नैष्कर्म्यसिद्धिः

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अथ प्रथमोऽध्यायः[सम्पाद्यताम्]

आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि
दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था
प्रवृत्तिरस्ति स्वरसत एव .
दुःखस्य च देहोपादानैकहेतुत्वाद्देहस्य च
पूर्वोपचितधर्माधर्ममूलत्वादनुच्छित्तिः .
तयोश्चविहितप्रतिषिद्धकर्ममूलत्वादनिवृत्तिः .
कर्मणश्च रागद्वेषास्पदत्वाद्रागद्वेषयोश्च
शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य
चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्द्वैतस्य
च शुक्तिकारजतादिवत्सर्वस्यापि
स्वतस्सिद्धाद्वितीयात्मानवबोधमात्रोपादानत्वादव्यावृत्तिः .
अतः सर्वानर्थहेतुरात्मानवबोध एव . सुखस्य
चानागमापायिनोऽपरतन्त्रस्यात्मस्वभावत्वात्तस्यानवबोधः
पिधानम् . अतस्तस्यात्यन्तोच्छित्तावशेषपुरुषार्थपरि-
समाप्तिः . अज्ञाननिवृत्तेश्च सम्यग्ज्ञानस्वरूपलाभ-
मात्रहेतुत्वात्तदुपादानम् . अशेषानर्थहेत्वात्मानवबोध-
विषयस्य चानागमिकप्रत्यक्षादिलौकिकप्रमाणाविषयत्वा-
द्वेदान्तागमवाक्यादेव सम्यग्ज्ञानम् .
अतोऽशेषवेदान्तसारसंग्रहप्रकरणमिदमारभ्यते .
तत्राभिलषितार्थप्रचयाय प्रकरणार्थसंसूत्रणाय
चायमाद्यः श्लोकः .
खानिलाग्न्यब्धरित्र्यन्तं स्रक्फणीवोद्गतं यतः .
ध्वान्तच्छिदे नमस्तस्मै हरये बुद्धिसाक्षिणे .. १..
स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय
विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया .
अलब्ध्वातिशयं यस्माद्व्यावृत्तास्तमबादयः .
गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने .. २..
नमस्कारनिमित्तस्वाशयाविष्करणार्थः .
वेदान्तोदरसंगूढं संसारोत्सारि वस्तुगम् .
ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया .. ३..
किंविशयं प्रकरणमिति चेत्तदुपन्यासः .
यत्सिद्धाविदमः सिद्धिर्यदसिद्धौ न किंचन .
प्रत्यग्धर्मैकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् .. ४..
विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकारण-
शङ्काव्युदासेनस्वगुरोः प्रामाण्योपवर्णनम् .
गुरूक्तो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः .
सहस्रकिरणव्याप्ते खद्योतः किं प्रकाशयेत् .. ५..
गुरुणैव वेदार्थस्य परिसमापितत्वात्प्रकरणोक्तौ
ख्यात्याद्यप्रामाण्य-
कारणाशङ्केति चेत्तद्व्युदासार्थमाह .
न ख्यातिलाभपूजार्थं ग्रन्थोऽस्माभिरुदीर्यते .
स्वबोधपरिशुद्ध्यर्थं ब्रह्मविन्निकषाश्मसु .. ६..
अनर्थानर्थहेतुपुरुषार्थतद्धेतुप्रकरणार्थसंग्रहज्ञाप
-
नायोपन्यासः . ऐकात्म्याप्रतिपत्तिर्या स्वात्मानिभवसंश्रया .
साऽविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः .. ७..
पुरुषार्थहेतोरवशिष्टत्वात्तदभिव्याहारः .
वेदावसानवाक्योत्थसम्यग्ज्ञानाशुशुक्षणिः .
दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः .. ८..
प्रतिज्ञातार्थसंशुद्ध्यर्थं पूर्वपक्षोक्तिः .
तत्र ज्ञानमभ्युपगम्य तावदुपन्यासः .
मुक्तेः क्रियाभिः सिद्धत्वाज्ज्ञानं तत्र करोति किम् .
कथं चेच्छृणु तत्सर्वं प्रणिधाय मनो यथा .. ९..
अकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथा .
नित्यनैमित्तिकं कर्म विधिवच्चानुतिष्ठतः .. १०..
किमतो भवति .
काम्यकर्मफलं तस्माद्देवादीमं न ढौकते .
निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोजनिम् .. ११..
देहारम्भकयोश्च धर्माधर्मयोर्ज्ञानिना सह कर्मिणः
समानौ चोद्यपरिहारौ .
वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् .
आरब्धं पुण्यपापाभ्यां भोगादेव तयोः क्षयः .. १२..
काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य
तन्निरासेनैवाशेषानर्थनिरासस्य सिद्धत्वात्किं
नित्यानुष्ठानेनेति चेत्तन्न . तदकरणादप्यनर्थप्रसक्तेः .
नित्यानुष्ठानतश्चैनं प्रत्यवायो न संस्पृशेत् .
अनादृत्यात्मविज्ञानमतः कर्माणि संश्रयेत् .. १३..
अभ्युपेत्यैवमुच्यते न तु यथावस्थितात्मवस्तुविषयं
ज्ञानमस्ति . तत्प्रतिपादकप्रमाणाभावात् .
यावन्त्यश्चेह विद्यन्ते श्रुतयस्स्मृतिभिस्सह .
विदधत्युरुयत्नेन कर्मातो भूरिसाधनम् .. १४..
स्यात्प्रमाणसम्भवो भवदपराधादिति चेत्तन्न . यतः .
यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न क्वचित् .
श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः .. १५..
स्यात्प्रवृत्तिरन्तरेणापि विधिं लोकवदिति चेत्तन्न . यतः .
अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् .
न तत्स्यादुपकाराय भस्मनीव हुतं हविः .. १६..
अभ्युपगतप्रामाण्यवेदार्थविज्जैमिन्यनुशासनाच्च .
"आम्नायस्य क्रियार्थत्वादानर्थक्यम् "इतोऽन्यथा .
इति साटोपमाहोच्चैर्वेदविज्जैमिनिः स्वयम् .. १७..
मन्त्रवर्णाच्च .
"कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ".
इति मन्त्रोऽपि निश्शेषं कर्मण्यायुरवासृजत् .. १८..
ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च
क्रियापदप्रधानत्वात्ततश्चाभिप्रेतज्ञानाभावः .
विरहय्य क्रियां नैव संहन्यन्ते पदान्यपि .
न समस्त्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् .. १९..
ज्ञानाभ्युपगमेऽपि न दोषः . यतः .
कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाऽथवा .
सम्बन्धस्येह संसिद्धेर्ज्ञाने सत्यप्यदोषतः .. २०..
यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः .
अतः सर्वाश्रमाणां हि वाङ्मनःकायकर्मभिः .
स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् .. २१..
असदर्थप्रलापोऽयमिति दूषणसंभावनायाह .
इति हृष्टधियां वाचः स्वप्रज्ञाऽऽध्मातचेतसाम् .
घुष्यन्ते यज्ञशालासु धूमानद्धधियां किल .. २२..
दूषणोपक्रमावधिज्ञापनायाह .
अत्राभिदध्महे दोषान् क्रमशो न्यायबृंहितैः .
वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसंभ्रमात् .. २३..
चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसंभवान्न मुक्तेः
कर्मकार्यत्वम् .
अज्ञानहानमात्रत्वान्मुक्तेः कर्म न साधनम् .
कर्मापमार्ष्टि नाज्ञानं तमसीवोत्थितं तमः .. २४..
कर्मकार्यत्वाभ्युपगमेऽपि दोष एव .
एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः .
प्रत्येकं चेद्वृथान्यानि सर्वेभ्योऽप्येककर्मता .. २५..
सर्वप्रकारस्यापि कर्मण उत्पत्तित एव विशिष्टसाध्याभि-
संबन्धान्न परिशेष्यन्यायसिद्धिः .
दुरितक्षपणार्थत्वान्न नित्यं स्याद्विमुक्तये .
स्वर्गादिफलसंबन्धात्काम्यं कर्म तथैव न .. २६..
प्रमाणासंभवाच्च .
साध्यसाधनभावोऽयं वचनात्पारलौकिकः .
नाश्रौषं मोक्षदं कर्म श्रुतेर्वक्त्रात्कथंचन .. २७..
अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो
निष्प्रयोजनः प्रलापः .
निषिद्धकाम्ययोस्त्यागस्त्वयापीष्टो यथा मया .
नित्यस्याफलवत्त्वाच्च न मोक्षः कर्मसाधनः .. २८..
एवं तावत् "मुक्तेः क्रियाभिः सिद्धत्वात् "इति
निरस्तोऽयं
पक्षः . अथाधुना सर्वकर्मप्रवृत्तिहेतुनिरूपणेन
यथावस्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव
सकलसंसारानर्थनिवृत्तिरितीमं पक्षं द्रढयितुकाम
आह .
इह चेदं परीक्ष्यते . किं यथा प्रतिषिद्धेषु
यादृच्छिकेषु च कर्मसु
स्वाभाविकस्वाशयोत्थनिमित्तवशादेवेदं
हितमिदमहितमिति विशेषान् परिकल्प्य
मृगतृष्णिकोदकपिपासुरिव
लौकिकप्रमाणप्रसिद्धान्येव साधनान्युपादाय
हितप्राप्तयेऽहितनिरासाय च स्वयमेव प्रवर्तते निवर्तते च
तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किं
वान्यदेव तत्र प्रवृत्तिनिवृत्तिनिमित्तमिति . किंचातः .
यद्येवं श्रुणु . यदि तावद्यथावस्थितवस्तुसम्यग्ज्ञानं
प्रमाणभूतं लौकिकमागमिकं वा प्रवृत्तिनिमित्तमिति
निश्चीयते निवृत्तिशास्त्रं च नाभ्युपगम्यते तदा
हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिक-
प्रमाणोपात्तकर्मानुष्ठानत्यागित्वाच्च . अथ
मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तवदयथावस्तुभ्रान्ति-
विज्ञानमेव सर्वप्रवृत्तिनिमित्तं तदा वर्द्धामहे वयं
हताः स्थ यूयमिति .
हितं संप्रेप्सतां मोहादहितं च जिहासताम् .
उपायान्प्राप्तिहनार्थान् शास्त्रं भासयतेऽर्कवत् .. २९..
एवं तावत्प्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो
निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च
षष्ठगोचरवत्स्वत एवानभिसंबन्धादेवंस्वाभाव्या-
त्मानवबोधमात्रादेव हितं मे स्यादहितं मे मा भूदिति
मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवत्-
प्रवृत्तिनिमित्तमिति निर्धारितम् . शास्त्रं च न
पदार्थशक्त्याधानकृदिति . अथैतस्यैवोत्तरत्र प्रपञ्च
आरभ्यते .
न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि .
निजे एव तु ते यस्मात्पश्वादावपि दर्शनात् .. ३०..
उक्तं तावदनवबुद्धवस्तुयाथात्म्य एव
विधिप्रतिषेशशास्त्रेष्वधिक्रियत इति .
लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा .
वर्जितं च स्वतो भ्रान्त्या छायायामात्मनो यथा .. ३१..
भयान्मोहावनद्धात्मा रक्षः परिजिहीर्षति .
पच्चापरिहृतं वस्तु तथालब्धं च लिप्सते .. ३२..
तत्रैतेषु चतुर्षु विषयेषु प्राप्तये परीहाराय
च विभज्य न्यायः प्रदर्श्यते .
प्राप्तव्यपरिहार्येषु ज्ञात्वोपायाञ्छृतेः पृथक् .
कृत्वाथ प्राप्नुयात्प्राप्यं तथानिष्टं जहात्यपि .. ३३..
अथावशिष्टयोः स्वभावत एव .
परिहृतावाप्तयोर्बोधाद्धानप्राप्ती न कर्मणा .
मोहमात्रान्तरायत्वात्क्रियया ते न सिध्यतः .. ३४..
कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित-
निरतिशयसुखावाप्तिनिश्शेषदुःखनिवृत्ती भवतो न तु
कर्मणेति . उच्यते .
कर्माज्ञानसमुत्थत्वान्नालं मोहापनुत्तये .
सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव .. ३५..
नन्वात्मज्ञानमप्यविद्योपादानम् . न हि
शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानमात्मानं
लभतः इति . नैष दोषः . यत आत्मज्ञानं हि
स्वतस्सिद्धपरमार्थात्मवस्तुस्वरूपमात्राशयादेवाविद्यातदुत्
पन्न
कारकग्रामप्रध्वंसि स्वात्मोपतावेव शास्त्रादपेक्ष्यते
नोत्पन्नमविद्यानिवृत्तौ . कर्म पुनः स्वात्मोत्पत्तावुत्पन्नं
च . न हिक्रिया कारकनिस्स्पृहा कल्पकोटिव्यवहितफलदानाय
स्वात्मानं बिभर्ति साध्यमानमात्ररूपत्वात्तस्याः . न च
क्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन
कर्तारं संबध्नाति . आत्मज्ञानं पुनः पुरुषार्थसिद्धौ
नोत्पद्यमानस्वरूपव्यतिरेकेणान्यद्रूपान्तरं साधनान्तरं
वापेक्षते . कुत एतत् . यतः .
बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते .
आकाङ्क्षते न चाप्यान्यद्बाधनं प्रति साधनम् .. ३६..
स्वपक्षस्य हेत्ववष्टम्भेन समर्थितत्वानिराशङ्क-
मुपसंह्रियते .
तस्माद्दुःखोदधेर्हेतोरज्ञानस्यापनुत्तये .
सम्यग्ज्ञानं सुपर्याप्तं क्रिया चेन्नोक्तहेतुतः .. ३७..
ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेन
बाध्यमानमुपलभामहे यत उत्पन्नपरमार्थबोधस्यापि
कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया
आविर्भवन्ति . न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां
प्रत्ययानां सम्भवोऽस्ति . नैतदेवम् . कुतः .
बाधितत्वादविद्याया विद्यां सा नैव बाधते .
तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्ध्रुवन् .. ३८..
"कर्माज्ञानसमुत्थत्वात् "इत्युक्तो हेतुस्तस्य च
समर्थनं पूर्वमेवाभिहितं "हितं सम्प्रेप्सताम् "
इत्यादिना . तदभ्युच्चयार्थमविद्यान्वयेन च
संसारान्वयित्वं प्रदर्शयिष्यामीत्यत आह .
ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् .
श्रुतेः किङ्करतामेति वाङ्मनःकायकर्मसु .. ३९..
यस्मात्कर्माज्ञानसमुत्थमेव तस्मात्तद्व्यावृत्तौ निवर्तत
इत्युच्यते .
दग्धाखिलाधिकारश्चेद्ब्रह्मज्ञानाग्निना मुनिः .
वर्तमानः श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः .. ४०..
अथेतरो घनतराविद्या पटलसंवीतान्तःकरणोऽङ्गीकृत-
कर्तृत्वाद्यशेषकर्माधिकारकारणो
विधिप्रतिषेधचोदनासंदंशोपदष्टः
कर्मसु प्रवर्तमानः .
शुभैः प्राप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् .
उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः .. ४१..
आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ
घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःख-
मोहविद्युच्चपलसंपातदायिनीर्विचित्रयोनीश्चण्डोत्पिञ्जल-
कश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभा-
शुभव्यामिश्रकर्मवायुसमीरितः .
एवं चङ्क्रम्यमाणोऽयमविद्याकामकर्मभिः .
पाशितो जायते कामी म्रियते चासुखावृतः .. ४२..
यथोक्तेऽर्थ आदरविधानाय प्रमाणोपन्यासः .
श्रुतिश्चेमं जगादार्थं कामस्य विनिवृत्तये .
तन्मूला संसृतिर्यस्मात्तन्नाशोऽज्ञानहानतः .. ४३..
का त्वसौ श्रुतिरिति चेत् .
"यदा सर्वे प्रमुच्यन्त ""इति नु "इति च
वाजिनः .
कामबन्धनमेवेदं व्यासोऽप्याह पदेपदे .. ४४..
एष संसारपन्था व्याख्यातः . अथेदानीं तद्व्यावृत्तये
कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते
तथाभिधीयते .
तस्यैवं दुःखतप्तस्य कथंचित्पुण्यशीलनात् .
नित्येहाक्षालितधियो वैराग्यं जायते हृदि .. ४५..
कीदृग्वैराग्यमुत्पद्यत इति . उच्यते .
नरकाद्भीर्यथास्याभूत्तथा काम्यफलादपि .
यथार्थदर्शनात्तस्मान्नित्यं कर्म चिकीर्षति .. ४६..
एवं नित्यनैमित्तिककर्मानुष्ठानेन .
शुध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः .
वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् .. ४७..
यस्माद्रजस्तमोमलोपसंसृष्टमेव चित्तं
कामबडिशेनाकृष्य विषयदुरन्तसूनास्थानेष निक्षिप्यते
तस्मान्नित्यनैमित्तिककर्मानुष्ठानपरिमार्जनेनापविद्ध-
रजस्तमोमलं प्रसन्नमनाकृलं संमार्जितस्फटिकशिलाकल्पं
बाह्यविषयहेतुकेन च रागद्वेषात्मकेनातिग्रहबडिशेना-
नाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङ्मात्रप्रवणं
चित्तदर्पणमवतिष्टते . अत इदमभिधीयते .
व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते .
तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति .. ४८..
अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणवत्वसूनौ
कृतसंप्रत्तिकानि चरितार्थानि सन्ति .
प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः .
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव .. ४९..
यतो नित्यकर्मानुष्ठानस्यैष महिमा .
तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः .
नित्यं नैमित्तिकं कर्म सदैवात्मविशुद्धये .. ५०..
यथोक्तेऽर्थे सर्वज्ञवचनं प्रमाणम् .
"आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते .
योगारूढस्य तस्यैव शम"एवेति च स्मृतिः .. ५१..
नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः
पापहानिस्ततश्चित्तशुद्धिस्ततः
संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमुक्षुत्वं
ततस्तदुपायपर्येषणं
ततः सर्वकर्मतत्साधनसंन्यासस्ततो
योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता
ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं
ततोऽविद्योच्छेदस्ततश्च स्वात्मन्ये-
वावस्थानं "ब्रह्मैव सन् ब्रह्माप्येति "
"विमुक्तश्च विमुच्यते "इति .
पारम्पर्येण कर्मैवं स्यादविद्यानिवृत्तये .
ज्ञानवन्नाविरोधित्वात्कर्माविद्यां निरस्यति .. ५२..
न च कर्मणः कार्यमण्वपि मुक्तौ संभाव्यते नापि मुक्तौ
यत्संभवति तत्कर्मापेक्षते . तदुच्यते .
उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियाफलम् .
नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् .. ५३..
एवं तावत्केवलं कर्म साक्षादविद्यापनुत्तये न
पर्याप्तमिति प्रपञ्चितम् . मुक्तौ च मुमुक्षुज्ञानत-
द्विषयस्वाभाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसंभव
उक्तो "हितं संप्रेप्सताम् "इत्यादिना .
यादृशश्चारादुपकारकत्वेन ज्ञानोत्पत्तौ कर्मणां
समुच्चयः संभवति तथा प्रतिपादितम् . अविद्योच्छित्तौ तु
लब्धात्मस्वभावस्यात्मज्ञानस्यैवासाधारणं
साधकतमत्वं
नान्यस्य प्रधानभूतस्य गुणभूतस्य चेत्येतदधुनोच्यते .
तत्र ज्ञानं गुणभूतं तावदहेतुरित्येतदाह .
संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति .
साध्यसाधनभावत्वादेककालानवस्थितेः .. ५४..
समप्रधानयोरप्यसंभव एव .
बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव .
एकदेशानवस्थानान्न समुच्चयता तयोः .. ५५..
कुतो बाध्यबाधकभावः . यस्मात् .
अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी .
समुच्चयस्तयोरेवं रविशार्वरयोरिव .. ५६..
तस्मादकारकब्रह्मात्मनि परिसमाप्तावबोधस्याशेषकर्म-
चोदनानामचोद्यस्वाभाव्यात्कुण्ठता . कथं तत् .
अभिधीयते .
बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते .
ब्राह्मणत्वाद्यहंमानी विप्री वा क्षत्रकर्मणि .. ५७..
यथायं दृष्टान्त एवं दार्ष्टान्तिकोऽपीत्येतदाह .
विदेहो वीतसन्देहो नेतिनेत्यवशेषितः .
देहाद्यनात्मदृक्तद्वत्क्रियां वीक्षतेऽपि न .. ५८..
तस्यार्थस्याविष्करणार्थमुदाहरणम् .
मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति .
अध्यस्यात्मानि देहादीन्मूढस्तद्वत्विचेष्टते .. ५९..
न च वयं ज्ञानकर्मणोः सर्वत्रैव प्रत्याचक्ष्महे . यत्र
प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पित्रापि शक्यते
निवारयितुम् . तत्र विभागप्रदर्शनायोदाहरणं प्रदर्श्यते .
स्थाणुं चोरधियालाय भीतो यद्वत्पलायते .
बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारीप्य चेष्टते .. ६०..
एवं यत्रयत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र
सर्वत्रायं न्यायः . यत्र तु न समकालं नापि
क्रमेणोपपद्यते
समुच्चयः सविषय उच्यते .
स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायते .
आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ .. ६१..
यस्माद्गुणस्यैतत्स्वाभाव्यम् .
यद्धि यस्यानुरोधेन स्वभावमनुवर्तते .
तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः .. ६२..
यस्मात् .
कर्मप्रकरणाकाङ्क्षिज्ञानं कर्मगुणो भवेत् .
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते .. ६३..
स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः .
न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् .. ६४..
समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् .
यस्मात् .
अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति .
विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते .. ६५..
इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि .
हेतुस्वरूपकार्याणि प्रकाशतमसोरिव .
विरोधीनि ततो नास्ति साङ्गत्यं ज्ञानकर्मणोः .. ६६..
एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदे-
तद्वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तन्नैव
स्वोत्पत्तिमात्रेणाज्ञानं निरस्यति . किं तर्हि . अहन्यहनि
द्राघीयसा कालेनोपासीनस्य सतो भावनोपचयान्निश्शेषम्
अज्ञानमपगच्छति "देवो भूत्वा देवानप्येति "इति
श्रुतेः . अपरे तु ब्रुवते वेदान्तवाक्यजनितमहं ब्रह्मेति
विज्ञानं संसर्गात्मकत्वादात्मवस्तुयाथात्म्यावगाह्येव न
भवति . किं तर्हि .
एतदेव गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं
विज्ञानान्तरमुत्पद्यते . अस्य पक्षद्वयस्य निवृत्तय
इदमभिधीयते .
सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् .
अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः .. ६७..
एवं तावदनानात्वे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो
निराकृतः . अथाधुना पक्षान्तराभ्युपगमेनापि
प्रत्यवस्थाने पूर्ववदनाश्वासो यथा तथाभिधीयते .
अनुत्सारितनानात्वं ब्रह्म यस्यापि वादिनः .
तन्मतेनापि दुस्साध्यो ज्ञानकर्मसमुच्चयः .. ६८..
तस्य विभागोक्तिर्दूषणविभागप्रज्ञप्तये .
ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् .
आत्मानाप्तिर्भवेन्मोहादितरस्याप्यनात्मनः .. ६९..
तत्र यदि तावद्वास्तवेनैव वृत्तेन ब्रह्म
प्राप्तमात्मस्वाभाव्यात्केवलमासुरमोहापिधानमात्र-
मेवानाप्तिनिमित्तं तस्मिन्पक्षे .
मोहापिधानभङ्गाय नैव कर्माणि कारणम् .
ज्ञानेनैव फलावाप्तेस्तत्र कर्म निरर्थकम् .. ७०..
अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते
नापि ज्ञानं कर्मसमुच्चितमसमुच्चितं वा यस्मादन्यस्य
स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिद्धम् .
तत्रैवम् .
अन्यस्यान्यात्मताप्राप्तौ न क्वचिद्धेतुसंभवः .
तस्मिन् सत्यपि नो नष्टः परात्मानं प्रपद्यते .. ७१..
अपरस्मिंस्तु पक्षे विधिः .
परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः .
द्वैतिनोऽपि प्रमुच्येरन्न परात्मविरोधिना .. ७२..
इतरस्मिंस्तु पक्षे विधेरेवानवकाशत्वम् . कथम् .
समस्तव्यस्तभूतस्य ब्रह्मण्येवावतिष्ठतः .
ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः .. ७३..
सर्वकर्मनिमित्तसंभवासंभवाभ्यां सर्वकर्मसङ्करश्च
प्राप्नोति . यस्मात् .
सर्वजात्यादिमत्त्वेऽस्य नितरां हेतसंभवः .
विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते .. ७४..
स्याद्विधिरध्यात्मभिमानादिति चेन्नैवम् . यस्मात् .
न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः .
विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् .. ७५..
अज्ञानकार्यत्वान्न समकालं नापि क्रमेण
ज्ञानकर्मणोर्वस्त्ववस्तु-
तन्त्रत्वात्सङ्गतिरस्तीत्येवं निराकृतोऽपि काशं कुशं
वावलम्ब्याह ..
अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् .
स करोत्येव कर्माणि को ह्यज्ञं विनिवारयेत् .. ७६..
सिद्धत्वाच्च न साध्यम् . यतः .
सामान्येतररूपाभ्यां कर्मात्मैवास्य योगिनः .
निश्श्वासोच्छ्वासवत्तस्मान्न नियोगमपेक्षते . .. ७७..
अस्तु तर्हि भिन्नाभिन्नात्मकं ब्रह्म . तथा च सति
ज्ञानकर्मणो संभवतो भेदाभेदविषयत्वात्तयोः . तत्र
तावदयं पक्ष एव न संभवति . किं कारणम् . न हि
भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः
पदार्थमालिङ्गते . एवं ह्यनभ्युपगमे भिन्नाभिन्न-
पदार्थयोरलौकिकत्वं प्रसज्येत . अथ निष्प्रमाणकम-
प्याश्रीयते तदप्युभयपक्षाभ्युपगमादभेदपक्षे दुःखि
ब्रह्म स्यादत आह .
भिन्नाभिन्नं विशेषैश्चेद्दुःखि स्याद्ब्रह्म ते ध्रुवम् .
अशेषदुःखिता च स्यादहो प्रज्ञात्मवादिनाम् .. ७८..
तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय
इत्युपसंह्रियते .
तमोऽङ्गत्वं यथा भानोरग्नेश्शीताङ्गता यथा .
वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता .. ७९..
यथोक्तोपपत्तिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं
नावशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय
यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते .
"मुक्तेः क्रियाभिः सिद्धत्वात् "इत्याद्यनुचितं बहु .
यदभाणि तदन्याय्यं यथा तदधुनोच्यते .. ८०..
योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते
सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् . किं कारणम् .
कर्मणो हि निर्वृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः
संभवत्यारब्धफलस्योपभोगेनानारब्धफलस्याशुभस्य
प्रायश्चित्तैरिति . तृतीयोऽपि त्यागप्रकारोऽकर्त्रा-
त्मावबोधात् स त्वात्मज्ञानानभ्युपगमाद्भवता
नाभ्युपगम्यते . तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि
तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तुम् .
अथारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तुम् .
किं कारणम् . अनिवृत्तेः . अनिर्वृत्तं हि चिकीर्षितं
कर्म शक्यते त्यक्तुं प्रवृत्तिनिवृत्ती प्रति कर्तुः
स्वातन्त्र्यात् . निर्वृत्ते तु कर्मणि तदसंभवाद्दुरनुष्ठेयः
प्रतिज्ञानार्थः . अशक्यप्रतिज्ञानाच्च .
न च शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि
प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामपि
सूक्ष्मापराधदर्शनात् . प्रमाणाभावाच्च .
न च प्रमाणमस्ति मोक्षकामो नित्यनैमित्तिके कर्मणी
कुर्यात्काम्यप्रतिषिद्धे च वर्जयेदारब्धफले चोपभोगेन
क्षपयेदिति . आनन्त्याच्च . न चोपचितानां
कर्मणामियत्तास्ति संसारस्यानादित्वात् . न च काम्यैः
प्रतिषिधैर्वा तेषां निवृत्तिरस्ति शुद्ध्यशुद्धिसाम्ये
सत्यविरोधादित्याह .
न कृत्स्नकाम्यसंत्यागोऽनन्तत्वात्कर्तुमिष्यते .
निषिद्धकर्मणश्चेत्तु व्यतीतानन्तजन्मसु .. ८१..
स्यान्मतं व्यतीताननन्तजन्मोपात्तानां कर्मणाम् .
क्षयो नित्येन तेषां चेत्प्रायश्चित्तैर्यथैनसः .
निष्फलत्वान्न नित्येन काम्यादेर्विनिवारणाम् .. ८२..
प्रमाणाभावाच्च . कथम् .
पापापनुत्तये वाक्यात्प्रायश्चित्तं यथा तथा .
गभ्यते काम्यहानार्थं नित्यं कर्म न वाक्यतः .. ८३..
अथापि स्यात्काम्यैरेव काम्यानां पूर्वजन्मोपचितानां क्षयो
भविष्यतीति . तन्न . यतः .
पाप्मनां पाप्मभिर्नास्ति यथैवेह निराक्रिया .
काम्यैरपि तथैवास्तु काम्यानामविरोधतः .. ८४..
एवं तावत् "मुक्तेः क्रियाभिः सिद्धत्वात् "इति
निराकृतम् ..
अथात्मज्ञानस्य सद्भावे प्रमाणासंभव
उक्तस्तत्परिहारायाह .
श्रुतयस्स्मृतिभिस्सामानन्त्यात्कामिनामिह .
विदधत्युरुयत्नेन कर्मातो बहुकामदम् .. ८५..
न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते . अत आह .
प्रामाण्याय न बाहुल्यं न ह्येकत्र प्रमाणताम् .
वस्तुन्यटन्ति मानानि त्वेकत्रैकस्य मानता .. ८६..
यत्तूक्तं "यत्नतो वीक्षमाणोऽपि "इति --तत्रापि
भवत एवापराधः . कस्मात् . यतः .
"परीक्ष्य लोकान् "इत्याद्या आत्मज्ञानविधायिनीः .
नैष्कर्म्यप्रवणास्साध्वीः श्रुतीः किं न शृणोषि ताः ..
८७..
ननु "आत्मेत्येवोपासीत ""आत्मा वा अरे
द्रष्टव्यः"इत्यपूर्वविधिश्रुतेः
पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति . नैवम् .
अपुरुषतन्त्रत्वाद्वस्तुयाथात्म्यज्ञानस्य
सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति .
विध्यभ्युपगमेऽपि नापूर्वविधिरयम् . अत आह .
नियमः परिसंख्या वा विध्यर्थोऽपि भवेद्यतः .
अनात्मादर्शनेनैव परात्मानमुपास्महे .. ८८..
यच्चोक्तं "विश्वासो नान्यतोऽस्ति नः"इति --तदपि
निद्रातुरचेतसा त्वया स्वप्नायमानेन प्रलपितम् . किं
कारणम् . न हि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह
ऐकात्म्यस्य स्वत एवानुभवमात्रात्मकत्वात् . अत एव
सर्वप्रमाणावतारासंभवं वक्ष्यति .
प्रमाणव्यवस्थायाश्चनुभवमात्राश्रयत्वात् .
अत आह .
वाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् .
नाऽप्रमेये स्वतस्सिद्धेऽविश्वासः कथमात्मनि .. ८९..
यदप्युक्तं "अन्तरेण विधिम् "इति--
तदप्यबुद्धिपूर्वकमिव नः प्रतिभाति .
यस्मात्कालान्तरफलदायिषु कर्मस्वेतद्घटते .
आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने
नैतत्समञ्जसमित्याह .
ज्ञानात्फले ह्यवाप्तेऽस्मिन्प्रत्यक्षे भवघातिनि .
उपकाराय तन्नेति न न्याय्यं भाति नो वचः .. ९०..
यदपि जैमिनीयं वचनमुद्घाटयसि --तदपि
तद्विवक्षापरिज्ञानादेवोद्भाव्यते . किं कारणम् . यतो न
जैमिनेरयमभिप्राय आम्नायः . सर्व एव क्रियार्थ इति .
यदि ह्ययमभिप्रायोऽभविष्यत् "अथातो ब्रह्मजिज्ञासा .
जन्माद्यस्य यतः "
इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं
गम्भीरन्यायसंदृब्धं सर्ववेदान्तार्थमीमांसनं
श्रीमच्छारीरकं नासूत्रयिष्यत् . असूत्रयच्च .
तस्माज्जैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां
स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगत-
वस्तुपरिच्छेदसाम्यादिति . अत इदमभिधीयते .
अधिचोदनं य आम्नायस्तस्यैव स्यात्क्रियार्थता .
तत्त्वमस्यादिवाक्यानां ब्रूत कर्मार्थता कथम् .. ९१..
अपि च . ऐकात्म्यपक्ष इवादृष्टार्थकर्मसु भवत्पक्षेऽपि
प्रवृत्तिर्दुर्लक्ष्या . यतः .
स्वर्गं यियासुर्जुहुयादग्निहोत्रं यथाविधि .
देहाद्व्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथम् .. ९२..
न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभाव-
स्यात्ममात्रस्य कर्मस्वधिकारः . यस्मात् .
सर्वप्रमाणासंभाव्यो ह्यहंवृत्त्यैकसाधनः .
युष्मदर्थमनादित्सुर्जैमिनिः प्रेर्यते कथम् .. ९३..
प्रवृत्तिकारणाभावाच्च . यस्मात् .
सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते .
पराक्त्वात्प्रत्यगात्मत्वाज्जैमिनिः प्रेर्यते कथम् .. ९४..
किंच .
न तावद्योग एवास्ति शरीरेणात्मनः सदा .
विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् .. ९५..
यस्मादन्यथा नोपपद्यते .
नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् .
मन्त्र आहोररीकृत्य "कुर्वन्"इति न निर्द्वयम् .. ९६..
यच्चोक्तं "विरहय्य "इति तदपि न सम्यगेव . तथापि
तु न या काचित्क्रिया यत्र क्व चाध्याहरणीया किं तु या
यत्राभिप्रेतसंबन्धं घटयितुं शक्नोत्याकाङ्क्षां च
वाक्यस्य पूरयति सैवाध्याहरणीया . एवंविशिष्टा च
क्रियास्माभिरभ्युपगतैव . सा तूपादित्सितवाक्यार्था-
विरोधिन्येव नाभूतार्थप्रादुर्भावफलेति .
षड्भावविकाररहितात्मवस्तुनो निर्धूताशेष-
द्वैतानर्थस्यापराधीनप्रकाशस्य
विजिज्ञापयिषितत्वादस्यस्मीत्यादिक्रियापदं
स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न
विपरीतार्थप्रतिपादनपरमिति .
धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते .
एधीत्यादि तथा नेच्छेत्स्वतः सिद्धार्थवाचिनि .. ९७..
न च यथोक्तवस्तुवृत्तप्रतिपादनव्यतिरेकेण
तत्त्वमस्यादिवाक्यं वाक्यार्थान्तरं वक्तीति
शक्यमध्यवसातुमित्याह .
तत्त्वमस्यादिवाक्यानां स्वतस्सिद्धार्थबोधनात् .
अर्थान्तरं न संद्रष्टुं शक्यते त्रिदशैरपि .. ९८..
यस्मादेवम् .
अतः सर्वाश्रमाणां तु वाङ्मनःकायकर्मभिः .
स्वनुष्ठितैर्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः .. ९९..
तस्माच्च कारणादेतदप्युपपन्नम् .
स्वमनोरथसंक्लृप्तप्रज्ञाध्मातधियामतः .
श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु .. १००.
इति प्रथमोऽध्यायः .. १..

अथ द्वितीयोऽध्याय:[सम्पाद्यताम्]

प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक-
विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या-
त्सर्वानर्थैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं
वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्त्वमस्यादेर्वचस
एवेति बह्वीभिरुपपत्तिभिः प्रदर्शितम् .
अतस्तदर्थारतिपत्तौ यत्कारणं तदपनयनाय
द्वितीयोऽध्याय आरभ्यते .
श्रावितो वेत्ति वाक्यार्थं नचेत्तत्त्वमसीत्यतः .
त्वंपदार्थानभिज्ञत्वादतस्तत्प्रक्रियोच्यते .. १..
योऽयमहंब्रह्मेति वाक्यार्थस्तत्प्रतिपत्तिर्वाक्यादेवेति
प्रत्यक्षादीनामनेवंविषयत्वादित्यवादिषं तस्य
विशुद्ध्यर्थमनैकात्त्रिकत्वं पूर्वपक्षत्वेनोपस्थाप्यते .
कृत्स्नानात्मनिवृत्तौ च कश्चिदाप्नोति निर्वृतिम् .
श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः .. २..
एतत्प्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि संभावनायाह .
वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् .
त्रिषु यादृच्छिकी सिद्धिः स्मार्यमाणे तु निश्चिता .. ३..
नायमनैकान्तिको हेतुः . यतः .
सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः .
वाक्यार्थं न ह्यृते वाक्यात्कश्चिज्जानाति तत्त्वतः .. ४..
वाक्यं च प्रतिपादनाय प्रवृत्तं सत्प्रतिपादयत्येव
सर्वप्रमाणानामप्येवंवृत्तत्वात् .
नाहंग्राह्ये न तद्धीने न प्रत्यङ्नापि दुःखिनि .
विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते .. ५..
नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् .
न चानिवृत्ततृष्णस्य पुरुषस्य मुमुक्षुता .. ६..
न चामुमुक्षोरस्तीह गुरुपादोपसर्पणम् .
न विना गुरुसंबन्धं वाक्यस्य श्रवणं भवेत् .. ७..
तथा पदपदाथौ च न स्तो वाक्यमृते क्वचित् .
अन्वयव्यतिरेकौ च तावृते स्तां कैमाश्रयौ .. ८..
अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् .
न स्यात्तेन विनाज्ञानप्रहाणं नोपपद्यते .. ९..
विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः .
तस्माद्यथोक्तसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते .. १०..
वर्चस्कं त्वन्नकार्यत्वाद्यथा नात्मेति गम्यते .
तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते .. ११..
आद्यन्तयोरनात्मत्वे प्रसिद्धे मध्येऽपि कः प्रतिबन्धः .
प्रागनात्मैव जग्धं सदात्मतामेत्यविद्यया .
स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः .. १२..
अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीराद्-
अशुचिराशेर्निराशो भविष्यसि .
मन्यसे तावदस्मीति यावदस्मान्न नीयसे .
श्वभिः क्रोडीकृते देहे नैवं त्वमभिमंस्यसे .. १३..
शिर आक्रम्य पादेन भर्त्सयत्यपरान् शुनः .
दृष्ट्वा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः .. १४..
श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्ध्यादिदेहान्त इतीदमाह .
बुसव्रीहिपलालांशैर्बीजमेकं त्रिधा यथा .
बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् .. १५..
यथोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते
विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः .
वर्चस्के संपरित्यक्ते दोषतश्चावधारिते .
यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् .. १६..
तद्वत्सूक्ष्मे तथा स्थूले देहे त्यक्ते विवेकतः .
यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् .. १७..
एतावदेव ह्यहं ब्रह्मास्मीति वाक्यार्थाप्रतिपत्तौ कारणं
यदुत बुद्ध्यादौ देहान्ते ह्यहंममेति निस्सन्धिबन्धनो ग्रहः .
तद्व्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्म-
न्यवतिष्ठत इत्याह .
रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः .
विवेकिनः कुतः कोपः स्वदेहावयवेश्विव .. १८..
इतश्चानात्मा देहादिः .
घटादिवच्च दृश्यत्वात्तैरेव करणैर्दृशेः .
स्वप्ने चानन्वयाज्ज्ञयो देहोऽनात्मेति सूरिभिः .. १९..
देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः
प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते .
चतुर्भिरुह्यते यत्तत्सर्वशक्त्या शरीरकम् .
तूलायते तदेवाहंधियाघ्रातमचेतसाम् .. २०..
