पटस्य एतत्तन्तुसमवेतत्वे प्रयोजकं किम्?

विकिपुस्तकानि तः

प्र.-पटस्य एतत्तन्तुसमवेतत्वे प्रयोजकं किम्?स्पष्टीकुरुत।
उ.-अनेन क्रमेण स्पष्टिकरणं भविष्यति-
1 सन्दर्भ:
2 पूर्वपक्षस्य मतम्
3 तत्र सिद्धान्तिन: आक्षेप:
4 सिद्धान्तमते एतत्समवेतत्वस्य अर्थ:
5 सिद्धान्तिन: मतम्
6 अन्येषां मतानाम् उपसङ्ग्रह:
7 उपसंहार:

1 सन्दर्भ:-
अंशित्वहेतुनिरूपणे अयं प्रश्न: उत्थित:।

2 पूर्वपक्षस्य मतम्-
पूर्वपक्षस्य मतेन पटस्य एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वम् एतत्तन्तुसमवेतत्वं प्रति प्रयोजकम्।तत: पटे एतत्तन्तुसमवेतत्वम् अस्ति अत: तस्य प्रयोजकम् पटे सिद्ध्यति।पटे एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं (चित्सुखीयसाध्याभाव:) सिद्ध्यति चेत् चित्सुखीयानुमाने उक्त: अंशित्वहेतु: विरुद्ध: यतो हि साध्याभाववद्वृत्तित्वम् अंशित्वहेतौ विद्यते इति पूर्वपक्ष:।

3 तत्र सिद्धान्तिन: आक्षेप:
सिद्धान्ती एतन्न मन्यते।एतत्तन्तुसमवेतत्वं प्रति एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं प्रयोजकं न।प्रमेयत्वादिषु केवलान्वयिधर्मिषु व्यभिचारदर्शनात्।प्रमेयत्वं ज्ञेयत्वमित्यादयो धर्मा: पटादिषु सन्ति परं ते धर्मा: तत्र तत्र समवायेन न सन्ति।प्रमेयत्वे पटात्यन्ताभावाप्रतियोगित्वम् अस्ति परं पटसमवेतत्वं नास्ति।

4 सिद्धान्तमते एतत्समवेतत्वस्य अर्थ:-
एतत्समवेतत्वं नाम एतदुपादानकत्वम्।अयमेव अर्थ: सिद्धान्तमते गृह्यते।

5 सिद्धान्तिन: मतम्
तर्हि किं तत्समवेतत्वे प्रयोजकमिति प्रश्ने सिद्धान्ती उत्तरति एतन्निष्ठप्रागभावप्रतियोगित्वम्। वैशेषिकमतेन ‘एतन्निष्ठप्रागभावप्रतियोगित्वम् एतत्समवेतत्वस्य प्रयोजकम्।पटे एतत्तन्तुनिष्ठपटप्रागभावप्रतियोगित्वं विद्यते। एतत्तन्तुसमवेतत्वमपि विद्यते।

6 अन्येषां मतानाम् उपसङ्ग्रह:
ग्रन्थे अन्येषां मतानाम् उपसङ्ग्रहार्थम् ‘प्रागभावप्रतियोगित्वादिकम्’ इत्युक्तम्।आदिपदेन साङ्ख्योक्तम् अवस्थान्तरानुक्रान्तत्वम् तथा वेदान्तोक्तम् ‘अव्यक्तनामरूपाक्रान्तत्वं’ गृह्यते।
साङ्ख्यमतेन-
अवस्थान्तरानुक्रान्तत्वम् इति एतत्समवेतत्वस्य प्रयोजकम्।पट: तन्तूनाम् अवस्थान्तरम् अस्ति इति एतत् साङ्ख्यमतम् अनुसृत्य अवस्थान्तराक्रान्तत्वं पटस्य एतत्तन्तुसमवेतत्वे प्रयोजकम् अस्ति ।
वेदान्तमतेन
पट: अव्यक्तनाम्ना अव्यक्तरूपेण च तन्तुषु आसीत्।तन्तुवायस्य व्यापारेण ते नामरूपे व्यक्तदशां प्राप्ते।अत: पटस्य एतत्तन्तुसमवेतत्वे अव्यक्तनामरूपाक्रान्तत्वं प्रयोजकं भवति।

7 उपसंहार:-
एतत्तन्तुनिष्ठप्रागभावप्रतियोगित्वम्,
अवस्थान्तराक्रान्तत्वम्,
अव्यक्तनामरूपाक्रान्तत्वम्
इति एतेषु किमपि एतत्तन्तुसमवेतत्वे प्रयोजकरूपेण अङ्गीकार्यम्।एतेषु त्रिषु कस्यापि एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेन सह विरोध: नास्ति।
..........................................................

दीर्घोत्तरप्रश्ना: