कौशिक सूत्र / द्वितीयोऽध्याय:

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


पूर्वस्य मेधाजननानि (कौसू-२.१[१०].१
शुकसारिकृशानां जिह्वा बध्नाति (कौसू-२.१[१०].२
आशयति (कौसू-२.१[१०].३
औदुम्बरपलाशकर्कन्धूनाम् आदधाति (कौसू-२.१[१०].४
आवपति (कौसू-२.१[१०].५
भक्षयति (कौसू-२.१[१०].६
उपाध्यायाय भैक्षम् प्रयछति (कौसू-२.१[१०].७
सुप्तस्य कर्णम् अनुमन्त्रयते (कौसू-२.१[१०].८
उपसीदञ् जपति (कौसू-२.१[१०].९
धानाः सर्पिर्मिश्राः सर्वहुताः (कौसू-२.१[१०].१०
तिलमिश्रा हुत्वा प्राश्नाति (कौसू-२.१[१०].११
पुरस्ताद् अग्नेः कल्माषम् दण्डं निहत्य पश्चाद् अग्नेः कृष्णाजिने धाना अनुमन्त्रयते (कौसू-२.१[१०].१२
सूक्तस्य पारं गत्वा प्रयछति (कौसू-२.१[१०].१३
सकृज् जुहोति (कौसू-२.१[१०].१४
दण्डधानाजिनं ददाति (कौसू-२.१[१०].१५
{अहं रुद्रेभिर् [४.३०]} इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक् स्तनग्रहात् प्राशयति (कौसू-२.१[१०].१६
प्रथमप्रवदस्य मातुर् उपस्थे तालूनि संपातान् आनयति (कौसू-२.१[१०].१७
दधिमध्व् आशयति (कौसू-२.१[१०].१८
उपनीतं वाचयति वार्षशतिकं कर्म (कौसू-२.१[१०].१९
{त्वं नो मेधे [६.१०८]} {द्यौश् च म [१२.१.३५]} इति भक्षयति (कौसू-२.१[१०].२०
आदित्यम् उपतिष्ठते (कौसू-२.१[१०].२१
{यद् अग्ने तपसा [७.६१]} इत्य् आग्रहायण्यां भक्षयति (कौसू-२.१[१०].२२
अग्निम् उपतिष्ठते (कौसू-२.१[१०].२३
{प्रातर् अग्निं [३.१६]} {गिराव् अरगराटेषु [६.६९]} {दिवस्पृथिव्याः [६.१२५.२]} इति संहाय मुखं विमार्ष्टि (कौसू-२.१[१०].२४

पूर्वस्य ब्रह्मचारिसांपदानि (कौसू-२.२[११].१
औदुम्बर्यादयः (कौसू-२.२[११].२
ब्रह्मचार्यावसथाद् उपस्तरणान्य् आदधाति (कौसू-२.२[११].३
पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्य् आज्यं जुहोति (कौसू-२.२[११].४
आज्यशेषे पिपीलिकोद्वापान् ओप्य ग्रामम् एत्य सर्वहुतान् (कौसू-२.२[११].५
ब्रह्मचारिभ्योअन्नं धानास् तिलमिश्राः प्रयछति (कौसू-२.२[११].६
एतानि ग्रामसा.पदानि (कौसू-२.२[११].७
विकार स्थूणामूलावतक्षणानि सभानाम् उपस्तरणानि (कौसू-२.२[११].८
ग्रामीणेभ्योअन्नम् (कौसू-२.२[११].९
सुरां सुरापेभ्यः (कौसू-२.२[११].१०
औदुम्बरादीन्य् भक्षणान्तानि सर्वसांपदानि (कौसू-२.२[११].११
त्रिर् ज्योतिः कुरुते (कौसू-२.२[११].१२
उपतिष्ठते (कौसू-२.२[११].१३
सव्यात् पाणिहृदयाल् लोहितं रसमिश्रम् अश्नाति (कौसू-२.२[११].१४
पृश्निमन्थः (कौसू-२.२[११].१५
जिह्वाया उत्साद्यम् अक्ष्योः +परिस्तरणं मस्तृहणं [ed. परिस्तरणमस्तृहणं॑ सेए ंष्ष् ३४ (१९७६), p. २३f.] हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति (कौसू-२.२[११].१६
चूर्णानि करोति (कौसू-२.२[११].१७
मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रम् अश्नाति (कौसू-२.२[११].१८
{अस्मिन् वसु [१.९]} {यद् आबध्नन् [१.३५]} {नव प्राणान् [५.२८]} इति युग्मकृष्णलं वासितं बध्नाति (कौसू-२.२[११].१९
सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखन् अश्नाति (कौसू-२.२[११].२०

{कथं महे [५.११]} इति मादानकशृतं क्षीरौदनम् अश्नाति (कौसू-२.३[१२].१
चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्व् आसिच्याश्यति (कौसू-२.३[१२].२
{पृथिव्यै श्रोत्राय [६.१०]} इति जुहोति (कौसू-२.३[१२].३
{वत्सो विराजो [१३.१.३३]} इति मन्थान्तानि (कौसू-२.३[१२].४
{सहृदयं [३.३०]} {तद् ऊ षु [५.१.५]} {सं जानीध्वम् [६.६४]} {एह यातु [६.७३]} {सं वः पृच्यन्तां [६.७४]} {सं वो मनांसि [६.९४]} {संज्ञानं नः [७.५२]} इति सांमनस्यानि (कौसू-२.३[१२].५
उदकूलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति (कौसू-२.३[१२].६
एवं सुराकूलिजम् (कौसू-२.३[१२].७
त्रिहायण्या वत्सतर्याः शुक्त्यानि [सेए Caland, Zऋ] पिशितान्य् आशयति (कौसू-२.३[१२].८
भक्तं सुरां प्रपां संपातवत् करोति (कौसू-२.३[१२].९
पूर्वस्य {ममाग्ने वर्चो [५.३]} इति वर्चस्यानि (कौसू-२.३[१२].१०
औदुम्बर्यादीनि त्रीणि (कौसू-२.३[१२].११
कुमार्या दक्षिणम् ऊरुम् अभिमन्त्रयते (कौसू-२.३[१२].१२
वपां जुहोति (कौसू-२.३[१२].१३
अग्निम् उपतिष्ठते (कौसू-२.३[१२].१४
{प्रातर् अग्निं [३.१६]} {गिराव् अरगराटेषु [६.६९]} {दिवस्पृथिव्याः [६.१२५.२]} इति दधिमध्व् आशयति (कौसू-२.३[१२].१५
कीलालमिश्रं क्षत्रियं कीलालम् इतरान् (कौसू-२.३[१२].१६

{हस्तिवर्चसम् [३.२२]} इति हस्तिनम् (कौसू-२.४[१३].१
हास्तिदन्तं बध्नाति (कौसू-२.४[१३].२
लोमानि जतुना संदिह्य जातरूपेणापिधाप्य (कौसू-२.४[१३].३
{सिंहे व्याघ्रे [६.३८]} {यशो हविर् [६.३९]} इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नभिलोमानि (कौसू-२.४[१३].४
दशानां शान्तवृक्षाणां शकलानि (कौसू-२.४[१३].५
एतयोः {प्रातर् अग्निं [३.१६]} {गिराव् अरगराटेषु [६.६९]} {दिवस्पृथिव्याः [६.१२५.२]} इति सप्त मर्माणि स्थालीपाके पृक्तान्य् अश्नाति (कौसू-२.४[१३].६
अकुशलं यो ब्राह्मणो लोहितम् अश्नीयाद् इति गार्ग्यः (कौसू-२.४[१३].७
उक्तो लोममणिः (कौसू-२.४[१३].८
सर्वैर् आप्लावयति (कौसू-२.४[१३].९
अवसिञ्चति (कौसू-२.४[१३].१०
चतुरङ्गुलं तृणं रजोहरणबिन्दुना [सेए Caland, Zऋ] अभिश्चोत्यउपमथ्य (कौसू-२.४[१३].११
शुनि किलासम् अजे पलितं तृणे ज्वरो योअस्मान् द्वेष्टि यं च वयं द्विष्मस् तस्मिन् राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिर् अलं कुरुते (कौसू-२.४[१३].१२

