चरकसंहिता चिकित्सास्थान

विकिपुस्तकानि तः

चरकसंहिता, चिकित्सास्थान, १ (रसायनाध्याय)[सम्पाद्यताम्]

अथातो ऽभयामलकीयं रसायनपादं व्याख्यास्यामः ।। चसं-६,१.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,१.२ ।।

आयुर्वेददीपिका
(

पूर्वस्थानोक्तलक्षणाभावेनावधारितायुष्मद्भावेन चिकित्सा धर्मार्थयशस्करी कर्तव्येत्यनन्तरं चिकित्साभिधायकं स्थानम् उच्यते ।। १ ।।

रसायनवाजीकरणसाधनमपि यथा चिकित्सोच्यते तथानन्तरम् एव वक्ष्यति ।। २ ।।

तत्रापि ज्वरादिचिकित्सायाः प्राग्रसायनवाजीकरणयोर् महाफलत्वेनादाव् अभिधानम् ।। ३ ।।

तयोरपि च रसायनमेव वर्षसहस्रायुष्ट्वादिकारणतया महाफलम् इति तद् अभिधीयते तत्रापि चाभयामलकीयश् चिकित्सास्थानार्थसूत्राभिधायकतयाग्रे ऽभिधीयते ।। ४ ।।
)

चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ।। चसं-६,१.३ ।।

।।

आयुर्वेददीपिका
(

तत्रादौ व्यवहारार्थं स्थानाभिधेयस्य भेषजस्य पर्यायानाह चिकित्सितम् इत्यादि ।। १ ।।

करोति चैवमादौ प्रधानाभिधेयपर्यायाभिधानं यथानिदाने हेतुरूपादिपर्यायकथनम् ।। २ ।।

एतच्च पर्यायाभिधानं प्राधान्येन चतुष्पादस्यैव भेषजस्य यदुक्तं चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते इति ।। ३ ।।

एवंभूतभेषजाङ्गरूपतया तु स्थावरजङ्गमद्रव्यरूपस्य भेषजस्य भेषजत्वमेवान्तरव्यवहारकृतं ज्ञेयम् ।। ४ ।।

प्रायश्चित्तम् इति भेषजसंज्ञा प्रायश्चित्तवद् भेषजस्याधर्मकार्यव्याधिहरत्वेन ।। ५ ।।
)

विद्याद् भेषजनामानि भेषजं द्विविधं च तत् ।
स्वस्थस्योर्जस्करं किंचित् किंचिदार्तस्य रोगनुत् ।। चसं-६,१.४ ।।

आयुर्वेददीपिका
(

द्वैविध्यं विवृणोति स्वस्थस्येत्यादि ।। १ ।।

किंचिदिति न सर्वम् ।। २ ।।

स्वस्थत्वेन व्यवह्रियमाणस्य पुंसो जरादिस्वाभाविकव्याधिहरत्वेन तथाप्रहर्षव्ययायक्षयित्वानुचितशुक्रत्वाद्यप्रशस्तशारीरभावहरत्वेन ऊर्जः प्रशस्तं भावम् आदधातीति स्वस्थस्योर्जस्करम् ।। ३ ।।

आर्तस्य रोगनुदिति विशेषणेन ज्वरादिनार्तस्य ज्वरादिहरम् ।। ४ ।।

रोगनुद् इति वचनेनैवार्तविशेषितायां लब्धायां यद् आर्तस्य इति करोति तेन सहजजरादिकृतां पीडाम् अनुद्वेजिकां परित्यज्य ज्वरादिनास्वाभाविकेन रोगेण पीडितस्येति दर्शयति ।। ५ ।।
)

अभेषजं च द्विविधं बाधनं सानुबाधनम् ।

आयुर्वेददीपिका
(

भेषजप्रसङ्गाद् अभेषजद्वैविध्यम् आह अभेषजम् इत्यादि ।। १ ।।

बाधनम् इह तदात्वमात्रबाधकं यथास्वल्पम् अपथ्यम् ।। २ ।।

सानुबाधनं च दीर्घकालावस्थायिकुष्ठादिविकारकारि ।। ३ ।।
)

स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम् ।। चसं-६,१.५ ।।

प्रायः प्रायेण रोगाणां द्वितीयं प्रशमे मतम् ।
प्रायःशब्दो विशेषार्थो ह्य् उभयं ह्य् उभयार्थकृत् ।। चसं-६,१.६ ।।

आयुर्वेददीपिका
(

द्विविधं भेषजमुक्तं विभजते स्वस्थस्येत्यादि ।। १ ।।

तद्वृष्यं तद्रसायनं प्राय इति छेदः ।। २ ।।

यद्वृष्यं प्रायो भवति तथा रसायनं यत् प्रायो भवति आर्तस्य रोगहरं यद्बाहुल्येन तत् स्वस्थोर्जस्करम् उच्यते यत्तु द्वितीयम् आर्तरोगहरं तत् प्रायेण ज्वरादिशमनं रसायनं वाजीकरणं च भवति यथाक्षतक्षीणोक्तं सर्पिर्गुडादि रसायनं वृष्यं च भवति तथा पाण्डुरोगोक्तो योगराजो रसायनत्वेनोक्तः तथा कासाधिकारे ऽगस्त्यहरीतकी रसायनत्वेनोक्तेत्याद्य् अनुसरणीयम् ।। ३ ।।

रसायनोक्तानां च ज्वरादिहरत्वम् अत्र सुव्यक्तमेव रसायनग्रन्थेषु ।। ४ ।।

अन्ये तु ब्रुवते यद् व्याधिमात्रहरं न तद् रसायनं किंतु शरीरसंयोगदार्ढ्याद् दीर्घायुःकर्तृत्वसाधारणधर्मयोगाद् उपचरितव्याधिहरं रसायनम् इहोच्यत इति ।। ५ ।।

ननु यदि स्वस्थोर्जस्करमपि व्याधिहरं व्याधिहरं च स्वस्थोर्जस्करं तत्किं किंचिदिति पदेन भेषजकर्मव्यवस्थादर्शकेन क्रियते ब्रूमः बाहुल्येन स्वस्थोर्जस्करत्वं व्याधिहरत्वं च व्यवस्थाप्यते न चेह सर्वार्तरोगहरस्य स्वस्थोर्जस्करत्वमिति प्रतिज्ञायते येन पाठासप्तपर्णादीनाम् अपि रसायनत्वं साधनीयशक्तित्वाद् आर्तरोगहरत्वेन यदुच्यते तदपि रसायनं वाजीकरणं च भवतीति लवमात्रोपदर्शनं क्रियते तत् स्वस्थार्तयोर् उभयार्थकर्तृत्वम् ।। ६ ।।

प्रायःशब्दतात्पर्यं विवृणोति प्राय इत्यादि ।। ७ ।।

विशेषार्थम् इति बाहुल्यार्थम् इत्यर्थः ।। ८ ।।
)

दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः ।
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलं परम् ।। चसं-६,१.७ ।।

वाक्सिद्धिं प्रणतिं कान्तिं लभते ना रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ।। चसं-६,१.८ ।।

आयुर्वेददीपिका
(

रसायनकार्यम् आह दीर्घम् इत्यादि ।। १ ।।

प्रभादीनां त्रयाणाम् औदर्यं योजनीयम् ।। २ ।।

वाक्सिद्धिः यद् उच्यते तद् अवश्यं भवतीत्यर्थः ।। ३ ।।

प्रणतिः लोकवन्द्यता ।। ४ ।।

कथम् एतद् रसायनेन क्रियत इत्याह लाभेत्यादि रसादिग्रहणेन स्मृत्यादयो ऽपि गृह्यन्ते ।। ५ ।।
)

अपत्यसंतानकरं यत् सद्यः सम्प्रहर्षणम् ।
वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियः ।। चसं-६,१.९ ।।

भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते ।
जीर्यतो ऽप्यक्षयं शुक्रं फलवद्येन दृश्यते ।। चसं-६,१.१० ।।

प्रभूतशाखः शाखीव येन चैत्यो यथा महान् ।
भवत्यर्च्यो बहुमतः प्रजानां सुबहुप्रजः ।। चसं-६,१.११ ।।

संतानमूलं येनेह प्रेत्य चानन्त्यमश्नुते ।
यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ।। चसं-६,१.१२ ।।

आयुर्वेददीपिका
(

वाजीकरणकार्यम् आहापत्येत्यादि ।। १ ।।

अपत्यसंतानः अपत्यपरम्परा तेन पुत्रपौत्रकरम् इत्यर्थः वाजीकरणजनिताच्छुक्राज् जातः पुत्रः पुत्रजननसमर्थो भवतीत्यर्थः ।। २ ।।

अतिप्रियत्वं चेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात् यद् उच्यते ।
विरूपम् अपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः ।
व्यवायव्यायतं मूर्खं धृष्टं पतिमिव स्त्रियः ।। ३ ।।

इति ।। ४ ।।

उपचीयत इति पुष्टिं प्राप्नोति ।। ५ ।।

अक्षयम् इवाक्षयम् ।। ६ ।।

फलवद् इति गर्भजनकम् ।। ७ ।।

चैत्यो देवतायतनम् ।। ८ ।।

अर्च्यः अर्चनीयः ।। ९ ।।

आनन्त्यमिवानन्त्यं दीर्घसंतानताम् इत्यर्थः ।। १० ।।
)

स्वस्थस्योर्जस्करं त्व् एतद् द्विविधं प्रोक्तम् औषधम् ।
यद्व्याधिनिर्घातकरं वक्ष्यते तच्चिकित्सिते ।। चसं-६,१.१३ ।।

चिकित्सितार्थ एतावान् विकाराणां यदौषधम् ।
रसायनविधिश्चाग्रे वाजीकरणमेव च ।। चसं-६,१.१४ ।।

आयुर्वेददीपिका
(

चिकित्सित इति ज्वरादिचिकित्सिते ।। १ ।।

ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एव तत् किं विशिष्योच्यते वक्ष्यते तच्चिकित्सिते इत्याह चिकित्सितार्थ इत्यादि ।। २ ।।

सत्यं रसायनं वाजीकरणं च ज्वरादिव्याधिहरत्वाच् चिकित्सितशब्देनोच्यत इत्यर्थः ।। ३ ।।

अथ व्याधिहरत्वाच्चिकित्सिते वक्तव्यत्वाच्च रसायनवाजीकरणे क्व नु वक्तव्ये इत्याह रसायनेत्यादि ।। ४ ।।

विधिः विधानं रसायनाभिधानम् इत्यर्थः ।। ५ ।।

अग्रे इति अनन्तरम् ।। ६ ।।

वाजीकरणं चाग्रे अभिधास्यते इति शेषः ।। ७ ।।
)

अभेषजमिति ज्ञेयं विपरीतं यदौषधात् ।
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम् ।। चसं-६,१.१५ ।।

आयुर्वेददीपिका
(

अभेषजमपि पूर्वोद्दिष्टं विवृणोत्यभेषजमित्यादि ।। १ ।।

विपरीतं रोगजननलक्षणार्थकारि ।। २ ।।
)

रसायनानां द्विविधं प्रयोगमृषयो विदुः ।
कुटीप्रावेशिकं चैव वातातपिकमेव च ।। चसं-६,१.१६ ।।

कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते ।
नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ।। चसं-६,१.१७ ।।

निवासे निर्भये शस्ते प्राप्योपकरणे पुरे ।
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत्कुटीम् ।। चसं-६,१.१८ ।।

विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम् ।
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम् ।। चसं-६,१.१९ ।।

शब्दादीनाम् अशस्तानाम् अगम्यां स्त्रीविवर्जिताम् ।
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम् ।। चसं-६,१.२० ।।

अथोदगयने शुक्ले तिथिनक्षत्रपूजिते ।
मुहूर्तकरणोपेते प्रशस्ते कृतवापनः ।। चसं-६,१.२१ ।।

धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः ।
विधूय मानसान्दोषान् मैत्रीं भूतेषु चिन्तयन् ।। चसं-६,१.२२ ।।

देवताः पूजयित्वाग्रे द्विजातींश्च प्रदक्षिणम् ।
देवगोब्राह्मणान् कृत्वा ततस् तां प्रविशेत् कुटीम् ।। चसं-६,१.२३ ।।

तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः ।
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामि शोधनम् ।। चसं-६,१.२४ ।।

आयुर्वेददीपिका
(

कुटीप्रवेशेन यत् क्रियते तत् कुटीप्रावेशिकम् ।। १ ।।

वातातपसेवयापि यत् क्रियते तद् वातातपिकम् ।। २ ।।

त्रिगर्भां प्रथममेकं गृहं तस्याभ्यन्तरे द्वितीयम् एवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा त्रिगर्भामिति अन्तस् त्रिप्रकोष्ठाम् ।। ३ ।।

सूक्ष्मलोचनामिति अल्पद्वारजालकाम् ।। ४ ।।

शुक्ले शुक्लपक्षे ।। ५ ।।

सज्जा वैद्यादयो यस्यां सा तथा ।। ६ ।।

तिथिनक्षत्रपूजित इति शुभतिथिनक्षत्रयोगात् पूजिते ।। ७ ।।

कृतवापन इति कृतक्षौरः ।। ८ ।।

मानसान् दोषानिति कामक्रोधादीन् ।। ९ ।।

संशोधनैर् इति वमनविरेचनास्थापनशिरोविरेचनैः ।। १० ।।

सुखीति अरोगः ।। ११ ।।

जातबल इति संशोधनापहृतमलतया संसर्जनादिक्रमेण पुनर् जातबलः ।। १२ ।।

यद्यपीह संशोधनैर् इति बहुवचनप्रयोगात् सर्वाण्येव संशोधनानि संमतानि तथापीह रसायने विशेषेण यौगिकत्वाद्धरीतक्यादिप्रयोग एवोक्तः अन्ये तु हरीतक्यादिप्रयोगेणैव परं संशोधनं कर्तव्यम् इत्याहुः संशोधनैर् इति बहुवचनं पुनर् यावच्छुद्धेर् हरीतक्यादिप्रयोगस्यैव करणं दर्शयति ।। १३ ।।
)

हरीतकीनां चूर्णानि सैन्धवामलके गुडम् ।
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम् ।। चसं-६,१.२५ ।।

पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोपपादितः ।
तेन शुद्धशरीराय कृतसंसर्जनाय च ।। चसं-६,१.२६ ।।

त्रिरात्रं यावकं दद्यात् पञ्चाहं वापि सर्पिषा ।
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः ।। चसं-६,१.२७ ।।

शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत् ।
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत् ।। चसं-६,१.२८ ।।

आयुर्वेददीपिका
(

यावकमिति यवान्नम् ।। १ ।।

त्रिरात्रादिविकल्पत्रयं हीनमध्योत्तमशुद्धिविषयम् ।। २ ।।
)

हरीतकीं पञ्चरसामुष्णामलवणां शिवाम् ।
दोषानुलोमनीं लघ्वीं विद्याद्दीपनपाचनीम् ।। चसं-६,१.२९ ।।

आयुष्यां पौष्टिकीं धन्यां वयसः स्थापनीं पराम् ।
सर्वरोगप्रशमनीं बुद्धीन्द्रियबलप्रदाम् ।। चसं-६,१.३० ।।

कुष्ठं गुल्ममुदावर्तं शोषं पाण्ड्वामयं मदम् ।
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम् ।। चसं-६,१.३१ ।।

हृद्रोगं सशिरोरोगमतीसारमरोचकम् ।
कासं प्रमेहमानाहं प्लीहानम् उदरं नवम् ।। चसं-६,१.३२ ।।

कफप्रसेकं वैस्वर्यं वैवर्ण्यं कामलां क्रिमीन् ।
श्वयथुं तमकं छर्दिं क्लैब्यमङ्गावसादनम् ।। चसं-६,१.३३ ।।

स्रोतोविबन्धान् विविधान् प्रलेपं हृदयोरसोः ।
स्मृतिबुद्धिप्रमोहं च जयेच्छीघ्रं हरीतकी ।। चसं-६,१.३४ ।।

अजीर्णिनो रूक्षभुजः स्त्रीमद्यविषकर्शिताः ।
सेवेरन् नाभयाम् एते क्षुत्तृष्णोष्णार्दिताश् च ये ।। चसं-६,१.३५ ।।

तान् गुणांस्तानि कर्माणि विद्यादामलकीष्वपि ।
यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः ।। चसं-६,१.३६ ।।

अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः ।
हरीतकीनां शस्यानि भिषगामलकस्य च ।। चसं-६,१.३७ ।।

आयुर्वेददीपिका
(

यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कररसायनाधिकृतानि सन्ति तथापि हरीतक्यामलके एव रोगहरत्वायुष्करत्वरूपोभयधर्मयोगाद् अध्यायादौ गुणकर्मभ्यामुच्येते तत्रापि यद्यपि आमलकं वयःस्थापनानाम् इत्युक्तं तथापि रोगहरत्वे हरीतकी प्रकर्षवतीति कृत्वा हरीतक्य् अग्रे ऽभिहिता ।। १ ।।

हरीतक्यादिषु पञ्चरसत्वाद्युत्पादो ऽदृष्टवशाद् भूतसंनिवेशविशेषप्रभावकृतः तेन नात्रोपपत्तयः क्रमन्ते ।। २ ।।

शिवामिति कल्याणकरिणीं प्रशस्तगुणयुक्तत्वात् ।। ३ ।।

सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना ।। ४ ।।

सर्वरोगहरत्वम् अभिधायापि कुष्ठादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम् ।। ५ ।।

प्रवर्तकत्वे ऽप्यतीसारग्रहणीहरत्वं विबद्धदोषप्रवर्तकतया ज्ञेयं यदुक्तं स्तोकं स्तोकं विबद्धं वा सशूलं यो ऽतिसार्येते ।। ६ ।।

अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेद् इति ।। ७ ।।

बुद्धिस्मृतिप्रदत्वमभिधायापि स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम् ।। ८ ।।

वीर्यस्य तु विपर्यय इत्यनेनामलकस्य शीतवीर्यत्वम् उक्तम् ।। ९ ।।

शस्यानीति अस्थिरहितानि फलानि ।। १० ।।
)

ओषधीनां परा भूमिर् हिमवाञ्शैलसत्तमः ।
तस्मात्फलानि तज्जानि ग्राहयेत्कालजानि तु ।। चसं-६,१.३८ ।।

आपूर्णरसवीर्याणि काले काले यथाविधि ।
आदित्यपवनच्छायासलिलप्रीणितानि च ।। चसं-६,१.३९ ।।

यान्य् अजग्धान्य् अपूतीनि निर्व्रणान्यगदानि च ।
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ।। चसं-६,१.४० ।।

आयुर्वेददीपिका
(

यद्यपि हिमवान् औषधभूमीनाम् इत्युक्तं तथापि रसायने हिमवत्प्रभवाण्येव भेषजानि ग्राह्याणीति दर्शयितुम् औषधीनाम् इत्याहाभिधानम् ।। १ ।।

काले काले इति फलपाककाले इत्यर्थः ।। २ ।।

यथाविधीति यथा भेषजग्रहणं मङ्गलदेवतार्चनादिपूर्वकं स्यात् तथावश्यं रसायने कर्तव्यम् ।। ३ ।।

अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति ।। ४ ।।
)

पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् ।
हरीतकीसहस्रं च त्रिगुणामलकं नवम् ।। चसं-६,१.४१ ।।

विदारिगन्धां बृहतीं पृश्निपर्णीं निदिग्धिकाम् ।
विद्याद्विदारिगन्धाद्यं श्वदंष्ट्रापञ्चमं गणम् ।। चसं-६,१.४२ ।।

बिल्वाग्निमन्थश्योनाकं काश्मर्यमथ पाटलाम् ।
पुनर्नवां शूर्पपर्ण्यौ बलाम् एरण्डमेव च ।। चसं-६,१.४३ ।।

जीवकर्षभकौ मेदां जीवन्तीं सशतावरीम् ।
शरेक्षुदर्भकाशानां शालीनां मूलमेव च ।। चसं-६,१.४४ ।।

इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् ।
भागान् यथोक्तांस्तत्सर्वं साध्यं दशगुणे ऽम्भसि ।। चसं-६,१.४५ ।।

दशभागावशेषं तु पूतं तं ग्राहयेद्रसम् ।
हरीतकीश्च ताः सर्वाः सर्वाण्यामलकानि च ।। चसं-६,१.४६ ।।

तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः ।
विनीय तस्मिन्निर्यूहे चूर्णानीमानि दापयेत् ।। चसं-६,१.४७ ।।

मण्डूकपर्ण्याः पिप्पल्याः शङ्खपुष्प्याः प्लवस्य च ।
मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ।। चसं-६,१.४८ ।।

मधुकस्य हरिद्राया वचायाः कनकस्य च ।
भागांश् चतुष्पलान् कृत्वा सूक्ष्मैलायास् त्वचस् तथा ।। चसं-६,१.४९ ।।

सितोपलासहस्रं च चूर्णितं तुलयाधिकम् ।
तैलस्य ह्य् आढकं तत्र दद्यात् त्रीणि च सर्पिषः ।। चसं-६,१.५० ।।

साध्यमौदुम्बरे पात्रे तत् सर्वं मृदुनाग्निना ।
ज्ञात्वा लेह्यमदग्धं च शीतं क्षौद्रेण संसृजेत् ।। चसं-६,१.५१ ।।

क्षौद्रप्रमाणं स्नेहार्धं तत्सर्वं घृतभाजने ।
तिष्ठेत् संमूर्छितं तस्य मात्रां काले प्रयोजयेत् ।। चसं-६,१.५२ ।।

या नोपरुन्ध्यादाहारमेकं मात्रा जरां प्रति ।
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ।। चसं-६,१.५३ ।।

वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः ।
रसायनमिदं प्राश्य बभूवुर् अमितायुषः ।। चसं-६,१.५४ ।।

मुक्त्वा जीर्णं वपुश्चाग्र्यमवापुस्तरुणं वयः ।
वीततन्द्राक्लमश्वासा निरातङ्काः समाहिताः ।। चसं-६,१.५५ ।।

मेधास्मृतिबलोपेताश् चिररात्रं तपोधनाः ।
ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ।। चसं-६,१.५६ ।।

रसायनमिदं ब्राह्ममायुष्कामः प्रयोजयेत् ।
दीर्घम् आयुर् वयश् चाग्र्यं कामांश्चेष्टान् समश्नुते ।। चसं-६,१.५७ ।।

आयुर्वेददीपिका
(

पञ्चानाम् इत्यादौ प्रतिद्रव्यं दशपलभागग्रहणम् उक्तं हि जातूकर्णे इति पञ्च पञ्चमूलानि तेषां प्रतिद्रव्यं दशपलानि इति ।। १ ।।

हरीतकीसहस्रमिति हरीतकीफलसहस्रम् ।। २ ।।

शूर्पपर्ण्यौ मुद्गमाषपर्ण्यौ ।। ३ ।।

वीरा जालंधरं शाकम् ।। ४ ।।

कूर्चनं जर्जरीकरणसाधनं शिलापुत्रकमुसलादि ।। ५ ।।

विनीयेति प्रक्षिप्य ।। ६ ।।

प्लवः कैवर्तमुस्तकम् ।। ७ ।।

कनकं नागकेशरम् ।। ८ ।।

त्वग् गुडत्वक् ।। ९ ।।

औदुम्बरे इति ताम्रमये ।। १० ।।

स्नेहार्धमिति सर्पिस्तैलार्धम् ।। ११ ।।

एकम् अनपराह्णिकम् आहारम् ।। १२ ।।
)

यथोक्तगुणानाम् आमलकानां सहस्रं पिष्टस्वेदनविधिना पयस ऊष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत् ।
तदामलकसहस्रस्वरसपरिपीतं स्थिरापुनर्नवाजीवन्तीनागबलाब्रह्मसुवर्चलामण्डूकपर्णीशतावरीशङ्खपुष्पीपिप्पलीवचाविडङ्गस्वयङ्गुप्तामृता चन्दनागुरुमधुकमधूकपुष्पोत्पलपद्ममालतीयुवतीयूथिकाचूर्णाष्टभागसंयुक्तं पुनर् नागबलासहस्रपलस्वरसपरिपीतम् अनातपशुष्कं द्विगुणितसर्पिषा क्षौद्रसर्पिषा वा क्षुद्रगुडाकृतिं कृत्वा शुचौ दृढे घृतभाविते कुम्भे भस्मराशेर् अधः स्थापयेद् अन्तर्भूमेः पक्षं कृतरक्षाविधानम् अथर्ववेदविदा पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायसचूर्णाष्टभागसंयुक्तम् अर्धकर्षवृद्ध्या यथोक्तेन विधिना प्रातः प्रातः प्रयुञ्जानो ऽग्निबलम् अभिसमीक्ष्य जीर्णे च षष्टिकं पयसा ससर्पिष्कम् उपसेवमानो यथोक्तान् गुणान् समश्नुत इति ।। चसं-६,१.५८ ।।

इदं रसायनं ब्राह्मं महर्षिगणसेवितम् ।
भवत्यरोगो दीर्घायुः प्रयुञ्जानो महाबलः ।। चसं-६,१.५९ ।।

कान्तः प्रजानां सिद्धार्थश् चन्द्रादित्यसमद्युतिः ।
श्रुतं धारयते सत्त्वमार्षं चास्य प्रवर्तते ।। चसं-६,१.६० ।।

धरणीधरसारश्च वायुना समविक्रमः ।
स भवत्यविषं चास्य गात्रे संपद्यते विषम् ।। चसं-६,१.६१ ।।

आयुर्वेददीपिका
(

पिष्टस्वेदनविधिनेति यथा पिष्टकं तोयपरिपूरितपात्रोपरिदत्ततृणादिसंस्थितं स्वेद्यते तथा तत् स्वेदनीयम् इत्यर्थः ।। १ ।।

स्वरसपरिपीतमिति स्वरसभावितम् ।। २ ।।

ब्रह्मसुवर्चलाद्यौषधान्य् आयुर्वेदसमुत्थानीये वक्ष्यमाणानि ।। ३ ।।

युवतिः नवमालिका ।। ४ ।।

अष्टमो भागो ऽष्टभागः ।। ५ ।।

क्षुद्रगुडाकृतिम् इति फाणिताकृतिम् ।। ६ ।।

अर्धकर्षवृद्ध्येति अर्धकर्षात्प्रभृति वर्धयेत् ।। ७ ।।

यथोक्तविधिनेति कुटीप्रावेशिकेन विधिना ।। ८ ।।

यथोक्तान् गुणानिति पूर्वप्रयोगफलश्रुतिपठितान् ।। ९ ।।

धरणीधरसार इति उष्ट्रमुखवत् तेन धरणीधराः पर्वतास् तेषां सारो लौहं तद्वत्सार इत्यर्थः ।। १० ।।

अविषमिति विषम् अविकारि ।। ११ ।।
)

बिल्वो ऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला ।
पर्ण्यश् चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ।। चसं-६,१.६२ ।।

शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ।
अभया चामृता ऋद्धिर् जीवकर्षभकौ शटी ।। चसं-६,१.६३ ।।

मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् ।
विदारी वृषमूलानि काकोली काकनासिका ।। चसं-६,१.६४ ।।

एषां पलोन्मितान् भागाञ्शतान्य् आमलकस्य च ।
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ।। चसं-६,१.६५ ।।

ज्ञात्वा गतरसान्येतान्य् औषधान्यथ तं रसम् ।
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ।। चसं-६,१.६६ ।।

पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् ।
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ।। चसं-६,१.६७ ।।

षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ।
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ।। चसं-६,१.६८ ।।

पलमेकं निदध्याच्च त्वगेलापत्त्रकेसरात् ।
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ।। चसं-६,१.६९ ।।

कासश्वासहरश् चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ।। चसं-६,१.७० ।।

स्वरक्षयम् उरोरोगं हृद्रोगं वातशोणितम् ।
पिपासां शुक्रस्थान् दोषांश्चाप्यपकर्षति ।। चसं-६,१.७१ ।।

अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् ।
अस्य प्रयोगाच् च्यवनः सुवृद्धोऽभूत्पुनर्युवा ।। चसं-६,१.७२ ।।

मेधां स्मृतिं कान्तिमनामयत्वम् आयुःप्रकर्षं बलमिन्द्रियाणाम् ।
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ।। चसं-६,१.७३ ।।

रसायनस्यास्य नरः प्रयोगाल् लभेत जीर्णो ऽपि कुटीप्रवेशात् ।
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ।। चसं-६,१.७४ ।।

आयुर्वेददीपिका
(

पर्ण्यश् चतस्र इति शालपर्णी पृश्निपर्णी मुद्गपर्णी माषपर्णी च ।। १ ।।

तामलकी भूम्यामलकी ।। २ ।।

काकनासा नासाफला काकतुण्डक इत्यन्ये ।। ३ ।।

गतरसत्वमिह द्रव्याणां चतुर्भागस्थितजले भवति ।। ४ ।।

निष्कुलमिति निरस्थि ।। ५ ।।

तैलसर्पिषोरिति समासनिर्देशाद् उभाभ्यामेव द्वादशपलानि न पृथक् पृथक् ।। ६ ।।

मत्स्यण्डिका खण्डसंहतिः ।। ७ ।।

अत्र षट्पलत्वेन समयोरपि मधुसर्पिषोर् द्रव्यान्तरयुक्तत्वेनाविरुद्धत्वम् ।। ८ ।।
)

अथामलकहरीतकीनाम् आमलकविभीतकानां हरीतकीविभीतकानाम् आमलकहरीतकीविभीतकानां वा पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानाम् अकुलकानां पलसहस्रमुलूखले संपोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेद् अनन्नभुग् यथोक्तेन विधिना तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च अयंच रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलम् अभिसमीक्ष्य प्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः अतः परं यथासुखविहारः कामभक्ष्यः स्यात् ।
अनेन प्रयोगेणर्षयः पुनर् युवत्वम् अवापुर् बभूवुश् चानेकवर्षशतजीविनो निर्विकाराः परशरीरबुद्धीन्द्रियबलसमुदिताश् चेरुश् चात्यन्तनिष्ठया तपः ।। चसं-६,१.७५ ।।

आयुर्वेददीपिका
(

कुकूलकः करीषाग्निः ।। १ ।।

अकुलकानामिति अनस्थ्नाम् ।। २ ।।

द्रव्यादीनामत्र मानं नोक्तं तेन प्रधानस्य चूर्णस्य दध्यादिभिर् मिलितैः समानमानत्वं किंवा प्रत्येकमेव दध्यादीनां चूर्णसमत्वम् ।। ३ ।।

पललं तिलचूर्णम् ।। ४ ।।

भक्षयेदिति वचनं लेह्येऽपि अल्पाभ्यवहरणमात्रार्थत्वाद् उपपन्नम् ।। ५ ।।

अनन्नभुगिति सर्वथाहारान्तराभुक् ।। ६ ।।

तस्यान्त इति एतत्प्रयोगपरित्यागकाले ।। ७ ।।

प्रत्यवस्थापनमिति यवाग्वादिक्रमविशेषणं तेन प्रयोगान्ते यदा अन्नसंसर्जनं कर्तव्यं तदा यवाग्वादिक्रमेणेत्य् उक्तस्यार्थस्य प्रत्यवस्थापनं क्रियत इत्यर्थः ।। ८ ।।

यूषेण पयसा वेति विकल्पोऽग्निबलापेक्षया ।। ९ ।।
)

हरीतक्यामलकविभीतकपञ्चपञ्चमूलनिर्यूहे पिप्पलीमधुकमधूककाकोलीक्षीरकाकोल्यात्मगुप्ताजीवकर्षभकक्षीरशुक्लाकल्कसम्प्रयुक्तेन विदारीस्वरसेन क्षीराष्टगुणसम्प्रयुक्तेन च सर्पिषः कुम्भं साधयित्वा प्रयुञ्जानो ऽग्निबलसमां मात्रां जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् उष्णोदकानुपानम् अश्नञ्जराव्याधिपापाभिचारव्यपगतभयः शरीरेन्द्रियबुद्धिबलम् अतुलम् उपलभ्याप्रतिहतसर्वारम्भः परमायुर् अवाप्नुयात् ।। चसं-६,१.७६ ।।

आयुर्वेददीपिका
(

अत्र हरीतक्यादौ क्षीरशुक्ला क्षीरविदारिका ।। १ ।।

अत्र हरीतक्यादिक्वाथस्य त्व् एको भागः क्षीरस्याष्टौ भागाः सर्पिष एको भागः ।। २ ।।

कुम्भो द्रोणद्वयम् ।। ३ ।।

वचनं हि द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च इति ।। ४ ।।
)

हरीतक्यामलकविभीतकहरिद्रास्थिराबलाविडङ्गामृतवल्लीविश्वभेषजमधुकपिप्पलीसोमवल्कसिद्धेन क्षीरसर्पिषा मधुशर्कराभ्यामपि च संनीयामलकस्वरसशतपरिपीतम् आमलकचूर्णम् अयश्चूर्णचतुर्भागसम्प्रयुक्तं पाणितलमात्रं प्रातः प्रातः प्राश्य यथोक्तेन विधिना सायं मुद्गयूषेण पयसा वा ससर्पिष्कं शालिषष्टिकान्नम् अश्नीयात् त्रिवर्षप्रयोगादस्य वर्षशतम् अजरं वयस् तिष्ठति श्रुतम् अवतिष्ठते सर्वामयाः प्रशाम्यन्ति विषमविषं भवति गात्रे गात्रम् अश्मवत् स्थिरीभवति अधृष्यो भूतानां भवति ।। चसं-६,१.७७ ।।

यथामराणाम् अमृतं यथा भोगवतां सुधा ।
तथाभवन् महर्षीणां रसायनविधिः पुरा ।। चसं-६,१.७८ ।।

न जरां न च दौर्बल्यं नातुर्यं निधनं न च ।
जग्मुर्वर्षसहस्राणि रसायनपराः पुरा ।। चसं-६,१.७९ ।।

न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ।। चसं-६,१.८० ।।

आयुर्वेददीपिका
(

अमृतवल्ली गुडूची ।
सोमवल्कः विट्खदिरः ।
क्षीरसर्पिः क्षीरसमुत्थितसर्पिः ।
अयश्चूर्णस्य चतुर्थो भागः यत एतदयश्चूर्णं चतुर्थभागमत एकस्मिन् प्रयोगे जातूकर्णेन अयश्चूर्णपादयुक्तम् इति कृतम् ।
अमराणाममृतं जरादिहरं नागानां च सुधा जरामरणहरी इत्युभयोपादानं दृष्टान्ते ।
ब्रह्म मोक्षः ।
मोक्षसाधनत्वं चेह रसायनस्य विशुद्धसत्त्वकर्तृतयोच्यते ।। १ ।।
)

अभयामलकीये ऽस्मिन् षड् योगाः परिकीर्तिताः ।
रसायनानां सिद्धानाम् आयुर् यैर् अनुवर्तते ।। चसं-६,१.८१ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये ऽभयामलकीयो नाम रसायनपादः प्रथमः ।। चसं-६,१.८२ ।।

आयुर्वेददीपिका
(

अभयेत्यादिना संदेहनिरासार्थम् उक्तप्रयोगसंख्यां दर्शयति ।
एवमन्यत्रापि संख्याप्रणयनम् अन्ते ज्ञेयम् ।। १ ।।
)



चरकसंहिता, चिकित्सास्थान, २ (रसायनाध्याये द्वितीयः पादः)[सम्पाद्यताम्]

अथातः प्राणकामीयं रसायनपादं व्याख्यास्यामः ।। चसं-६,२.१ ।।

इति ह स्माह भगवान् आत्रेयः ।। चसं-६,२.२ ।।

आयुर्वेददीपिका
(

पूर्वपादे ह्य् आमलकरसायनान्युक्तानि इहाप्यामलकरसायनानि सन्तीति प्राणकामीयम् अनन्तरम् उच्यते ।। १ ।।

प्राणकामशब्दम् अधिकृत्य कृतम् इति प्राणकामीयम् ।। २ ।।
)

प्राणकामाः शुश्रूषध्वम् इदम् उच्यमानम् अमृतम् इवापरम् अदितिसुतहितकरम् अचिन्त्याद्भुतप्रभावम् आयुष्यम् आरोग्यकरं वयसः स्थापनं निद्रातन्द्राश्रमक्लमालस्यदौर्बल्यापहरम् अनिलकफपित्तसाम्यकरं स्थैर्यकरम् अबद्धमांसहरम् अन्तरग्निसंधुक्षणं प्रभावर्णस्वरोत्तमकरं रसायनविधानम् ।
अनेन च्यवनादयो महर्षयः पुनर्युवत्वम् आपुर् नारीणां चेष्टतमा बभूवुः स्थिरसमसुविभक्तमांसाः सुसंहतस्थिरशरीराः सुप्रसन्नबलवर्णेन्द्रियाः सर्वत्राप्रतिहतपराक्रमाः क्लेशसहाश् च ।
सर्वे शरीरदोषा भवन्ति ग्राम्याहाराद् अम्लत्वलवणकटुकक्षारशुक्रशाकमांसतिलपललपिष्टान्नभोजिनां विरूढनवशूकशमीधान्यविरुद्धासात्म्यरूक्षक्षाराभिष्यन्दिभोजिनां क्लिन्नगुरुपूतिपर्युषितभोजिनां विषमाध्यशनप्रायाणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामसंक्षोभितशरीराणां भयक्रोधशोकलोभमोहायासबहुलानाम् अतोनिमित्तं हि शिथिलीभवन्ति मांसानि विमुच्यन्ते संधयः विदह्यते रक्तं विष्यन्दते चानल्पं मेदः न संधीयते ऽस्थिषु मज्जा शुक्रं न प्रवर्तते क्षयमुपैत्योजः स एवंभूते ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितो निरुत्साहः श्वसिति असमर्थश्चेष्टानां शारीरमानसीनां नष्टस्मृतिबुद्धिच्छायो रोगाणाम् अधिष्ठानभूतो न सर्वमायुरवाप्नोति ।
तस्मादेतान्दोषानवेक्षमाणः सर्वान् यथोक्तान् अहितान् अपास्याहारविहारान् रसायनानि प्रयोक्तुमर्हतीत्युक्त्वा भगवान् पुनर्वसुर् आत्रेय उवाच ।। चसं-६,२.३ ।।

आयुर्वेददीपिका
(

निद्राहरत्वं रसायनस्य वैकारिकनिद्राहरत्वेन किंवा देववत्सर्वदा प्रबुद्धो निद्रारहितो भवति ।। १ ।।

तन्द्रालक्षणं तन्त्रान्तरे ।
इन्द्रियार्थेष्वसंवित्तिर् गौरवं जृम्भणं क्लमः ।
निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेत् इति ।। २ ।।

अबद्धमांसम् अनिबिडमांसम् ।। ३ ।।

उत्तमानि प्रभादीनि करोतीति प्रभावर्णस्वरोत्तमकरम् ।। ४ ।।

एवंजातीयश् च पूर्वनिपातानियमो ऽप्रतिबन्धेन चरकेऽस्ति स मयूरव्यंसकादिपाठाद् द्रष्टव्यः ।। ५ ।।

अनेन हीत्यादिना पुरावृत्तकथनेन रसायनानि वक्ष्यमाणानि प्रवृत्त्यर्थं स्तौति ।। ६ ।।

रसायनप्रयोगे वर्जनीयं ग्राम्याहारादि दूषणत्वेन निर्दिशन्नाह सर्वे इत्यादि ।। ७ ।।

तिलस्तु अचूर्णितस् तिलः पललं तिलचूर्णम् ।। ८ ।।

अतोनिमित्तमिति ग्राम्याहारादिकारणकम् ।। ९ ।।

शुक्रं न प्रवर्तत इति नोत्पद्यते शुक्रमित्यर्थः ।। १० ।।
)

आमलकानां सुभूमिजानां कालजानाम् अनुपहतगन्धवर्णरसानाम् आपूर्णसप्रमाणवीर्याणां स्वरसेन पुनर्नवाकल्कपादसम्प्रयुक्तेन सर्पिषः साधयेदाढकम् अतः परं विदारीस्वरसेन जीवन्तीकल्कसम्प्रयुक्तेन अतः परं चतुर्गुणेन पयसा बलातिबलाकषायेण शतावरीकल्कसंयुक्तेन अनेन क्रमेणैकैकं शतपाकं सहस्रपाकं वा शर्कराक्षौद्रचतुर्भागसम्प्रयुक्तं सौवर्णे राजते मार्त्तिके वा शुचौ दृढे घृतभाविते कुम्भे स्थापयेत् तद्यथोक्तेन विधिना यथाग्नि प्रातः प्रातः प्रयोजयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् अश्नीयात् ।
अस्य प्रयोगाद्वर्षशतं वयोऽजरं तिष्ठति श्रुतमवतिष्ठते सर्वामयाः प्रशाम्यन्ति अप्रतिहतगतिः स्त्रीषु अपत्यवान् भवतीति ।। चसं-६,२.४ ।।

बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च ।
अधृष्यमन्यैर् अतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ।। चसं-६,२.५ ।।

बलं महद्वर्णविशुद्धिर् अग्र्या स्वरो घनौघस्तनितानुकारी ।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य ।। चसं-६,२.६ ।।

आयुर्वेददीपिका
(

एकैकशः शतपाकम् इत्यर्थः ।। १ ।।

एकैकपाकसाधनं पृथक् कर्तव्यं तेन त्रिशतधा पाको भवति ।। २ ।।

अत्र च कल्कोपलेपादि नोपक्षीणमपि यदवशिष्टं भवति तदेव ग्राह्यं वचनबलात् ।। ३ ।।

सौवर्णादिपात्रेषु यथापूर्वं वरगुणत्वम् अन्यथा समानगुणत्वे सर्वेषां मृत्पात्रस्य सुलभत्वेनातिदुर्लभतरं सौवर्णपात्रं नोपदेशम् अर्हति ।। ४ ।।

यथोक्तेन विधिनेति कुटीप्रावेशिकेन ।। ५ ।।

गिरिसारः लोहम् ।। ६ ।।
)

आमलकसहस्रं पिप्पलीसहस्रसम्प्रयुक्तं पलाशतरुणक्षारोदकोत्तरं तिष्ठेत् तदनुगतक्षारोदकम् अनातपशुष्कम् अनस्थि चूर्णीकृतं चतुर्गुणाभ्यां मधुसर्पिर्भ्यां संनीय शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं षण्मासान् स्थापयेदन्तर्भूमेः ।
तस्योत्तरकालमग्निबलसमां मात्रां खादेत् पौर्वाह्णिकः प्रयोगो नापराह्णिकः सात्म्यापेक्षश्चाहारविधिः ।
अस्य प्रयोगाद् वर्षशतमजरं वयस् तिष्ठतीति समानं पूर्वेण ।। चसं-६,२.७ ।।

आयुर्वेददीपिका
(

पलाशतरुणः तरुणपलाशः अनेन बालवृद्धपलाशवर्जनम् उच्यते ।। १ ।।

क्षारोदकोत्तरमिति यथा क्षारोदकं भाव्यादुपरि भवति तथा कर्तव्यमिति दर्शयति ।। २ ।।

चतुर्भागः पादः ।। ३ ।।

समानं पूर्वेणेति पूर्वयोगफलश्रुत्यैतदपि युक्तम् इत्यर्थः ।। ४ ।।
)

आमलकचूर्णाढकम् एकविंशतिरात्रम् आमलकस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकीकृतम् अष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसम्प्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् अस्य प्रयोगाद् वर्षशतम् अजरम् आयुस् तिष्ठतीति समानं पूर्वेण ।। चसं-६,२.८ ।।

विडङ्गतण्डुलचूर्णानाम् आढकमाढकं पिप्पलीतण्डुलानाम् अध्यर्धाढकं सितोपलायाः सर्पिस्तैलमध्वाढकैः षड्भिर् एकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाव् इति सर्वं समानं पूर्वेण यावद् आशीः ।। चसं-६,२.९ ।।

आयुर्वेददीपिका
(

यावद् आशीर् इति आशीः फलश्रुतिः तेन तद्वर्षान्ते इत्यादि ग्रन्थोक्तविधिविधानं दर्शयति ।। १ ।।
)

यथोक्तगुणानामामलकानां सहस्रमार्द्रपलाशद्रोण्यां सपिधानायां बाष्पम् अनुद्वमन्त्याम् आरण्यगोमयाग्निभिर् उपस्वेदयेत् तानि सुस्विन्नशीतान्य् उद्धृतकुलकान्य् आपोथ्याढकेन पिप्पलीचूर्णानामाढकेन च विडङ्गतण्डुलचूर्णानाम् अध्यर्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्याम् आढकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढे घृतभाविते कुम्भे स्थापयेद् एकविंशतिरात्रम् अत ऊर्ध्वं प्रयोगः अस्य प्रयोगाद्वर्षशतम् अजरम् आयुस् तिष्ठतीति समानं पूर्वेण ।। चसं-६,२.१० ।।

आयुर्वेददीपिका
(

पूर्वेणेति पूर्वयोगफलश्रुतिपर्यन्तं पूर्वयोगेनास्य समानमित्यर्थः ।। १ ।।
)

धन्वनि कुशास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविषश्वापदपवनसलिलाग्निदोषे कर्षणवल्मीकश्मशानचैत्योषरावसथवर्जिते देशे यथर्तुसुखपवनसलिलादित्यसेविते जातान्य् अनुपहतान्य् अनध्यारूढान्य् अबालान्य् अजीर्णान्य् अधिगतवीर्याणि शीर्णपुराणपर्णान्य् असंजातान्य् अपर्णानि तपसि तपस्ये वा मासे शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् चले सुमुहूर्ते नागबलामूलान्य् उद्धरेत् तेषां सुप्रक्षालितानां त्वक्पिण्डम् आम्रमात्रम् अक्षमात्रं वा श्लक्ष्णपिष्टमालोड्य पयसा प्रातः प्रयोजयेत् चूर्णीकृतानि वा पिबेत् पयसा मधुसर्पिर्भ्यां वा संयोज्य भक्षयेत् जीर्णे च क्षीरसर्पिर्भ्यां शालिषष्टिकम् अश्नीयात् ।
संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ।। चसं-६,२.११ ।।

आयुर्वेददीपिका
(

धन्वनीति जाङ्गलदेशे ।
कर्षणं हलादिना ।
अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि ।
तपसि माघे ।। १ ।।

तपस्ये इति फाल्गुने ।
चले सुमुहूर्त इति इन्द्रे मुहूर्ते ।
आम्रमात्रमिति पलपरिमाणम् ।। २ ।।
)

बलातिबलाचन्दनागुरुधवतिनिशखदिरशिंशपासनस्वरसाः पुनर्नवान्ताश्चौषधयो दश नागबलया व्याख्याताः ।
स्वरसानामलाभे त्व् अयं स्वरसविधिश् चूर्णानाम् आढकम् आढकम् उदकस्याहोरात्रास्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् ।। चसं-६,२.१२ ।।

आयुर्वेददीपिका
(

पुनर्नवान्ता दश षड्विरेचनशताश्रितीये अमृताभया धात्री युक्ता श्रेयसी श्वेतातिरसा मण्डूकपर्णी स्थिरा पुनर्नवा इति सर्वा वयःस्थापनोक्ताः ।। १ ।।

नागबलया व्याख्याता इति नागबलावत्तेषामपि प्रयोगः ।। २ ।।

बलादीनां स्वरसेनैव विधानम् ।। ३ ।।

नागबलावद् भोजनादिकं ज्ञेयम् ।। ४ ।।

स्वरसालाभे ऽनुकल्पम् आह स्वरसानाम् इत्यादि ।। ५ ।।
)

भल्लातकान्य् अनुपहतान्य् अनामयान्य् आपूर्णरसप्रमाणवीर्याणि पक्वजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे संगृह्य यवपल्ले माषपल्ले वा निधापयेत् तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तुम् आरभेत शीतस्निग्धमधुरोपस्कृतशरीरः ।
पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत् तेषां रसमष्टभागावशेषं पूतं सपयस्कं पिबेत् सर्पिषान्तर् मुखम् अभ्यज्य ।
तान्य् एकैकभल्लातकोत्कर्षापकर्षेण दशभल्लातकान्य् आ त्रिंशतः प्रयोज्यानि नातः परमुत्कर्षः ।
प्रयोगविधानेन सहस्रपर एव भल्लातकप्रयोगः ।
जीर्णे च ससर्पिषा पयसा शालिषष्टिकाशनम् उपचारः प्रयोगान्ते च द्विस् तावत् पयसैवोपचारः ।
तत्प्रयोगाद्वर्षशतमजरं वयस् तिष्ठतीति समानं पूर्वेण ।। चसं-६,२.१३ ।।

आयुर्वेददीपिका
(

शुचिः ज्येष्ठः शुक्रस्तु आषाढः सह आग्रहायणः सहस्यः पौषः ।। १ ।।

एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्लादौ उद्धृतमात्रं न प्रयोज्यं किंतु यथोक्त एव काले शीतगुणयुक्ते ।। २ ।।

मुखदाहपरिहारार्थं सर्पिषान्तर् मुखम् अभ्यज्येति ।। ३ ।।

नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य ।। ४ ।।

सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसंपिण्डनया यदा सहस्रं पूर्यते तदैवोपरमः कर्तव्यः सहस्रादर्वागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव ।। ५ ।।

सहस्रसंख्यापूरणं चेहैकेन वर्धनह्रासक्रमेण न भवति तेन पुनर् आवृत्त्या च त्रिंशत्पर्यन्तं प्रयोगः कर्तव्यः यथा हि भल्लातकप्रयोगाभ्यासेन सहस्रसंख्यापूरणं भवति तथा कृत्वा परित्यागः कर्तव्यः ।। ६ ।।

अन्ये त्व् अत्र सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुतप्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं प्रयोगमिच्छन्ति तच्च व्याख्यानं नातिसंगतम् ।। ७ ।।

किंच सहस्रद्वयस्य तत्रोपयोगो विहितः अत्र सहस्रपर्यन्तः प्रयोगः तेन व्याधिविषयोऽन्य एव स प्रयोगः अयं तु रसायनविषयः ।। ८ ।।
)

भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमाव् आकण्ठं निखातस्य स्नेहभावितस्य दृढस्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिर् उपस्वेदयेत् तेषां यः स्वरसः कुम्भं प्रपद्येत तम् अष्टभागमधुसम्प्रयुक्तं द्विगुणघृतम् अद्यात् तत्प्रयोगाद्वर्षशतमजरं वयस्तिष्ठतीति समानं पूर्वेण ।। चसं-६,२.१४ ।।

आयुर्वेददीपिका
(

पिष्टस्वेदनं तत् यत्रस्थं पिष्टकम् उपस्वेद्यते तदुपरि यत् पिधानपात्रं तच्चेह सच्छिद्रं ग्राह्यम् अन्यथोपरिस्थभल्लातकतापाच् च्युतः स्नेहो नाधो याति ।। १ ।।
)

भल्लातकतैलपात्रं सपयस्कं मधुकेन कल्केनाक्षमात्रेण शतपाकं कुर्यादिति समानं पूर्वेण ।। चसं-६,२.१५ ।।

आयुर्वेददीपिका
(

भल्लातकतैलम् इति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः ।। १ ।।
)

भल्लातकसर्पिः भल्लातकक्षीरं भल्लातकक्षौद्रं गुडभल्लातकं भल्लातकयूषः भल्लातकतैलं भल्लातकपललं भल्लातकसक्तवः भल्लातकलवणं भल्लातकतर्पणम् इति भल्लातकविधानमुक्तं भवति ।। चसं-६,२.१६ ।।

आयुर्वेददीपिका
(

भल्लातकसर्पिर् इत्यादयो दशप्रयोगाः ।। १ ।।

अत्र च यथायोग्यतया भल्लातकेन सर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः ।। २ ।।

यदुक्तं जतूकर्णे भल्लातकसंयुक्तसंस्कृतानि च घृतक्षीरक्षौद्रगुडयूषतैलपललसक्तुलवणतर्पणानि इति ।। ३ ।।

एवं च सर्पिःक्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन क्षौद्रपललसक्तुतर्पणानां भल्लातकेन योगः गुडलवणयोस्तु संस्कारः संयोगो वा ।। ४ ।।

लवणे संस्कारपक्षे हि लवणसमं भल्लातकम् अन्तर्धूमदग्धं ग्राह्यम् ।। ५ ।।

अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति ।। ६ ।।

इह सक्तुप्रयोगोऽद्रवोत्तरत्वाद् अविशेषकर्मणा भेदनीयः ।। ७ ।।
)

भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च ।
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ।। चसं-६,२.१७ ।।

एते दशविधास्त्वेषां प्रयोगाः परिकीर्तिताः ।
रोगप्रकृतिसात्म्यज्ञस् तान् प्रयोगान् प्रकल्पयेत् ।। चसं-६,२.१८ ।।

कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन ।
यं न भल्लातकं हन्याच्छीघ्रं मेधाग्निवर्धनम् ।। चसं-६,२.१९ ।।

प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः ।
रसायनैः शिवैर् एतैर् बभूवुर् अमितायुषः ।। चसं-६,२.२० ।।

ब्राह्मं तपो ब्रह्मचर्यमध्यात्मध्यानमेव च ।
दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः ।। चसं-६,२.२१ ।।

तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः ।
रसायनविधिः सेव्यो विधिवत्सुसमाहितैः ।। चसं-६,२.२२ ।।

आयुर्वेददीपिका
(

अग्निसमानीति दाहस्फोटकर्तृतया ।। १ ।।

संभृत्येति निष्पाद्य ।। २ ।।
)

रसायनानां संयोगाः सिद्धा भूतहितैषिणा ।
निर्दिष्टाः प्राणकामीये सप्तत्रिंशन्महर्षिणा ।। चसं-६,२.२३ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये प्राणकामीयो नाम रसायनपादो द्वितीयः ।। चसं-६,२.२४ ।।

आयुर्वेददीपिका
(

पादानुसंग्रहे सप्तत्रिंशत्प्रयोगा उक्ताः तत्र बलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादशप्रयोगाः अपरे तु व्याहृता व्यक्ता एव ।। १ ।।
)




चरकसंहिता, चिकित्सास्थान, १ (रसायनाध्याय)[सम्पाद्यताम्]

अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः ।। चसं-६,१.३.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,१.३.२ ।।

आयुर्वेददीपिका
(

आमलकरसायनत्वसाम्याद् अनन्तरं करप्रचितीय उच्यते ।। १ ।।
)

करप्रचितानां यथोक्तगुणानाम् आमलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां पुनर्माघे फाल्गुने वा मासे त्रिःसप्तकृत्वः स्वरसपरिपीतानां पुनः शुष्कचूर्णीकृतानाम् आढकम् एकं ग्राहयेत् अथ जीवनीयानां बृंहणीयानां स्तन्यजननानां शुक्रजननानां वयःस्थापनानां षड्विरेचनशताश्रितीयोक्तानाम् औषधगणानां चन्दनागुरुधवतिनिशखदिरशिंशपासनसाराणां चाणुशः कृत्तानाम् अभयाविभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानां च समस्तानामाढकमेकं दशगुणेनाम्भसा साधयेत् तस्मिन्नाढकावशेषे रसे सुपूते तान्य् आमलकचूर्णानि दत्त्वा गोमयाग्निभिर् वंशविदलशरतेजनाग्निभिर् वा साधयेद् यावद् अपनयाद्रसस्य तम् अनुपदग्धम् उपहृत्यायसीषु पात्रीष्वास्तीर्य शोषयेत् सुशुष्कं तत् कृष्णाजिनस्योपरि दृषदि श्लक्ष्णपिष्टम् अयःस्थाल्यां निधापयेत् सम्यक् तच्चूर्णम् अयश् चूर्णाष्टभागसम्प्रयुक्तं मधुसर्पिर्भ्याम् अग्निबलम् अभिसमीक्ष्य प्रयोजयेदिति ।। चसं-६,१.३.३ ।।

एतद्रसायनं पूर्वं वसिष्ठः कश्यपो ऽङ्गिराः ।
जमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ।। चसं-६,१.३.४ ।।

प्रयुज्य प्रयता मुक्ताः श्रमव्याधिजराभयात् ।
यावद् ऐच्छंस् तपस्तेपुस् तत्प्रभावान्महाबलाः ।। चसं-६,१.३.५ ।।

इदं रसायनं चक्रे ब्रह्मा वार्षसहस्रिकम् ।
जराव्याधिप्रशमनं बुद्धीन्द्रियबलप्रदम् ।। चसं-६,१.३.६ ।।

आयुर्वेददीपिका
(

करप्रचितानामितिपदं स्वयंपतितग्रहणं निषेधयति ।। १ ।।

माघे फाल्गुने वेतिग्रहणवचनात् तथैव गृहीतानामधिकार इत्यागमादुन्नीयते ।। २ ।।

स्वरस इहामलकस्यैव भवति अधिकारात् ।। ३ ।।

शाकः बृहत्पत्त्रस् तरुः ।। ४ ।।

कृत्तानामिति छिन्नानाम् ।। ५ ।।

इह गोमयाग्न्याद्युपकरणनियमेनैव शक्त्युत्कर्षो भवतीति ऋषिवचनाद् उन्नीयते ।। ६ ।।

यदुक्तम् ऋषयस् त्व् एव जानन्ति योगसंयोगजं फलम् इति ।। ७ ।।

एवमन्यत्रापि इतिकर्तव्यतानियमो व्याख्येयः ।। ८ ।।

कृष्णाजिनस्येति कृष्णसाराजिनस्य ।। ९ ।।
)

तपसा ब्रह्मचर्येण यानेन प्रशमेन च ।
रसायनविधानेन कालयुक्तेन चायुषा ।। चसं-६,१.३.७ ।।

स्थिता महर्षयः पूर्वं नहि किंचिद् रसायनम् ।
ग्राम्यानामन्यकार्याणां सिध्यत्यप्रयतात्मनाम् ।। चसं-६,१.३.८ ।।

आयुर्वेददीपिका
(

सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह तपसेत्यादि ।। १ ।।

कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुषेत्यर्थः नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तम् एव ।। २ ।।

स्थिता इति दीर्घकालजीविनः ।। ३ ।।

विपर्ययेण तपःप्रभृतिविरहे रसायनस्याफलताम् आह न हीत्यादि ।। ४ ।।
)

संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा ।
सावित्रीं मनसा ध्यायन् ब्रह्मचारी यतेन्द्रियः ।। चसं-६,१.३.९ ।।

संवत्सरान्ते पौषीं वा माघीं वा फाल्गुनीं तिथिम् ।
त्र्यहोषवासी शुक्लस्य प्रविश्यामलकीवनम् ।। चसं-६,१.३.१० ।।

बृहत्फलाढ्यम् आरुह्य द्रुमं शाखागतं फलम् ।
गृहीत्वा पाणिना तिष्ठेज्जपन् ब्रह्मामृतागमात् ।। चसं-६,१.३.११ ।।

तदा ह्य् अवश्यममृतं वसत्यामलके क्षणम् ।
शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ।। चसं-६,१.३.१२ ।।

भवन्त्यमृतसंयोगात्तानि यावन्ति भक्षयेत् ।
जीवेद् वर्षसहस्राणि तावन्त्यागतयौवनः ।। चसं-६,१.३.१३ ।।

सौहित्यमेषां गत्वा तु भवत्यमरसंनिभः ।
स्वयं चास्योपतिष्ठन्ते श्रीर् वेदा वाक्च रूपिणी ।। चसं-६,१.३.१४ ।।

आयुर्वेददीपिका
(

ब्रह्मचारित्वेनेन्द्रियनियमे लब्धे ऽपि यतेन्द्रियपदसम्बन्ध इन्द्रियनियमातिशयोपदर्शनार्थः ।। १ ।।

पौषादिषु संवत्सरान्तत्वं नियमदिनादारभ्य वर्षपूरणेन ज्ञेयम् ।। २ ।।

फाल्गुनीम् इत्यस्यान्ते प्राप्येति शेषः ।। ३ ।।

न द्रुममारोहेत् इत्यस्येह आरुह्य द्रुममिति वचनेनापवादः ।। ४ ।।

जपन् ब्रह्मेति ओंकारं जपन् ।। ५ ।।

अमृतागमादिति अमृतागमपर्यन्तम् ।। ६ ।।

सौहित्यमेषामिति करणे षष्ठी ।। ७ ।।

वाग्रूपिणीति तदधिष्ठात्री देवता ।। ८ ।।
)

त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे ।
क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ।। चसं-६,१.३.१५ ।।

तीक्ष्णायसस्य पत्त्राणि वह्निवर्णानि साधयेत् ।
चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ।। चसं-६,१.३.१६ ।।

ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् ।
तानि चूर्णानि मधुना रसेनामलकस्य च ।। चसं-६,१.३.१७ ।।

युक्तानि लेहवत्कुम्भे स्थितानि घृतभाविते ।
संवत्सरं निधेयानि यवपल्ले तथैव च ।। चसं-६,१.३.१८ ।।

दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः ।
संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ।। चसं-६,१.३.१९ ।।

प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम् ।
एष एव च लौहानां प्रयोगः संप्रकीर्तितः ।। चसं-६,१.३.२० ।।

नाभिघातैर्न चातङ्कैर्जरया न च मृत्युना ।
स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः ।। चसं-६,१.३.२१ ।।

धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः ।
भवेत्समां प्रयुञ्जानो नरो लौहरसायनम् ।। चसं-६,१.३.२२ ।।

अनेनैव विधानेन हेम्नश्च रजतस्य च ।
आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ।। चसं-६,१.३.२३ ।।

आयुर्वेददीपिका
(

क्षार इति परिस्रावितक्षारोदके ।। १ ।।

क्षारे लावण इति ज्योतिष्मत्याः क्षारे ।। २ ।।

साधयेद् इति निर्वापयेत् ।। ३ ।।

लौहानामित्यनेनैव लोहान्तर्निविष्टयोः सुवर्णरजतयोर् ग्रहणे सिद्धे पुनस् तयोर् वचनं तयोर् विशेषेणादरोपदर्शनार्थम् ।। ४ ।।

रसायनप्रभावाद् एव महाधनत्वम् इति ज्ञेयम् ।। ५ ।।
)

ऐन्द्री मत्स्याख्यको ब्राह्मी वचा ब्रह्मसुवर्चला ।
पिप्पल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ।। चसं-६,१.३.२४ ।।

एषां त्रियवकान् भागान् हेमसर्पिर्विषैर् विना ।
द्वौ यवौ तत्र हेम्नस्तु तिलं दद्याद्विषस्य च ।। चसं-६,१.३.२५ ।।

सर्पिषश्च पलं दद्यात्तदैकध्यं प्रयोजयेत् ।
घृतप्रभूतं सक्षौद्रं जीर्णे चान्नं प्रशस्यते ।। चसं-६,१.३.२६ ।।

जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् ।
आयुष्यं पौष्टिकं धन्यं स्वरवर्णप्रसादनम् ।। चसं-६,१.३.२७ ।।

परमोजस्करं चैतत्सिद्धमैन्द्रं रसायनम् ।
नैनत् प्रसहते कृत्या नालक्ष्मीर्न विषं न रुक् ।। चसं-६,१.३.२८ ।।

श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च ।
मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः ।। चसं-६,१.३.२९ ।।

आयुर्वेददीपिका
(

मत्स्याख्यको मच्छु इति लोके ख्यातः अन्ये तु ऐन्द्रीभेदं मत्स्याख्यकम् आहुः ।। १ ।।

त्रियवकानिति त्रियवप्रमाणान् ।। २ ।।

घृतप्रभूतम् इत्यन्नविशेषणम् ।। ३ ।।

कृत्या अभिचारः ।। ४ ।।
)

मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ।। चसं-६,१.३.३० ।।

आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ।। चसं-६,१.३.३१ ।।

आयुर्वेददीपिका
(

मण्डूकपर्ण्या इत्यादयश् चत्वारो योगाः ।। १ ।।
)

पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा ।
रसायनगुणान्वेषी समामेकां प्रयोजयेत् ।। चसं-६,१.३.३२ ।।

तिस्रस्तिस्रस्तु पूर्वाह्णं भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः ।। चसं-६,१.३.३३ ।।

प्रयोज्या मधुरसम्मिश्रा रसायनगुणैषिणा ।
जेतुं कासं क्षयं शोषं श्वासं हिक्कां गलामयान् ।। चसं-६,१.३.३४ ।।

अर्शांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् ।
वैस्वर्यं पीनसं शोफं गुल्मं वातबलासकम् ।। चसं-६,१.३.३५ ।।

आयुर्वेददीपिका
(

पञ्चेत्यादौ संख्याव्यतिक्रमेणानुक्तसंख्यानाम् अपि पिप्पलीनाम् उपयोगं सूचयति ।। १ ।।

यदापि त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पलीं क्षारं लवणम् इत्युक्तं तथापीह द्रव्यान्तरसंयुक्तानां पिप्पलीनाम् अभ्यासो न विरुद्धः किंवा उक्तपिप्पलीरसायनव्यतिरेकेणोत्सर्गापवादन्यायात् स निषेधो ज्ञेयः ।। २ ।।

किंशुकः पलाशः ।। ३ ।।
)

क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम् ।
वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ।। चसं-६,१.३.३६ ।।

जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ।
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम् ।। चसं-६,१.३.३७ ।।

पिष्टास् ता बलिभिः सेव्याः शृता मध्यबलैर् नरैः ।
चूर्णीकृता ह्रस्वबलैर् योज्या दोषामयान् प्रति ।। चसं-६,१.३.३८ ।।

दशपैप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः ।
प्रयोगो यस् त्रिपर्यन्तः स कनीयान् स चाबलैः ।। चसं-६,१.३.३९ ।।

बृंहणं स्वर्यम् आयुष्यं प्लीहोदरविनाशनम् ।
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ।। चसं-६,१.३.४० ।।

जरणान्ते ऽभयाम् एकां प्राग्भुक्ताद् द्वे विभीतके ।
भुक्त्वा तु मधुसर्पिर्भ्यां चत्वार्यामलकानि च ।। चसं-६,१.३.४१ ।।

प्रयोजयन् समाम् एकां त्रिफलाया रसायनम् ।
जीवेद् वर्षशतं पूर्णम् अजरो ऽव्याधिरेव च ।। चसं-६,१.३.४२ ।।

त्रैफलेनायसीं पात्रीं कल्केनालेपयेन् नवाम् ।
तम् अहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम् ।। चसं-६,१.३.४३ ।।

प्रभूतस्नेहम् अशनं जीर्णे तत्र प्रशस्यते ।
अजरो ऽरुक् समाभ्यासाज् जीवेच् चैव समाः शतम् ।। चसं-६,१.३.४४ ।।

मधुकेन तुगाक्षीर्या पिप्पल्या क्षौद्रसर्पिषा ।
त्रिफला सितया चापि युक्ता सिद्धं रसायनम् ।। चसं-६,१.३.४५ ।।

सर्वलौहैः सुवर्णेन वचया मधुसर्पिषा ।
विडङ्गपिप्पलीभ्यां च त्रिफला लवणेन च ।। चसं-६,१.३.४६ ।।

संवत्सरप्रयोगेण मेधास्मृतिबलप्रदा ।
भवत्यायुःप्रदा धन्या जरारोगनिबर्हणी ।। चसं-६,१.३.४७ ।।

अनम्लं च कषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ।। चसं-६,१.३.४८ ।।

हेम्नश्च रजतात्ताम्राद्वरात् कृष्णायसादपि ।
रसायनं तद्विधिभिस्तद् वृष्यं तच्च रोगनुत् ।। चसं-६,१.३.४९ ।।

वातपित्तकफघ्नैश्च निर्यूहैस्तत्सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैरेकैकशो ऽपि वा ।। चसं-६,१.३.५० ।।

आयुर्वेददीपिका
(

शिलाजतुरसायनं दर्शयितुं शिलाजतुनो ऽभ्यर्हितस्य गुणानेव तावदाह अनम्लम् इत्यादि ।। १ ।।

वरादिति श्रेष्ठात् ।। २ ।।

सुश्रुते यद्यपि त्रपुसीसम्भवं प्रक्षिप्य षड्विधशिलाजतु सामान्येन रोगे रसायनाधिकारे चोक्तं तथापीह रसायनाधिकारे तदधिकृतचतुर्विधम् एवोक्तम् ।। ३ ।।
)

प्रक्षिप्तोद्धृतम् अप्य् एनत् पुनस् तत् प्रक्षिपेद् रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावना ।। चसं-६,१.३.५१ ।।

पूर्वोक्तेन विधानेन लोहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद् दीर्घमायुः सुखान्वितम् ।। चसं-६,१.३.५२ ।।

जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ।। चसं-६,१.३.५३ ।।

प्रयोगः सप्तसप्ताहास् त्रयश् चैकश्च सप्तकः ।
निर्दिष्टस् त्रिविधस्तस्य परो मध्योऽवरस्तथा ।। चसं-६,१.३.५४ ।।

पलमर्धपलं कर्षो मात्रा तस्य त्रिधा मता ।

आयुर्वेददीपिका
(

शिलाजतुभावनाविधिम् आह प्रक्षिप्तेत्यादि ।। १ ।।

प्रक्षिप्तानन्तरमुद्धृतं प्रक्षिप्तोद्धृतम् ।। २ ।।

लौहैः सहेति भागानियमे लोहसमानभागता शिलाजतुनः ।। ३ ।।

प्रयोगः सप्तसप्ताहा इति सप्तसप्ताहव्यापकप्रयोग इत्यर्थः एवं त्रयश् चैकश्च सप्तक इत्यत्रापि बोद्धव्यम् ।। ४ ।।
)

जातेर्विशेषं सविधिं तस्य वक्ष्याम्यतः परम् ।। चसं-६,१.३.५५ ।।

हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाच्छं यन्मलं तच्छिलाजतु ।। चसं-६,१.३.५६ ।।

मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ।। चसं-६,१.३.५७ ।।

रूप्यस्य कटुकः श्वेतः शीतः स्वादु विपच्यते ।
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटु ।। चसं-६,१.३.५८ ।।

यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ।। चसं-६,१.३.५९ ।।

गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ।। चसं-६,१.३.६० ।।

यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ।। चसं-६,१.३.६१ ।।

आयुर्वेददीपिका
(

सविधिम् इति विधानसहितम् ।। १ ।।

शिलाजतुविधानं च यथाक्रमं वातपित्ते इत्यादिग्रन्थेन वक्तव्यम् ।। २ ।।

हेमादिशब्देनेह हेमादिसम्भवस्थानभूतशिलोच्यते यतो न साक्षात् सुवर्णादिभ्य एव शिलाजतु स्रवति ।। ३ ।।

मृत्स्नं मसृणम् अच्छं स्वच्छम् ।। ४ ।।

यस्तु रूप्यभवे कटुरसे विरुद्धः स्वादुः पाक उक्तः स उत्सर्गापवादन्यायेन ज्ञेयः ।। ५ ।।

वीर्यं तु ताम्रभवस्योष्णस्य तथा त्रयाणां च शीतत्वयुक्तानाम् अत्युष्णशीतवीर्यताया अवकाशो नास्ति अतः सामान्यगुणकथने नात्युष्णशीतम् इतिपदेन उष्णस्य शीतस्य च वीर्यस्य प्रकर्षो निषिध्यते तेनानुष्णाशीतत्वं विधीयते ततश्च शिलाजतुनि वीर्यं शीतम् उष्णं वाभिहितमपि न बलवद्भवतीति लभ्यते ।। ६ ।।
)

शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत् सर्वकालं तु कुलत्थान्परिवर्जयेत् ।। चसं-६,१.३.६२ ।।

ते ह्य् अत्यन्तविरुद्धत्वाद् अश्मनो भेदनाः परम् ।
लोके दृष्टास्ततस्तेषां प्रयोगः प्रतिषिध्यते ।। चसं-६,१.३.६३ ।।

पयांसि तक्राणि रसाः सयूषास् तोयं समूत्रा विविधाः कषायाः ।
आलोडनार्थं गिरिजस्य शस्तास् ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ।। चसं-६,१.३.६४ ।।

न सो ऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य ।
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति ।। चसं-६,१.३.६५ ।।

करप्रचितिके पादे दश षट् च महर्षिणा ।
रसायनानां सिद्धानां संयोगाः समुदाहृताः ।। चसं-६,१.३.६६ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने रसायनाध्याये करप्रचितीयो नाम रसायनपादस्तृतीयः ।। चसं-६,१.३.६७ ।।

आयुर्वेददीपिका
(

शिलाजतुप्रयोगेष्विति बहुवचनमालोडनादिभेदेन प्रयोगभेदं बुद्धिस्थीकृत्य ज्ञेयम् ।। १ ।।

शिलाजतुप्रयोगे गुरुनिषेधेऽपि विशेषवचनात् क्षीरादिप्रयोगः ।। २ ।।

सर्वकालमिति यावद्रसायनाहिता गुणाः सन्ति ।। ३ ।।

केचित् तु यावज्जीवं कुलत्थवर्जनम् आहुः यदुक्तं सुश्रुते तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् इति ।। ४ ।।

शिलाजतुप्रयोगं स्तौति न सो ऽस्तीत्यादि ।। ५ ।।
)



चरकसंहिता, चिकित्सास्थान, १ (रसायनाध्याय), ४ (आयुर्वेदसमुत्थानीय)[सम्पाद्यताम्]

अथात आयुर्वेदसमुत्थानीयं रसायनपादं व्याख्यास्यामः ।। चसं-६,१.४.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,१.४.२ ।।

आयुर्वेददीपिका
(

आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्याद् उच्यते आयुर्वेदसमुत्थानम् अस्मिन्न् अस्तीति मत्वर्थीयच्छप्रत्ययेणायुर्वेदसमुत्थानीयः ।। १ ।।
)

ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः ।
ते सर्वासाम् इतिकर्तव्यतानाम् असमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासम् अपगतग्राम्यदोषं शिवं पुण्यम् उदारं मेध्यम् अगम्यम् असुकृतिभिर् गङ्गाप्रभवम् अमरगन्धर्वकिंनरानुचरितम् अनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिसिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवम् अतिशरण्यं हिमवन्तम् अमराधिपतिगुप्तं जग्मुर् भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः ।। चसं-६,१.४.३ ।।

आयुर्वेददीपिका
(

ऋषीणां शालीनत्वं यायावरत्वं च कर्मविशेषपरिग्रहात् ।। १ ।।

सम्पन्नम् अनु उपयुज्यन्त इति साम्पन्निकाः ।। २ ।।

नातिकल्या इति नातिनीरोगाः ।। ३ ।।

इतिकर्तव्यता व्यापारः ।। ४ ।।

इन्द्रपर्यायकथनं स्तुत्यर्थं स्तुतिश् चेयम् इन्द्रस्यायुर्वेदप्रकाशकत्वात् ।। ५ ।।
)

तान् इन्द्रः सहस्रदृग् अमरगुरुर् अब्रवीत्स्वागतं ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मर्षीणाम् ।
अस्ति ननु वो ग्लानिर् अप्रभावत्वं वैस्वर्यं वैवर्ण्यं च ग्राम्यवासकृतम् असुखम् असुखानुबन्धं च ग्राम्यो हि वासो मूलम् अशस्तानां तत् कृतः पुण्यकृद्भिर् अनुग्रहः प्रजानां स्वशरीरमवेक्षितुं कालः कालश्चायमायुर्वेदोपदेशस्य ब्रह्मर्षीणाम् आत्मनः प्रजानां चानुग्रहार्थम् आयुर्वेदमश्विनौ मह्यं प्रायच्छतां प्रजापतिरश्विभ्यां प्रजापतये ब्रह्मा प्रजानाम् अल्पम् आयुर् जराव्याधिबहुलम् असुखम् असुखानुबन्धम् अल्पत्वाद् अल्पतपोदमनियमदानाध्ययनसंचयं मत्वा पुण्यतमम् आयुःप्रकर्षकरं जराव्याधिप्रशमनम् ऊर्जस्करम् अमृतं शिवं शरण्यमुदारं भवन्तो मत्तः श्रोतुमर्हताथोपधारयितुं प्रकाशयितुं च प्रजानुग्रहार्थमार्षं ब्रह्म च प्रति मैत्रीं कारुण्यम् आत्मनश् चानुत्तमं पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ।। चसं-६,१.४.४ ।।

तच्छ्रुत्वा विबुधपतिवचनम् ऋषयः सर्व एवामरवरम् ऋग्भिस् तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति ।। चसं-६,१.४.५ ।।

आयुर्वेददीपिका
(

असुखानुबन्धमिति रोगरूपम् असुखम् अनुबध्नातीत्यसुखानुबन्धम् ।। १ ।।

मूलमिति कारणम् ।। २ ।।

कृतः प्रजानामनुग्रह इति ग्रामे स्थित्वा आयुर्वेदोक्तारोग्यसाधनधर्मादिप्रकाशनेन प्रजानुग्रहः कृत एवेत्यर्थः ।। ३ ।।

अयं शब्द उभाभ्यां कालशब्दाभ्यां योजनीयः ।। ४ ।।

प्रजापतये ब्रह्मेति छेदः ।। ५ ।।

प्रजानाम् अल्पादिकम् आयुर्मत्त्वेति योजना ।। ६ ।।

अल्पत्वात् आयुष इति शेषः ।। ७ ।।

अल्पस्तपःप्रभृतीनां संचयोऽस्मिन् अल्पे आयुषि तत् तथा ।। ८ ।।

प्रतिशब्दो मैत्र्यादिभिः प्रत्येकं सम्बध्यते ।। ९ ।।

अथशब्दश् चाधिकारे ।। १० ।।

तेन मैत्रीकारुण्यादीन्यधिकृत्य यं ब्रह्मा प्रजापतयेऽदात् तमनुश्रोतुम् अर्हतेति योजना ।। ११ ।।

यद्यपि च ऋषयो भरद्वाजद्वारा इन्द्रादधिगतायुर्वेदाः तथापि ग्राम्यवासकृतमनोग्लान्या न तथा स्फुटार्थो वर्तत इति शङ्कया पुनरिन्द्रस् तानुपदिशति ।। १२ ।।
)

अथेन्द्रस् तदायुर्वेदामृतम् ऋषिभ्यः संक्रम्योवाच एतत्सर्वमनुष्ठेयम् अयं च शिवः कालो रसायनानां दिव्याश्चौषधयो हिमवत्प्रभवाः प्राप्तवीर्याः तद्यथा ऐन्द्री ब्राह्मी पयस्या क्षीरपुष्पी श्रावणी महाश्रावणी शतावरी विदारी जीवन्ती पुनर्नवा नागबला स्थिरा वचा छत्त्रा अतिच्छत्रा मेदा महामेदा जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदम् उपचयं मेधां स्मृतिमुत्तमबलम् इष्टांश्चापरान् भावान् आवहन्ति सिद्धाः ।। चसं-६,१.४.६ ।।

आयुर्वेददीपिका
(

महाश्रावणी अलम्बुषा ।। १ ।।

अतिच्छत्रा मधुरिका ।। २ ।।
)

ब्रह्मसुवर्चला नामौषधिर् या हिरण्यक्षीरा पुष्करसदृशपत्त्रा आदित्यपर्णी नामौषधिर्या सूर्यकान्ता इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पा च नारीनामौषधिः अश्वबला इति विज्ञायते या बिल्वजसदृशपत्त्रा काष्ठगोधा नामौषधिर् गोधाकारा सर्पानामौषधिः सर्पाकारा सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धा च अजानाम् औषधिः अजशृङ्गी इति विज्ञायते नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति आसामोषधीनां यां यामेवोपलभेत तस्यास् तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायाम् आर्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत तत्र प्रलीयते षण्मासेन पुनः सम्भवति तस्याजं पयः प्रत्यवस्थापनं षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं च भवति गतिर् योजनसहस्रं दशवर्षसहस्राण्य् आयुर् अनुपद्रवं चेति ।। चसं-६,१.४.७ ।।

आयुर्वेददीपिका
(

ब्रह्मसुवर्चलाप्रभृतयो यथोक्तलक्षणा दिव्यौषधयो नातिप्रसिद्धाः ।। १ ।।

आदित्यपर्णी सूर्यावर्तमेव देशविशेषजातं केचिद् वर्णयन्ति ।। २ ।।

अश्वबलेति ज्ञायत इति ऋषिभिरेवानेन नाम्ना ज्ञायते नलौकिकैः लोकाप्रसिद्धत्वात् ।। ३ ।।

सोम इव वर्धते हीयत इति यथासोमवृद्धिक्षयौ तथा तत्कालमेव तस्य वृद्धिक्षयौ भवतः ।। ४ ।।

प्रलीयत इति द्रुतो भवति अन्ये तु मूर्छतीति वर्णयन्ति ।। ५ ।।

प्रत्यवस्थापनमिति आहारसेवायां योज्यम् इत्यर्थः ।। ६ ।।

सर्ववाचोगतानि सर्ववाक्यविशेषाः ।। ७ ।।
)

दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः ।
शक्यः सोढुमशक्यस्तु स्यात्सोढुमकृतात्मभिः ।। चसं-६,१.४.८ ।।

ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि ।
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ।। चसं-६,१.४.९ ।।

वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः ।
शक्या ओषधयो ह्य् एताः सेवितुं विषयाभिजाः ।। चसं-६,१.४.१० ।।

आयुर्वेददीपिका
(

एतद्दिव्यं रसायनमृषिभिस्तद्विधैर् वा सेव्यम् इति दर्शयन्न् आह दिव्यानाम् इत्यादि ।। १ ।।

विषयाभिजा इति स्वोचितपुण्यदेशे जाता इत्यर्थः अपुण्ये तु देशे दिव्यौषधिजन्मैव न भवति भवन्त्यो ऽपि निर्वार्या भवन्तीति भावः ।। २ ।।
)

यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा ।
मृदुवीर्यतरास् तासां विधिर्ज्ञेयः स एव तु ।। चसं-६,१.४.११ ।।

पर्येष्टुं ताः प्रयोक्तुं वा ये ऽसमर्थाः सुखार्थिनः ।
रसायनविधिस्तेषामयमन्यः प्रशस्यते ।। चसं-६,१.४.१२ ।।

आयुर्वेददीपिका
(

सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति तदाह यास् त्व् इत्यादि ।। १ ।।

क्षेत्रगुणैर् इति हिमालयादिप्रशस्तदेशव्यतिरिक्तक्षेत्रधर्मैः ।। २ ।।

तेषामिति ऋषिव्यतिरिक्तानां वानप्रस्थादीनाम् ।। ३ ।।

मध्यमेन च कर्मणेति असम्यक्प्रयोगेण किंवा अनतिमहतादृष्टेन ।। ४ ।।
)

बल्यानां जीवनीयानां बृंहणीयाश् च या दश ।
वयसः स्थापनानां च खदिरस्यासनस्य च ।। चसं-६,१.४.१३ ।।

खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च ।
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च ।। चसं-६,१.४.१४ ।।

शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च ।
ऋद्ध्या नागबलायाश्च द्वारदाया धवस्य च ।। चसं-६,१.४.१५ ।।

त्रिफलाकण्टकार्योश् च विदार्याश्चन्दनस्य च ।
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च ।। चसं-६,१.४.१६ ।।

रसाः पृथक् पृथग् ग्राह्याः पलाशक्षार एव च ।
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् ।। चसं-६,१.४.१७ ।।

द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः ।
तत् साध्यं सर्वम् एकत्र सुसिद्धं स्नेहमुद्धरेत् ।। चसं-६,१.४.१८ ।।

तत्रामलकचूर्णानामाढकं शतभावितम् ।
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ।। चसं-६,१.४.१९ ।।

शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत् ।
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं संमूर्छितं च तत् ।। चसं-६,१.४.२० ।।

सुचौक्षे मार्त्तिके कुम्भे मासार्धं घृतभाविते ।
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत् ।। चसं-६,१.४.२१ ।।

हेमताम्रप्रवालानाम् अयसः स्फटिकस्य च ।
मुक्तावैडूर्यशङ्खानां चूर्णानां रजतस्य च ।। चसं-६,१.४.२२ ।।

प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम् ।
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा ।। चसं-६,१.४.२३ ।।

सर्वरोगप्रशमनं वृष्यमायुष्यम् उत्तमम् ।
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम् ।। चसं-६,१.४.२४ ।।

परमूर्जस्करं चैव वर्णस्वरकरं तथा ।
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ।। चसं-६,१.४.२५ ।।

सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके ।
प्रयोज्यम् इच्छद्भिरिदं यथावद् रसायनं ब्राह्ममुदारवीर्यम् ।। चसं-६,१.४.२६ ।।

आयुर्वेददीपिका
(

बल्यानाम् इत्यादौ जोङ्गकम् अगुरु ।। १ ।।

द्वारदा शाकतरुः कपिकच्छुर् वा ।। २ ।।

श्रीपर्णी गम्भारी ।। ३ ।।

पलाशक्षारः पलाशक्षारोदकम् ।। ४ ।।

सुचौक्षे इति सुविशुद्धे ।। ५ ।।

अग्निसमामिति अग्न्यनुरूपाम् ।। ६ ।।

षोडशीं मात्रामिति आमलकादिचूर्णयुक्तघृतापेक्षया षोडशभागो हेमादिचूर्णाद् ग्राह्यः ।। ७ ।।
)

समर्थानामरोगाणां धीमतां नियतात्मनाम् ।
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ।। चसं-६,१.४.२७ ।।

अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः ।
तयोः श्रेष्ठतरः पूर्वो विधिः स तु सुदुष्करः ।। चसं-६,१.४.२८ ।।

रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि ।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम् ।। चसं-६,१.४.२९ ।।

आयुर्वेददीपिका
(

कुटीप्रावेशिकरसायनविषयान् वातातपिकरसायनविषयांश्च पुरुषान् आह समर्थानाम् इत्यादि ।। १ ।।

क्षणिनामिति कृतक्षणानाम् ।। २ ।।

सूर्यमारुतसेवयापि क्रियत इति सौर्यमारुतिकः ।। ३ ।।
)

सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् ।
अहिंसकमनायासं प्रशान्तं प्रियवादिनम् ।। चसं-६,१.४.३० ।।

जपशौचपरं धीरं दाननित्यं तपस्विनम् ।
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम् ।। चसं-६,१.४.३१ ।।

आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् ।
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम् ।। चसं-६,१.४.३२ ।।

देशकालप्रमाणज्ञं युक्तिज्ञम् अनहंकृतम् ।
शस्ताचारम् असंकीर्णम् अध्यात्मप्रवणेन्द्रियम् ।। चसं-६,१.४.३३ ।।

उपासितारं वृद्धानामास्तिकानां जितात्मनाम् ।
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम् ।। चसं-६,१.४.३४ ।।

गुणैर् एतैः समुदितैः प्रयुङ्क्ते यो रसायनम् ।
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते ।। चसं-६,१.४.३५ ।।

आयुर्वेददीपिका
(

सामान्येन रसायनविषयपुरुषगुणानाह सत्यवादिनम् इत्यादि ।। १ ।।

करुणया सत्त्वानि पश्यतीति करुणवेदी ।। २ ।।

असंकीर्णः असंकीर्णभोजी ।। ३ ।।

नित्यं रसायनप्रयोगो यस्य स नित्यरसायनः ।। ४ ।।
)

यथास्थूलम् अनिर्वाह्य दोषाञ्छारीरमानसान् ।
रसायनगुणैर् जन्तुर् युज्यते न कदाचन ।। चसं-६,१.४.३६ ।।

योगा ह्य् आयुःप्रकर्षार्था जरारोगनिबर्हणाः ।
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ।। चसं-६,१.४.३७ ।।

तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु ।
अरुजेभ्यो ऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च ।। चसं-६,१.४.३८ ।।

आयुर्वेददीपिका
(

मनःशुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस् तदभिधानम् इतरमानसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम् ।। १ ।।

अरुजेभ्यो ऽद्विजातिभ्यो येषु च पुरुषेषु शुश्रूषा नास्ति तेषु चैतन् न वाच्यमिति योजना ।। २ ।।
)

ये रसायनसंयोगा वृष्ययोगाश्च ये मताः ।
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम् ।। चसं-६,१.४.३९ ।।

प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम् ।
अश्विनाव् इव देवेन्द्रः पूजयेद् अतिशक्तितः ।। चसं-६,१.४.४० ।।

अश्विनौ देवभिषजौ यज्ञवाहाव् इति स्मृतौ ।
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम् ।। चसं-६,१.४.४१ ।।

प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च ।
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ।। चसं-६,१.४.४२ ।।

चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा ।
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ।। चसं-६,१.४.४३ ।।

भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ।। चसं-६,१.४.४४ ।।

एतैश्चान्यैश्च बहुभिः कर्मभिर् भिषगुत्तमौ ।
बभूवतुर्भृशं पूज्याव् इन्द्रादीनां महात्मनाम् ।। चसं-६,१.४.४५ ।।

ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च ।
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ।। चसं-६,१.४.४६ ।।

प्रातश्च सवने सोमं शक्रो ऽश्विभ्यां सहाश्नुते ।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते ।। चसं-६,१.४.४७ ।।

इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः ।
स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः ।। चसं-६,१.४.४८ ।।

अजरैरमरैस्तावद्विबुधैः साधिपैर् ध्रुवैः ।
एते प्रयतैरेवमश्विनौ भिषजाव् इति ।। चसं-६,१.४.४९ ।।

मृत्युव्याधिजरावश्यैर् दुःखप्रायैः सुखार्थिभिः ।
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर् नातिशक्तितः ।। चसं-६,१.४.५० ।।

शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः ।
प्राणिभिर्गुरुवत्पूज्यः प्राणाचार्यः स हि स्मृतः ।। चसं-६,१.४.५१ ।।

आयुर्वेददीपिका
(

सम्प्रति रसायनादिसिद्धिर् वैद्याधीना तेन वैद्यस्तुतिम् आरभते य इत्यादि ।। १ ।।

प्राणाचार्यमित्यत्र प्राणिवर्यम् इति वा पाठः तत्र प्राणिनां वर्यः श्रेष्ठः प्राणिवर्यः ।। २ ।।

यज्ञं वहत इति यज्ञवाहौ ।। ३ ।।

एतद्यज्ञवाहत्वमेव दर्शयति दक्षस्य हीत्यादि ।। ४ ।।

पूष्णः सूर्यस्य भगोऽपि सूर्यभेदः ।। ५ ।।

सोमाभिपतित इति सोमाभिपतनयोगेन पीडित इत्यर्थः सोमातिपचित इति वा पाठः तत्राप्यतिपचनेन सोमपानातियोगं दर्शयति ।। ६ ।।

ग्रहाः सोमपानपात्राणि ।। ७ ।।

स्तोत्राणि स्तवाः स्तावकवाचः शस्त्राणीति केचित् संशस्यते ऽनेनेति कृत्वा सामऋग्व्यतिरिक्तं स्तोत्रमाहुः शस्त्राणि अस्त्राण्येव वषड्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त एव ।। ८ ।।

धूम्राश् च पशव इति धूम्रवर्णपशवः एवंवर्णाश् च पशवः श्रेष्ठा भवन्ति ।। ९ ।।

सवन इति यज्ञस्थाने ।। १० ।।

सौत्रामणी यज्ञविशेषः ।। ११ ।।

अतिशक्तित इति निजशक्तेर् अप्यतिरेकेण ।। १२ ।।
)

विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते ।
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ।। चसं-६,१.४.५२ ।।

विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा ।
ध्रुवम् आविशति ज्ञानात्तस्माद् वैद्यो द्विजः स्मृतः ।। चसं-६,१.४.५३ ।।

नाभिध्यायेन्न चाक्रोशेद् अहितं न समाचरेत् ।
प्राणाचार्यं बुधः कश्चिद् इच्छन्न् आयुर् अनित्वरम् ।। चसं-६,१.४.५४ ।।

आयुर्वेददीपिका
(

वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह विद्येत्यादि ।। १ ।।

तेन विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना द्विजत्वं भवतीत्युक्तं भवति ।। २ ।।

ब्राह्मं वा आर्षं वा इति विकल्पो वैद्यविशेषाभिप्रायाद् भवति तयोर् यो नैष्ठिकचिकित्सार्थस्तस्य ब्राह्मम् इतरस्य तु लोकानुग्राहिण आर्षमिति व्यवस्था ।। ३ ।।
)

चिकित्सितस्तु संश्रुत्य यो वासंश्रुत्य मानवः ।
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ।। चसं-६,१.४.५५ ।।

भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान् ।
आबाधेभ्यो हि संरक्षेद् इच्छन् धर्मम् अनुत्तमम् ।। चसं-६,१.४.५६ ।।

धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः ।
प्रकाशितो धर्मपरैर् इच्छद्भिः स्थानमक्षरम् ।। चसं-६,१.४.५७ ।।

नार्थार्थं नापि कामार्थमथ भूतदयां प्रति ।
वर्तते यश्चिकित्सायां स सर्वम् अतिवर्तते ।। चसं-६,१.४.५८ ।।

कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम् ।
ते हित्वा काञ्चनं राशिं पांशुराशिमुपासते ।। चसं-६,१.४.५९ ।।

दारुणैः कृष्यमाणानां गदैर् वैवस्वतक्षयम् ।
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति ।। चसं-६,१.४.६० ।।

धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते ।
न हि जीवितदानाद्धि दानम् अन्यद् विशिष्यते ।। चसं-६,१.४.६१ ।।

परो भूतदया धर्म इति मत्वा चिकित्सया ।
वर्तते यः स सिद्धार्थः सुखम् अत्यन्तम् अश्नुते ।। चसं-६,१.४.६२ ।।

आयुर्वेददीपिका
(

संश्रुत्येति प्रतिज्ञाय ।। १ ।।

चिकित्सैव पण्यं विक्रेतव्यमिति चिकित्सापण्यम् ।। २ ।।

ते हित्वेत्यादौ धर्मार्थं क्रियमाणचिकित्सा महाफलत्वेन काञ्चनराशितुल्या इतरा त्व् असारकल्पा पांशुराशितुल्या ।। ३ ।।

वैवस्वतक्षयमिति यमगृहम् ।। ४ ।।
)

आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम् ।
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ।। चसं-६,१.४.६३ ।।

सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः ।
आयुर्वेदसमुत्थाने तत् सर्वं संप्रकाशितम् ।। चसं-६,१.४.६४ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो नाम रसायनपादश्चतुर्थः ।। चसं-६,१.४.६५ ।।

आयुर्वेददीपिका
(

संग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम् ।। १ ।।

आयुर्वेदसमुत्थाने प्रकाशिततया दिव्यौषधिविध्यादि यदुवाच ब्रह्मचारिभ्योऽमरेश्वरः तत् संप्रकाशितम् इति योजना ।। २ ।।
)




चरकसंहिता, चिकित्सास्थान, २ (वाजीकरणाध्याय), १ (संयोगशरमूलीय)[सम्पाद्यताम्]

अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः ।। चसं-६,२.१.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,२.१.२ ।।

आयुर्वेददीपिका
(

स्वस्थोर्जस्करत्वसामान्यात् रसायनमनु वाजीकरणं वाच्यं तत्रापि वाजीकरणे प्रवृत्त्युपदर्शकप्रकरणयुक्तत्वाद् आदौ संयोगशरमूलीय उच्यते ।
संयोगः शरमूलानाम् अस्मिन्न् अस्तीति संयोगशरमूलीयः ।। १ ।।
)

वाजीकरणम् अन्विच्छेत् पुरुषो नित्यमात्मवान् ।
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च ।। चसं-६,२.१.३ ।।

पुत्रस्यायतनं ह्य् एतद्गुणाश्चैते सुताश्रयाः ।

आयुर्वेददीपिका
(

अवाजी वाजीवात्यर्थं मैथुने शक्तः क्रियते येन तद् वाजीकरणम् ।। १ ।।

उक्तं हि वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियम् इत्यादि ।। २ ।।

अन्विच्छेदिति रसायनान्महाफलात् तदपेक्षयाल्पफलं वाजीकरणं पश्चाद् इच्छेत् ।। ३ ।।

पुरुष इति पदेन तरुणपुरुषग्राहिणा बालवृद्धौ निषिद्धव्यवायौ निराकरोति ।। ४ ।।

उक्तं हि ।
अतिबालो ह्य् असंपूर्णसर्वधातुः स्त्रियो व्रजन् ।
उपतप्येत सहसा तडागमिव काजलम् ।। ५ ।।

शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् इति ।। ६ ।।

नित्यमित्यनेन न रसायनवत् संप्रयोगो वृष्यस्य किंत्व् आहारवत् सर्वदोषयोग इति दर्शयति ।। ७ ।।

आत्मवानित्यनेन दुरात्मनो वृष्यकरणं निषेधति स हि वृष्योपयोगादुपचितधातुः सन्न् अगम्यागमनमपि कुर्यात् ।। ८ ।।

धर्मादयो वृष्यायत्ता एव यथा भवन्ति तदाह पुत्रस्येत्यादि ।। ९ ।।

आयतनं कारणम् ।। १० ।।

एते गुणा इति धर्मादयः वृष्यप्रयोगजनितः पुत्रो धर्मादीन् पितुः सम्पादयतीत्यर्थः ।। ११ ।।

वाजीकरणसेवया चेह युक्तयैव ऋतुकाले च मैथुनं प्राधान्येनाभिप्रेतं तेन तिस्रैषणीये त्रय उपस्तम्भाः इत्यादिग्रन्थेन ब्रह्मचर्यं यदुक्तं तद् ऋतुकाले यथाविधिकृतमैथुनाप्रतिषेधकम् इति न विरोधः ।। १२ ।।
)

वाजीकरणम् अग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ।। चसं-६,२.१.४ ।।

इष्टा ह्य् एकैकशो ऽप्य् अर्थाः परं प्रीतिकराः स्मृताः ।
किं पुनः स्त्रीशरीरे ये संघातेन प्रतिष्ठिताः ।। चसं-६,२.१.५ ।।

संघातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते ।
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम् ।
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्व् अपत्यं प्रतिष्ठितम् ।। चसं-६,२.१.६ ।।

धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः ।
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता ।। चसं-६,२.१.७ ।।

या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता ।

आयुर्वेददीपिका
(

सर्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह वाजीत्यादि ।। १ ।।

क्षेत्रमिव क्षेत्रं तत्र शुक्ररूपबीजप्ररोहणात् ।। २ ।।

अर्था इति शब्दादयः ते च स्त्रीगताधररसकलविङ्करुतरूपादयः प्रसिद्धा एव ।। ३ ।।

धर्मार्थौ स्त्रीष्विति सहैव पत्न्या धर्मश्चर्य इत्याद्युपदेशाद् धर्मः तथानुरक्ता गृहिणी अर्थरक्षणादि करोतीत्यर्थ इत्यर्थः ।। ४ ।।

स्त्रिया लक्ष्म्याः संयोगे धनसम्पद् भवतीति स्त्रीषु लक्ष्मीः प्रतिष्ठितेत्यर्थः ।। ५ ।।

वश्या आयत्ता ।। ६ ।।

शिक्षितेति कामशास्त्रोक्तगीतवादित्रलास्यादिचतुःषष्टिकलाशिक्षिता ।। ७ ।।
)

नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम् ।। चसं-६,२.१.८ ।।

तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः ।
वयोरूपवचोहावैर् या यस्य परमाङ्गना ।। चसं-६,२.१.९ ।।

प्रविशत्याशु हृदयं दैवाद् वा कर्मणो ऽपि वा ।
हृदयोत्सवरूपा या या समानमनःशया ।। चसं-६,२.१.१० ।।

समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः ।
या पाशभूता सर्वेषाम् इन्द्रियाणां परैर्गुणैः ।। चसं-६,२.१.११ ।।

यया वियुक्तो निस्त्रीकम् अरतिर् मन्यते जगत् ।
यस्या ऋते शरीरं ना धत्ते शून्यम् इवेन्द्रियैः ।। चसं-६,२.१.१२ ।।

शोकोद्वेगारतिभयैर् यां दृष्ट्वा नाभिभूयते ।
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम् ।। चसं-६,२.१.१३ ।।

अपूर्वामिव यां याति नित्यं हर्षातिवेगतः ।
गत्वा गत्वापि बहुशो यां तृप्तिं नैव गच्छति ।। चसं-६,२.१.१४ ।।

सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः ।
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम् ।। चसं-६,२.१.१५ ।।

शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः ।

आयुर्वेददीपिका
(

रूपादिव्यतिरेकेणापि काचित् कस्यचित् कर्मवशाद्वृष्या स्त्री भवतीति दर्शयन्नाह नानेत्यादि ।। १ ।।

दैवयोगादिति प्राक्तनकर्मवशात् ।। २ ।।

विवर्धन्त इति वृष्यत्वं सम्पादयन्ति ।। ३ ।।

हावो नरं प्रति स्त्रीणां शृङ्गारचेष्टाविशेषः ।। ४ ।।

उक्तं च भरतेन प्रकाशरूपकं सत्त्वं सत्त्वोत्प्लवाः समुद्गताः ।। ५ ।।

तेभ्यो हावादिनिष्पत्तिरित्याहुः परमर्षयः इति ।। ६ ।।

दैवाद् इति प्राक्तनकर्मणः ।। ७ ।।

कर्मण इति ऐहिकाद्वशीकरणादिकर्मणः ।। ८ ।।

मनःशयः कामः ।। ९ ।।

पाशभूतेति मनैन्द्रियबन्धहेतुत्वात् ।। १० ।।

नानाभावा हि मानवाः इत्यनेन रूपादिगुणयोगेन सर्वपुरुषान् प्रति स्त्रीणां प्रियत्वमिति दर्शयति ।। ११ ।।
)

अच्छायश् चैकशाखश् च निष्फलश्च यथा द्रुमः ।। चसं-६,२.१.१६ ।।

अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः ।
चित्रदीपः सरः शुष्कम् अधातुर् धातुसंनिभः ।। चसं-६,२.१.१७ ।।

निष्प्रजस् तृणपूलीति मन्तव्यः पुरुषाकृतिः ।
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ।। चसं-६,२.१.१८ ।।

मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ।
बहुमूर्तिर् बहुमुखो बहुव्यूहो बहुक्रियः ।। चसं-६,२.१.१९ ।।

बहुचक्षुर् बहुज्ञानो बह्वात्मा च बहुप्रजः ।
मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवान् अयम् ।। चसं-६,२.१.२० ।।

बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः ।
प्रीतिर्बलं सुखं वृत्तिर् विस्तारो विपुलं कुलम् ।। चसं-६,२.१.२१ ।।

यशो लोकाः सुखोदर्कास्तुष्टिश् चापत्यसंश्रिताः ।
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ।। चसं-६,२.१.२२ ।।

वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च ।
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान् ।। चसं-६,२.१.२३ ।।

वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरम् ।

आयुर्वेददीपिका
(

सम्प्रति वृष्यप्रयोगसाध्यस्य पुत्रस्योपादेयेतां दर्शयन्नाह अच्छाय इत्यादि ।। १ ।।

एकशाख इति एकस्वरूप इत्यर्थः ।। २ ।।

चित्रलिखितो दीपश्चित्रदीपः ।। ३ ।।

अधातुर् धातुसंनिभ इति असुवर्णादिरूपः सुवर्णादिवद् आभासते यो जातुषकङ्कणादिः ।। ४ ।।

पूली नपुंसकधर्मित्वात् ।। ५ ।।

तृणपूली पुरुषाकृतिरिति भाषया पुरुषार्थक्रियाविरहित्वं दर्शयति ।। ६ ।।

कामसुखानि चेत्यनेन पुत्रोत्पादातिरिक्तं नातिश्लाघ्यं फलं दर्शयति ।। ७ ।।

कामसुखानि हि ऐहिकान्येव परं न पुत्रवद् उभयलोकोपकारकाणि ।। ८ ।।

उपभोगे मैथुने सुखं कुर्वन्तीत्युपभोगसुखाः किंवा उपभोक्तुं सुखा उपभोगसुखाः ।
वीर्यं शुक्रम् ।। ९ ।।
)

शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुबालिका ।। चसं-६,२.१.२४ ।।

शतावरी पयस्या च विदारी कण्टकारिका ।
जीवन्ती जीवको मेदा वीरा चर्षभको बला ।। चसं-६,२.१.२५ ।।

ऋद्धिर् गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा ।
एषां त्रिपलिकान् भागान् माषाणाम् आढकं नवम् ।। चसं-६,२.१.२६ ।।

विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत् ।
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली ।। चसं-६,२.१.२७ ।।

आत्मगुप्ता मधूकानि खर्जूराणि शतावरी ।
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक् ।। चसं-६,२.१.२८ ।।

सर्पिषश् चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक् ।
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः ।। चसं-६,२.१.२९ ।।

शर्करायास्तुगाक्षीर्याश् चूर्णैः प्रस्थोन्मितैः पृथक् ।
पलैश् चतुर्भिर् मागध्याः पलेन मरिचस्य च ।। चसं-६,२.१.३० ।।

त्वगेलाकेसराणां च चूर्णैर् अर्धपलोन्मितैः ।
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक् ।। चसं-६,२.१.३१ ।।

पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत् ।
एष वृष्यः परं योगो बृंहणो बलवर्धनः ।। चसं-६,२.१.३२ ।।

अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ।

आयुर्वेददीपिका
(

काण्डेक्षुः बृहदिक्षुः ।। १ ।।

इक्षुबालिका खग्गालिका ।। २ ।।

पयस्या क्षीरविदारी ।। ३ ।।

वीरा क्षीरकाकोली ।। ४ ।।

फल्गुः काष्ठोदुम्बरिका ।। ५ ।।

शतावरीत्यन्तेन कल्कच्छेदः ।। ६ ।।

वंशरोचना तुगाक्षीरी अन्ये वंशरोचनानुकारि पार्थिवद्रव्यं तालधीति वदन्ति ।। ७ ।।

स्त्याना इति घनाः ।। ८ ।।
)

माषाणामात्मगुप्ताया बीजानामाढकं नवम् ।। चसं-६,२.१.३३ ।।

जीवकर्षभकौ वीरां मेदाम् ऋद्धिं शतावरीम् ।
मधुकं चाश्वगन्धां च साधयेत् कुडवोन्मिताम् ।। चसं-६,२.१.३४ ।।

रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः ।
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ।। चसं-६,२.१.३५ ।।

दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत् ।
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक् ।। चसं-६,२.१.३६ ।।

भागांश्चतुष्पलांस् तत्र पिप्पल्याश्चावपेत् पलम् ।
पलं पूर्वमतो लीढ्वा ततोऽन्नम् उपयोजयेत् ।। चसं-६,२.१.३७ ।।

य इच्छेदक्षयं शुक्रं शेफसश् चोत्तमं बलम् ।

आयुर्वेददीपिका
(

द्वितीयप्रयोगे रसे इति क्वाथे ।। १ ।।
)

शर्करा माषविदलास्तुगाक्षीरी पयो घृतम् ।। चसं-६,२.१.३८ ।।

गोधूमचूर्णषष्ठानि सर्पिष्य् उत्कारिकां पचेत् ।
तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे ।। चसं-६,२.१.३९ ।।

सुगन्धे प्रक्षिपेद् उष्णे यथा सान्द्रीभवेद् रसः ।
एष पिण्डरसो वृष्यः पौष्टिको बलवर्धनः ।। चसं-६,२.१.४० ।।

अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत् ।
शिखितित्तिरिहंसानामेवं पिण्डरसो मतः ।
बलवर्णस्वरकरः पुमांस्तेन वृषायते ।। चसं-६,२.१.४१ ।।

आयुर्वेददीपिका
(

उत्कारिका मूषिकोत्कराकारा ।। १ ।।

शिखितित्तिरिहंसानां पिण्डरसैर् व्यस्तसमस्ताश् चत्वारः पिण्डरसाः ।। २ ।।
)

घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे ।
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ।। चसं-६,२.१.४२ ।।

ईषत् सलवणं युक्तं धान्यजीरकनागरैः ।
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः ।। चसं-६,२.१.४३ ।।

चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे ।
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च ।। चसं-६,२.१.४४ ।।

नवसर्पिषि संतप्तान् फलाम्लान् कारयेद् रसान् ।
मधुरान्वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान् ।। चसं-६,२.१.४५ ।।

तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः ।
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ।। चसं-६,२.१.४६ ।।

माषसूपेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम् ।
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान् ।
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा ।
तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ।। चसं-६,२.१.४७ ।।

निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत् ।। चसं-६,२.१.४८ ।।

हंसबर्हिणदक्षाणाम् एवमण्डानि भक्षयेत् ।। चसं-६,२.१.४९ ।।

आयुर्वेददीपिका
(

निशीत्यनेन सकलनिशामैथुने ऽपीति दर्शयति ।। १ ।।

हंसेत्यादि हंसबर्हिदक्षाणाम् अण्डप्रयोगा यद्यपि भिन्नाः तथापि प्रयोगापेक्षया एक एवायं प्रयोगः ।। २ ।।

एवं संग्रहोक्ताः हंसबर्हिदक्षाणाम् एकप्रयोगेण पञ्चदशप्रयोगाः पूर्यन्ते ।। ३ ।।
)

स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले ।
वृषायते तेन परं मनुष्यस् तद्बृंहणं चैव बलप्रदं च ।। चसं-६,२.१.५० ।।

तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः ।
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः ।। चसं-६,२.१.५१ ।।

आयुर्वेददीपिका
(

वृष्ययोगाश्च शुद्धदेहैरेव कर्तव्या इति दर्शयन्नाह स्रोतःस्वित्यादि ।। १ ।।

मितमिति मात्रावत् ।। २ ।।

क्लिष्टे इति म्लाने ।। ३ ।।
)

वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या ।
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये ।। चसं-६,२.१.५२ ।।

दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः ।
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः ।। चसं-६,२.१.५३ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये संयोगशरमूलीयो नाम वाजीकरणपादः प्रथमः ।। चसं-६,२.१.५४ ।।

आयुर्वेददीपिका
(

संग्रहे यस्य चैव येति यस्य या वृष्येत्यर्थः ।। १ ।।
)



चरकसंहिता, चिकित्सास्थान, २ (वाजीकरणाध्याय), २ (आसिक्तक्षीरिक)[सम्पाद्यताम्]

अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः ।। चसं-६,२.२.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,२.२.२ ।।

आयुर्वेददीपिका
(

आसिक्तक्षीरिकं वृष्यपादाभिधानप्रसङ्गात् पदान्तस्य विशिष्टसम्बन्धावयवतयोच्यते ।। १ ।।

आसिक्तक्षीरमिति पदम् अस्त्य् अस्मिन्न् इति आसिक्तक्षीरी तत्र स्वार्थिकः कप्रत्ययः किंवा ढक्प्रत्ययेन वैशेषिकशब्दवत् आसिक्तक्षीरिक इति साधनीयम् ।। २ ।।
)

आसिक्तक्षीरम् आपूर्णम् अशुष्कं शुद्धषष्टिकम् ।
उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम् ।। चसं-६,२.२.३ ।।

गृहीत्वा तं रसं पूतं गव्येन पयसा सह ।
बीजानामात्मगुप्ताया धान्यमाषरसेन च ।। चसं-६,२.२.४ ।।

बलायाः शूर्पपर्ण्याश्च जीवन्त्या जीवकस्य च ।
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च ।। चसं-६,२.२.५ ।।

शतावर्या विदार्याश्च द्राक्षाखर्जूरयोर् अपि ।
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् ।। चसं-६,२.२.६ ।।

तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च ।
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः ।। चसं-६,२.२.७ ।।

सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम् ।
गुटिका बदरैस्तुल्यास्ताश् च सर्पिषि भर्जयेत् ।। चसं-६,२.२.८ ।।

ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः ।
पश्यत्यपत्यं विपुलं वृद्धो ऽप्यात्मजमक्षयम् ।। चसं-६,२.२.९ ।।

आयुर्वेददीपिका
(

आसिक्तक्षीरमिति क्षीरसेकवृद्धम् ।। १ ।।

यदुक्तं जतूकर्णे ।
क्षीरसेकवृद्धं षष्टिकं पक्वम् इत्यादि ।। २ ।।

शुद्धषष्टिकमिति गौरषष्टिकम् ।। ३ ।।

अत्र बलादिरसानां तुल्यमानताः किंवा मात्राशब्दस्याल्पवचनत्वाद् बलादिरसानाम् अल्पमात्रत्वम् ।। ४ ।।

प्रक्षेप्यचूर्णप्रमाणम् आह यैः स सान्द्रीभवेद् रस इति यावन्मानेन चूर्णेन रसस्य सान्द्रता भवति तावन्मात्रं चूर्णं ग्राह्यम् ।। ५ ।।

प्रभूतत्वं मधुशर्करयोर् यावतात्यर्थमधुरत्वं स्यात् तावज्ज्ञेयम् ।। ६ ।।

अत्र च प्रयोगमहिम्नैव मधुयुक्तस्यापि प्रयोगस्य भर्जनक्रियायाम् अग्निसंयोगो न विरोधम् आवहति तथा हि सुश्रुते ऽपि त्रिफलायस्कृतौ मधुनो ऽग्निसम्बन्धो भवत्येव ।। ७ ।।

आत्मजमिति हर्षभूतात्मजं शुक्रमिति यावत् ।। ८ ।।
)

चटकानां सहंसानां दक्षाणां शिखिनां तथा ।
शिशुमारस्य नक्रस्य भिषक्शुक्राणि संहरेत् ।। चसं-६,२.२.१० ।।

गव्यं सर्पिर् वराहस्य कुलिङ्गस्य वसामपि ।
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ।। चसं-६,२.२.११ ।।

एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा ।
पूपा धानाश् च विविधा भक्ष्याश्चान्ये पृथग्विधाः ।। चसं-६,२.२.१२ ।।

एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा ।
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः ।। चसं-६,२.२.१३ ।।

आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम् ।
शृङ्गाटकानि मृद्वीकां साधयेत्प्रसृतोन्मितम् ।। चसं-६,२.२.१४ ।।

क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम् ।
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस् त्रिभिः ।। चसं-६,२.२.१५ ।।

शर्करायास्तुगाक्षीर्याः सर्पिषो ऽभिनवस्य च ।
तत् पाययेत् सक्षौद्रं षष्टिकान्नं च भोजयेत् ।। चसं-६,२.२.१६ ।।

जरापरीतोऽप्यबलो योगेनानेन विन्दति ।
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति ।। चसं-६,२.२.१७ ।।

आयुर्वेददीपिका
(

दक्षः कुक्कुटः ।। १ ।।

शुक्राणीति यद्यप्युक्तं तथापि चटकादिशुक्रग्रहणस्याशक्यत्वात् समानगुणानि तदण्डान्यपीह गृह्यन्ते ।। २ ।।

वर्तिका वर्त्याकारा भक्ष्याः ।। ३ ।।

धाना इति धानाकारा भक्ष्याः ।। ४ ।।

अयं तुल्यद्रव्यतया विविधभक्ष्यरूपो ऽप्येक एव योगः ।। ५ ।।
)

खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम् ।
खर्जूराणि मधूकानि मृद्वीकामजडाफलम् ।। चसं-६,२.२.१८ ।।

पलोन्मितानि मतिमान् साधयेत् सलिलाढके ।
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत् ।। चसं-६,२.२.१९ ।।

क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम् ।
सशर्करेण संयोग एष वृष्यः परं स्मृतः ।। चसं-६,२.२.२० ।।

आयुर्वेददीपिका
(

अजडा शूकशिम्बी ।। १ ।।
)

जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम् ।
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम् ।। चसं-६,२.२.२१ ।।

शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम् ।
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् ।। चसं-६,२.२.२२ ।।

षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम् ।
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणम् उत्तमम् ।। चसं-६,२.२.२३ ।।

आयुर्वेददीपिका
(

जीवकेत्यादौ विदार्यन्तैः कल्कैः क्षीरजलाभ्यां घृतं साधनीयम् ।। १ ।।
)

दध्नः सरं शरच्चन्द्रसंनिभं दोषवर्जितम् ।
शर्कराक्षौद्रमरिचैस् तुगाक्षीर्या च बुद्धिमान् ।। चसं-६,२.२.२४ ।।

युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे ।
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने ।। चसं-६,२.२.२५ ।।

पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् ।
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते ।। चसं-६,२.२.२६ ।।

आयुर्वेददीपिका
(

युक्त्येति यथा कटुत्वाद्यधिकं न भवति तथा मरिचादियोगः कर्तव्यः ।। १ ।।

मार्जितमिति सुघृष्टम् ।। २ ।।

रसालालक्षणं सचातुर्जातकाजाजि सगुडार्द्रकनागरम् ।। ३ ।।

रसाला स्याच्छिखरिणी सुघृष्टं ससरं दधि इति ।। ४ ।।
)

चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम् ।
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते ।। चसं-६,२.२.२७ ।।

तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम् ।
युक्तं षष्टिकचूर्णेन सर्पिषाभिनवेन च ।। चसं-६,२.२.२८ ।।

पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः ।
य इच्छेदश्ववद् गन्तुं प्रसेक्तुं गजवच् च यः ।। चसं-६,२.२.२९ ।।

आयुर्वेददीपिका
(

चन्द्रांशुकल्पमिति अत्यर्थशुक्लम् ।। १ ।।
)

एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो बलवर्णयुक्तः ।
हर्षान्वितो वाजिवद् अष्टवर्षो भवेत् समर्थश्च वराङ्गनासु ।। चसं-६,२.२.३० ।।

यद्यच्च किंचिन् मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः ।
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ।। चसं-६,२.२.३१ ।।

आयुर्वेददीपिका
(

अत्र योग्यम् इति वृष्यप्रयोगसमर्थम् ।। १ ।।
)

आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः ।
अष्टाव् अपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः ।। चसं-६,२.२.३२ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः ।। चसं-६,२.२.३३ ।।

आयुर्वेददीपिका
(

पौरुषार्थिभिरिति शुक्रार्थिभिः ।। १ ।।
)



चरकसंहिता, चिकित्सास्थान, २ (वाजीकरणाध्याय), ३ (माषपर्णभृतीय)[सम्पाद्यताम्]

अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः ।। चसं-६,२.३.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,२.३.२ ।।

आयुर्वेददीपिका
(

माषपर्णभृतीयसम्बन्धो ऽपि पूर्ववत् ।। १ ।।
)

माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम् ।
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान् ।। चसं-६,२.३.३ ।।

रोहिणीमथवा कृष्णाम् ऊर्ध्वशृङ्गीम् अदारुणाम् ।
इक्ष्वादाम् अर्जुनादां वा सान्द्रक्षीरां च धारयेत् ।। चसं-६,२.३.४ ।।

केवलं तु पयस्तस्याः शृतं वाशृतमेव वा ।
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम् ।। चसं-६,२.३.५ ।।

आयुर्वेददीपिका
(

गृष्टिम् एकवारप्रसूताम् ।। १ ।।

चतुःस्तनीम् इत्यनेन सम्पूर्णचतुःस्तनीं दर्शयति ।। २ ।।

रोहिणीमिति लोहितवर्णाम् ।। ३ ।।

ऊर्ध्वशृङ्गत्वं विशुद्धबहुक्षीराया एव भवतीति वचनाज्ज्ञेयम् ।। ४ ।।

इक्ष्वादेति इक्षुदण्डभक्षा ।। ५ ।।

अर्जुनादा अर्जुनवृक्षपत्त्रभक्षा ।। ६ ।।

इक्ष्वादा वा अर्जुनादा वा माषपर्णभृता वेति विकल्पत्रयम् ।। ७ ।।

पयः शृतमशृतं वेति द्वौ योगौ ।। ८ ।।

शर्कराक्षौद्रसर्पिर्भिर्युक्तं तदिति तृतीयः ।। ९ ।।

एतत्प्रयोगोऽपि जतूकर्णे तस्याः क्षीरं शर्कराक्षौद्रयुक्तं वा केवलं शृतमशृतं वेति ।। १० ।।
)

शुक्रलैर् जीवनीयैश्च बृंहणैर् बलवर्धनैः ।
क्षीरसंजननैश्चैव पयः सिद्धं पृथक् पृथक् ।। चसं-६,२.३.६ ।।

युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् ।
पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ।। चसं-६,२.३.७ ।।

आयुर्वेददीपिका
(

पर्यायेणेति पृथक् पृथक् प्रयोक्तव्यं तेन पञ्चभिर्गणैः पञ्च योगा भवन्ति ।। १ ।।
)

मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम् ।
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान् ।। चसं-६,२.३.८ ।।

पयस्यर्धोदके पक्त्वा कार्षिकान् आढकोन्मिते ।
विवर्जयेत् पयःशेषं तत्पूतं क्षौद्रसर्पिषा ।। चसं-६,२.३.९ ।।

युक्तं सशर्करं पीत्वा वृद्धः सप्ततिको ऽपि वा ।
विपुलं लभतेऽपत्यं युवेव च स हृष्यति ।। चसं-६,२.३.१० ।।

आयुर्वेददीपिका
(

विवर्जयेद् इति मेदादिकल्कं वर्जयेत् ।। १ ।।

वृद्धः सप्ततेरर्वागिति ज्ञेयम् ।। २ ।।

सप्ततिकस्य तु यद्यपि शुक्रनिवृत्तिरुक्ता तथापि वृष्यप्रभावाद् भवतीति विज्ञेयम् ।। ३ ।।
)

मण्डलैर्जातरूपस्य तस्या एव पयः शृतम् ।
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ।। चसं-६,२.३.११ ।।

आयुर्वेददीपिका
(

जातरूपस्येति सुवर्णस्य मण्डलरूपाकृतिर् इह सुवर्णस्य प्रभावाद्वृष्यप्रयोगोपकारिणी भवतीति वचनाज्ज्ञेयम् ।। १ ।।

तस्या एवेति माषपर्णभृतधेन्वाः ।। २ ।।
)

त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः ।
भृष्टाः सशर्करक्षौद्राः क्षीरधारावदोहिताः ।। चसं-६,२.३.१२ ।।

पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा ।
भुक्त्वा न रात्रिम् अस्तब्धं लिङ्गं पश्यति ना क्षरत् ।। चसं-६,२.३.१३ ।।

श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे ।
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः ।। चसं-६,२.३.१४ ।।

आयुर्वेददीपिका
(

प्रकुञ्चं पलम् ।। १ ।।

क्षीरधारावदोहिता इति पिप्पलीकल्काद् उपरि क्षीरधारावदोहः कर्तव्यः क्षीरं च तावद्दोह्यं यावता पानयोग्याः पिप्पल्यो भवन्ति ।। २ ।।
)

फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम् ।
कुडवश्चूर्णितानां स्यात् स्वयंगुप्ताफलस्य च ।। चसं-६,२.३.१५ ।।

कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः ।
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत् ।। चसं-६,२.३.१६ ।।

सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् ।
पक्त्वा पूपलिकाः खादेद् बह्व्यः स्युर् यस्य योषितः ।। चसं-६,२.३.१७ ।।

आयुर्वेददीपिका
(

फलानामित्यादि ।। १ ।।

फलानामिति जीवनीयानाम् इत्यादिभिस् त्रिभिः प्रत्येकम् अभिसंबध्यते ।। २ ।।

जीवनीयानामिति षट्ककषायवर्गोक्तानां जीवकर्षभादीनां दशानाम् ।। ३ ।।

स्निग्धानामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककषायवर्गोक्तानाम् ।। ४ ।।

तथा रुचिकारिणाम् इति चतुष्ककषायवर्गोक्तानाम् आम्रादीनां हृद्यानां दशानाम् इति ।। ५ ।।

एषां जीवनीयप्रभृतीनां फलानां चूर्णितानां मिलित्वा कुडवो ग्राह्यः ।। ६ ।।

अन्यद् अतिरोहितार्थम् ।। ७ ।।

तथा ह्य् अयं प्रयोगो जतूकर्णे च पठ्यते द्राक्षाखर्जूरमाषाजडागोधूमशालिघृतानां कुडवः तिलमुद्गौ द्विकौडविकौ चूर्णयित्वा इत्यादि ।। ८ ।।
)

घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम् ।। चसं-६,२.३.१८ ।।

आयुर्वेददीपिका
(

घृतं शतावरीत्यादौ शर्करादीनां प्रक्षेप्याणाम् अन्यतोदृष्टन्यायाद् घृतात् पादिकत्वं घृतस्य प्रास्थिकत्वम् ।। १ ।।
)

कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् ।
प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत् ।। चसं-६,२.३.१९ ।।

आयुर्वेददीपिका
(

कर्षम् इत्यादिकान्ताः पञ्चदश प्रयोगाः ।। १ ।।
)

घृतक्षीराशनो निर्भीर् निर्व्याधिर् नित्यगो युवा ।
संकल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते ।। चसं-६,२.३.२० ।।

कृतैककृत्याः सिद्धार्था ये चान्योन्यानुवर्तिनः ।
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये ।। चसं-६,२.३.२१ ।।

कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः ।
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः ।। चसं-६,२.३.२२ ।।

ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः ।
तैर् नरः सह विस्रब्धः सुवयस्यैर् वृषायते ।। चसं-६,२.३.२३ ।।

अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः ।
गृहशय्यासनसुखैर् वासोभिरहतैः प्रियैः ।। चसं-६,२.३.२४ ।।

विहंगानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः ।
संवाहनैर् वरस्त्रीणाम् इष्टानां च वृषायते ।। चसं-६,२.३.२५ ।।

आयुर्वेददीपिका
(

घृतक्षीराशन इत्यादिना तु वृष्यत्वार्थिन आहाराचाराभिधानम् ।। १ ।।

नित्यमित्यनेन व्यवायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्तिं दर्शयति ।। २ ।।

कृतम् एकं कृत्यं यैस्ते तथा एतच्च अन्योन्यार्थरागकारणम् ।। ३ ।।

सिद्धार्था इति सिद्धसाध्याः अकृतार्था हि व्याकुलमनसो न कामक्षमाः ।। ४ ।।

वृषायत इति उपचितप्रवृत्त्युन्मुखशुक्रो भवति ।। ५ ।।
)

मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः ।
जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ।। चसं-६,२.३.२६ ।।

नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः ।
उन्नतिर् नीलमेघानां रम्यचन्द्रोदया निशाः ।। चसं-६,२.३.२७ ।।

वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः ।
रतिभोगक्षमा रात्र्यः संकोचागुरुवल्लभाः ।। चसं-६,२.३.२८ ।।

आयुर्वेददीपिका
(

मत्तद्विरेफाचरिताः इत्यादि गृहाणि च इत्यन्तं योग्यतया ऋतुविभागेनानुक्तम् अपि ग्रीष्म एव ज्ञेयं मेघानां इत्यन्तं प्रावृषि तथा गन्धिन इत्यन्तं शरदि वल्लभा इत्यन्तं च विधानं हेमन्तशिशिरयोर् ज्ञेयम् ।। १ ।।

संकोचं कुङ्कुमं संकोचागुरुणोः समालभनार्थं वल्लभा यासु निशासु तास् तथा ।। २ ।।
)

सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः ।
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च ।। चसं-६,२.३.२९ ।।

सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य ।
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम् ।। चसं-६,२.३.३० ।।

प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च ।
माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ।। चसं-६,२.३.३१ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः ।। चसं-६,२.३.३२ ।।

आयुर्वेददीपिका
(

सुखा इत्यादिग्रन्थविधानं तु वसन्ताभिप्रायविहितम् अन्यत्राप्यविरुद्धम् ।। १ ।।

आत्मजस्येति मन्मथस्य ।। २ ।।

जातमदः कालो वसन्तादिः ।। ३ ।।
)




चरकसंहिता, चिकित्सास्थान, २ (वाजीकरणाध्याय), ४ (पुमाञ्जातबलादिक)[सम्पाद्यताम्]

अथातः पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्यामः ।। चसं-६,२.४.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,२.४.२ ।।

आयुर्वेददीपिका
(

पारिशेष्यात् पुमाञ्जातबलादिक उच्यते ।। १ ।।

पुमाञ्जातबलादयः शब्दा अस्मिन् विद्यन्त इति पुमाञ्जातबलादिकः आसिक्तक्षीरिकवच्छब्दसिद्धिः ।। २ ।।
)

पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत् ।
यथा चापत्यवान् सद्यो भवेत् तद् उपदेक्ष्यते ।। चसं-६,२.४.३ ।।

न हि जातबलाः सर्वे नराश् चापत्यभागिनः ।
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः ।। चसं-६,२.४.४ ।।

सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः ।
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः ।। चसं-६,२.४.५ ।।

नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम् ।
गजवच्च प्रसिञ्चन्ति केचिन् न बहुगामिनः ।। चसं-६,२.४.६ ।।

कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः ।
केचित्प्रयत्नैर्व्यज्यन्ते वृषाः केचित् स्वभावतः ।। चसं-६,२.४.७ ।।

तस्मात् प्रयोगान्वक्ष्यामो दुर्बलानां बलप्रदान् ।
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान् ।। चसं-६,२.४.८ ।।

पूर्वं शुद्धशरीराणां निरूहैः सानुवासनैः ।
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान् ।। चसं-६,२.४.९ ।।

घृततैलरसक्षीरशर्करामधुसंयुताः ।
वस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् ।। चसं-६,२.४.१० ।।

आयुर्वेददीपिका
(

जातबलत्वे सत्य् अपि नावश्यम् अपत्यभागित्वं भवतीति वा यथा जातबलः इत्युक्तेऽपि यथा चापत्यवान् भवेत् युक्तम् ।। १ ।।

तदेव शुक्रवैचित्र्यं स्फोटयति न हीत्यादि ।। २ ।।

न हि जातबलाः सर्वे इत्येकः पक्षः तथा नरा नापत्यभागिनः सर्व इति द्वितीयः पक्षो ज्ञेयः ।। ३ ।।

एतच्छुक्रबलभेदप्रसङ्गाद् अपरानपि शुक्रबलविशेषान् आह बृहच्छरीरा इत्यादि ।। ४ ।।

अल्पाश्रया अल्पशरीराः एते च शुक्रसारत्वेन नरीषु बलवन्तो बहुप्रजाश्च भवन्ति ।। ५ ।।

गजवत् प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति ।। ६ ।।

कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः ।। ७ ।।

अभ्यसनध्रुवा इति व्यवायाभ्यासेनैव व्यवायसमर्था भवन्ति ।। ८ ।।

एवं प्रयत्नैर् व्यज्यन्त इति वृष्यप्रयोगैः स्त्रीषु प्रवर्तन्ते ।। ९ ।।

सुखोपभोगान् इति सुखानुष्ठानान् ।। १० ।।

निरूहानुवासनशुद्धानां वृष्यप्रयोगाः फलदा भवन्तीति निरूहानुवासनाभिधानम् ।। ११ ।।
)

पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे ।
कोलवद्गुलिकाः कृत्वा तप्ते सर्पिषि वर्तयेत् ।। चसं-६,२.४.११ ।।

वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे ।
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके ।। चसं-६,२.४.१२ ।।

यथा न भिन्द्याद् गुलिकास् तथा तं साधयेद् रसम् ।
तं पिबन् भक्षयंस् ताश्च लभते शुक्रमक्षयम् ।। चसं-६,२.४.१३ ।।

मांसानाम् एवम् अन्येषां मेद्यानां कारयेद्भिषक् ।
गुटिकाः सरसास् तासां प्रयोगः शुक्रवर्धनः ।। चसं-६,२.४.१४ ।।

आयुर्वेददीपिका
(

वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः ।। १ ।।

दधिदाडिमसाराभ्यां संस्कृतं दधिदाडिमसारिकम् ।। २ ।।

दाडिमसारश्च दाडिमरसः ।। ३ ।।

मांसानामित्यादि अतिदेशयोगो द्वितीयः ।। ४ ।।

मेद्यानामिति मेदुराणाम् ।। ५ ।।
)

माषानङ्कुरिताञ्छुद्धान् वितुषान् साजडाफलान् ।
घृताढ्ये माहिषरसे दधिदाडिमसारिके ।। चसं-६,२.४.१५ ।।

प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरैः ।
भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम् ।। चसं-६,२.४.१६ ।।

आयुर्वेददीपिका
(

अजडा शूकशिम्बी ।। १ ।।

भुक्तः पीतश्चेति पूर्वयोगवद् धनभागस्य भोजनं द्रवस्य च पानं ज्ञेयम् ।। २ ।।
)

आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिताः ।
तप्ते सर्पिषि यः खादेत्स गच्छेत् स्त्रीषु न क्षयम् ।। चसं-६,२.४.१७ ।।

घृतभृष्टान् रसे छागे रोहितान् फलसारिके ।
अनुपीतरसान् स्निग्धानपत्यार्थी प्रयोजयेत् ।। चसं-६,२.४.१८ ।।

आयुर्वेददीपिका
(

मत्स्यशब्देन प्रधानकल्पनया रोहितं वदन्ति ।। १ ।।

फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम् ।। २ ।।
)

कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकैः ।
युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत् ।। चसं-६,२.४.१९ ।।

माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत् ।
रसे चानुगते मांसं पोथयेत्तत्र चावपेत् ।। चसं-६,२.४.२० ।।

मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम् ।
माषपूपलिकानां तद्गर्भार्थम् उपकल्पयेत् ।। चसं-६,२.४.२१ ।।

एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ ।
हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ ।। चसं-६,२.४.२२ ।।

आयुर्वेददीपिका
(

कुट्टकमिति कुट्टनेनाणुशः कृतम् ।। १ ।।
)

माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम् ।
शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च ।। चसं-६,२.४.२३ ।।

संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत् ।
पयोऽनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां पराम् ।। चसं-६,२.४.२४ ।।

शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिषः ।
प्रस्थो विदार्याश्चूर्णस्य पिप्पल्याः प्रस्थ एव च ।। चसं-६,२.४.२५ ।।

अर्धाढकं तुगाक्षीर्याः क्षौद्रस्याभिनवस्य च ।
तत्सर्वं मूर्छितं तिष्ठेन् मार्त्तिके घृतभाजने ।। चसं-६,२.४.२६ ।।

मात्रामग्निसमां तस्य प्रातः प्रातः प्रयोजयेत् ।
एष वृष्यः परं योगो बल्यो बृंहण एव च ।। चसं-६,२.४.२७ ।।

आयुर्वेददीपिका
(

इक्षुरकः कोकिलाक्षः ।। १ ।।
)

शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः ।
श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक् ।। चसं-६,२.४.२८ ।।

साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः ।
शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत् ।। चसं-६,२.४.२९ ।।

आयुर्वेददीपिका
(

शर्करामधुसंयुक्तमित्यत्र प्रक्षेपन्यायात् पादिकत्वं शर्करामधुनोः ।। १ ।।
)

घृतपात्रं शतगुणे विदारीस्वरसे पचेत् ।
सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ।। चसं-६,२.४.३० ।।

शर्करायास्तुगाक्षीर्याः क्षौद्रस्येक्षुरकस्य च ।
पिप्पल्याः साजडायाश्च भागैः पादांशिकैर्युतम् ।। चसं-६,२.४.३१ ।।

गुटिकाः कारयेद्वैद्यो यथा स्थूलमुदुम्बरम् ।
तासां प्रयोगात्पुरुषः कुलिङ्ग इव हृष्यति ।। चसं-६,२.४.३२ ।।

आयुर्वेददीपिका
(

पादांशिकैरिति घृतापेक्षया पादप्रमाणैः ।। १ ।।
)

सितोपलापलशतं तदर्धं नवसर्पिषः ।
क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम् ।। चसं-६,२.४.३३ ।।

सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले ।
शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत् ।। चसं-६,२.४.३४ ।।

शुद्धा उत्कारिकाः कार्याश् चन्द्रमण्डलसंनिभाः ।
तासां प्रयोगाद्गजवन्नारीः संतर्पयेन्नरः ।। चसं-६,२.४.३५ ।।

आयुर्वेददीपिका
(

समुत्कीर्येति विस्तीर्य ।। १ ।।

उत्कारिकाः कार्या इत्यत्र पुनः पाके नैवोत्कारिकाकरणम् ।। २ ।।
)

यत् किंचिन् मधुरं स्निग्धं जीवनं बृंहणं गुरु ।
हर्षणं मनसश्चैव सर्वं तद्वृष्यमुच्यते ।। चसं-६,२.४.३६ ।।

द्रव्यैरेवंविधैस्तस्माद्भावितः प्रमदां व्रजेत् ।
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः ।। चसं-६,२.४.३७ ।।

गत्वा स्नात्वा पयः पीत्वा रसं वानु शयीत ना ।
तथास्याप्यायते भूयः शुक्रं च बलमेव च ।। चसं-६,२.४.३८ ।।

यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते ।
लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम् ।। चसं-६,२.४.३९ ।।

नर्ते वै षोडशाद् वर्षात् सप्तत्याः परतो न च ।
आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ।। चसं-६,२.४.४० ।।

अतिबालो ह्य् असंपूर्णसर्वधातुः स्त्रियं व्रजन् ।
उपशुष्येत सहसा तडागमिव काजलम् ।। चसं-६,२.४.४१ ।।

शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम् ।
स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियो व्रजन् ।। चसं-६,२.४.४२ ।।

जरया चिन्तया शुक्रं व्याधिभिः कर्मकर्षणात् ।
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात् ।। चसं-६,२.४.४३ ।।

क्षयाद्भयादविश्रम्भाच्छोकात्स्त्रीदोषदर्शनात् ।
नारीणामरसज्ञत्वाद् अविचाराद् असेवनात् ।। चसं-६,२.४.४४ ।।

तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते ।
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ।। चसं-६,२.४.४५ ।।

आयुर्वेददीपिका
(

अनुक्तवाजीकरणं संगृह्णन्नाह यत्किंचिद् इत्यादि ।। १ ।।

भावित इति वचनात् प्रयोगेण शरीरभावनायां सत्यां स्त्रीसेवा सम्भवतीति दर्शयति ।। २ ।।

आत्मवेगेनेति संकल्पजातेनात्मवेगेन ।। ३ ।।

बालस्य तडागदृष्टान्तेन पुनरपि शुक्रसद्भावं कफप्राधान्यं च दर्शयति वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन विनष्टस्यापुनर्भावं शुक्रस्य तथाभूयिष्ठतां च दर्शयति ।। ४ ।।

ननु तृप्तस्य शरीरबलं भवत्येव तत् किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यम् इत्याह देहेत्यादि ।। ५ ।।

एतेन सत्यपि तृप्तिजनिते बले क्षयादिना देहमनसोर् उपहतत्वाद्धर्षो न भवति हर्षाभावाद् व्यवायशक्तिर् न भवतीत्युक्तं भवति ।। ६ ।।
)

रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा ।
सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा ।। चसं-६,२.४.४६ ।।

तत् स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात् ।
शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात्पटादिव ।। चसं-६,२.४.४७ ।।

हर्षात्तर्षात् सरत्वाच्च पैच्छिल्याद् गौरवादपि ।
अणुप्रवणभावाच्च द्रुतत्वान् मारुतस्य च ।। चसं-६,२.४.४८ ।।

अष्टाभ्य एभ्यो हेतुभ्यः शुक्रं देहात् प्रसिच्यते ।
चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ।। चसं-६,२.४.४९ ।।

आयुर्वेददीपिका
(

सम्प्रति सम्भवति शुक्रं यथा देहे स्थितं यथा च प्रवर्तते तदाह रस इत्यादि ।। १ ।।

इक्ष्वादिदृष्टान्तत्रयेणानतिप्रयत्नाल्पप्रयत्नमहाप्रयत्नवाह्यशुक्रान् पुरुषान् यथाक्रमं दर्शयति ।। २ ।।

संस्पर्शन इति संस्पर्शनवति तेन केशादौ संस्पर्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति ।। ३ ।।

स्त्रीपुरुषसंयोगो मिश्रीभावः ।। ४ ।।

चेष्टा व्यवायचेष्टा संकल्पो योषिदनुरागः पीडनं नारीपुरुषयोः परस्परसम्मूर्छनम् अत्र च नारीपुरुषसंयोगः प्रधानं कारणं तत्सहकारीणि चेष्टादीनि ।। ५ ।।

आर्द्रपटदृष्टान्तेनाश्रयानुपघातेन शुक्रस्रवणं दर्शयति ।। ६ ।।

अपरमपि शुक्रप्रवृत्तिहेतुमाह हर्षाद् इत्यादि ।। ७ ।।

हर्षः संकल्पपूर्वकशुक्रोद्रेकध्वजोच्छ्रायादिकरीच्छा ।। ८ ।।

तर्षः वनिताभिलाषः ।। ९ ।।

सरत्वम् अस्थैर्यम् ।। १० ।।

अणुप्रवणभावः अणुत्वे सति बहिर्निर्गमनस्वभावः ।। ११ ।।

द्रुतत्वान् मारुतस्य चेति शुक्रप्रेरकस्य वायोर् अभिद्रवणशीलत्वाद् इत्यर्थः ।। १२ ।।

एते च यद्यपि हेतवस्तथापि प्राधान्यात् प्रथमप्रतिपादितस्त्रीपुरुषसंयोगादिरूपहेतूनां समष्टौ नैवामी गणिताः ।। १३ ।।

चरत इति नानामानुषपश्वादिजातिषु भ्रमतः ।। १४ ।।

विश्वरूपस्येति आत्मनः ।। १५ ।।

तथा ह्य् आत्मपर्यायेषूक्तं विश्वकर्मा स च विश्वरूपः इति ।। १६ ।।

रूपद्रव्यमिति रूपप्राक्तनकारणम् ।। १७ ।।

एतेन अव्यक्तस्यात्मनो व्यक्तशरीरनिर्वृत्तौ शुक्रं हेतुर् इत्युक्तं भवति ।। १८ ।।

शुक्रं चेह प्रकरणागतत्वेनोक्तं तेन आर्तवमप्यात्मनो रूपद्रव्यं ज्ञेयम् ।। १९ ।।
)

बहलं मधुरं स्निग्धम् अविस्रं गुरु पिच्छिलम् ।
शुक्लं च यच्छुक्रं फलवत्तदसंशयम् ।। चसं-६,२.४.५० ।।

आयुर्वेददीपिका
(

प्रशस्तशुक्रगुणान् आह बहलमित्यादि ।। १ ।।
)

येन नारीषु सामर्थ्यं वाजीवल्लभते नरः ।
व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत् ।। चसं-६,२.४.५१ ।।

आयुर्वेददीपिका
(

वाजीकरणशब्दनिरुक्तम् आह येनेत्यादि ।। १ ।।

व्रजेच्चाभ्यधिकम् इति पुनः पुनर्गच्छेत् व्यज्यते इति वा पाठः तत्रापि भूयो गमनेन नारीषु पुंस्त्वेन व्यज्यते ।। २ ।।

व्यज्यात् इति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः ।। ३ ।।

अनेन निरुक्तेन त्रिविधमपि वृष्यमवरुध्यते यथा शुक्रवृद्धिकरं च माषादि तथा स्रुतिकरं संकल्पादि शुक्रस्रुतिवृद्धिकरं क्षीरादि ।। ४ ।।

यदुक्तमन्यत्र शुक्रस्रुतिकरं किंचित् किंचिच्छुक्रविवर्धनम् ।। ५ ।।

स्रुतिवृद्धिकरं किंचित् त्रिविधं वृष्यमुच्यते इति ।। ६ ।।

त्रिविधमपि हीदं व्यवाये बलवत्त्वं पुनः पुनर्व्यवायशक्तिं च करोति ।। ७ ।।
)

हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः ।
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनाद् अनु ।। चसं-६,२.४.५२ ।।

यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः ।
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके ।। चसं-६,२.४.५३ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थः ।। चसं-६,२.४.५४ ।।

समाप्तश्चायं द्वितीयो वाजीकरणाध्यायः ।। चसं-६,२.४.५५ ।।

आयुर्वेददीपिका
(

हेतुरित्यादि ।। १ ।।

संग्रहो व्यक्तः ।। २ ।।
)




चरकसंहिता, चिकित्सास्थान, २२ ([तृष्णाचिकित्सित)[सम्पाद्यताम्]

अथातस्तृष्णाचिकित्सितं व्याख्यास्यामः ।। चसं-६,२२.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-६,२२.२ ।।

आयुर्वेददीपिका
(

विसर्पे प्रायेण तृष्णा उपद्रवरूपा भवतीति विसर्पानन्तरं तृष्णाचिकित्सितम् उच्यते ।। १ ।।
)

ज्ञानप्रशमतपोभिः ख्यातोऽत्रिसुतो जगद्धितेऽभिरतः ।
तृष्णानां प्रशमार्थं चिकित्सितं प्राह पञ्चानाम् ।। चसं-६,२२.३ ।।

आयुर्वेददीपिका
(

ज्ञानेत्यादौ ज्ञानं तत्त्वज्ञानं प्रशमः शान्तिः तपः चान्द्रायणादि ।। १ ।।

चिकित्सितं चिकित्साविधायको ग्रन्थः निदानाद्यभिधानं च चिकित्सार्थमेव निदानादिज्ञानपूर्वकत्वाच् चिकित्सायाः ।। २ ।।

पञ्चानामिति वचनेन पञ्चानामपि चिकित्साविषयत्वं दर्शयति नहि कासश्वासवदस्यासाध्यत्वं कस्याश्चिद् अत्रेत्यर्थः तथा सुश्रुतोक्तातिरिक्ततृष्णाद्वयान्तर्भावं पञ्चस्वेव सूचयति ।। ३ ।।

उक्तं हि सुश्रुते तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्य् आमसमुद्भवा च ।। ४ ।।

स्यात् सप्तमी भक्तनिमित्तजा च इति ।। ५ ।।
)

क्षोभाद्भयाच्छ्रमाद् अपि शोकात् क्रोधाद् विलङ्घनान्मद्यात् ।
क्षाराम्ललवणकटुकोष्णरूक्षशुष्कान्नसेवाभिः ।। चसं-६,२२.४ ।।

धातुक्षयगदकर्षणवमनाद्यतियोगसूर्यसंतापैः ।
पित्तानिलौ प्रवृद्धौ सौम्यान् धातूंश् च शोषयतः ।। चसं-६,२२.५ ।।

रसवाहिनीश्च नाडीर् जिह्वामूलगलतालुकक्लोम्नः ।
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ।। चसं-६,२२.६ ।।

पीतं पीतं हि जलं शोषयतस्तावतो न याति शमम् ।
घोरव्याधिकृशानां प्रभवत्युपसर्गभूता सा ।। चसं-६,२२.७ ।।

आयुर्वेददीपिका
(

क्षोभाद् इत्याद्युक्तनिदानस्य यथायोग्यतया वातकर्तृत्वं वातपित्तकर्तृत्वं चोन्नेयम् ।। १ ।।

पित्तानिलाव् इत्यादिः सर्वतृष्णासम्प्राप्तिग्रन्थः ।। २ ।।

सौम्यान् धातूनिति कफरसोदकानि सोमगुणातिरिक्तानि ।। ३ ।।

प्रदूषयत इति शोषणेन दूषयतः ।। ४ ।।

क्लोम्न इति द्वितीयाबहुवचनान्तम् ।। ५ ।।

देहे इत्यनेन एतासां तृष्णानां शरीरत्वं दर्शयति ।। ६ ।।

या हि मानसी तृष्णा सा शरीरे इच्छाद्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्तते इत्यादाव् उक्ता इयं तु देहाश्रयदोषकारणा सती देहजैवेति भावः ।। ७ ।।

स्वाभाविकतृष्णायाम् अपि वातपित्ते आरम्भके एव तत् किं साप्यत्र न गृह्यते ।। ८ ।।

मैवं तस्या उचितद्रवपानेनैवाभिप्रेतेन प्रशमाद् इह अस्वाभाविकव्याधिप्रकरणे नाधिकार इति हृदि कृत्वा ।। ९ ।।

स्वाभाविकतृष्णाकरवातपित्ताभ्यां वक्ष्यमाणतृष्णारम्भकवातपित्तयोर् विशेषमाह पीतं पीतम् इत्यादि ।। १० ।।

प्रकृततृष्णारम्भकौ पित्तवातौ पीतं पीतं जलं शोषयतः अतो जलशोषणत्वाद्धेतोर् न शमं याति पुरुषः स्वाभाविक्यां जलं पीत्वा शान्तिमधिगच्छतीति भावः ।। ११ ।।

उपद्रवरूपतृष्णोत्पादम् आह घोरेत्यादि ।। १२ ।।

उपसर्गभूता इति उपद्रवरूपा ।। १३ ।।
)

प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् ।
तृष्णानां सर्वासां लिङ्गानां लाघवमपायः ।। चसं-६,२२.८ ।।

आयुर्वेददीपिका
(

तृष्णाप्राग्रूपम् आह प्राग्रूपम् इत्यादि ।। १ ।।

प्राग्रूपकथने एव मध्ये तृष्णानामव्यभिचारिलक्षणम् आह स्वलक्षणम् इत्यादि ।। २ ।।

स्वलक्षणम् इति अव्यभिचारिलक्षणं यथा ज्वरस्य संतापः श्वयथोर् उत्सेधः ।। ३ ।।

पुनः प्रकृतं प्राग्रूपम् आह लिङ्गानां लाघवमपाय इति ।। ४ ।।

लिङ्गानां वक्ष्यमाणवातादिजतृष्णालिङ्गानां लाघवम् अल्पत्वं केषांचिच् चाभावः पूर्वरूपं तृष्णानाम् इत्यर्थः ।। ५ ।।

तेन पूर्वरूपावस्थायां वक्ष्यमाणलक्षणानि कानिचिन् न भवन्त्येव यानि च भवन्ति तान्यल्पतयास्फुटानि भवन्ति ।। ६ ।।

उक्तं च अव्यक्तं लक्षणं तस्य पूर्वरूपम् इति स्मृतम् इति ।। ७ ।।

किंवा यदेतत् प्राग्रूपं मुखशोषः स्वलक्षणं सर्वदाम्बुकामित्वम् एतत् प्राग्रूपं स्वलक्षणं च तृष्णानां तेन मुखशोषाम्बुकामित्वे स्वलक्षणे तथा पूर्वरूपे च भवतः पूर्वरूपावस्थायां त्व् अप्रबले मुखशोषाम्बुकामित्वे ज्ञेये ।। ८ ।।

ये तु प्राग्रूपं मुखशोषः स्वरक्षयः सर्वदाम्बुकामित्वम् इति पठन्ति तेषां मते तृष्णायाः स्वलक्षणं नोक्तं स्यात् ।। ९ ।।

उक्तं च हारीतेऽपि तृष्णास्वलक्षणं स्वलक्षणं तु तृष्णानां सर्वदाम्बुपिपासिता इति ।। १० ।।

किंवा मुखशोषस्वरक्षये एव पूर्वरूपं सर्वदाम्बुकामित्वं च स्वलक्षणं लिङ्गानां च लाघवं रोगरूपायास् तृष्णाया अपायो गमनमित्यर्थः अयमेव तृष्णाव्युपरमो यद् वक्ष्यमाणलिङ्गानाम् अल्पत्वं सर्वथोच्छेदो हि तृष्णालक्षणानां न भवत्येव सहजतृष्णाग्रस्तत्वेनैतल्लक्षणानाम् अल्पमात्रतयावस्थानात् ।। ११ ।।

कैश्चित् तु लिङ्गानां लाघवम् आशूत्पादः स च अपायो मरणम् इति कृत्वा तृष्णानामसाध्यतालक्षणमिदमुच्यते तन्नातिमनोहरम् ।। १२ ।।
)

मुखशोषस्वरभेदभ्रमसंतापप्रलापसंस्तम्भान् ।
ताल्वोष्ठकण्ठजिह्वाकर्कशतां चित्तनाशं च ।। चसं-६,२२.९ ।।

जिह्वानिर्गममरुचिं बाधिर्यं मर्मदूयनं सादम् ।
तृष्णोद्भूता कुरुते पञ्चविधां लिङ्गतः शृणु ताम् ।। चसं-६,२२.१० ।।

आयुर्वेददीपिका
(

सर्वतृष्णानामुपद्रवान् आह मुखशोषेत्यादि ।। १ ।।

उद्भूतेति वृद्धा ।। २ ।।

ये तु मुखशोषादीनि लक्षणान्याहुस्तन्मते तृष्णोपद्रवानाम् अभिधानं न स्यात् उपद्रवाश्चाध्यायसंग्रहे संगृहीताः तेनातिशयवृद्धा मुखशोषादय उपद्रवाः वृद्धास्तु लिङ्गम् इति व्यवस्था ।। ३ ।।
)

अब्धातुं देहस्थं कुपितः पवनो यदा विशोषयति ।
तस्मिञ्शुष्के शुष्यत्यबलस्तृष्यत्यथ विशुष्यन् ।। चसं-६,२२.११ ।।

आयुर्वेददीपिका
(

अब्धातुम् इत्यादिना पञ्चानां सम्प्राप्त्याद्य् आह ।। १ ।।

देहस्थमिति देहे नानारसादिरूपतया स्थितम् ।। २ ।।

शुष्के ऽब्धातौ शुष्यतीति योज्यम् ।। ३ ।।
)

निद्रानाशः शिरसो भ्रमस्तथा शुष्कविरसमुखता च स्रोतोऽवरोध इति च स्याल्लिङ्गं वाततृष्णायाः ।। चसं-६,२२.१२ ।।

आयुर्वेददीपिका
(

स्रोतोऽवरोध इति अत्युपघातः ।। १ ।।
)

पित्तं मतमाग्नेयं कुपितं चेत् तापयत्य् अपां धातुम् ।
संतप्तः स हि जनयेत्तृष्णां दाहोल्बणां नृणाम् ।। चसं-६,२२.१३ ।।

तिक्तास्यत्वं शिरसो दाहः शीताभिनन्दता मूर्छा ।
पीताक्षिमूत्रवर्चस्त्वम् आकृतिः पित्ततृष्णायाः ।। चसं-६,२२.१४ ।।

आयुर्वेददीपिका
(

पित्तमित्यादिना पित्तजाम् आह ।। १ ।।

शरीरसंख्याशरीरे पित्तमाप्यम् उक्तं यद् द्रवसरस्निग्धमन्दमृदुपिच्छिलं रसरुधिरवसाकफपित्तस्वेदादि तद् आप्यं रसो रसनं च इत्यनेन तथा तत्रैव यत् पित्तस्य यो या च शरीरे भाः तत् सर्वम् आग्नेयम् इत्यनेन द्वयात्मकत्वं पित्तस्य यद्यप्युक्तं तथाप्याग्नेयाकारत्वाद् बाहुल्यात् पित्तम् आग्नेयम् एवेति दर्शयन्नाह पित्तं मतम् आग्नेयम् इति द्वयात्मकत्वे ऽपि च पित्तस्याग्नेयांशप्राधान्याद् अन्यत्रापि सौम्याग्नेयवायव्यविकारभेदे पैत्तिकविकारा आग्नेयत्वेन गृहीता एव ।। २ ।।

संतप्तः स हीति अब्धातुः संतप्तः ।। ३ ।।

संतप्तं हि इति पाठपक्षे पित्तमेव जनयेदिति योज्यम् ।। ४ ।।

यदाब्धातुर् जनयति तदा पित्तसंतप्त एव जनयतीति पित्तस्यैव कर्तृत्वम् ।। ५ ।।
)

तृष्णा यामप्रभवा साप्याग्नेयामपित्तजनितत्वात् ।
लिङ्गं तस्याश् चारुचिर् आध्मानकफप्रसेकौ च ।। चसं-६,२२.१५ ।।

आयुर्वेददीपिका
(

तृष्णेत्यादिनामजाम् आह ।। १ ।।

आमशब्देन चेह लक्षणया आमसमानचिकित्सित आमसमानलक्षणश् च कफो ऽपि गृह्यते ।। २ ।।

तेनामप्रभवाया व्युत्पादनेन कफजापि सुश्रुतोक्ता गृहीतैवेह साप्याग्नेयेत्यनेन पूर्वपरिज्ञातं सर्वासां वातपित्तजन्यत्वं समुन्नयति ।। ३ ।।

वातश्च तृष्णाकारणत्वेनोक्तोऽप्यत्राप्रधानं पित्तमेव ये प्रधानम् इतीह वाताकथनाद् उन्नीयते ।। ४ ।।

अन्यत्राप्युक्तं दर्शनपक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम् ।। ५ ।।

प्रभाप्रसादौ मेधा च पित्तकर्माविकारजम् इति ।। ६ ।।

आमपित्तजनितत्वाद् इति आमावरोधवृद्धपित्तजनितत्वाद् इत्यर्थः ।। ७ ।।
)

देहो रसजोऽम्बुभवो रसश्च तस्य क्षयाच्च तृष्येद्धि ।
दीनस्वरः प्रताम्यन् संशुष्कहृदयगलतालुः ।। चसं-६,२२.१६ ।।

आयुर्वेददीपिका
(

देहो रसज इत्यादिना क्षयजाम् आह ।। १ ।।

आहाररसात् सर्वधातुपोषको धातुरस उत्पद्यते स च रसो देहपोषको ऽम्बुभव इति आप्य इत्यर्थः ।। २ ।।

तस्य क्षयादिति रसक्षयात् तृष्यते रसक्षयाद् अम्बुक्षयो भवति तेन चाम्बुक्षयेण पुरुषः पानीयप्रार्थनारूपतृष्णया युक्तो भवतीति युक्तम् इति दर्शयति ।। ३ ।।

उक्तं हि सुश्रुते दोषधातुमलक्षीणो बलक्षीणोऽपि मानवः ।। ४ ।।

स्वयोनिवर्धनं यत् तद् अन्नपानं प्रकाङ्क्षति इति इहापि चोक्तं तस्य क्षयाच्च तृष्येद्धि इति ।। ५ ।।
)

भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ।
ज्वरमेहक्षयशोषश्वासाद्युपसृष्टदेहानाम् ।। चसं-६,२२.१७ ।।

आयुर्वेददीपिका
(

भवतीत्यादिनोपसर्गजाम् आह ।। १ ।।

उपसर्गादिति ज्वराद्युपद्रवात् ज्वराद्युपद्रवरूपतयेति यावत् ।। २ ।।

कष्टेति कष्टसाध्या ।। ३ ।।

एवं प्राक्सूत्रितवातपित्तामाम्बुक्षयोपसर्गात्मिकाः पञ्च तृष्णा व्याहृताः अत्रैव सुश्रुतोक्ता कफजा आमजायाम् अवरुद्धा क्षतजा उपसर्गात्मिकायाम् अवरुद्धा अन्नजा चामजायाम् एवान्तर्भावनीया ।। ४ ।।
)

सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् ।
घोरोपद्रवयुक्तास् तृष्णा मरणाय विज्ञेयाः ।। चसं-६,२२.१८ ।।

आयुर्वेददीपिका
(

इदानीं तृष्णानामसाध्यतालक्षणम् आह सर्वास्त्वित्यादि ।
घोरोपद्रवयुक्तेति पीडाकरोपद्रववती ।। १ ।।
)

।।