चतुर्थं मिथ्यात्वम्

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

प्र.- स्पष्टीकुरुत-स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम्।
द्वितीयमिथ्यात्वलक्षणमेवं कृतम्- प्रतिपन्नोपाधौ त्रैकालिकनिषेध-प्रतियोगित्वम्। तत: वैलक्षण्यम् अस्मिन् लक्षणे दर्शनीयम्।अत: स्वात्यन्ताभावाधिकरणे एव प्रतीयमानत्वमिति उक्तम्।
आक्षेप:- भूतले घट: संयोगसम्बन्धेन विद्यते।तत्रैव घटाभाव: न शक्य:।
समा.-शक्य:।काले कालिकसम्बन्धेन घटोऽपि वर्तते, घटाभावोऽपि वर्तते।तथैव देशे किमर्थं न स्यात्?
आक्षेप:- कपाले समवायेन घटो वर्तते।तत्रैव घटस्य अत्यन्ताभाव: न शक्य:।
समा.-शक्य:। यथा पूर्वमुक्तम्।
आक्षेप:- तर्हि कपालं घटस्योपादानमेव न स्यात्।
समा.- कपाले घटस्य प्रागभाव: अस्ति अत: कपालं घटस्योपादानं स्यात्।
आक्षेप:- नैतद् युक्तियुक्तम्।प्रागभावात्यन्ताभावौ एकत्र न भवत:।घटप्रागभाव: घटात्यन्ताभावानधिकरण:,घटप्रागभावविरोधित्वात् प्रतियोगिघटवत्।यत: यस्य यदा यत्र अत्यन्ताभाव: तस्य तदा तत्र न प्रागभाव: इति नियम: वर्तते।तस्मात् कपाले घटस्य प्रागभाव: अस्ति चेत् अत्यन्ताभाव: न स्यात्।तत: च मिथ्यात्वलक्षणम् अव्याप्तम्।
कपाले घटस्य अत्यन्ताभाव: अस्ति चेत् प्रागभाव: न स्यात्।तत: च घटस्य उपादानत्वं कपाले बाधितं स्यात्।
समा.- नायं नियम:।इदानीं काले घटोऽस्ति।इदानीं भूतले घटो नास्ति।इति कालिकसम्बन्धेन घटप्रागभावात्यन्ताभावयो:सामानाधिकरण्यं दृश्यते।अत: उपरितने अनुमाने हेतु: सव्यभिचार:।
आक्षेप:- इदानीं घटप्रागभाव: इदानीं घटात्यन्ताभाव: इति प्रतीति: विद्यते अत: अनन्यगत्या काले उभयो: सामानाधिकरण्यमङ्गीकृतम्।न तथा प्रपञ्च-तदभावयो: रजत-तदभावयो: वा सामानाधिकरण्यमङ्गीकर्तुं किमपि प्रमाणं अस्ति।
समा.- अस्ति प्रमाणद्वयम्- श्रुति: अनुमानं च।
१ श्रुति: - नेह नानास्ति किञ्चन
२ अनुमानम्- विमतं मिथ्या, दृश्यत्वात्
एताभ्यां प्रमाणाभ्यां प्रागभावात्यन्ताभावयोर्देशिकं सामानाधिकरण्यम् अङ्गीकर्तव्यम्। समसत्ताकयो: भावाभावयो: सामानाधिकरण्यं न स्यात्, विषमसत्ताकयो: तु भविष्यति। आक्षेप:- शशशृङ्गम् इति शब्दे श्रुते शशशृङ्गाख्यस्य पदार्थस्य प्रतीति: भवति।
अत्यन्तासदपि ज्ञानमर्थे शब्दं करोति हि।- कुमारिलभट्ट: (तन्त्रवार्तिकम्।)
अत: शृङ्गस्य अत्यन्ताभाव: शशे।तत्र तस्य प्रतीति: भवति इति शशशृङ्गे मिथ्यात्वलक्षणम् अतिव्याप्तम्।सिद्धान्तमते शशशृङ्गं तुच्छं (अत्यन्तमसत्), न तु मिथ्या।
समा.- स्वात्यन्ताभावाधिकरणे प्रतीयमानत्वमित्यत्र ‘सत्त्वेन प्रतीयमानत्वं’ विवक्षितम्। शशशृङ्गं सत्त्वेन न प्रतीयते अत: अतिव्याप्ति: नास्ति।
आक्षेप:- ‘असदेव सोम्येदमग्र आसीत्’ इति श्रुत्या असत: अपि प्रतीति: सत्त्वेन भवति इति ज्ञायते। तथैव असत: शशशृङ्गस्य सत्त्वेन प्रतीति: कथं न स्यात्? स्यादेव। अत: अतिव्याप्ति:न निवारिता।
समा.- असदेवेदमग्र आसीत् इत्यत्र ‘असद् आसीत्’ इत्यर्थो नाभिप्रेत:।तथा अर्थ: कृत: चेत् स: विरुद्ध: भवति।अत: अस्या: श्रुते: तात्पर्यं असत: सत्त्वकथने नास्ति। एतत् शङ्काप्रतिपादकं वाक्यमस्ति।अत: शशशृङ्गे सत्त्वेन प्रतीयमानत्वं नास्ति।तस्मादतिव्याप्ति: नास्ति।

अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह:
"http://sa.wikibooks.org/w/index.php?title=चतुर्थं_मिथ्यात्वम्&oldid=5244" इत्यस्माद् पुनः प्राप्तिः