१].२८
{उपश्वसे [११.१.१२]}इत्य् अपवेवेक्ति (कौसू-८.२[६१].२९
{पृथिवीं त्वा पृथिव्याम् [१२.३.२२]} इति कुम्भीम् आलिम्पति (कौसू-८.२[६१].३०
{अग्ने चरुर् [११.१.१६]}इत्य् अधिश्रयति (कौसू-८.२[६१].३१
{अग्निः पचन् [१२.३.२४]}इति पर्यादधाति (कौसू-८.२[६१].३२
{ऋषिप्रशिष्टा [११.१.१५ब्]}इत्य् उदकम् अपकर्षति (कौसू-८.२[६१].३३
{शुद्धाः पूताः [११.१.१७]} {पूताः पवित्रैः [१२.३.२५]}इति पवित्रे अन्तर्धाय (कौसू-८.२[६१].३४
उदकम् आसिञ्चति (कौसू-८.२[६१].३५
{ब्रह्मणा शुद्धाः [११.१.१८]} {संख्याता स्तोकाः [१२.३.२८]}इत्य् आपस् तासु निक्त्वा तण्डुलान् आवपति (कौसू-८.२[६१].३६
{उरुः प्रथस्व [११.१.१९]}{उद् योधन्ति [१२.३.२९]} श्रपयति (कौसू-८.२[६१].३७
{प्र यछ पर्शुं [१२.३.३१]}इति दर्भाहाराय दात्रं प्रयछति (कौसू-८.२[६१].३८
{ओषधीर् दान्तु पर्वन् [१२.३.३१ब्]}इत्य् उपरि पर्वणां लुनाति (कौसू-८.२[६१].३९
{नवं बर्हिर् [१२.३.३२]} इति बर्हि स्तृणाति (कौसू-८.२[६१].४०
{उदेहि वेदिं [११.१.२१]} {धर्ता ध्रियस्व [१२.३.३५]}इत्य् उद्वासयति (कौसू-८.२[६१].४१
{अभ्यावर्तस्व [११.१.२२]}इति कुम्भीं प्रदक्षिणम् आवर्तयति (कौसू-८.२[६१].४२
{वनस्पते स्तीर्णम् [१२.३.३३]} इति बर्हिषि पात्रीं निदधाति (कौसू-८.२[६१].४३
{अंसध्रीं [११.१.२३च्]}इत्य् उपदधाति (कौसू-८.२[६१].४४
{उप स्तृणीहि [१२.३.२७]}इत्य् आज्येनउपस्तृणाति (कौसू-८.२[६१].४५
{उपस्तरीर् [१२.३.२८]} इत्य् उपस्तीर्णाम् अनुमन्त्रयते (कौसू-८.२[६१].४६

{अदितेर् हस्तां [११.१.२४]} {सर्वान् समागा [१२.३.३६]} इति मन्त्रोक्तम् (कौसू-८.३[६२].१
तत उदकम् आदाय पात्र्याम् आनयति (कौसू-८.३[६२].२
दर्व्या कुम्भ्यां (कौसू-८.३[६२].३
दर्विकृते तत्रएव प्रत्यानयति (कौसू-८.३[६२].४
दर्व्याउत्तमम् अपादाय तत्सुहृद् दक्षिणतोअग्नेर् उदङ्मुख आसीनो धारयति (कौसू-८.३[६२].५
अथउद्धरति (कौसू-८.३[६२].६
उद्धृते यद् अपादाय धारयति तत् उत्तरार्ध आदधाति (कौसू-८.३[६२].७
अनुत्तराधरताया ओदनस्य यद् उत्तरं तद् उत्तरम् ओदन एवओदनः (कौसू-८.३[६२].८
{षष्ठ्यां शरत्सु [१२.३.३४]}इति पश्चाद् अग्नेर् उपसादयति (कौसू-८.३[६२].९
{निधिं निधिपा [१२.३.४२]} इति त्रीणि काण्डानि करोति (कौसू-८.३[६२].१०
{यद्यज् जाया [१२.३.३९]}इति मन्त्रोक्तम् (कौसू-८.३[६२].११
सा पत्यौअन्वारभते (कौसू-८.३[६२].१२
अन्वारब्धेषुअत ऊर्ध्वं करोति (कौसू-८.३[६२].१३
{अग्नी रक्षस् [१२.३.४३]}इति पर्यग्नि करोति (कौसू-८.३[६२].१४
{बभ्रेर् अध्वर्यो [११.१.३१]} {इदम् प्रापम् [१२.३.४५]} इत्य् उपरिआपानं करोति (कौसू-८.३[६२].१५
{बभ्रेर् ब्रह्मन्न् [cf. ११.१.३१]} इति ब्रूयाद् अनध्वर्युम् (कौसू-८.३[६२].१६
{घृतेन गात्रा [११.१.३१च्]}{आ सिञ्च सर्पिर् [१२.३.४५च्]} इति सर्पिषा विष्यन्दयति (कौसू-८.३[६२].१७
{वसोर् या धारा [१२.३.४१]} {आदित्येभ्यो अङ्गिरोभ्यो [१२.३.४४]}इति रसैर् उपसिञ्चति (कौसू-८.३[६२].१८
{प्रियं प्रियाणां [१२.३.४९]}इत्य् उत्तरतोअग्नेर् धेन्वादीनिअनुमन्त्रयते (कौसू-८.३[६२].१९
ताम् {अत्यासरत् प्रथमा [PS ५.३१.१]}इति यथोक्तं दोहयित्वाउपसिञ्चति (कौसू-८.३[६२].२०
{अत्यासरत् प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर् व्य् असृष्ट सुमना हिं कृणोति ॥ बधान वत्सम् अभि धेहि भुञ्जती निज्य गोधुग् उप सीद दुग्धि । इराम् अस्मा ओदनं पिन्वमाना कीलालं घृतं मदम् अन्नभागम् ॥ सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदम् आगन् वत्सेन गां सं सृज विश्वरूपाम् [PS ५.३१.१-३]} इति (कौसू-८.३[६२].२१
{इदं मे ज्योतिर् [११.१.२८]}{सम् अग्नयः [१२.३.५०]}इति हिरण्यम् अधिदधाति (कौसू-८.३[६२].२२
{एषा त्वचां [१२.३.५१]}इत्य् अमाऊतं वासोअग्रतः सहिरण्यं निदधाति (कौसू-८.३[६२].२३

{यद् अक्षेषु [१२.३.५२]}इति समानवसनौ भवतः (कौसू-८.४[६३].१
द्वितीयं तत् पापचैलं भवति तन् मनुष्यान्धमाय दद्याद् इत्य् एके (कौसू-८.४[६३].२
{शृतं त्वा हव्यम् [११.१.२५]} इति वतुर आर्षेयान् भृग्वङ्गिरोविद् उपसादयति (कौसू-८.४[६३].३
{शुद्धाः पूता [११.१.२७]} इति मन्त्रोक्तम् (कौसू-८.४[६३].४
{पक्वं क्षेत्रात् [११.१.२८ब्]}{वर्षं वनुष्व [१२.३.५३]}इत्य् अपकर्षति (कौसू-८.४[६३].५
{अग्नौ तुषान् [११.१.२९]} इति तुषान् आवपति (कौसू-८.४[६३].६
{परः कम्बूकान् [११.१.२९ब्]} इति सव्येन पादेन फलीकरणान् अपोहति (कौसू-८.४[६३].७
{तन्वं स्वर्गो [१२.३.५४]}इत्य् अन्यान् आवपति (कौसू-८.४[६३].८
{अग्ने प्रेहि [४.१४.५]}{समाचिनुष्व [११.१.३६]}इत्य् आज्यं जुहुयात् (कौसू-८.४[६३].९
{एष} सवानां संस्कारः (कौसू-८.४[६३].१०
अर्थलुप्तानि निवर्तन्ते (कौसू-८.४[६३].११
यथासवं मन्त्रं संनमयति (कौसू-८.४[६३].१२
लिङ्गं परिहितस्य लिङ्गस्यानन्तरं कर्मकर्मानुपूर्वेण लिङ्गं परीक्षेत (कौसू-८.४[६३].१३
लिङ्गेन वा (कौसू-८.४[६३].१४
कर्मोत्पत्त्यानुपूर्वं प्रशस्तम् (कौसू-८.४[६३].१५
अतथाउत्पत्तेर् यथालिङ्गम् (कौसू-८.४[६३].१६
समुच्चयस् तुल्यार्थानां विकल्पो वा (कौसू-८.४[६३].१७
अथएतयोर् विभागः (कौसू-८.४[६३].१८
सूक्तेन पूर्वं संपातवन्तं करोति (कौसू-८.४[६३].१९
{श्राम्यतः [११.१.३०]}इतिप्रभृतिभिर् वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः (कौसू-८.४[६३].२०
अनुवाकेनउत्तरं संपातवन्तं करोति (कौसू-८.४[६३].२१
{प्राच्यै त्वा दिशे [१२.३.५५]}इतिप्रभृतिभिर् वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः (कौसू-८.४[६३].२२
यथासवम् अन्यान् पृथग् वाइति प्रकृतिः (कौसू-८.४[६३].२३
सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम् (कौसू-८.४[६३].२४
प्रयुक्तानां पुनर् अप्रयोगम् (कौसू-८.४[६३].२५
एके सहिरण्यां धेनुं दक्षिणां (कौसू-८.४[६३].२६
गोदक्षिणां वा कौरुपथिः (कौसू-८.४[६३].२७
संपातवतोअभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः (कौसू-८.४[६३].२८
{एतं भागं [६.१२२.१]}{एतं सधस्थाः [६.१२३.१]}{उलूखले [१०.९.२६]}इति संस्थितहोमाः (कौसू-८.४[६३].२९
आवपते (कौसू-८.४[६३].३०
अनुमन्त्रणं च (कौसू-८.४[६३].३१

{आशानाम् [१.३१.१]} इति चतुःशरावम् (कौसू-८.५[६४].१
{यद् राजानो [३.२९.१]}इत्य् अवेक्षति (कौसू-८.५[६४].२
पदस्नातस्य पृथक्पादेषुअपूपान् निदधाति (कौसू-८.५[६४].३
नाभ्यां पञ्चमम् (कौसू-८.५[६४].४
उन्नह्यन् वसनेन सहिरण्यं संपातवन्तम् (कौसू-८.५[६४].५
{आ नयैतम् [९.५.१]} इत्य् अपराजिताद् अजमानीयमानम् अनुमन्त्रयते (कौसू-८.५[६४].६
{इन्द्राय भागं [९.५.२]}इति अग्निं परिणीयमानम् (कौसू-८.५[६४].७
{ये नो द्विषन्ति [९.५.२च्]}इति संज्ञप्यमानम् (कौसू-८.५[६४].८
{प्र पदो [९.५.३]}इति पदः प्रक्षालयन्तम् (कौसू-८.५[६४].९
{अनुछ्य श्यामेन [९.५.४]}इति यथापरु विशन्तम् (कौसू-८.५[६४].१०
{ऋचा कुम्भीम् [९.५.५]} इत्य् अधिश्रयन्तम् (कौसू-८.५[६४].११
{आ सिञ्च [९.५.५ब्]}इत्य् आसिञ्चन्तम् (कौसू-८.५[६४].१२
{अव धेहि [९.५.५ब्-ড়र्त्]}इत्य् अवदधतम् (कौसू-८.५[६४].१३
{पर्याधत्त [९.५.५च्]}इति पर्यादधतम् (कौसू-८.५[६४].१४
{शृतो गछतु [९.५.५द्]}इत्य् उद्वासयन्तम् (कौसू-८.५[६४].१५
{उत् क्रामातः [९.५.६]}इति पश्चाद् अग्नेर् दर्भेषूद्धरन्तम् (कौसू-८.५[६४].१६
उद्धृतम् {अजम् अनज्मि [४.१४.६]}इत्य् आज्येनानक्ति (कौसू-८.५[६४].१७
{पञ्चौदनं [४.१४.७]}इति मन्त्रोक्तम् (कौसू-८.५[६४].१८
ओदनान् पृथक्पादेषु निदधाति (कौसू-८.५[६४].१९
मध्ये पञ्चमम् (कौसू-८.५[६४].२०
दक्षिणं पश्चार्धं यूपेनउपसिच्य (कौसू-८.५[६४].२१
{शृतम् अजं [४.१४.९]}इत्य् अनुबद्धशिरःपादं तुएतस्य चर्म (कौसू-८.५[६४].२२
{अजो हि [४.१४.१]}इति सूक्तेन संपातवन्तं यथोक्तम् (कौसू-८.५[६४].२३
{उत्तरो} अमोतं तस्याग्रतः सहिरण्यं निदधाति (कौसू-८.५[६४].२४
{पञ्च रुक्मा [९.५.२५(२६)]}इति मन्त्रोक्तम् (कौसू-८.५[६४].२५
धेन्वादीनिउत्तरतः सोपधानम् आस्तरणम् वासो हिरण्यं च (कौसू-८.५[६४].२६
{आ नयैतम् [९.५.१]} इति सूक्तेन संपातवन्तम् (कौसू-८.५[६४].२७
आञ्जनान्तं शतौदनायाः पञ्चौदेन व्याख्यातम् (कौसू-८.५[६४].२८

{अघायताम् [१०.९.१]} इत्य् अत्र मुखम् अपिनह्यमानम् अनुमन्त्रयते (कौसू-८.६[६५].१
{सपत्नेषु वज्रम् [१०.९.१ब्]}{ग्रावा त्वैषो [१०.९.२द्]}इति निपतन्तम् (कौसू-८.६[६५].२
{वेदिष् टे [१०.९.२]}इति मन्त्रोक्तम् आस्तृणाति (कौसू-८.६[६५].३
विंशत्योदनासु श्रयणीषु शतम् अवदानानि वध्रीसंनद्धानि पृथगोदनेषूपर्य् आदधति (कौसू-८.६[६५].४
मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमेअभितः सप्तसप्तापूपान् परिश्रयति (कौसू-८.६[६५].५
पञ्चदशे पुरोडाशौ (कौसू-८.६[६५].६
अग्रे हिरण्यम् (कौसू-८.६[६५].७
{अपो देवीर् [१०.९.२७]}इत्य् अग्रत उदकुम्भान् (कौसू-८.६[६५].८
{बालास् ते [१०.९.३]}इति सूक्तेन संपातवतीम् (कौसू-८.६[६५].९
प्रदक्षिणम् अग्निम् अनुपरिणीयउपवेशनप्रक्षालनाचमनम् उक्तम् (कौसू-८.६[६५].१०
पाणौउदकम् आनीय (कौसू-८.६[६५].११
अथामुष्यओदनस्यावदानानां च मध्यात् पूर्वार्धात्च द्विर् अवदायउपरिष्टाद् उदकेनाभिघार्य जुहोति {सोमेन पूतो जठरे सीद ब्रह्मणाम् [११.१.२५च्]} {आर्षेयेषु नि दध ओदन त्वा [११.१.३३अ]}इति (कौसू-८.६[६५].१२
अथ प्राश्नाति (कौसू-८.६[६५].१३
{अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद् यथा हुतम् इष्टं प्राश्नीयाद् देवात्मा त्वा प्राश्नाम्य् आत्मास्य् आत्मन्न् आत्मानं मे मा हिंसीर् [PS २०.५७.१४॑ cf. PS ९.२१.१ff., Vष्K २.३.५+७, Vऐत्ष् १.३.११]} इति प्राशितम् अनुमन्त्रयते (कौसू-८.६[६५].१४
{यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एष सुहुतो ऽस्त्व् ओदनः स मा मा हिंसीत् परमे व्योमन् ॥ सो अस्मभ्यम् अस्तु परमे व्योमन्न् [cf. PS २०.५७.१५, PS १६.७२.९]} इति दातारं वाचयति (कौसू-८.६[६५].१५
वीक्षणान्तम् शतौदनायाः प्रातर्जपेन व्याख्यातम् (कौसू-८.६[६५].१६

{वाङ् म आसन् [१९.६०.१]}इति मन्त्रोक्तानिअभिमन्त्रयते (कौसू-८.७[६६].१
{बृहता मनो [५.१०.८]} {द्यौश् च मे [६.५३.१]} {पुनर् मैत्व् इन्द्रियं [७.६७.१]}इति प्रतिमन्त्रयते (कौसू-८.७[६६].२
प्रतिमन्त्रिते व्यवदायाश्नन्ति (कौसू-८.७[६६].३
शतौदनायां द्वादशं शतं दक्षिणाः (कौसू-८.७[६६].४
अधिकं ददतः कामप्रं संपद्यते (कौसू-८.७[६६].५
{ब्रह्मास्य [४.३४.१]}इत्य् ओदने ह्रदान् प्रतिदिशं करोति (कौसू-८.७[६६].६
उपरिआपानम् (कौसू-८.७[६६].७
तदभितश् चतस्रो दिश्याः कुल्याः (कौसू-८.७[६६].८
ता रसैः पूरयति (कौसू-८.७[६६].९
पृथिव्यां सुरयाद्भिर् आण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय (कौसू-८.७[६६].१०
{यम् ओदनं [४.३५.१]}इत्य् अतिमृत्युम् (कौसू-८.७[६६].११
{अनड्वान् [४.११.१]} इत्य् अनड्वाहम् (कौसू-८.७[६६].१२
{सूर्यस्य रश्मीन् [४.३८.५]} इति कर्कीं सानूबन्ध्यां ददाति (कौसू-८.७[६६].१३
{आयं गौः पृश्निर् [६.३१.१]} {अयं सहस्रम् [७.२२.१]} इति पृश्निम् गाम् (कौसू-८.७[६६].१४
{देवा इमं मदुना संयुतं यवं [६.३०.१]} इति पौनःशिलं मधुमन्तं सहिरण्यं संपातवन्तम् (कौसू-८.७[६६].१५
{पुनन्तु मा देवजनाः [६.१९.१]}इति पवित्रं कृशरम् (कौसू-८.७[६६].१६
{कः पृश्निं [७.१०४.१]}इत्य् उर्वराम् (कौसू-८.७[६६].१७
{साहस्रस् [९.४.१]}इत्य् ऋषभम् (कौसू-८.७[६६].१८
{प्रजापतिश् च [९.७.१]}इत्य् अनड्वाहम् (कौसू-८.७[६६].१९
{नमस् ते जायमानायै [१०.१०.१]} {ददामि [१२.४.१]}इति वशाम् उदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः (कौसू-८.७[६६].२०
{भूमिष् ट्वा [३.२९.८]}इत्य् एनां प्रतिगृह्णाति (कौसू-८.७[६६].२१
{उपमितां [९.३.१ (५.२८.५)]}इति यत्शालया सह दास्यन् भवति तद् अन्तर् भवतिअपिहितम् (कौसू-८.७[६६].२२
मन्त्रोक्तं तु प्रशस्तम् (कौसू-८.७[६६].२३
{इटस्य ते वि चृतामि [९.३.१८]}इति द्वारम् अवसारयति (कौसू-८.७[६६].२४
{प्रतीचीं त्वा प्रतीचीनः [९.३.२२]}इत्य् उदपात्रम् अग्निम् आदाय प्रपद्यन्ते (कौसू-८.७[६६].२५
तद् अन्तर् एव सूक्तेन संपातवत् करोति (कौसू-८.७[६६].२६
उदपात्रेण संपातवता शालां संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः (कौसू-८.७[६६].२७
{अन्तरा द्यां च पृथिवीं च [९.३.१५]}इत्य् एनां प्रतिगृह्णाति (कौसू-८.७[६६].२८
{उपमितां [९.३.१]}इति मन्त्रोक्तानि प्रचृतति (कौसू-८.७[६६].२९
{मा नः पाशं [९.३.२४]}इत्य् अभिमन्त्र्य धारयति (कौसू-८.७[६६].३०
{नास्यास्थीनि [९.५.२३]}इति यथोक्तम् (कौसू-८.७[६६].३१
{सर्वम् एनं समादय [९.५.२३च्]}इत्य् अद्भिः पूर्णे गर्ते प्रविध्य संवपति (कौसू-८.७[६६].३२
शतौदनां च (कौसू-८.७[६६].३३

संभृतेषु साविकेषु संभारेषु ब्राह्मणम् ऋत्विजं वृणीत (कौसू-८.८[६७].१
ऋषिम् आर्षेयं सुधातुदक्षिणम् अनैमित्तिकम् (कौसू-८.८[६७].२
एष ह वा ऋषिर् आर्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसंपन्नाः (कौसू-८.८[६७].३
उदगयन इत्य् एके (कौसू-८.८[६७].४
अथात ओदनसवानाम् उपाचारकल्पं व्याख्यास्यामः (कौसू-८.८[६७].५
सवान् दत्त्वाग्नीन् आदधीत (कौसू-८.८[६७].६
सार्ववैदिक इत्य् एके (कौसू-८.८[६७].७
सर्वे वेदा द्विकल्पाः (कौसू-८.८[६७].८
मासपरार्ध्या दीक्षा द्वादशरात्रो वा (कौसू-८.८[६७].९
त्रिरात्र इत्य् एके (कौसू-८.८[६७].१०
हविष्यभक्षा स्युर् ब्रह्मचारिणः (कौसू-८.८[६७].११
अधः शयीरन् (कौसू-८.८[६७].१२
कर्तृदातारौआ समापनात् कामं न भुञ्जीरन् संतताश् चेत् स्युः (कौसू-८.८[६७].१३
अहनि समाप्तम् इत्य् एके (कौसू-८.८[६७].१४
यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत (कौसू-८.८[६७].१५
केशवर्जं पत्नी (कौसू-८.८[६७].१६
स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौउपवसतः (कौसू-८.८[६७].१७
श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च संप्रोक्ष्य ब्रह्मौदनिकम् अग्निं मथित्वा (कौसू-८.८[६७].१८
{यद् देवा देवहेडनं [६.११४.१]} {यद् विद्वांसो यद् अविद्वांसो [६.११५.१]} {ऽपमित्यम् अप्रतीत्तं [६.११७.१]}इत्य् एतैस् त्रिभिः सूक्तैर् अन्वारब्धे दातरि पूर्णहोमं जुहुयात् (कौसू-८.८[६७].१९
पूर्वाह्णे बाह्यतः शान्तवृक्षस्यइध्मं प्राञ्चम् उपसमाधाय (कौसू-८.८[६७].२०
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य (कौसू-८.८[६७].२१
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौसू-८.८[६७].२२
पश्चाद् अग्नेः पल्पूलितविहितम् औक्षं वानडुहम् वा रोहितं चर्म प्राग्ग्रीवम् उत्तरलोम परिस्तीर्य (कौसू-८.८[६७].२३
पवित्रे कुरुते (कौसू-८.८[६७].२४
दर्भौअप्रछिन्नप्रान्तौ प्रक्षाल्यानुलोमम् अनुमार्ष्टि (कौसू-८.८[६७].२५
दक्षिणं जानुआच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात् तया चतुर्थम् (कौसू-८.८[६७].२६
शरावेण चतुःशरावं {देवस्य त्वा सवितुः प्रसवे [PS १६.७०.१, TS २.४.६.१ आदि]}{ऋषिभ्यस् त्वार्षेयेभ्यस् त्वैकर्षये त्वा जुष्टं निर्वपामि [cf. PS १६.७०.२]} (कौसू-८.८[६७].२७

{वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु । ऊर्जम् अक्षितम् अक्षीयमाणम् उपजीव्यासम् [cf. PS १६.७०.२+३]} इति दातारं वाचयति (कौसू-८.९[६८].१
{रुद्रास् त्वा त्रैष्टुभेन छन्दसा । आदित्यास् त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर् वपन्तु । ऊर्जम् अक्षितम् अक्षीयमाणम् उप जीव्यासम् [cf. PS १६.७०.२+४+५, आइत्B ८.१२]} इति दातारं वाचयति (कौसू-८.९[६८].२
निरुप्तं सूक्तेनाभिमृशति (कौसू-८.९[६८].३
स्वर्गब्रह्मौदनौ तन्त्रम् (कौसू-८.९[६८].४
संनिपाते ब्रह्मौदनमितम् उदकम् आसेचयेद् द्विभागम् (कौसू-८.९[६८].५
यावन्तस् तण्डुलाः स्युर् नावसिञ्चेत्न प्रतिषिञ्चेत् (कौसू-८.९[६८].६
यदिअवसिञ्चेत्{मयि वर्चो अथो यशो [६.६९.३]}इति ब्रह्मा यजमानं वाचयति (कौसू-८.९[६८].७
अथ प्रतिषिञ्चेत् (कौसू-८.९[६८].८
{आ प्यायस्व [PS २०.५५.॰॰, .RV १.१९.१६ आदि]} {सं ते पयांसि [.RV १.९१.१८ आदि]}इति द्वाभ्यां प्रतिषिञ्चेत् (कौसू-८.९[६८].९
{आ प्यायस्व सम् एतु ते विस्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥ सं ते पयांसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्य् उत्तमानि धिष्व ॥ [PS २०.५५.॰॰+॰॰, .RV १.९१.१६+१८]}इति (कौसू-८.९[६८].१०
तत्र चेद् उपाधिमात्रायां नखेन न लवणस्य कुर्यात् तेनएवास्य तद् वृथान्नं संपद्यते (कौसू-८.९[६८].११
अहतं वासो दक्षिणत उपशेते (कौसू-८.९[६८].१२
तत् सहिरण्यम् (कौसू-८.९[६८].१३
तत्र द्वे उदपात्रे निहिते भवतः (कौसू-८.९[६८].१४
दक्षिणम् अन्यद् अन्तरम् अन्यत् (कौसू-८.९[६८].१५
अन्तरं यतोअधिचरिष्यन् भवति (कौसू-८.९[६८].१६
