दृश्यत्वात् इति अत्र आक्षेपा:

विकिपुस्तकानि तः

प्र. - दृश्यत्वात् इति अस्मिन् हेतौ आक्षेपा: तेषां समाधानं च विवृणुत।
उ.- सन्दर्भ:-
विमतं मिथ्या, दृश्यत्वात् घटादिवत्। इति अनुमानं ग्रन्थकारेण उपस्थापितम्। अत्र दृश्यत्वात् इति यो हेतु: वर्तते, तत्र पूर्वपक्षेण कृता: आक्षेपा: एते-

आक्षेप:- दृश्यत्वं नाम किम्? फलव्याप्ति: वा? वृत्तिव्याप्ति: वा ?
समाधानम्- न फलव्याप्ति:।दृश्यत्वं नाम फलव्याप्ति: इति नास्मन्मते अङ्गीक्रियते।दृश्यत्वशब्दस्य अन्यत् सर्वं पृष्टम् अर्थजातम् अङ्गीक्रियते।

आक्षेप:- दृश्यत्वं नाम वृत्तिव्याप्ति: वा ?
समाधानम्- आम्।

आ.- तर्हि ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता इति न्यायेन ब्रह्म अपि दृश्यं जातम्। तत: तत्र मिथ्यात्वं प्रसक्तम्।
समा.- उपहितब्रह्मणि एव वृत्तिव्याप्ति: अपेक्षिता, न शुद्धब्रह्मणि। उपहितं ब्रह्म अस्मन्मते मिथ्या अस्ति। शुद्धं ब्रह्म न मिथ्या। तत्र वृत्तिव्याप्ति: अपि अङ्गीक्रियते।

लघूत्तरप्रश्ना: