पञ्जीकरणम्

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

||पञ्चीकरणम् ||


श्रीमच्छंकराचार्यविरचितम् पञ्चीकरणम्

  ॐ पञ्चीकृतंपञ्चमहाभूतानि तत्कार्यं
     च सर्वं विराडित्युच्यते |
     एतत्स्थुलशरिरमात्मनः |
     ईन्द्रियैरर्थोपलब्धिर्जागरितम् |
     तदुभयाभिमान्यात्मा विश्वः |
     एतत् त्रयमकारः ||१||

अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्रणि

    तत्कार्यं च पञ्च प्राणाः दशेन्द्रियाणि
    मनोबुद्धिश्चेति सप्तदशकं लिंजम् भौतिकं
    हिरण्यगर्भ इत्युच्यते |

एतत्सूक्ष्मशरिरमात्मनः ||२||

करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः

    सविषयः स्वप्न इत्युच्यते |
    यदुभयाभिमान्यात्मा तैजसः |

एतत् त्रयमुकारः ||३||

    शरीरद्वयकारणमात्माज्ञानं
    साभासमव्याकृतमित्युच्यते |
    एतत् कारणशरीरमात्मनः |
    तच्च न सन्नासन्नापि सदसन्न भिन्नं नाभिन्नं
    नापि भिन्नाभिन्नं कुतश्चित्
    न निरवयवं न सावयवं नोभयं किंतु

केवलब्रह्मात्मैकत्वज्ञानापनोद्यम् ||४||

    सर्वप्रकारज्ञानोपसंहारे बुद्धेः
    कारणात्मनाऽवस्थानं सुषुप्तिः |
    तदुभयामिमान्यात्मा प्राज्ञः |

एतत् त्रयम् मकारः ||५||

अकार उकारे उकारो मकारे मकार ओंकारे ओंकारोऽहम्येव | अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः

    नाज्ञानं नापि तत्कार्यं किंतु
    नित्यशुद्धबुद्धमुक्तसत्यस्भावं
    परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मै
    वाहमस्मीत्यभेदेनावस्थानं समाधिः ||६||
    तत्त्वमसि ब्रह्महमस्मि प्रज्ञानमानन्दं ब्रह्म
    अयमात्मा ब्रह्म इत्यादिश्रुतिभ्यः ||७||
           इति पञ्चीकरणं भवति ||
           इति श्रीशङ्कराचार्यविरचितं पञ्चीकरणम् ||
           पञ्चीकरणवार्त्तिकम्
           श्रीसुरेश्वराचार्यकृत

ओंकारः सर्ववेदानां सारस्तत्त्वप्रकाशकः | तेन चित्तसमाधानं मुमुक्षूणां प्रकाश्यते ||१||

आसीदेकं परं ब्रह्म नित्यमुक्तमवीक्रियम् | तत्स्वमायासमावेशाद् बीजमव्याकृतात्मकम् ||२||

तस्मादाकाशमुत्पन्नं शब्दतन्मात्ररूपकम् | स्पर्शात्मकस्ततो वायुस्तेजोरूपात्मकं ततः ||३||

आपो रसात्मिकास्तस्मात्ताभ्यो गन्धात्मिका महि | शब्दैकगुणमाकाशं शब्दस्पर्शगुणो मरूत् ||४||

शब्दस्पर्शरूपगुणैस्त्रिगुणं तेज उच्यते | शब्दस्पर्शरूपरसगुणैरापश्चतुर्गुणाः ||५||

शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा मही | तेभ्यः समभवत्सूत्रं भूतं सर्वात्मकं महत् ||६||

ततः स्थूलानि भूतानि पञ्च तेभ्यो विराडभूत् | पञ्चीकृतानि भूतानि स्थूलानीत्युच्यते बुधैः ||७||

पृथिव्यादीनि भूतानि प्रत्येकं विभजेद् द्विधा | एकैकं भागमादाय चतुर्धा विभजेत्पुनः ||८||

एकैकं भागमेकस्मिन् भूते संवेशयेत्क्रमात् | ततश्चाकाशभूतस्य भागाः पञ्च भवन्ति हि ||९||

वाय्वादिभागाश्च्त्वारो वाय्वादिष्वेवमादिशेत् | पञ्चीकरणमेतत्स्यादित्यहुस्तत्त्ववेदिनः ||१०||

पञ्चकृतानि भूतानि तत्कार्यं च विराड् भवेत् | स्थूलं शरीरमेतत्स्यादशरीरस्य चात्मनः ||११||

अधिदैवतमध्यात्ममधिभूतमिति त्रिधा | एकं ब्रह्म विभागेन भ्रमाद्माति न तत्त्वत्तः ||१२||

इन्द्रियैरर्थविज्ञानं देवतानुग्रहान्तिवतैः | शब्दादिविषयं ज्ञानं तज्जागरितमुच्यते ||१३||

श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यं शब्दलक्षणम् | अधिभूतं तदित्युक्तं दिशस्तत्राधिदैवतम् ||१४||

त्वगध्यात्ममिति प्रोक्तं स्प्रष्टव्यं स्पर्शलक्षणम् अधिभूतं तदित्युक्तं वायुस्तत्रधिदैवतम् ||१५||

चक्षुरध्यात्ममित्युक्तं द्रष्टव्यं रूपलक्षणम् | अधिभूतं तदित्युक्तमादित्योऽत्राधिदैवतम् ||१६||

जिह्वाऽध्यात्मं तयाऽस्वाद्यमाधिभूतं रसात्मकम् | वरूणो देवता तत्र जिह्वायामधिदैवतम् ||१७||

ध्राणमध्यात्ममित्युक्तं ध्रातव्यं गन्धलक्षणम् | अधिभूतं तदित्युक्तं पृथिव्यत्राधिदैवतम् ||१८||

वागध्यात्ममिति प्रोक्तं वक्त्वयं शब्दलक्षणम् | अधिभूतं तदित्युक्तमग्निस्तत्राधिदैवतम् ||१९||

हस्तावध्यात्ममित्युक्तमादातव्यं च यद्मवेत् | अधिभूतं तदित्य्युक्तमिन्द्रस्तत्राधिदैचतम् ||२०||

पादावध्यात्ममित्युक्तं गन्तव्यं तत्र यद्मवेत् | अधिभूतं तदित्युक्तं विष्णुस्तत्राधिदैवतम् ||२१||

पायुरिन्द्रियमध्यात्मं विसर्गस्तत्र यो भवेत् | अधिभूतं तदित्युक्तम्ं मृत्युस्तत्राधिदैवतम् ||२२||

उपस्थेन्द्रियमध्यात्मं स्त्र्याद्यानन्दस्य कारणम् अदिभूतं तदित्युक्तमधिदैवं प्रजापतिः ||२३||

मनोऽध्यात्ममिति प्रोक्तं मन्तव्यं तत्र यद्मवेत् | अधिभूतं तदित्युक्तं चन्द्रस्तत्राधिदैवतम् ||२४||

बुद्धिरध्यात्ममित्युक्तं बोद्धव्यं तत्र यद्मवेत् | अधिभूतं तदित्युक्तमधिदैवं बृहस्पतिः ||२५||

अहंकारस्तथाऽध्यात्ममहंकर्तव्यमेव च | अधिभूतं तदित्युक्तं रूद्रस्तत्राधिदैवतम् ||२६||

चितमध्यात्ममित्युक्तं चेतव्यं तत्र यद्मवेत् | अधिभूतं तदित्युक्तं क्षेत्रज्ञोऽत्राअधिदैवतम् ||२७||

तमोऽध्यात्ममत्मिति प्रोक्तं विकारस्तत्र यो भवेत् | अधिभूतं तदित्युक्तमीश्वरोऽत्राधिदैवतम् ||२८||

बाह्यान्तःकरणैरेवं देवतानुग्रहान्वितैः | स्वं स्वं च विष्यज्ञानं तज्जागरितमुच्यते ||२९

येयं जागरितावस्था शरीरं करणाश्रयम् | यस्तयोरभिमानी स्यद्विश्व इत्यभिधीयते ||३०||

विश्वं वैराजरूपेण पश्येद्मेदनिवृत्तये | ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ||३१||

श्रोत्रत्वङ्नयनघ्राणजिह्वा धीन्द्रियपञ्चकम् | वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ||३२||

मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् | संकल्पारव्यं मनोरूपं बुद्धिर्निश्चयरूपिणी ||३३||

अभिमानाअत्मकस्तद्वदहंकारः प्रकीर्तितः | अनुसंधानरूपम्ं च चित्तमित्यभिधीयते ||३४||

प्राणोऽपानस्तथा व्यान उदानारव्यस्तथैव च | समानश्चेति पञ्चैताः किर्तिताः प्रणवृत्तयः ||३५||

खवाव्यग्न्यम्बुक्षितयो भूतसूक्ष्माणि पञ्च च | अविद्याकामकर्माणि लिङ्गं पुयेष्टकं विदुः ||३६||

एतत्सूक्ष्मशरीरं स्यान्मायिकं प्रात्यगात्मनः | करणोपरमे जाग्रत्संकारोत्थं प्रबोधवत् ||३७||

ग्राह्यग्राहकरूपेण स्फुरणं स्वप्न उच्यते | अभिमानी तयोर्यस्तु तैजसः परिकीर्तितः ||३८||

हिरण्यगर्भरूपेण तैजसं चिन्तयेद् बुधः | चैतन्याभासखचितं शरीरद्वयकारणम् ||३९||

आत्माज्ञानं तदव्यक्तमव्याकृतमितीर्यते | न सन्नासन्न सदसद्मिन्नाभिन्नं न चात्मनः ||४०||

न सभागं न निर्भागं न चाप्युभयरूपकम् | ब्रह्मात्मैकत्वविज्ञानहेयं मिथ्यात्वकारणात् ||४१||

ज्ञानानामुपसंहारो बुद्वेः करणतास्थितिः | वटबीजे वटस्येव सुषुप्तिरभिधीयते ||४२||

अभिमानी तयोर्यस्तु प्राज्ञ इत्यभिधीयते | जगत्कारणरूपेण प्राज्ञात्मानं विचिन्तयेत् ||४३||

विश्वतैजससौषुप्त विराट् सूत्राक्षरात्मभिः | विभिन्नमिव संमोहादेकं तत्त्वं चिदात्मकम् ||४४||

विश्वादिकत्रयं यस्माद्वैराजादित्रयात्मकम् | एकत्वेनैव संपश्येदन्याभावप्रसिद्धये ||४५||

ॐकारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् | वाच्यवाचकताभेदाद्मे देनानुपलाब्धितः ||४६||

अकारमात्रं विश्वः स्यादुकारस्तैजसः स्मृतः | प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ||४७||

समाधिकालात्प्रगेवं विचिन्त्यातिप्रयत्नतः | स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ||४८||

अकारं पुरूषं विश्वमुकारे प्रविलापयेत् | उकारं तैजसं सूक्ष्मं मकारे प्रविलापयेत् ||४९||

मकारं करणं प्राज्ञं चिदात्मनि विलापयेत् | चिदात्माऽहं नित्यशुद्धबुद्धमुक्तसदद्वयः ||५०||

परमानन्दसंदोहवासुदेवोऽहमोमिति | ज्ञात्वा विवेचकं चित्तं तत्साक्षिणि विलापयेत् ||५१||

चिदात्मनि विलीनं चेत्तच्चित्तं नैव चालयेत् | पूर्णबोधात्मनाऽसीत पूर्णाचलसमुद्रवत् ||५२||

एवं समाहितो योगी श्रद्धभक्तिसमन्वितः | जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् ||५३||

आदिमध्यावसानेषु दुःखं सर्वमिदं यतः | तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवेत्सदा ||५४||

यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् | न तेन किंचिदाप्तत्यं ज्ञातव्यं वावशिष्यते ||५५||

कृतकृत्यो भवेद्विद्वाञ्जीवन्मुक्तो भवेत्सदा | आत्मन्येवारूढभावो जगदेतन्न वीक्षते ||५६||

कदाचिदव्यवहारे तु द्वैतं यद्यपि पश्यति | बोधात्मव्यतिरेकेण न पश्यति चिदन्वयात् ||५७||

किन्तु पश्यति मिथयैव दिङ् मोहेन्दुविभागवत् | प्रतिभासः शरीरस्य तदाऽप्रारब्धसंक्षयात् ||५८||

तस्य तावदेव चिरमित्यादि श्रुतिरब्रवीत् | प्रारब्धस्यानुवृत्तिस्तु मुक्तस्याभासमात्रतः ||५९||

सर्वदा मुक्त एव स्याज्ज्ञाततत्त्वः पुमानसौ | प्रारब्धभोगशेषस्य संक्षये तदनन्तरम् ||६०||

अविद्यातिमिरातीतं सर्वाभासविवर्जितम् | चितन्यममलं शुद्धं मनोवाचामगोचरम् ||६१||

वाच्यवाचकनिर्मुक्तं हेयोपादेयवर्जितम् | प्रज्ञानघनमानन्दं वैष्णवं पदमश्नुते ||६२||

इदं प्रकरणं यत्नाज्ज्ञातव्यं भगवत्तमैः | अमानित्वादिनियमैर्गुरूभक्तिप्रसादतह् ||६३||

इमां विद्यां प्रयत्नेन योगी संध्यासु सर्वदा | समभ्यसेदिहामुत्रभोगानासक्तधीः सुधीः ||६४||

इति श्रीमत्सुरेश्वराचार्यविरचितं पञ्चीकरणवार्त्तिकं संपूर्णम् ||

"http://sa.wikibooks.org/w/index.php?title=पञ्जीकरणम्&oldid=4897" इत्यस्माद् पुनः प्राप्तिः