प्रसिद्धत्वाप्रकरणार्थोपसंहारायाह .
स्थूलं युक्त्या निरस्यैवं नभसो नीलतामिव .
देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः .. २१..
कथं देहं सूक्ष्मं निराकृर्यादिति . उच्यते .
अहंममत्वयत्नेच्छा नात्मधर्माः कृशत्ववत् .
कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् .. २२..
वैधर्म्ये दृष्टान्तः .
नोष्णिमानं दहत्यग्निः स्वरूपत्वाद्यथा ज्वलन् .
तथैवात्मात्मनो विद्यादहं नैवाविशेषतः .. २३..
एकस्यात्मनः कर्मकर्तृभावः सर्वथा नोपपद्यत इति श्रुत्वा
मीमांसकः प्रत्यवतिष्ठते . अहंप्रत्ययग्राह्यत्वाद्ग्राहक
आत्मेति तन्निवृत्त्यर्थमाह .
यत्कर्मको हि यो भावो नासौ तत्कर्तृको यतः .
घटप्रत्ययवत्तस्मान्नाहं स्याद्द्रष्टृकर्मकः .. २४..
अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे
तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति
चोद्यं तन्निराकरणाय प्रत्यक्षोपन्यासः .
यत्र यो दृश्यते द्रष्ट्रा तस्यैवासौ गुणो न तु .
द्रष्टृस्थं दृश्यतां यस्मान्नैवेयाद्द्रष्टृबोधवत्
.. २५..
प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतत्वात्-
सुस्थमेवानुमानम् . अतस्तदेव प्रक्रियते तत्र च
विकल्पदूषणाभिधानम् .
नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते .
अभिन्नत्वात्समत्वाच्च निरंशत्वादकर्मतः .. २६..
न युगपन्नपि क्रमेणोभयथा चैकस्य धर्मिणो
ग्राह्यग्राहकत्वमुपपद्यत इति प्रतिपादनायाह .
द्रष्टृत्वेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता .
कालान्तरे चेद्दृश्यत्वं न ह्यद्रष्टृकमिष्यते .. २७..
सन्तु काममनात्मधर्मा ममत्वादयो
यथोक्तन्यायबलादनात्मतयैव
च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसंबन्धितयैव
प्रसिद्धेरहंब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति
चेत्तन्न .
अहंधर्मस्त्वभिन्नश्चेदहंब्रह्मेति वाक्यतः .
गौरोऽहमित्यनैकान्तो वाक्यं तद्व्यपनेतृ तत् .. २८..
कथं वाक्यं तद्व्यपनेतृ तदिति . उच्यते .
योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव .
ब्रह्मास्मीतिधियाशेषा ह्यहंबुद्धिर्निवर्त्यते .. २९..
अहंपरिच्छेदव्यावृत्तौ न किंचिदव्यावृत्तं
द्वैतजातमवशिष्यते
द्वितीयसंबन्धस्य तन्मूलत्वात् . अत आह .
निवृत्तायामहंबुद्धौ ममधीः प्रविलीयते .
अहंबीजा हि सा सिद्ध्येत्तमोऽभावे कुतः फणी .. ३०..
विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या .
तमोऽभिभूतचित्तो हि रज्ज्वां पश्यति रोषणम् .
भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगं स्रजि वीक्षते .. ३१..
अनन्वयाच्च नात्मधर्मोऽहङ्कारः .
आत्मनश्चेदहंधर्मो यायान्मुक्तिसुषुप्तयोः .
यतो नान्वेति तेनायमन्यदीयो भवेदहम् .. ३२..
आत्मधर्मत्वाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च .
यद्यात्मधर्मोऽहङ्कारो नित्यत्वं तस्य बोधवत् .
नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्ध्रुवम् ..
३३..
स्यात्परिहारः
स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति
चेत्तन्न .
आम्रादेः परिणामित्वाद्गुणहानिर्गुणान्तरैः .
अविकारि तु तद्ब्रह्म "न हि द्रष्टुरि"तिश्रुतेः .. ३४..
अहङ्कारस्य चागमापायित्वात्तद्धर्मिणश्चानित्यत्वं
प्राप्नोति .
आगमापायिनिष्ठत्वादनित्यत्वमियाद्दृशिः .
उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् .. ३५..
अस्त्वनित्यत्वं कमुपालभेमहि प्रमाणोपपन्नत्वादिति चेत्तन्न .
सदाविलुप्तसाक्षित्वं स्वतस्सिद्धं न पार्यते .
अपह्नोतुं घटस्येव कुशाग्रीयधियात्मनः .. ३६..
एतस्माच्च हेतोरहंकारस्यानात्मधर्मत्वमवसीयताम् .
प्रमाणैश्चावगम्यत्वाद्घटादिवदहंदृशेः .
यतो राधिः प्रमाणानां स कथं तैः प्रसिध्यति .. ३७..
धर्मधर्मिणोश्चेतरेतरविरुद्धात्मकत्वादसङ्गतिः .
धर्मिणश्च विरुद्धत्वान्न दृश्यगुणसङ्गतिः .
मारुतान्दोलितज्वालं शैत्यं नाग्निं सिसृप्सति .. ३८..
तस्माद्विस्रब्धमुपगम्यताम् .
द्रष्टृत्वं दृश्यता चैव नैकस्मिन्नेकदा क्वचित् .
दृश्यदृश्यो न च द्रष्टा द्रष्टुर्दर्शी दृशिर्न च ..
३९..
सर्वसंव्यवहारलोपश्च प्राप्नोति . यस्मात् .
द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः .
यौगपद्यमदृश्यत्वं वैयर्थ्यं चाप्नुयाच्छृतिः .. ४०..
कुतः . यस्मात् .
नालुप्तदृष्टेर्दृश्यत्वं दृश्यत्वे द्रष्टृता कुतः .
स्याच्चेद्दृगेकं निर्दृश्यं जगद्वा स्यादसाक्षिकम् .. ४१..
उक्तयुक्तिं दृढीकर्तुमागमोदाहरणोपन्यासः .
आर्तमन्यद्दृशेः सर्वं "नेति नेती"ति चासकृत् .
वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते .. ४२..
"महाभूतान्यहंकार"इत्येतत्क्षेत्रमुच्यते .
न दृशेर्द्वैतयोगोऽस्ति विश्वेश्वरमतादपि .. ४३..
अधुना प्रकृतार्थोऽपसंहारः .
एवमेतद्धिरुग्ज्ञेयं मिथ्यासिद्धमनात्मकम् .
मोहमूलं सुदुर्बोधं द्वैतं युक्तिभिरात्मनः .. ४४..
कुतो मिथ्यासिद्धत्वं द्वैतस्येति चेत् .
न पृथङ्नात्मना सिद्धिरात्मनोऽन्यस्य वस्तुनः .
आत्मवत्कल्पितस्तस्मादहंकारादिरात्मनि .. ४५..
तस्मादज्ञानविजृम्भितमेतत् .
दृश्याः शब्दादयः क्लृप्ता द्रष्टृ च ब्रह्म निर्गुणम् .
अहं तदुभयं बिभ्रद्भ्रान्तिमात्मनि यच्छति ..४६..
तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः .
दृगेका सर्वभूतेषु भाति दृश्यैरनेकवत् .
जलभाजनभेदेन मयूखस्रग्विभेदवत् .. ४७..
यथोक्तार्थस्य प्रतिपत्तये दृष्टान्तः .
मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् .
अभिन्नस्य चित्तेस्तद्वद्भेदोऽन्तःकरणाश्रयः .. ४८..
अपहारो यथा भानोः सर्वतो जलपात्रकैः .
तत्क्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः .. ४९..
न च विरुद्धधर्मणामेकत्रानुपपत्तिः .
कल्पितानामवस्तुत्वात्स्यादेकत्रापि संभवः .
कमनीयाशुचिः स्वाद्वीत्येकस्यामिव योषिति .. ५०..
न चायं क्रियाकारकफलात्मक आभास ईषदपि
परमार्थवस्तु स्पृशति तस्य मोहमात्रोपादानत्वात् .
अभूताभिनिवेशेन स्वात्मानं वञ्चयत्ययम् .
असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथा .. ५१..
वस्तुयाथात्म्यानवबोधपटलावनद्धाक्षः सन् .
सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी .
कल्पनामात्रसंमोहाद्रामेत्यालिङ्गतेऽशुचिम् .. ५२..
सर्वस्यानर्थजातस्य जिहासितस्य मूलमहंकार एव
तस्यात्मनात्मोपरागात् . न तु परमार्थत आत्मनोऽविद्यया
तत्कार्येण वा संबधोऽभूदस्ति भविष्यति वा
तस्यापरिलिप्तदृष्टिस्वाभाव्यात् .
दृश्यानुरक्तं तद्द्रष्टृ दृश्यं द्रष्ट्रनुरञ्जितम् .
अहंवृत्त्योहयं रक्तं तन्नाशेऽद्वैततात्मनः .. ५३..
इह केचिच्चोदयन्ति योऽयमन्वयव्यतिरेकाभ्यामनात्मत-
योत्सारितोऽहंकारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्थः
संवृत्तो यस्मादहं ब्रह्मास्मीति ब्रह्माहंपदार्थयोः
सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं
प्राप्नोति . वक्तव्या च प्रत्यगात्मनि तस्य वृत्तिरिति सोच्यते
प्रसिद्धलक्षणागुणवृत्तिभिः .
नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि .
अयोदाहादिवत्तेन लक्षणं परमात्मनः .. ५४..
प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्ट्यनुशीलनात् .
अतो वृत्तीर्विहायान्या ह्यहंवृत्त्योपलक्षते .. ५५..
आत्मना चाविनाभावमथवा विलयं व्रजेत् .
न तु पक्षान्तरं यायादतश्चाहंधियोच्यते .. ५६..
कीदृक्पुनर्वस्तु लक्ष्यम् .
नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः .
स एवात्मवतामात्मा स्वतस्सिद्धः स एव नः .. ५७..
अज्ञानोत्थबुद्ध्यादिकर्तृत्वोपाधिमात्मानं
परिगृह्यैवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी
चेत्यहंकारादेरनात्मधर्मत्वमुक्तं
केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च .
अथेदानीमविद्यापरिकल्पितं साक्षित्वमाश्रित्य
कर्तृत्वाद्यशेषपरिणामप्रतिषेधायाह .
एष सर्वधियां नृत्तमविलुप्तैकदर्शनः .
वीक्षतेऽवीक्षमाणोऽपि निमिषत्तद्ध्रुवोऽध्रुवम् .. ५८..
ननु सर्वसिद्धान्तानामपि स्वस्वदृष्ट्यपेक्षयोपपन्नत्वा-
दितरेतरदृष्ट्यपेक्षया दुस्स्थितसिद्धिकत्वान्नैकत्रापि
विश्वासं पश्यामो न च सर्वतार्किकैरदूषितं समर्थितं
सर्वतार्किकोपद्रवापसर्पणाय वर्त्म संभावयामः .
उच्यते . विस्रब्धैः संभाव्यतामनुभवमात्रशरणत्वात्-
सर्वतार्किकप्रस्थानानाम् . तदभिधीयते .
इमं प्राशिकमुद्दिश्य तर्कज्वरभृशातुराः .
त्वाच्छिरस्कवचोजालैर्मोहयन्तीतरेतरम् .. ५९..
अत्रापि चोदयन्ति . अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽन-
भ्युपगमेऽपि दोष एव . यस्मादाह .
"वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् .
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ".. ६०..
बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता .
अथाविकृतिरेवायं प्रमातेति न युज्यते .. ६१..
अस्य परिहारः .
ऊर्ध्वं गच्छति धूमे खं भिद्यते स्विन्न भिद्यते .
न भिद्यते चेत्स्थास्नुत्वं भिद्यते चेद्भिदास्य का .. ६२..
इत्येतत्प्रतिपत्त्यर्थमाह .
अविक्रियस्य भोक्तृत्वं स्यादहंबुद्धिविभ्रमात् .
नौयानविभ्रमाद्यद्वन्नगेषु गतिकल्पनम् .. ६३..
यथोक्तार्थाविष्करणाय दृष्टान्तान्तरोपादानम् .
यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा .
संनिध्यसंनिधानेषु घटादीनामविक्रिया .. ६४..
अयमत्रांशो विवक्षित इति ज्ञापनायाह .
यदवस्था व्यनक्तीति तदवस्थैव सा पुनः .
भण्यते न व्यनक्तीति घटादीनामसंनिधौ .. ६५..
तत्र च .
सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः .
संनिध्यसंनिधानेषु धीवृत्तिनामविक्रियः .. ६६..
न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते .
उपचारात्क्रिया सास्य यः प्रकाशस्य संनिधिः .. ६७..
मैवं शङ्किष्ठाः सांख्यराध्यान्तोऽयमिति . यतः .
यथा विशुद्ध आकाशे सहसैवाभ्रमण्डलम् .
भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् .. ६८..
तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति . यतः .
शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीर्दृशा .
नित्योऽक्रमदृगात्मैको व्याप्नोतीव धियोऽनिशम् .. ६९..
एवं च सति बुद्धेः परिणामित्वं युक्तम् .
अतीतानागतेहत्यान्युगपत्सर्वगोचरान् .
वेत्त्यात्मवन्न धीर्यस्मात्तेनेयं परिणामिनी .. ७०..
ततश्चैतत्सिद्धम् .
अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा .
निर्यत्नोऽविक्रियोऽनिच्छन्निच्छन्तीं चाप्यलुप्तदृक् .. ७१..
द्विषन्तीमद्विषन्नात्मा कुप्यन्तीं चाप्यकोपनः .
निर्दुःखो दुःखिनीं चैव निस्सुखः सुखिनीमपि .. ७२..
अमुह्यमानो मुह्यन्तीं कल्पयन्तीमकल्पयन् .
स्मरन्तीमस्मरंश्चैव शयानामस्वपन्मुहुः .. ७३..
सर्वाकारां निराकारः स्वार्थोऽस्वार्थां निरिङ्गनः .
निस्त्रिकालस्त्रिकालस्थां कूटस्थः क्षणभङ्गुराम् .. ७४..
निरपेक्षश्च सापेक्षां पराचीं प्रत्यगद्वयः .
सावधिं निर्गतेयत्तः सर्वदेहेषु पश्यति .. ७५..
एतस्माच्च कारणादयमर्थो व्यवसीयताम् .
दुःखी यदि भवेदात्मा कस्साक्षी दुःखिनो भवेत् .
दुःखिनः साक्षितायुक्ता साक्षिणो दुःखिता तथा .. ७६..
पूर्वस्यैव व्याख्यानार्थमाह .
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः .
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः .. ७७..
एवं सर्वस्मिन् व्यभिचारिण्यात्मवस्त्वेवाव्यभिचारीत्यनुभवतो
व्यवस्थापनायाह .
प्रमाणतन्निभेष्वस्या नोच्छित्तिर्मम संविदः .
मत्तोऽन्यद्रूपमाभाति यत्तत्स्यात्क्षणभङ्गि हि .. ७८..
उत्पत्तिस्थितिभङ्गेषु कुम्भस्य वियतो यथा .
नोत्पत्तिस्थितिनाशास्स्युर्बुद्धेरेवं ममापि च ..७९..
सुखदुःखसंबन्धानां च प्रत्यक्षत्वान्न
श्रद्धामात्रग्राह्यमेतत् .
सुखदुःखादिसंबन्धां यथा दण्डेन दण्डिनम् .
राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः .. ८०..
एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् .
येनैवास्या भवेद्योगः सुखकुम्भादिना धियः .
तं विदन्ती तदैवान्यं वेत्ति नातो विकारिणी .. ८१..
अस्याश्च क्षणभङ्गरत्वे स्वयमेवात्मा साक्षी . न हि
कूटस्थावबोधमन्तरेण बुद्धेरेवाविर्भावतिरोभावादि-
सिद्धिरस्ति .
परिणामिधियां वृत्तं नित्याक्रमदृगात्मना .
षड्भावविक्रियामेति व्याप्तं खेनाङ्करो यथा .. ८२..
सत आत्मनश्चाविकारित्वे युक्तिः .
स्मृतिस्वप्नप्रबोधेषु न कश्चित्प्रत्ययो धियः .
दृशाव्याप्तोऽस्त्यतो नित्यमविकारी स्वयंदृशिः .. ८३..
एवं तावत्पराभ्युपगतप्रक्रियाप्रस्थानेन
निरस्ताशेषविकारैकात्म्यं
प्रतिपादितमुपपत्तिभिः . अथाधुना श्रौतीं
प्रक्रियामवलम्ब्योच्यते .
अस्तु वा परिणामोऽस्य दृशेः कूटस्थरूपतः .
कल्पितोऽपि मृषैवासौ दण्डस्येवाप्सु वक्रता .. ८४..
षट्सु भावविकारेषु निषिद्धेश्वेवमात्मनि .
दोषः कश्चिदिहासक्तुं न शक्यस्तार्किकश्वभिः .. ८५..
प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्च
कूटस्थत्वं युक्तिभिरुच्यते .
प्रत्यर्थं तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः .
न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः .. ८६..
स्वसंबद्धार्थ एव .
सावशेषपरिच्छेदिन्यत एव न कृत्स्नवित् .
नो चेत्परिणमेद्बुद्धिः सर्वज्ञा स्वात्मवद्भवेत् .. ८७..
अतोऽवगतेरेकत्वात् .
चण्डालबुद्धेर्यर्दृर्ष्टृ तदेव ब्रह्मबुद्धिदृक् .
एकं तदुभयोर्ज्योतिर्भास्यभेदादनेकवत् .. ८८..
कस्मात् .
अवस्थादेशकालादिभेदो नास्त्यनयोर्यतः .
तस्माज्जगद्धियां वृत्तं ज्योतिरेकं सदेक्षते .. ८९..
सर्वदेहेष्वात्मैकत्वे प्रतिबुद्धपरमार्थतत्त्वस्या-
प्यप्रतिबुद्धदेहसंबद्धादशेषदुःखसंबन्ध इति चेत्तन्न .
बोधात्प्रागपि दुःखित्वं नान्यदेहोत्थमस्ति नः .
बोधादूर्ध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् .. ९०..
न चेयं स्वमनीषिकेति ग्राह्यम् . कुतः .
श्रुत्यवष्टम्भात् .
शब्दाद्याकारनिर्भासा हानोपादानधर्मिणी .
भास्येत्याह श्रुतिर्दृष्टिरात्मनोऽपरिणामिनः .. ९१..
का त्वसौ श्रुतिः .
दृष्टेर्द्रष्टारमात्मानं न पश्येर्दृश्यमानया .
विज्ञातारमरे केन विजानीयाद्धियां पतिम् .. ९२..
यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो
जात्यन्धा इवानुकम्पनीया इत्याह .
तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः .
जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते .. ९३..
प्रमाणोपपनस्यार्थस्यासंभावनात्तदनुकम्पनीयत्वसिद्धिः .
तदेतदाह .
यद्यद्विशेषणं दृष्टं नात्मनस्तदनन्वयात् .
खस्य कुम्भादिवत्तस्मादात्मा स्यान्निर्विशेषणः .. ९४..
अतश्चात्मनो भेदासंस्पर्शो भेदस्य मिथ्यास्वाभाव्यादत
आह .
अवगत्यात्मनो यस्मादागमापायि कुम्भवत् .
साहंकारमिदं विश्वं तस्मात्तत्स्यात्कचादिवत् .. ९५..
सर्वस्यैवानुमानव्यापारस्य फलमियदेव यद्विवेकग्रहणम् .
तदुच्यते .
बुद्धेरनात्मधर्मत्वमनुमानात्प्रसिद्ध्यति .
आत्मनोऽप्यद्वितीयत्वमात्मत्वादेव सिद्ध्यति .. ९६..
यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीतितत्फलात्मक
आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया
निर्माल्यवदपविद्धः . तथापि तु नैवासौ स्वतस्सिद्धात्म-
व्यतिरिक्तानात्मप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव .
किं तर्हि .
स्वतस्सिद्धानुदितानस्तमितकूटस्थात्मप्रज्ञानमात्र-
शरीरप्रतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव
तदुपादानत्वात्तस्येतीममर्थं निर्वक्तुकाम आह .
ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् .
एवं धियो हिरुग्ज्योतिर्विविच्यादनुमानतः .. ९७..
यस्मात्प्रमाणप्रमेयव्यवहार आत्मानवबोधाश्रय
एव तस्मात्सिद्धमात्मनोऽप्रमेयत्वम् . नैव हि कार्यं
स्वकारणमतिलङ्घ्यान्यत्राकारक आस्पदमुपनिबध्नाति .
अत आह .
व्यवधीयन्त एवामी बुद्धिदेहघटादयः .
आत्मत्वादात्मनः केन व्यवधानं मनागपि .. ९८..
स्वयमनवगमात्मकत्वादनवगमात्कत्वं च
मोहमात्रोपादानत्वात् .
प्रमाणमन्तरेणैषां बुद्ध्यादीनामसिद्धता .
अनुभूतिफलार्थित्वादात्मा ज्ञः किमपेक्षते .. ९९..
वक्ष्यमाणेतरेतराध्याससिद्ध्यर्थमुक्तव्यतिरेकानुवादः .
घटबुद्धेर्घटाच्चर्थाद्द्रष्टुर्यद्वद्विभिन्नता .
अहंबुद्धेरहंगम्याद्दुःखिनश्च तथा दृशेः .. १००..
एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोर्लौकिकरज्जु-
सर्पाध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इत्येतदाह .
अभ्रयानं यथा मोहाच्छशभृत्यध्यवस्यति .
सुखित्वादीन्धियो धर्मांस्तद्वदात्मनि मन्यते .. १०१ ..
दग्धृत्वं च यथा वह्नेरयसो मन्यते कुधीः .
चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते .. १०२..
सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्त्म-
न्युनपतितोऽविद्योत्सङ्गवर्त्येव न परमात्मव्यपाश्रयः .
अस्याश्चाविद्यायाः सर्वानर्थहेतोः कुतो निवृत्तिरिति
चेत्तदाह .
दुःखराशेर्विचित्रस्य सेयं भ्रान्तिश्चिरन्तनी .
मूलं संसारवृक्षस्य तद्बाधस्तत्त्वदर्शनात् .. १०३..
तद्बाधस्तत्त्वदर्शनादिति कुतः संभाव्यत इति चेदत
आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः .
अप्रमोत्थं प्रमोत्थेन ज्ञानं ज्ञानेन बाध्यते .
अहिरज्ज्वादिवद्बाधो देहाद्यात्ममतेस्तथा .. १०४..
लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः
प्रमाणफलम् .
अविद्यानाशमात्रं तु फलमित्युपचर्यते .
नाज्ञातज्ञापनं न्याय्यमवगत्येकरूपतः .. १०५..
यस्मादात्मानवबोधमात्रोपादानाः प्रमात्रादयस्तस्मात् .
न विदन्त्यात्मनः सत्तां द्रष्टृदर्शनगोचराः .
न चान्योन्यमतोऽमीषां ज्ञेयत्वं भिन्नसाधनम् .. १०६..
द्रष्ट्रादेरसाधारणरूपज्ञापनायाह .
बाह्य आकारवान् ग्राह्यो ग्रहणं निश्चयादिमत् .
अन्वय्यहमिति ज्ञेयः साक्षी त्वात्मा ध्रुवः सदा .. १०७..
सर्वकारकक्रियाफलविभागात्त्मकसंसारशून्य आत्मेति
कारकक्रियाफलविभागसाक्षित्वादात्मनस्तदाह .
ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् .
हानोपादानयोस्साक्षी हानोपादानवर्जितः .. १०८..
ग्राहकादिनिष्ठैव ग्राहकादिभावाभावविभागसिद्धिः
कस्मान्नेति चेत्तदाह .
स्वसाधन स्वयं नष्टो न नाशं वेत्त्यभावतः .
अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः .. १०९..
ग्राहकादेरन्यसाक्षिपूर्वकत्वसिद्धेः
स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकत्वा-
दनवस्थेति चेत्तन्न साक्षिणो व्यतिरिक्तहेत्वनपेक्षत्वादत
आह .
धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः .
निरपेक्षमपेक्ष्यैव सिद्धन्त्यन्ये न तु स्वयम् .. ११०..
यतो ग्राहकादिष्वात्मभावोऽविद्यानिबन्धन एव
तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम् .
उत्पत्तिस्थितिनाशेषु योऽवगत्यैव वर्तते .
जगतोऽविकारयावेहि तमस्मीति न नश्वरम् .. १११..
स्वतस्सिद्धात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकात्मानव-
बोधोत्थेतरेतरस्वभावापेक्षसिद्धत्वात्स्वतश्चासिद्धे-
रनात्मनो द्वैतेन्द्रजालस्य .
न स्वयं स्वस्य नानात्वं नावगत्यात्मना यतः .
नोभाभ्यामप्यतस्सिद्धमद्वैतं द्वैतबाधया .. ११२..
यथोक्तार्थप्रतिपत्तिद्रढिम्ने श्रुत्युदाहरणोपन्यासः .
नित्यावगतिरूपत्वात्कारकादिर्न चात्मनः .
अस्थूलं नेतिनेतीति न जायत इति श्रुतिः .. ११३..
सर्वस्यास्य ग्राहकादेर्द्वैतप्रपञ्चस्यात्मानवबोध-
मात्रोपादानस्य स्वयं सेद्धुमशक्यत्वादात्मसिद्धेश्चा-
नुपादेयत्वात् .
आत्मनश्चेन्निवार्यन्ते बुद्धिदेहघटादयः .
षष्ठगोचरकल्पास्ते विज्ञेयाः परमार्थतः .. ११४..
कुतो न्यायबलादेवं निश्चितं प्रतीयते . यस्मात् .
नित्यां संविदमाश्रित्य स्वतस्सिद्धामविक्रियाम् .
सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः .. ११५..
यस्मान्न कयाचिदपि युक्त्यात्मनः कारकत्वं क्रियात्वं
फलत्वं चोपपद्यते तस्मादात्मवस्तुयाथात्म्यानवबोध-
मात्रोपादानत्वान्नभसीव रजोधूमतुषार नीहारनील-
त्वाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकफलात्मक-
संसारोऽहंममत्वयत्नेच्छादिमिथ्याध्यास एवेति
सिद्धमिममर्थमाह .
अहंमिथ्याभिशापेन दुःख्यात्मा तद्बुभुत्सया .
इतः श्रुतिं तया नेतीत्युक्तः कैवल्यमास्थितः .. ११६..
तस्यास्य मुमुक्षोः श्रौताद्वचसः
स्वप्ननिमित्तोत्सारितनिद्रस्येवेयं
निश्चितार्था प्रमा जायते .
नाहं न च ममात्मत्वात्सर्वदानात्मवर्जितः .
भानाविव तमोध्यासोऽपह्नवश्च तथा मयि .. ११७..
सोऽयमेवंप्रतिपान्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति .
यत्र त्वस्येति साटोपं कृत्स्नद्वैतनिषेधिनीम् .
प्रोत्सारयन्तीं संसारमप्यश्रौषं न किं श्रुतिम् .. ११८..
इत्योमित्यवबुद्धात्मा निष्कलोऽकारकोऽक्रियः .
विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् .. ११९..
इति द्वितीयोऽध्यायः .. २..

अथ तृतीयोऽध्यायः[सम्पाद्यताम्]

सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण
आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश
उपपत्तिभिरतिष्ठिपम् . आत्मा च
जन्मादिषड्भावविकारवर्जितः
कूटस्थबोध एवेति स्फुटीकृतम् . तयोश्च
मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं
संबन्धोऽन्यत्र चोदनापरिप्रापितात् यथा
"इयमेवर्गग्निः साम"इति . तच्चाज्ञानं
स्वात्ममात्र निमित्तं न संभवतीति
कस्यचित्कस्मिंश्चिद्विषये
भवतीत्यभ्युपगन्तव्यम् . इह च पदार्थद्वयं
निर्द्धारितमात्मानात्मा च .
तत्रानात्मनस्तावन्नाज्ञानेनाभिसंबन्धः . तस्य हि
स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते .
संभवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् .
न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं
स्यात् . अनात्मनश्चाज्ञानप्रसूतत्त्वात् .
न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत
आश्रयस्याश्रयि संभवति . तदनपेक्षस्य च तस्य
निस्स्वभावत्वात् . एतेभ्य एव हेतुभ्यो
नानात्मविषयमज्ञानं
संभवतीति ग्राह्यम् . एवं तावन्नानात्मनोऽज्ञानित्वं
नापि
तद्विषयमज्ञानम् . पारिशेष्यादात्मन एवास्त्वज्ञानं
तस्याज्ञोऽस्मीत्यनुभवदर्शनात् . "सोऽहं भगवो
मन्त्रविदेवास्मि नात्मवित् "इति श्रुतेः .
न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या-
दतिशयश्च संभवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च
संभवस्तस्य ज्ञानकारित्वात् . न च अज्ञानकार्यत्वं
कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव
स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् . किंविषयं
पुनस्तदात्मनोऽज्ञानम् . आत्मविषयमिति ब्रूमः .
नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च
ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते .
घटत एव . कथम् .
अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः .
तस्मात्तदपनुत्तौ द्वैतानर्थाभावः . तदपनोदश्च
वाक्यादेव तत्पदपदार्थाभिज्ञस्य .
अतो वाक्यव्याख्यानायाध्याय आरभ्यते . तत्र यथोक्तेन
प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः
कृतान्वयव्यतिरेकः .
यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्छति .
प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् .. १..
यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां
प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति . कुत
एतद्ध्यवसीयते . यस्मात् .
तत्पदं प्रकृतार्थं स्यात्त्वंपदं प्रत्यगात्मनि .
नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे .. २..
एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत
इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः .
सामानाधिकरण्यं च विशेषणविशेष्यता .
लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम् .. ३..
अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं
वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो
न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं
विधिपरिप्रापितः किं वा स्वरसत एवात्र
पुमान्प्रवर्तत इति . किंचातः . शृणु .
यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं
न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय
व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना
अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति .
अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो
भवति . यदि पुनर्यदृच्छातः प्रवर्तते तदा न
कश्चिद्दोष इति . विधिपरिप्रापित इति ब्रूमो यत आह .
शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा .
अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः .. ४..
युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः .
वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् .. ५..
अत्रापि चोदयन्ति सांख्याः . शरीरेन्द्रियमनोबुद्धि-
ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं
तन्निबन्धनो ह्यात्मनोऽनेकानर्थसंबन्धस्तस्य
चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं
तत्त्वमस्यादिवाक्यं प्राप्तम् . तस्माद्वाक्यस्य चैष
महिमा योऽयमात्मानात्मनोर्विभाग इति .
तन्निराकरणायेदमुच्यते .
भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि .
कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः .. ६..
ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् .
मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं
वाक्येन निवर्तते . अज्ञानं हि नाम ज्ञानाभावस्तस्य
चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः
सज्जन्मेष्यते "कुतस्तु खलु सोम्यैवं स्यात् "इति
"कथमसतः सज्जायेत "इति श्रुतेरिति . अत्रोच्यते .
अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः .
एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः .. ७..
सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन .
कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह .
प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः .
स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् .. ८..
अत्र केचिदाहुः . यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा
तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति .
अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति
विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः
प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते .
तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति
तन्निराकरणायेदमुच्यते .
सामानाधिकरण्यादेर्घटेतरखयोरिव .
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः .. ९..
कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं
विशेषणविशेष्ययोः सामर्थ्योक्तिः .
निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् .
प्रत्यक्ता च तदर्थस्य त्वंपदेनास्य संनिधेः .. १०..
उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च
संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह .
कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः .
बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते .. ११..
बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे
ये त्वसाधारणे तयोर्विशेषवचनम् .
बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया .
तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि .. १२..
यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य-
विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह .
धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः .
प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसंभवात् .. १३..
भेदहेतसंभवं दर्शयन्नाह .
न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा .
व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा .. १४..
यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो
नात्मनस्तस्मादेतत्सिद्धम् .
कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः .
कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी .. १५..
अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च
लक्षणमुच्यते .
विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते .
प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् .. १६..
सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् .
व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः .. १७..
आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं
तयोरसाधारणलक्षणाभिधानार्थमाह .
बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् .
आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा .. १८..
बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः .
आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः .. १९..
तयोः कूटस्थपरिणामिनोरात्मानवबोध एव संबन्धहेतुर्न
पुनर्वास्तवः कश्चिदपि संबन्ध उपपद्यत इत्याह .
सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते .
हानोपादानतामीषां मोहादध्यस्यते दृशौ .. २०..
कुतः कूटस्थात्मसिद्धिरिति चेद्यतः .
न हानं हानमात्रेण नोदयोऽपीयता यतः .
तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके .. २१..
एवम् .
आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः .
ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः .. २२..
इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं
प्रयोजकमिति . तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि-
त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते .
तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण
प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह .
तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् .
अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् .. २३..
त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु .
संसारितामसंत्यज्य सापि स्यादभिधानजा .. २४..
विरुद्धोद्देशनत्वाच्च
पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह .
उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् .
आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते .. २५..
यत एतदेवमतोऽनुपादित्सितयोरपि
तत्त्वमर्थयोर्विशेषणविशेष्यभावो
भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः .
तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा .
लक्ष्यलक्षणसंबन्धस्तयोः स्यात्प्रत्यगात्मना .. २६..
कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् .
लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा .
तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् .. २७..
इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव .
यस्मात् .
यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति .
तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति .. २८..
कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा
तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति . उच्यते .
प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं
बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना-
त्मत्वमपि साविद्यस्यैव . यतो निरविद्यो विद्वानवाक्यार्थरूप
एव केवलोऽवशिष्यते तस्मादुच्यते .
देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः .
पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः .. २९..
यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् .
प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता .
चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा .. ३०..
यस्मादेवमतो विशुद्धमवसीयताम् .
पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः .
पदार्थाँल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा .. ३१..
कुतः पुनः सामान्यमात्रवृत्तेः पदस्य
वाक्यार्थप्रतिपत्तिहेतुत्वमिति . बाढम् .
सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः .
श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् .. ३२..
अन्वयव्यतिरेकपुरस्सरं वाक्यमेव
सामानाधिकरण्यादिनाविद्या-
पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न
त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह .
बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति .
निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् .. ३३..
न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न
प्राप्नोतीत्यनर्थं चाप्नोतीत्याह .
अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः .
आपेदिरे निरात्मत्वमनुमानैकचक्षुषः .. ३४..
न चानादरे कारणमस्ति . यस्मात्सर्वत्रैवानादरनिमित्तं
प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा
विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा
प्रतिपादनमिति--न चैतेषामन्यतमदपि कारणमस्ति .
यत आह .
मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा .
बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते .. ३५..
न च संशयितव्यमवगमयति . यतः .
सर्वसंशयहेतौ हि निरस्ते कथमात्मनि .
जायेत संशयो वाक्यादनुमानेन युष्मदि .. ३६..
अपि च .
यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः .
न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः .. ३७..
अनवबोधकत्वं तु दूरोत्सारितमेव . यत आह .
बोधेऽप्यनुभवो यस्य न कथंचन जायते .
तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् .. ३८..
अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं
प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न
श्रुत्युदाहरणमुपन्यस्यति .
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः .
स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः .. ३९..
यथा "तत्सत्यं स आत्मा तत्त्वमसि "इत्यस्य
शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा "य एषोऽक्षिणि
पुरुषो
दृश्यते "इत्याद्या "अथ यो वेदेदं जिघ्राणि "
इत्यन्ता तथा "अहं ब्रह्मास्मि "इत्यस्य शेषः .
अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः .
बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् .. ४०..
कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो
बुबोधयिषित इति . यतः .
एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः .
इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् .. ४१..
निर्णेनेक्ति च पृष्टो मुनिः .
आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते .
बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् .. ४२..
यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो
जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव
वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह .
अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्छति .
तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः .. ४३..
अत एव च यः प्रतिज्ञातोऽर्थो "नाहंग्राह्ये न
तद्धीने "इत्यादिः स युक्तिभिरुपपादित इति
कृत्वोपसंह्रियते .
गृहीताहंपदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते .
प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि .. ४४..
पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह .
पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि .
प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा .. ४५..
तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो
हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां
मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं
निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं
विजानीयात् . तदेतदाह .
अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः .
अवगत्यन्त आभाति स म आत्मेति वाक्यधीः .. ४६..
प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य-
कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द-
लक्षणमात्मानं तत्त्वमस्यहंब्रह्मास्मीत्यादिवाक्यं
संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन
साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे-
त्यसकृदभिहितम् . तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै-
र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न
यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् .
न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया
नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् .
अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं
प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य . अस्य परिहारार्थ-
मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ-
विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक-
वाक्यस्येव वक्तव्यमित्ययमारम्भः .
नित्यावगतिरूपत्वादन्यमानानपेक्षणात् .
शब्दादिगुणहीनत्वात्संशयानवतारतः .. ४७..
तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते .
प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः .. ४८..
श्रुतिरपीममर्थं निर्वदति .
दिद्दक्षितपरिछिन्नपराग्रूपादिसंश्रयात् .
विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति .. ४९..
न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः .
न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् .. ५०..
अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते .
प्रत्यक्षस्य पराक्त्वान्न संबन्धग्रहणं यतः .
आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन .. ५१..
एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव
पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् .
एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह .
प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः .
सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते .. ५२..
यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहंब्रह्मास्मीति
वाक्यार्थस्तस्मात् .
अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः .
वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ .. ५३..
सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त-
दभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति .
द्रष्टृदृश्यविभागेनागमापायि-
साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते .
दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि .
मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् .. ५४..
तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि .
प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा .
अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः .. ५५..
तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं
प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्-
धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः
शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया
व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ-
पूर्वकत्वमवसीयते . तदेतदाह .
घटादयो यथा लिङ्गं स्युः परंपरयाहमः .
दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः .. ५६..
ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते-
ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स
आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः
प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य
इति .
यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित-
विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि
वाक्यस्य निर्विषयत्वप्रसङ्गः . नैष दोषः .
लिङ्गव्यवधानेन तत्प्रतिपत्तेः . ननु साक्षादपरोक्षा-
दात्मस्वभावेनानात्मनो हानोपादानयोः
संबन्धग्रहणात्कमतिशयं
वाक्यं कुर्यात् . मैवं वोचः .
लिङ्गाधीनत्वात्तत्प्रतिपत्तेः .
न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति
"यमेवैष वृणुते तेन लभ्यः "इति श्रुतेः . अत आह .
लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् .
सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते .. ५७..
ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं
वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया
तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं
निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते
वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन . नैतदेवम् .
किं कारणम् . सर्वानर्थबीजस्यात्मानवबोधस्य
सुषुप्ते संभवात् . यदि हि सुषुप्तेऽज्ञानं
नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन-
निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण-
भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो-
च्छित्तिप्रसङ्गः . न च कैवल्यात्पुनरुत्थानं न्याय्य-
मनिर्मोक्षप्रसङ्गात् . न चान्य एव सुषुप्तोऽन्य
एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्-
किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् . तस्मादवश्यं
सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् . ननु यदि तत्राज्ञान-
मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य-
द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं
प्रत्यक्षम् . अत्रोच्यते . न . अभिव्यञ्जकाभावात् .
कथमभिव्यञ्जकाभाव इति चेच्छृणु .
बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा .
नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी .. ५८..
कश्चिदतिक्रान्तं प्रतिस्मृत्य "दृश्यत्वादहमप्येवं
लिङ्गं स्याद्द्रष्टुरात्मनः "इति
निर्युक्तिकमभिहितमित्याह . किं कारणम् .
अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः . यथेह
घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो
लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति
तस्मादसाध्वेतदभिहितमिति . अत्रोच्यते .
दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः .
ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् .. ५९..
एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त-
रूपावच्छेदायाहंवृत्तिर्व्याप्रियते . तयावच्छिन्नं
सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया
विषयभावं प्रतिपद्यत इति . तत्र तयोर्ज्ञात्रहंतारूपयो-
रवभासकावभास्यसंबन्धव्यतिरेकेण नान्यत्संबन्धान्तर-
मुपपद्यते . अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं
परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये-
णोपकारिणापकारिणा वात्मात्मीयं संबन्धं प्रतिपद्यते .
तदभिधीयते .
इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः .
अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम .. ६०..
एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि
विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् .
अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये
ममप्रत्ययो भवति विपर्यये चेदंप्रत्यय इति कथमवगम्यते .
अवगम्यतामन्वयव्यतिरेकाभ्याम् . तत्कथमित्याह .
अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम .
घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् .. ६१..
मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः
पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः . अथाधुना तद्व्यतिरेकेण
व्यतिरेकप्रदर्शनार्थाह .
विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः .
उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः .. ६२..
आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह .
वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते .
अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः .. ६३..
द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् .
तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म-
न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति
न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते . योऽपि
वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय-
शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति . यश्च
श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा
तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं
प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः .
यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते
यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः
कथं वाक्यं श्राव्यत इति . उच्यते .
नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा .
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव .. ६४..
अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे
समर्पयिष्यन्नाह .
अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना .
वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् .. ६५..
नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते
प्रत्याहान्वेषणासहिष्णुत्वात् . तत्कथमित्याह .
सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी .
सहते न विचारं सा तमो यद्वद्दिवाकरम् .. ६६..
तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण
निवृत्तिः .
बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् .
प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् .. ६७..
कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः .
जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः .
त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः .. ६८..
सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव .
न च नैवमिति प्रत्ययान्तर जायते . तदेतद्दृष्टान्तेन
प्रतिपादयति .
दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते .
आदिमध्यावसानेषु न नवस्वस्य संशयः .. ६९..
एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि .
सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा .. ७०..
प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते .
किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि-
कारकभेदानपह्नवेन जायते तथैवोताशेषकारक-
ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति . उच्यते .
प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् .
अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते .. ७१..
यस्मादेवम् .
विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते .
दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् .. ७२..
आह . यदि वाक्यमेव यथाभूतार्थवबोधकमथ
कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते
प्रतिविधीयते .
भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया .
अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि .. ७३..
इममर्थं दृष्टान्तेन बुद्धावारोहयति .
स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति .
व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते .. ७४..
यस्माच्छ्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं
तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव .
विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना-
नूद्यमानयोरिति . स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का
सामान्यलिङ्गतत्वात्तयोर्न विपर्यये .
अनालिङ्गितसामान्यौ न जिहासितवादिनौ .
व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ .. ७५..
अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन
च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो-
रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु
नीलोत्पलवदिति चेन्नैवमप्युपपद्यते . तस्मात् .
तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः .
नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना .. ७६..
अत्राह . किमिह जिहासितं किं वोपादित्सितमिति . उच्यते .
प्रत्यगात्मार्थाभिधायिनस्त्वंपदादुभयं प्रतीयतेऽहं
दुःखी प्रत्यगात्मा च . तत्र च प्रत्यगात्मनोऽहं
दुःखीत्यनेनाभिसंबन्ध आत्मयाथात्म्यानवबोधहेतुक
एव . अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति
प्रत्यक्षतोवसीयते . तदर्थे किं हेयं किं वोपादेयमिति
नावध्रियते . तत इदमभिधीयते .
पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् .
प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे .. ७७..
कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं
सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति . उच्यते . न
चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः . कथं तर्हि .
त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता
सानेनावबोध्यते .
अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य
परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि-
चोद्यस्यावसरोऽस्तीति . तदिदमभिधीयते .
तत्त्वमर्थेन संपृक्तो नानात्वं विनिवर्तयेत् .
नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति .. ७८..
कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन
प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं
निहन्तीति . उच्यते . विरोधात् . तदुच्यते .
संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह .
प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः .. ७९..
तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते .
अज्ञातपुरुषार्थत्वाच्छ्रौतत्वात्तत्त्वमर्थयोः .
स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः .. ८०..
एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न
प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि संभाव्यते .
यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं
वाक्यार्थं संभावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत
एव तस्मिन्नपि पक्ष उच्यते .
प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् .
स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् .. ८१..
यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं
न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो
दुस्संभाव्य इति . तदुच्यते .
वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता .
वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसंभवः .. ८२..
भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः . कथम् .
उच्यते .
अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् .
न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः .. ८३..
य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं
ब्रूयात् .
नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा .
इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः .. ८४..
प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव
भिन्नविषयत्वात् .
ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव
बाध्यबाधकभावः स्यात् . अतस्तदुच्यते .
प्रत्यक्षं चेन्न शाब्दं स्याच्छाब्दं चेदक्षजं
कथम् .
प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे .. ८५..
न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह संभवति
शब्दादीनां प्रत्येकं प्रमाणत्वादत आह .
स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् .
इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः .. ८६..
न च सुखदुःखादिसंबन्धोऽवगत्यात्मनः
प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः
प्रत्यक्षादिप्रमाणैरुद्धाट्यते .
दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् .
कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् .. ८७..
अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं
संभावितदोषान्मुच्यते . अत आह .
प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते .
अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् .. ८८..
अथ मतम् .
निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् .
प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् .. ८९..
ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय-
व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते
तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां
प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति .
यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः
पुरुषायासमात्रजनितः प्रत्यय इति . तन्न . यतः .
अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् .
न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् .. ९०..
अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् .
नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् .. ९१..
अपि चाह .
दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता .
स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा .. ९२..
ननु शास्त्रात्स्थास्नुत्वं भविष्यति . नैवम् .
यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य .
न हि पदार्थशक्त्याधानकृच्छास्त्रम् . प्रसिद्धं च
लोके .
भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् .
न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् .. ९३..
यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् .
तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति
निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य
च स्वत एव निर्दुःखित्वसिद्धेः . प्रत्यक्षादेस्तु
व्यभिचारित्वा-
त्संभावनायाश्च पुरुषपरिकल्पनामात्राव-
ष्टम्भत्वाच्चेति .
निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता .
को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः .. ९४..
संबन्धार्थ एव .
अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि .
"पराञ्चि खानि"त्येतस्माद्वचसो गम्यते श्रुतेः .. ९५..
अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण
विरुध्यत इत्यसकृदवोचाम . यत्रापि
वाक्यप्रत्यक्षयोर्विरोधाशङ्का
तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति .
अत आह .
प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् .
गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासंभवाद्बुधः .. ९६..
तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् .
अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः .
यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः .. ९७..
कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया
कल्पनयेति तत्राह .
त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते .
समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते .. ९८..
कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः
साक्षादेवेति . विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः
अत आह .
व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः .
कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि .. ९९..
ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासंभवे समानेऽहंवृत्तौ
कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि
विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति . उच्यते .
चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः .
पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादाअत्मानयोच्यते .. १००..
वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः .
अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः .. १०१..
यथोक्तेन .
अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया .
लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते .. १०२..
नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् .
षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः .
नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते .. १०३..
यदि शब्दोऽभिधानाभिधेयत्वसंबन्धाङ्गीकारेण नात्मनि
वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः .
उच्यते .
असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते .
आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः .. १०४..
कथं पुनरभिधानमभिधेयेनानभिसंबद्धं
सदनभिधेयेऽर्थे
प्रमां जनयतीति . शृणु यथानभिसंबद्धमप्यनभिधे-
येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह .
शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः .
सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि .. १०५..
न हि नाम्नास्ति संबन्धो व्युत्थितस्य शरीरतः .
तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः .. १०६..
यथा च .
बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा .
बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् .. १०७..
"असत्ये वर्त्मनि स्थित्वा"इत्युपश्रुत्यातिविस्मितो महता
संभ्रमेण कश्चिच्चोदयति .
नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये .
नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते .. १०८..
इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना .
सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः .. १०९..
एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते .
प्रकृतं
चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं
जनयतीति . तत्रैव कारणान्तरमुच्यते .
अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता .
निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा .. ११०..
अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो
दुस्संभाव्योऽविद्यासद्भाव इति चेन्न . अविद्याप्रसिद्ध्यैव
तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते .
अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते .
प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति .. १११..
यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत
आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्संभावनाप्यस्ति
यत आह .
ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् .
संभावनाप्यविद्यायास्तत्र स्यात्केन हेतुना .. ११२..
सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि
सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते
यतोऽतः .
अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः .
ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः .. ११३..
भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति
चेच्छृणु .
यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि
स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् .
अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया .
भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते .. ११५..
अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्संभाव्या
अविद्येति . नैतदेवम् . कुतः . यत आह .
कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसंभवात् .
कालत्रयापरिच्छित्तेर्न चोर्ध्वं चोद्यसंभवः .. ११६..
यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां
निरन्वयामपनुदति तस्मात् .
अद्धातममनादृत्य प्रमाणं सदसीति ये .
बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् .. ११७..
एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं
कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि
प्रतिपत्तिः स्यादत आह .
इदं चेदनृतं ब्रूयात्सत्यामवगतावपि .
न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः .. ११८..
न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं
युक्तम् . यस्मात् .
न चेदनुभवोऽतः स्यात्पदार्थावगतावपि .
कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते .. ११९..
न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते .
कोऽसौ न्याय इत्याह .
नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः .
निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः .. १२०..
भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् .
अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया .. १२१..
न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं
प्राप्नोति . तदाह .
यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्छ्रुतम् .
प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना .. १२२..
अथ मन्यसे .
जानीयाच्चेत्प्रसंख्यानाच्छब्दस्सत्यवचाः कथम् .
पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ..
१२३..
न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव-
त्प्रतिपत्तिर्भविष्यतीति संभावयामः . यस्मात् .
युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् .
साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति .. १२४..
अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न
शक्नोषीति चेच्छ्रवणादावेव संपादयिष्यामः . कथम् .
प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः .
ईषच्छ्रुतं सामिश्रुतं सम्यक्श्रुत्वावगच्छति .. १२५..
ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या
बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति
ततश्चारूढपतितत्वं
न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति . उच्यते .
त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः .
तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः .. १२६..
इति तृतीयोऽध्यायः .. ३..

अथ चतुर्थोऽध्यायः[सम्पाद्यताम्]

पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् .
संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये .. १..
संक्षेपविस्तराभ्यां हि मन्दोत्तमधियां नृणाम् .
वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते .. २..
आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः .
सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः .. ३..
अनात्मत्वं स्वतस्सिद्धं देहाद्भिन्नस्य वस्तुनः .
ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् .. ४..
असाधारणांस्तयोर्धर्मान् ज्ञात्वा धूमाग्निवद्बुधः .
अनात्मनोऽथ बुद्ध्यन्तान् जानीयादनुमानतः .. ५..
इदमित्येव बाह्येऽर्थे ह्यहमित्येव बोद्धरि .
द्वयं दृष्टं यतो देहे तेनायं मुह्यते जनः .. ६..
केन पुनर्न्यायेनात्मानात्मनोरश्वमहिषयोरिव विभागः
क्रियत इति . उच्यते .
न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् .
तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् .. ७..
विद्यात्तत्त्वमसीत्यस्माद्भावाभावदृशं सदा .
अनन्तरमबाह्यार्थं प्रत्यक्स्थं मुनिरञ्जसा .. ८..
उच्यतां तर्हि कया तु परिपाय्या वाक्यार्थं वेत्तीति .
उच्यते . अन्वयव्यतिरेकाभ्याम् .
त्यक्तकृत्स्नेदमर्थत्वात्त्यक्तोऽहमिति मन्यते .
नावगच्छाम्यहं यस्मान्निजात्मानमनात्मनः .. ९..
अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति
प्रमाणाद्विनिश्चित्य
किमिति बुभुत्सातो नोपरमते . शृणु .
अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मनः .
दोलायमानचित्तोऽयं मुह्यते भौतवन्नरः .. १०..
अविलुप्तविज्ञानात्मन आत्मत्वादेव नित्यसान्निध्याद्बुभुत्सुः
किमिति न प्रतिपद्यत इति. यस्मात् .
यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते .
दृष्टेर्द्रष्टारमात्मानं तैः प्रसिद्धैः प्रमित्सति .. ११..
कस्मात्पुनर्हेतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बुद्धिभि-
रात्मानमनात्मवन्न वीक्षत इति . उच्यते .
चक्षुर्न वीक्षते शब्दमतदात्मत्वकारणात् .
यथैवं भौतिकी दृष्टिर्नात्मानं परिपश्यति .. १२..
प्रत्यक्षादिप्रमाणस्वाभाव्यानुरोधेन
तावत्तददर्शनकारणमुक्तम् .
अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते .
धीविक्रियासहस्राणां हानोपादानधर्मिणाम् .
सदा साक्षिणमात्मानं प्रत्यक्त्वान्नाहमीक्षते .. १३..
क्व पुनरियं विवेकबुद्धिः किमात्मन्युतानात्मनीति . किंचातः .
यद्यात्मनि कूटस्थत्वव्याघातोऽनात्मदर्शित्वात् .
अथानात्मनि तस्याप्यचैतन्यान्न विवेकसंबन्ध इति . उच्यते .
"दाह्यदाहकतैकत्र"इत्युक्तपरिहारात् .
बुद्धावेव विवेकोऽयं यदनात्मतया भिदा .
बुद्धिमेवोपमृद्नाति कदलीं तत्फलं यथा .. १४..
सोऽयमतत्त्वे तत्त्वदृक् .
अनुमानप्रदीपेन हित्वा सर्वाननात्मनः .
संसारैकावलम्बिन्या तदभावं धियेप्सति .. १५..
योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभाग
लक्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्-
प्रतिपत्तव्योऽन्यथावस्तुस्वाभाव्यान्मृगतृष्णिकोदक-
प्रबोधववदित्यत आह .
संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति .
शशो निमीलनेनेव मृत्युं परिजिहीर्षति .. १६..
अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् .
इममर्थं पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् .
"यच्चक्षुषे"ति विस्रब्धं "न दृष्टे "रिति
च स्फुटम् .. १७..
बुद्ध्यन्तमपविद्ध्यैवं को न्वहं स्यामितीइक्षितुः .
श्रुतिस्तत्त्वमसीत्याह सर्वमानातिगामिनी .. १८..
एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्तः .
सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसाद-
लभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽनन्यापेक्ष-
सिद्धस्वभावत्वात्कैश्चिच्छ्रद्धधानैर्न प्रतीयते .
तेषां संग्रहार्थमभिमतप्रामाण्योदाहरणम् .
भगवत्पूज्यपादैश्च उदाहार्येवमेव तु .
सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः .. १९..
किं परमात्मन उपदेश उतापरमात्मन इति . किं चातः .
यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तत्वान्निरर्थक
उपदेशः . अथापरमात्मनस्तस्यापि स्वत एव संसार-
स्वभावत्वान्निष्फल उपदेशः . एवमुभयत्रापि
दोषवत्त्वादत आह .
"अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्ग्रहस्तथा ".
इति पक्षमुपादाय पूर्वपक्षं निशात्य च .. २०..
तच्चेदमविवेकात्स्वतो विविक्तात्मने तत्त्वमसीत्युपदिष्टम् .
युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः .
यतोऽनभिज्ञे वाक्यं स्याद्बधिरेष्विव गायनम् .. २१..
तस्य च युष्मदस्मद्विभागविज्ञानस्य का युक्तिरुपायभावं
प्रतिपद्यते . शृणु .
"अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च .
स्यादेतदहमित्यत्र युक्तिरेवावधारणम् ".. २२..
कथं तौ युक्तिरित्यत्राह .
"नाद्राक्षमहमित्यस्मिन् सुषुप्तेऽन्यन्मनागपि .
न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ".. २३..
"एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः .
श्रुतिस्तत्त्वमसीत्याह श्रोतुर्मोहापनुत्तये ".. २४..
तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्थ उच्यते .
"अहं शब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि .
सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ".. २५..
अन्यच्चान्वयव्यतिरेकोदाहरणम् . तथा .
"छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते .
तथा शिष्टेन सर्वेण येनयेन विशेष्यते .. २६..
विशेषणमिदं सर्वं साध्वलंकरणं यथा .
अविद्याध्यस्तमतः सर्वं ज्ञात आत्मन्यसद्भवेत् .. २७..
तस्मात्त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् .
अनात्मत्वेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः .. २८..
ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः .
अहमित्यपि यद्ग्राह्यं व्यपेताङ्गसमं हि तत् ".. २९..
"दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् .
तथान्ये प्रत्यया ज्ञेया दोषाश्चात्मामलो ह्यतः ".. ३०..
सर्वन्यायोपसंग्रहः .
"नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः .
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् .. ३१..
अन्वयव्यतिरेकाभ्यां पदार्थस्स्मर्यते ध्रुवम् .
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते .. ३२..
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् .
दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ".. ३३..
वीक्षापन्नस्योदाहरणम् .
"नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् .
अपश्यन् ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा .. ३४..
अविद्याबद्धचक्षुष्ट्वात्कामापहृतधीः सदा .
विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ".. ३५..
सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन्
कथमुत्थाप्यत इत्याह .
यथा स्वापनिमित्तेन स्वप्नदृक्प्रतिबोधितः .
करणं कर्म कर्तारं स्वाप्नं नैवेक्षते स्वतः .. ३६..
अनात्मज्ञस्तथैवायं सम्यक् श्रुत्यावबोधितः .
गुरुं शास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति .. ३७..
स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत
उत नेतीति . अत्र ब्रूमः . कूटस्थावगतिशेषमात्रत्वा-
त्प्रतिपत्तेरत आह .
दण्डावसाननिष्ठस्स्याद्दण्डसर्पो यथा तथा .
नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् .. ३८..
कुत एतत् . यस्मात् .
पश्यन्निति यदाहोच्चैः प्रत्यक्त्वमजमव्ययम् .
अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते .. ३९..
तत्त्वमस्यादिवाक्योत्थविज्ञानैव बाध्यते . यस्मात् .
अस्माद्यदपरं रूपं नास्तीत्येव निरूप्यते .
अन्यथाग्रहणाभावाद्बीजं तत्स्वप्नबोधयोः .. ४०..
अस्यार्थस्य द्रढिम्न उदाहरणम् .
"कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ .
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ".. ४१..
"अन्यथागृहणतः स्वप्नो निद्रा तत्त्वमजानतः .
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ".. ४२..
तथा भगवत्पादीयमुदाहरणम् .
"सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः .
आत्मबोधप्रदग्धं स्याद्बीजं दग्धं यथाभवम् "..
४३..
एवं गौडैर्द्राविडैर्नः पूज्यैरयमर्थः प्रभाषितः .
अज्ञानमात्रोपाधिस्सन्नहमादिदृगीश्वरः .. ४४..
तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनात्मधर्म
एवेत्याह .
इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् .
योऽविकारो विजानाति परागेवास्य तत्तमः .. ४५..
यत एतदेवमतस्तस्यैव
बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य
स्वकार्यद्वितीयाभिसंबन्धो न त्वविकारिण आत्मन इत्याह
दृष्टान्तेन .
रूपप्रकाशयोर्यद्वत्संगतिर्विक्रियावतः .
सुखदुःखादिसंबन्धश्चित्तस्यैवं विकारिणः .. ४६..
तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह .
संप्रसादेऽविकारित्वादस्तं याते विकारिणि .
पश्यतो नात्मनः किंचिद्द्वितीयं स्पृशतेऽण्वपि .. ४७..
सोऽयं कूटस्थज्ञानमूर्तिरात्मा .
यथा प्राज्ञे तथैवायं स्वप्नजागरितान्तयोः .
पश्यन्नप्यविकारित्वाद्द्वितीयं न पश्यति .. ४८..
एवं ज्ञानवतो नास्ति ममाहंमतिसंश्रयः .
भास्वत्प्रदीपहस्तस्य ह्यन्धकार इवाग्रतः .. ४९..
तत्र दृष्टान्तः .
आ प्रबोधाद्यथासिद्धिर्द्वैतादन्यस्य वस्तुनः .
बोधादेवमसिद्धत्वं बुद्ध्यादेः प्रत्यगात्मनः .. ५०..
स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् .
सर्वमेवानुजानाति सर्वमेव निषेधति .
भेदात्मलाभोऽनुज्ञा स्यान्निषेधोऽतत्स्वभावतः .. ५१..
सर्वस्योक्तत्वादुपसंहारः .
परमाथार्थनिष्ठं यत्सर्ववेदान्तनिश्चितम् .
तमोपनुद्धियां ज्ञानं तदेतत्कथितं मया .. ५२..
एतावदिहोक्तम् .
नेहात्मविन्मदन्योऽस्ति न मत्तोऽज्ञोऽस्ति कश्चन .
इत्यजानन्विजानाति यस्स ब्रह्मविदुत्तमः .. ५३..
एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्यमाहोस्वि-
न्मुक्तप्रग्रहतेति . उच्यते .
ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्त्वनुसार्यतः .
न प्रवृत्तिं निवृत्तिं वा कटाक्षेणापि वीक्षते .. ५४..
कुत एतज्ज्ञेयाभिन्नमिति . यतः .
प्रागात्मबोधाद्बोधोऽयं बाह्यवस्तूपसर्जनः .
प्रध्वस्ताखिलसंसार आत्मैकालम्बनः श्रुतेः .. ५५..
एवमवगतपरमार्थतत्त्वस्य न शेषशेषिभाव-
स्तत्कारणस्योत्सारितत्वादित्याह .
वास्तवेनैव वृत्तेन निरुणद्धि यतो भवम् .
निवृत्तिमपि मृद्नाति सम्यग्बोधः प्रवृत्तिवत् .. ५६..
सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् .
ध्वान्तमात्रनिरासेन न ततोऽन्यान्यथामतिः .. ५७..
देशकालाद्यसंबद्धाद्देशादेर्मोहकार्यतः .
नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः .. ५८..
सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः .
सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते .. ५९..
वास्तवेनैव वृत्तेनाविद्यायाः प्रध्वस्तत्वान्न
किंचिदवशिष्यत इत्युक्तः परिहारः . अथापरस्सांप्रदायिकः
परिहारः .
निवृत्तसर्पस्सर्पोत्थं यथा कम्पं न मुञ्चति .
विध्वस्ताखिलमोहोऽपि मोहकार्यं तथात्मवित् .. ६०..
यतः प्रवृत्तिबीजमुच्छिन्नं तस्मात् .
तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः .
तथा बुद्धात्मतत्त्वस्य निवृत्त्यैव तनुक्षयः .. ६१..
अथालेपकपक्षनिरासार्थमाह .
बुद्धद्वैतसत्त्वस्य यथेष्टाचरणं यदि .
शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे .. ६२..
कस्मान्न भवति . यस्मात् .
अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः .
धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते .. ६३..
प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः .
"यस्य सर्वे समारम्भाः ""प्रकाशं चे "ति
सर्वदृक् .. ६४..
तिष्ठतु तावत्सर्वप्रवृत्तिबीजघस्मरं ज्ञानं
मुमुक्ष्ववस्थायामपि न संभवति यथेष्टाचरणम् .
तदाह .
"यो हि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते .
लोकत्रयविरक्तत्वान्मुमुक्षुः किमितीहते ".. ६५..
तत्र दृष्टान्तः .
"क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति .
मिष्टान्नध्वस्ततृड् जानन्नामूढस्तज्जिघत्सति ".. ६६..
यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि
घटते मुमुक्षुत्वेऽपि च तस्मात् .
रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु .
कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः .. ६७..
सकलपुरुषार्थसमाप्तिकारिणोऽस्यात्मावबोधस्य कुतः
प्रसूतिरिति . उच्यते .
अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः .
ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः .. ६८..
उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृत्तिवन्निवृत्त्या-
त्मकामानित्वदयो निवर्तन्त उत नेति . नेति ब्रूमः . किं
कारणम् . निवृत्तिशास्त्राविरुद्धस्वाभाव्यात्परमात्मनो
न तु नियोगवशात् . कथं तर्हि . शृणु .
उत्पन्नात्मप्रबोधस्य त्वद्वेष्टृत्वादयो गुणाः .
अयत्नतो भवन्त्यस्य न तु साधनरूपिणः .. ६९..
यत एतदेवमतः .
इमां ग्रन्थमुपादित्सुरमानित्वादिसाधनः .
यत्नतः स्यान्न दुर्वृत्तः प्रत्यग्धर्मानुगो ह्ययम् .. ७०..
न दातव्यश्चायं ग्रन्थः .
नाविरक्ताय संसारान्नानिरस्तैषणाय च .
न चायमवते देयं वेदान्तार्थप्रवेशनम् .. ७१..
ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते .
न चानिरस्तकर्मेदं जानीयादञ्जसा ततः .. ७२..
निरस्तसर्वकर्माणः प्रत्यक्प्रवणबुद्धयः .
निष्कामा यतयः शान्ता जानन्तीदं यथोदितम् .. ७३..
श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान्
  ज्ञानं पारमहंस्यमेतदमलं स्वान्तान्धकारापनुत् .
मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः
  सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ..
७४..
सुभाषितं चार्वपि नामहात्मनां
     दिवाकरो नक्तदृशामिवामलः .
प्रभाति भात्येव विशुद्धचेतसां
     निधिर्यथापास्ततृषां महाधनः .. ७५..
विष्णोः पादानुगां यां निखिलभवनुदं शंकरोऽवाप
योगात्
सर्वज्ञं ब्रह्मसंस्थं मुनिगणसहितं सम्यगभ्यर्च्य
भक्तया .
विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदान्तदीप्तां
कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः .. ७६..
वेदान्तोदरवर्ति भास्वदमलं ध्वान्तच्छिदस्मद्धियो
   दिव्यं ज्ञानमतीद्रियेऽपिविषये व्याहन्यते न क्वचित् .
यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः
   प्रोत्सार्याविरकार्षीद्गुरुगुरुः पूज्याय तस्मै नमः .. ७७..
संबन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता .
नैष्कर्म्यसिद्धेर्ज्ञात्वेमां व्याख्यातासौ भवेद्ध्रुवम्
.. ७८..
इति चतुर्थोऽध्यायः .. ४..

वलिताक्षराणि

"http://sa.wikibooks.org/w/index.php?title=नैष्कर्म्यसिद्धिः&oldid=4890" इत्यस्माद् पुनः प्राप्तिः