पूर्वस्य हस्तित्रसनानि (कौसू-२.५[१४].१
रथचक्रेण संपातवता प्रतिप्रवर्तयति (कौसू-२.५[१४].२
यानेनाभियाति (कौसू-२.५[१४].३
वादित्रैः (कौसू-२.५[१४].४
दृतिवस्त्योर् ओप्य शर्कराः (कौसू-२.५[१४].५
तोत्त्रेण नग्नप्रछन्नः (कौसू-२.५[१४].६
{विद्मा शरस्य [१.२]} {मा नो विदन् [१.१९]} {अदारसृद् [१.२०]} {स्वस्तिदा [१.२१]} {अव मन्युर् [६.६५]} {निर्हस्तः [६.६६]} {परि वर्त्मान्य् [६.६७]} {अभिभूर् [६.९७]} {इन्द्रो जयाति [६.९८]} {अभि त्वेन्द्र [६.९९]} इति सांग्रामिकानि (कौसू-२.५[१४].७
आज्यसक्तूञ् जुहोति (कौसू-२.५[१४].८
धनुरिध्मे धनुः समिधम् आदधाति (कौसू-२.५[१४].९
एवम् इष्विध्मे (कौसू-२.५[१४].१०
धनुः संपातवद् विमृज्य प्रयछति (कौसू-२.५[१४].११
प्रथमस्यइषुपर्ययणानि (कौसू-२.५[१४].१२
द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति (कौसू-२.५[१४].१३
{आरे असाव् [१.२६]} इत्य् अपनोदनानि (कौसू-२.५[१४].१४
फलीकरणतुषबुसावतक्षणान्य् आवपति (कौसू-२.५[१४].१५
अन्वाह (कौसू-२.५[१४].१६
{अग्निर् नः शत्रून् [३.१]} अग्निर् नो दूतः [३.२]} इति मोहनानि (कौसू-२.५[१४].१७
ओदनेनउपयम्य फलीकरणान् उलूखलेन जुहोति (कौसू-२.५[१४].१८
एवम् अणून् (कौसू-२.५[१४].१९
एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति (कौसू-२.५[१४].२०
अप्वां यजते (कौसू-२.५[१४].२१
{संशितम् [३.१९]} इति शितिपदीं संपातवतीम् अवसृजति (कौसू-२.५[१४].२२
उद्वृधत्सु [Caland॒ उद्धृष्यत्सु?] योजयेत् (कौसू-२.५[१४].२३
{इमम् इन्द्र [४.२२ & ४.२३]} इति युक्तयोः प्रदानान्तानि (कौसू-२.५[१४].२४
दिग्युक्ताभ्यां [३.२६ & ३.२७] {नमो देववधेभ्यो [६.१३]} इति उपतिष्ठते (कौसू-२.५[१४].२५
{त्वया मन्यो [४.३१]} {यस् ते मन्यो [४.३२]} इति संरम्भणानि (कौसू-२.५[१४].२६
सेने समीक्षमाणो जपति (कौसू-२.५[१४].२७
भाङ्गमौञ्जान् पाशन् इङ्गिडालंकृतान् संपातवतोअनूक्तान् सेनाक्रमेषु वपति (कौसू-२.५[१४].२८
एवम् आमपात्राणि (कौसू-२.५[१४].२९
इङ्गिडेन संप्रोक्ष्य तृणान्य् आङ्गिरसेनाग्निना दीपयति (कौसू-२.५[१४].३०
यां धूमोअवतनोति तां जयन्ति (कौसू-२.५[१४].३१

{ऋधङ् मन्त्रस् [५.१]} {तद् इद् आस [५.२]} इत्य् आश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ् जुह्वद् अभिप्रक्रम्य निवपति (कौसू-२.६[१५].१
+वराहविहताद् [ed. वराहविहिताद्॑ Caland, Kल्.ष्छ्र्. p. ७०] राजानो वेदिं कुर्वन्ति (कौसू-२.६[१५].२
तस्यां प्रदानान्तानि (कौसू-२.६[१५].३
एकेष्वा हतस्यादहनेउपसमाधाय दीर्घदण्डेण स्रुवेण रथ्चक्रस्य खेन समया जुहोति (कौसू-२.६[१५].४
योजनीयं श्रुत्वा योजयेत् (कौसू-२.६[१५].५
{यदि चिन् नु त्वा [५.२.४]} {नमो देववधेभ्यो [६.१३]} इत्य् अन्वाह (कौसू-२.६[१५].६
वैश्याय प्रदानान्तानि (कौसू-२.६[१५].७
{त्वया वयम् [५.२.५]} इति आयुधिग्रामण्ये (कौसू-२.६[१५].८
{नि तद् दधिषे [५.२.६]}इति राज्ञोदपात्रं द्वौद्वौअवेक्षयेत् (कौसू-२.६[१५].९
+यं [ed.॒ यन्॑ Caland, Kल्.ष्छ्र्. p. ५७] न पश्येद् न युध्येत (कौसू-२.६[१५].१०
{नि तद् दधिषे [५.२.६]} {वनस्पते [१२.३.३३]} {अया विष्ठा [७.३]} {अग्न इन्द्रश् [७.११०]} {दिशस् चतस्रो [८.८.२२]} इति नवं रथं राजानं ससारथिम् आस्थापयति (कौसू-२.६[१५].११
{ब्रह्म जज्ञानम् [५.६]} इति जीवितविज्ञानम् (कौसू-२.६[१५].१२
तिस्रः स्नावरज्जूर् अङ्गारेषुअवधाय (कौसू-२.६[१५].१३
उत्कुचतीषु कल्याणम् (कौसू-२.६[१५].१४
सांग्रामिकम् एता व्यादिशति मध्ये मृत्युर् इतरे सेने (कौसू-२.६[१५].१५
पराजेष्यमाणान् मृत्युर् अतिवर्तते ज्येष्यन्तो मृत्युम् [नोते चोन्ज्. ष्पेइजेर् ंुसेउम् ९ २४९] (कौसू-२.६[१५].१६
अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेषुअवरे (कौसू-२.६[१५].१७
एवम् इषीकाः (कौसू-२.६[१५].१८

{उच्चैर् घोषो [५.२०]} {उप श्वासय [६.१२६]} इति सर्ववादित्राणि प्रक्षाल्य तगरउशीरेण संधाव्य संपातवन्ति त्रिर् आहत्य प्रयछति (कौसू-२.७[१६].१
{विहृदयम् [५.२१]} इत्य् उच्चैस्तरां (?) हुत्वा स्रुवम् उद्वर्तयन् (कौसू-२.७[१६].२
सोमांशुं हरिणचर्मणिउत्सीव्य क्षत्रियाय बध्नाति (कौसू-२.७[१६].३
{परि वर्त्मानि [६.६७]} {इन्द्रो जयाति [६.९८]} इति राजा त्रिः सेनां परियाति (कौसू-२.७[१६].४
उक्तः पूर्वस्य सोमांशुः (कौसू-२.७[१६].५
{संदानं वो [६.१०३]} {आदानेन [६.१०४]} इति पाशैर् आदानसंदानानि (कौसू-२.७[१६].६
{मर्माणि ते [७.११८]} इति क्षत्रियं संनाहयति (कौसू-२.७[१६].७
अभयानाम् अप्ययः (कौसू-२.७[१६].८
{इन्द्रो मन्थतु [८.८]} इति (कौसू-२.७[१६].९
{पूतिरज्जुर् [८.८.२अब्]} इति पूतिरज्जुम् अवधाय (कौसू-२.७[१६].१०
अश्वत्थबधकयोर् अग्निं मन्थति (कौसू-२.७[१६].११
{धूमम् [८.८.२cd]} इति धूमम् अनुमन्त्रयते (कौसू-२.७[१६].१२
{अग्निम् [८.८.२cd]} इत्य् अग्निम् (कौसू-२.७[१६].१३
तस्मिन्न् अरण्ये सपत्नक्षयणीर् आदधात्य् अश्वत्थबधकताजद्भङ्गआह्वखदिरशराणाम् (कौसू-२.७[१६].१४
उक्ताः पाशाः (कौसू-२.७[१६].१५
आश्वत्थानि कूटानि भाङ्गानि जालानि (कौसू-२.७[१६].१६
बाधकदण्डानि (कौसू-२.७[१६].१७
{स्वाहैभ्यो [८.८.२४cd]} इति मित्रेभ्यो जुहोति (कौसू-२.७[१६].१८
{दुराहामीभ्य [८.८.२४cd]} इति सव्येनइङ्गिडम् अमित्रेभ्यो बाधके (कौसू-२.७[१६].१९
उत्तरतोअग्नेर् लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य {नीललोहितेनामून् [८.८.२४ए]} इति दक्षिणा प्रहापयति (कौसू-२.७[१६].२०
{ये बाहव् [११.९]} {उत् तिष्ठत [११.१०]} इति यथालिङ्गं संप्रेष्यति (कौसू-२.७[१६].२१
होमार्थे पृषदाज्यम् (कौसू-२.७[१६].२२
प्रदानान्तानि वाप्यानि (कौसू-२.७[१६].२३
वाप्यैस् त्रिषन्धीनि वज्ररूपाण्य् अर्बुदिरूपाणि (कौसू-२.७[१६].२४
शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियायउपसङ्गदण्डे बध्नाति (कौसू-२.७[१६].२५
द्वितीयाम् अस्यति (कौसू-२.७[१६].२६
{अस्मिन् वसु [१.९]} इति राष्ट्रावगमनम् (कौसू-२.७[१६].२७
आनुशूकानां व्रीहीणाम् आव्रस्कजैः काम्पीलैः शृतं सारूपवत्सम् आशयति (कौसू-२.७[१६].२८
{अभीवर्तेन [१.२९]} इति रथनेमिमणिम् अयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीर् अभीवर्त्तोत्तमाभ्याम् आचृतति (कौसू-२.७[१६].२९
{अचिक्रदत् [३.३]} {आ त्वा गन् [३.४]} इति यस्माद् राष्ट्राद् अवरुद्धस् तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति (कौसू-२.७[१६].३०
ततो लोष्टेन ज्योतिर् आयतनं संस्तीर्य क्षीरौदनम् अश्नाति (कौसू-२.७[१६].३१
यतो लोष्टस् ततः संभाराः (कौसू-२.७[१६].३२
तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते (कौसू-२.७[१६].३३

{भूतो भूतेषु [४.८]} इति राजानम् अभिषेक्ष्यन् महानदे शान्त्युदकं करोत्य् आदिष्टानाम् (कौसू-२.८[१७].१
स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तम् अभिषिञ्चति (कौसू-२.८[१७].२
तल्पार्षभं चर्मारोहयति (कौसू-२.८[१७].३
उदपात्रं समासिञ्चेते (कौसू-२.८[१७].४
विपरिदधाने (कौसू-२.८[१७].५
सहैव नौ सुकृतं सह दुष्कृतम् इति ब्रह्मा ब्रूयात् (कौसू-२.८[१७].६
यो दुष्कृतं करवत् तस्य दुष्कृतं सुकृतं नौ सहेति (कौसू-२.८[१७].७
आशयति (कौसू-२.८[१७].८
अश्वम् आरोह्यापराजितां प्रतिपादयति (कौसू-२.८[१७].९
सहस्रं ग्रामवरो दक्षिणा (कौसू-२.८[१७].१०
विपरिधानान्तम् एकराजेन व्याख्यातम् (कौसू-२.८[१७].११
तल्पे दर्भेष्व् अभिशिञ्चति (कौसू-२.८[१७].१२
वर्षीयसि वैयाघ्रं चर्मारोहयति (कौसू-२.८[१७].१३
चत्वारो राजपुत्रास् ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति (कौसू-२.८[१७].१४
दासः पादौ प्रक्षालयति (कौसू-२.८[१७].१५
महाशूद्र उपसिञ्चति (कौसू-२.८[१७].१६
कृतसंपन्नान् अक्षान् आ तृतीयं विचिनोति (कौसू-२.८[१७].१७
वैश्यः सर्वस्वजैनम् उपतिष्ठतेउत्सृजायुष्मन्न् इति (कौसू-२.८[१७].१८
उत्सृजामि ब्राह्मणायउत्सृजामि क्षत्रियायउत्सृजामि वैश्याय धर्मो मे जनपदे चर्यताम् इति (कौसू-२.८[१७].१९
प्रतिपद्यते (कौसू-२.८[१७].२०
आशयति (कौसू-२.८[१७].२१
अश्वम् आरोह्यापराजितां प्रतिपादयति (कौसू-२.८[१७].२२
सभाम् उदायाति (कौसू-२.८[१७].२३
मधुमिश्रं ब्राह्मणान् भोजयति (कौसू-२.८[१७].२४
रसान् आशयति (कौसू-२.८[१७].२५
माहिषाण्य् उपयाति (कौसू-२.८[१७].२६
कुर्युर् गाम् इति गार्ग्यपार्थश्रवसौ नेति भागलिः (कौसू-२.८[१७].२७
{इमम् इन्द्र वर्धय क्षत्रियं मे [४.२२]} इति क्षत्रियं प्रातःप्रातर् अभिमन्त्रयते (कौसू-२.८[१७].२८
उक्तं समासेचनं विपरिधानम् (कौसू-२.८[१७].२९
{सविता प्रसवानाम् [५.२४]} इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय (कौसू-२.८[१७].३०
{इन्द्र क्षत्रम् [७.८४.२]} इति क्षत्रियम् उपनयीत (कौसू-२.८[१७].३१
तद् आहुर् न क्षत्रियं सावित्रीं वाचयेद् इति (कौसू-२.८[१७].३२
कथं नु तम् उपनयीत यन् न वाचयेद् (कौसू-२.८[१७].३३
वाचयेद् एव वाचयेद् एव (कौसू-२.८[१७].३४

इति अथर्ववेदे कौशिकसूत्रे द्वितीयो ऽध्यायः समाप्तः