बाह्यं जाङ्मायनम् (कौसू-८.९[६८].१७
तत उदकम् आदाय पात्र्याम् आनयति (कौसू-८.९[६८].१८
दर्व्या कुम्भ्याम् (कौसू-८.९[६८].१९
दर्विकृते तत्रएव प्रत्यानयति (कौसू-८.९[६८].२०
दर्व्याउत्तमम् अपादाय तत्सुहृद् दक्षिणतोअग्नेर् उदङ्मुख आसीनो धारयति (कौसू-८.९[६८].२१
अथउद्धरति (कौसू-८.९[६८].२२
उद्धृते यद् अपादाय धारयति तद् उत्तरार्ध आधाय रसैर् उपसिच्य प्रतिग्रहीत्रे दाताउपवहति (कौसू-८.९[६८].२३
तस्मिन्न् अन्वारब्धं दातारं वाचयति (कौसू-८.९[६८].२४
तन्त्रं सूक्तं पच्छः स्नातेन {यौ ते पक्षौ [PS ३.३८.६]} {यद् अतिष्ठः [PS ३.३८.७]} (कौसू-८.९[६८].२५
{यौ ते पक्षाव् अजरौ पतत्रिणौ याभ्यां रक्षांस्य् अपहंस्य् ओदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः ॥ यद् अतिष्ठो दिवस् पृष्ठे व्योमन्न् अध्य् ओदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ [PS ३.३८.६-७, cf. TS ४.७.१३.१, Vष्ं १८.५२]} (कौसू-८.९[६८].२६
{क्रमध्वम् अग्निना नाकम् [४.१४.२]}{पृष्ठात् पृथिव्या अहम् अन्तरिक्षम् आरुहम् [४.१४.३]}{स्वर् यन्तो नापेक्षन्त [४.१४.४]} {उरुः प्रथस्व महता महिम्ना [११.१.१९]}{इदं मे ज्योतिर् [११.१.२८]}{सत्याय च [१२.३.४६]}इति तिस्रः {सम् अग्नयः [१२.३.५०]}इति सार्धम् एतया (कौसू-८.९[६८].२७
अत ऊर्ध्वं वाचिते हुते संस्थितेअमूं ते ददामीति नामग्राहम् उपस्पृशेत् (कौसू-८.९[६८].२८
सदक्षिणं {कामस् तद् [१९.५२.१]} इत्य् उक्तम् (कौसू-८.९[६८].२९
{ये भक्षयन्तो [२.३५.१]}इति पुरस्ताद्धोमाः (कौसू-८.९[६८].३०
{अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनम् ईमहे सखिभ्यः ॥ [.RV ५.२४.१अब्+२cd आदि]} {गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सुमनो भव [cf. .RV १.९१.१२ आदि]}इत्य् आज्यभागौ (कौसू-८.९[६८].३१
पाणौउदकम् आनीयइत्य् उक्तम् (कौसू-८.९[६८].३२
प्रतिमन्त्रणान्तम् (कौसू-८.९[६८].३३
प्रतिमन्त्रिते व्यवदायाश्नन्ति (कौसू-८.९[६८].३४
{इदावत्सराय [PS १९.५१.१-४]}इति व्रतविसर्जनम् आज्यं जुहुयात् (कौसू-८.९[६८].३५
समिधोअभ्याध्यात् (कौसू-८.९[६८].३६
तत्र श्लोकौ । यजुषा मथिते अग्नौ यजुषोपसमाहिते । सवान् दत्त्वा सवाग्नेस् तु कथम् उत्सर्जनं भवेत् ॥ वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि । हुत्वा संनतिभिस् तत्रोत्सर्गं कौशिको ऽब्रवीत् (कौसू-८.९[६८].३७
प्राञ्चोअपराजितां वा दिशम् अवभृथाय व्रजन्ति (कौसू-८.९[६८].३८
अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति (कौसू-८.९[६८].३९
ब्राह्मणान् भक्तेनउपेप्सन्ति (कौसू-८.९[६८].४०
यथोक्ता दक्षिणा यथोक्ता दक्षिणा (कौसू-८.९[६८].४१
इति अथर्ववेदे कौशिकसूत्रे ऽष्टमो ऽध्यायः समाप्तः