पृथिव्यधिकाराधिकरणम्

विकिपुस्तकानि तः

पृथिव्यधिकाररूपशब्दान्तरेभ्य:।२.३.१२
पू.-ता आप ऐक्षन्त बह्व्य: स्याम प्रजायेमहीति ता अन्नमसृजन्त। (छा.६.२.४) अत्र संशयो विद्यते यदत्र अन्नशब्देन व्रीहियवाद्युच्यते, अथवा पृथिवीति।एवं संशये अत्र अन्नशब्देन व्रीहियवादीनाम् एव ग्रहणं न्याय्यम्, लोकप्रसिद्धत्वात्, वाक्यशेषत्वाच्च।‘तस्माद् यत्र क्वचन वर्षति, तदेव भूयिष्ठमन्नं भवति’ इति वाक्यशेष:।वर्षणे सति, व्रीहियवाद्येव बहु भवति, न पृथिवी।अतोऽत्र अन्नशब्देन व्रीहियवादि ओदनादि वा ग्राह्यम्।
वे.- प्रकृते अन्नशब्देन पृथिवी एव ग्राह्या,
१ अधिकाररूपात्।
२ शब्दान्तरेभ्य:।
अधिकारोऽयं महाभूतोत्पत्ते:।तत्र तत्तेजोऽसृजत, तदपोऽसृजत, इति महाभूतविषय: अस्ति।तत्र क्रमप्राप्तं पृथिव्या: वर्णनमेव।अत: अन्नशब्देन अत्र पृथिवी ग्राह्या।वाक्यशेषे अन्नस्य ‘कृष्णं’ रूपम् उक्तम्।एतच्च कृष्णं रूपं पृथिव्यां बाहुल्येन विद्यते।न व्रीहियवादिषु।
पू.-शब्दान्तरं किम्?
वे.-
१ तद् यदपां शर आसीत्, तत्समहन्यत, सा पृथिवी अभवत्।
२ पृथिव्या: व्रीह्यादेरुत्पत्ति: शब्दान्तरे दृश्यते-‘पृथिव्या ओषधय:,ओषधिभ्योऽन्नम्’ इति।
पू.- परं लोकप्रसिद्धि: तथा नास्ति।
वे.-लोकप्रसिद्धि: अधिकारादिभि: बाध्यते।
पू.- वाक्यशेष: व्रीह्यादिपर: अस्ति।
वे.-व्रीह्यादीनां पार्थिवत्त्वात् वाक्यशेषोऽयं पृथिवीपर: एव द्रष्टव्य:।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=पृथिव्यधिकाराधिकरणम्&oldid=5623" इत्यस्माद् प्रतिप्राप्तम्