ब्रह्मसूत्र
Wikibooks इत्यस्मात्
अन्तर्विषयाः |
[संपादयतु] प्रथम अध्याय ( समन्वय )
अथातो ब्रह्मजिज्ञासा । ब्रसू-१,१.१ ।
जन्माद्यस्य यतः । ब्रसू-१,१.२ ।
शास्त्रयोनित्वात् । ब्रसू-१,१.३ ।
तत् तु समन्वयात् । ब्रसू-१,१.४ ।
ईक्षतेर् नाशब्दम् । ब्रसू-१,१.५ ।
गौणश् चेन् नात्मशब्दात् । ब्रसू-१,१.६ ।
तन्निष्ठस्य मोक्षोपदेशात् । ब्रसू-१,१.७ ।
हेयत्वावचनाच् च । ब्रसू-१,१.८ ।
प्रतिज्ञाविरोधात् । ब्रसू-१,१.९ ।
स्वाप्ययात् । ब्रसू-१,१.१० ।
गतिसामान्यात् । ब्रसू-१,१.११ ।
श्रुतत्वाच् च । ब्रसू-१,१.१२ ।
आनन्दमयोऽभ्यासात् । ब्रसू-१,१.१३ ।
विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्रसू-१,१.१४ ।
तद्धेतुव्यपदेशाच् च । ब्रसू-१,१.१५ ।
मान्त्रवर्णिकमेव च गीयते । ब्रसू-१,१.१६ ।
नेतरोऽनुपपत्तेः । ब्रसू-१,१.१७ ।
भेदव्यपदेशाच् च । ब्रसू-१,१.१८ ।
कामाच् च नानुमानापेक्षा । ब्रसू-१,१.१९ ।
अस्मिन्न् अस्य च तद्योगं शास्ति । ब्रसू-१,१.२० ।
अन्तस् तद्धर्मोपदेशात् । ब्रसू-१,१.२१ ।
भेदव्यपदेशाच् चान्यः । ब्रसू-१,१.२२ ।
आकाशस् तल्लिङ्गात् । ब्रसू-१,१.२३ ।
अत एव प्राणः । ब्रसू-१,१.२४ ।
ज्योतिश् चरणाभिधानात् । ब्रसू-१,१.२५ ।
छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्रसू-१,१.२६ ।
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्रसू-१,१.२७ ।
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्रसू-१,१.२८ ।
प्राणस् तथानुगमात् । ब्रसू-१,१.२९ ।
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ब्रसू-१,१.३० ।
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्रसू-१,१.३१ ।
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ब्रसू-१,१.३२ ।
सर्वत्र प्रसिद्धोपदेशात् । ब्रसू-१,२.१ ।
विवक्षितगुणोपपत्तेश् च । ब्रसू-१,२.२ ।
अनुपपत्तेस् तु न शारीरः । ब्रसू-१,२.३ ।
कर्मकर्तृव्यपदेशाच् च । ब्रसू-१,२.४ ।
शब्दविशेषात् । ब्रसू-१,२.५ ।
स्मृतेश् च । ब्रसू-१,२.६ ।
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ब्रसू-१,२.७ ।
संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ब्रसू-१,२.८ ।
अत्ता चराचरग्रहणात् । ब्रसू-१,२.९ ।
प्रकरणाच् च । ब्रसू-१,२.१० ।
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ब्रसू-१,२.११ ।
विशेषणाच् च । ब्रसू-१,२.१२ ।
अन्तर उपपत्तेः । ब्रसू-१,२.१३ ।
स्थानादिव्यपदेशाच् च । ब्रसू-१,२.१४ ।
सुखविशिष्टाभिधानाद् एव च । ब्रसू-१,२.१५ ।
अत एव च स ब्रह्म । ब्रसू-१,२.१६ ।
श्रुतोपनिषत्कगत्यभिधानाच् च । ब्रसू-१,२.१७ ।
अनवस्थितेर् असंभवाच् च नेतरः । ब्रसू-१,२.१८ ।
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रसू-१,२.१९ ।
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ब्रसू-१,२.२० ।
उभयेऽपि हि भेदेनैनम् अधीयते । ब्रसू-१,२.२१ ।
अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रसू-१,२.२२ ।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रसू-१,२.२३ ।
रूपोपन्यासाच् च । ब्रसू-१,२.२४ ।
वैश्वानरः साधारणशब्दविशेषात् । ब्रसू-१,२.२५ ।
स्मर्यमाणम् अनुमानं स्याद् इति । ब्रसू-१,२.२६ ।
शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ब्रसू-१,२.२७ ।
अत एव न देवता भूतं च । ब्रसू-१,२.२८ ।
साक्षाद् अप्य् अविरोधं जैमिनिः । ब्रसू-१,२.२९ ।
अभिव्यक्तेर् इत्य् आश्मरथ्यः । ब्रसू-१,२.३० ।
अनुस्मृतेर् बादरिः । ब्रसू-१,२.३१ ।
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ब्रसू-१,२.३२ ।
आमनन्ति चैनम् अस्मिन् । ब्रसू-१,२.३३ ।
द्युभ्वाद्यायतनं स्वशब्दात् । ब्रसू-१,३.१ ।
मुक्तोपसृप्यव्यपदेशाच् च । ब्रसू-१,३.२ ।
नानुमानम् अतच्छब्दात् प्राणभृच् च । ब्रसू-१,३.३ ।
भेदव्यपदेशात् । ब्रसू-१,३.४ ।
प्रकरणात् । ब्रसू-१,३.५ ।
स्थित्यदनाभ्यां च । ब्रसू-१,३.६ ।
भूमा संप्रसादाद् अध्युपदेशात् । ब्रसू-१,३.७ ।
धर्मोपपत्तेश् च । ब्रसू-१,३.८ ।
अक्षरम् अम्बरान्तधृतेः । ब्रसू-१,३.९ ।
सा च प्रशासनात् । ब्रसू-१,३.१० ।
अन्यभावव्यावृत्तेश्च । ब्रसू-१,३.११ ।
ईक्षतिकर्मव्यपदेशात् सः । ब्रसू-१,३.१२ ।
दहर उत्तरेभ्यः । ब्रसू-१,३.१३ ।
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रसू-१,३.१४ ।
धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ब्रसू-१,३.१५ ।
प्रसिद्धेश् च । ब्रसू-१,३.१६ ।
इतरपरामर्शात् स इति चेन् नासंभवात् । ब्रसू-१,३.१७ ।
उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ब्रसू-१,३.१८ ।
अन्यार्थश् च परामर्शः । ब्रसू-१,३.१९ ।
अल्पश्रुतेर् इति चेत् तद् उक्तम् । ब्रसू-१,३.२० ।
अनुकृतेस् तस्य च । ब्रसू-१,३.२१ ।
अपि च स्मर्यते । ब्रसू-१,३.२२ ।
शब्दाद् एव प्रमितः । ब्रसू-१,३.२३ ।
हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रसू-१,३.२४ ।
तदुपर्य् अपि बादरायणः संभवात् । ब्रसू-१,३.२५ ।
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ब्रसू-१,३.२६ ।
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ब्रसू-१,३.२७ ।
अत एव च नित्यत्वम् । ब्रसू-१,३.२८ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ब्रसू-१,३.२९ ।
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ब्रसू-१,३.३० ।
ज्योतिषि भावाच् च । ब्रसू-१,३.३१ ।
भावं तु बादरायणोऽस्ति हि । ब्रसू-१,३.३२ ।
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ब्रसू-१,३.३३ ।
क्षत्रियत्वगतेश् च । ब्रसू-१,३.३४ ।
उत्तरत्र चैत्ररथेन लिङ्गात् । ब्रसू-१,३.३५ ।
संस्कारपरामर्शात् तदभावाभिलापाच् च । ब्रसू-१,३.३६ ।
तदभावनिर्धारणे च प्रवृत्तेः । ब्रसू-१,३.३७ ।
श्रवणाध्ययनार्थप्रतिषेधात् । ब्रसू-१,३.३८ ।
स्मृतेश् च । ब्रसू-१,३.३९ ।
कम्पनात् । ब्रसू-१,३.४० ।
ज्योतिर् दर्शनात् । ब्रसू-१,३.४१ ।
आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रसू-१,३.४२ ।
सुषुप्त्युत्क्रान्त्योर् भेदेन । ब्रसू-१,३.४३ ।
पत्यादिशब्देभ्यः । ब्रसू-१,३.४४ ।
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ब्रसू-१,४.१ ।
सूक्ष्मं तु तदर्हत्वात् । ब्रसू-१,४.२ ।
तदधीनत्वाद् अर्थवत् । ब्रसू-१,४.३ ।
ज्ञेयत्वावचनाच् च । ब्रसू-१,४.४ ।
वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ब्रसू-१,४.५ ।
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ब्रसू-१,४.६ ।
महद्वच् च । ब्रसू-१,४.७ ।
चमसवदविशेषात् । ब्रसू-१,४.८ ।
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ब्रसू-१,४.९ ।
कल्पनोपदेशाच् च मध्वादिवदविरोधः । ब्रसू-१,४.१० ।
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ब्रसू-१,४.११ ।
प्राणादयो वाक्यशेषात् । ब्रसू-१,४.१२ ।
ज्योतिषैकेषाम् असत्यन्ने । ब्रसू-१,४.१३ ।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रसू-१,४.१४ ।
समाकर्षात् । ब्रसू-१,४.१५ ।
जगद्वाचित्वात् । ब्रसू-१,४.१६ ।
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ब्रसू-१,४.१७ ।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ब्रसू-१,४.१८ ।
वाक्यान्वयात् । ब्रसू-१,४.१९ ।
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ब्रसू-१,४.२० ।
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ब्रसू-१,४.२१ ।
अवस्थितेर् इति काशकृत्स्नः । ब्रसू-१,४.२२ ।
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रसू-१,४.२३ ।
अभिध्योपदेशाच् च । ब्रसू-१,४.२४ ।
साक्षाच् चोभयाम्नानात् । ब्रसू-१,४.२५ ।
आत्मकृतेः । ब्रसू-१,४.२६ ।
परिणामात् । ब्रसू-१,४.२७ ।
योनिश् च हि गीयते । ब्रसू-१,४.२८ ।
एतेन सर्वे व्याख्याता व्याख्याताः । ब्रसू-१,४.२९ ।
[संपादयतु] द्वितीय अध्याय ( अविरोध )
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ब्रसू-२,१.१ ।
इतरेषां चानुपलब्धेः । ब्रसू-२,१.२ ।
एतेन योगः प्रत्युक्तः । ब्रसू-२,१.३ ।
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ब्रसू-२,१.४ ।
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ब्रसू-२,१.५ ।
दृश्यते तु । ब्रसू-२,१.६ ।
असद् इति चेन् न प्रतिषेधमात्रत्वात् । ब्रसू-२,१.७ ।
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ब्रसू-२,१.८ ।
न तु दृष्टान्तभावात् । ब्रसू-२,१.९ ।
स्वपक्षदोषाच् च । ब्रसू-२,१.१० ।
तर्काप्रतिष्ठानाद् अपि । ब्रसू-२,१.११ ।
अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ब्रसू-२,१.१२ ।
एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्रसू-२,१.१३ ।
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ब्रसू-२,१.१४ ।
तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ब्रसू-२,१.१५ ।
भावे चोपलब्धेः । ब्रसू-२,१.१६ ।
सत्वाच् चापरस्य । ब्रसू-२,१.१७ ।
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च । ब्रसू-२,१.१८ ।
पटवच् च । ब्रसू-२,१.१९ ।
यथा च प्राणादिः । ब्रसू-२,१.२० ।
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ब्रसू-२,१.२१ ।
अधिकं तु भेदनिर्देशात् । ब्रसू-२,१.२२ ।
अश्मादिवच् च तदनुपपत्तिः । ब्रसू-२,१.२३ ।
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । ब्रसू-२,१.२४ ।
देवादिवद् अपि लोके । ब्रसू-२,१.२५ ।
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । ब्रसू-२,१.२६ ।
श्रुतेस् तु शब्दमूलत्वात् । ब्रसू-२,१.२७ ।
आत्मनि चैवं विचित्राश् च हि । ब्रसू-२,१.२८ ।
स्वपक्षदोषाच् च । ब्रसू-२,१.२९ ।
सर्वोपेता च तद्दर्शनात् । ब्रसू-२,१.३० ।
विकरणत्वान् नेति चेत् तद् उक्तम् । ब्रसू-२,१.३१ ।
न प्रयोजनवत्त्वात् । ब्रसू-२,१.३२ ।
लोकवत् तु लीलाकैवल्यम् । ब्रसू-२,१.३३ ।
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ब्रसू-२,१.३४ ।
न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च । ब्रसू-२,१.३५ ।
सर्वधर्मोपपत्तेश् च । ब्रसू-२,१.३६ ।
रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च । ब्रसू-२,२.१ ।
पयोऽम्बुवच् चेत् तत्रापि । ब्रसू-२,२.२ ।
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । ब्रसू-२,२.३ ।
अन्यत्राभावाच् च न तृणादिवत् । ब्रसू-२,२.४ ।
पुरुषाश्मवद् इति चेत् तथापि । ब्रसू-२,२.५ ।
अङ्गित्वानुपपत्तेश् च । ब्रसू-२,२.६ ।
अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ब्रसू-२,२.७ ।
अभ्युपगमेऽप्य् अर्थाभावात् । ब्रसू-२,२.८ ।
विप्रतिषेधाच् चासमञ्जसम् । ब्रसू-२,२.९ ।
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ब्रसू-२,२.१० ।
उभयथापि न कर्मातस्तदभावः । ब्रसू-२,२.११ ।
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ब्रसू-२,२.१२ ।
नित्यम् एव च भावात् । ब्रसू-२,२.१३ ।
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ब्रसू-२,२.१४ ।
उभयथा च दोषात् । ब्रसू-२,२.१५ ।
अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ब्रसू-२,२.१६ ।
समुदाय उभयहेतुकेऽपि तदप्राप्तिः । ब्रसू-२,२.१७ ।
इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् । ब्रसू-२,२.१८ ।
उत्तरोत्पादे च पूर्वनिरोधात् । ब्रसू-२,२.१९ ।
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ब्रसू-२,२.२० ।
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् । ब्रसू-२,२.२१ ।
उभयथा च दोषात् । ब्रसू-२,२.२२ ।
आकाशे चाविशेषात् । ब्रसू-२,२.२३ ।
अनुस्मृतेश् च । ब्रसू-२,२.२४ ।
नासतोऽदृष्टत्वात् । ब्रसू-२,२.२५ ।
उदासीनानाम् अपि चैवं सिद्धिः । ब्रसू-२,२.२६ ।
नाभाव उपलब्धेः । ब्रसू-२,२.२७ ।
वैधर्म्याच् च न स्वप्नादिवत् । ब्रसू-२,२.२८ ।
न भावोऽनुपलब्धेः । ब्रसू-२,२.२९ ।
सर्वथानुपपत्तेश् च । ब्रसू-२,२.३० ।
नैकस्मिन्न् असम्भवात् । ब्रसू-२,२.३१ ।
एवं चात्माकार्त्स्न्यम् । ब्रसू-२,२.३२ ।
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ब्रसू-२,२.३३ ।
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ब्रसू-२,२.३४ ।
पत्युर् असामञ्जस्यात् । ब्रसू-२,२.३५ ।
अधिष्ठानानुपपत्तेश् च । ब्रसू-२,२.३६ ।
करणवच् चेन् न भोगादिभ्यः । ब्रसू-२,२.३७ ।
अन्तवत्त्वम् असर्वज्ञता वा । ब्रसू-२,२.३८ ।
उत्पत्त्यसंभवात् । ब्रसू-२,२.३९ ।
न च कर्तुः करणम् । ब्रसू-२,२.४० ।
विज्ञानादिभावे वा तदप्रतिषेधः । ब्रसू-२,२.४१ ।
विप्रतिषेधाच् च । ब्रसू-२,२.४२ ।
न वियदश्रुतेः । ब्रसू-२,३.१ ।
अस्ति तु । ब्रसू-२,३.२ ।
गौण्यसंभवाच् छब्दाच् च । ब्रसू-२,३.३ ।
स्याच् चैकस्य ब्रह्मशब्दवत् । ब्रसू-२,३.४ ।
प्रतिज्ञाहानिर् अव्यतिरेकात् । ब्रसू-२,३.५ ।
शब्देभ्यः । ब्रसू-२,३.६ ।
यावद्विकारं तु विभागो लोकवत् । ब्रसू-२,३.७ ।
एतेन मातरिश्वा व्याख्यातः । ब्रसू-२,३.८ ।
असंभवस् तु सतोऽनुपपत्तेः । ब्रसू-२,३.९ ।
तेजोऽतस् तथा ह्य् आह । ब्रसू-२,३.१० ।
आपः । ब्रसू-२,३.११ ।
पृथिवी । ब्रसू-२,३.१२ ।
अधिकाररूपशब्दान्तरेभ्यः । ब्रसू-२,३.१३ ।
तदभिध्यानाद् एव तु तल्लिङ्गात् सः । ब्रसू-२,३.१४ ।
विपर्ययेण तु क्रमोऽत उपपद्यते च । ब्रसू-२,३.१५ ।
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । ब्रसू-२,३.१६ ।
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । ब्रसू-२,३.१७ ।
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । ब्रसू-२,३.१८ ।
ज्ञोऽत एव । ब्रसू-२,३.१९ ।
उत्क्रान्तिगत्यागतीनाम् । ब्रसू-२,३.२० ।
स्वात्मना चोत्तरयोः । ब्रसू-२,३.२१ ।
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । ब्रसू-२,३.२२ ।
स्वशब्दोन्मानाभ्यां च । ब्रसू-२,३.२३ ।
अविरोधश् चन्दनवत् । ब्रसू-२,३.२४ ।
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । ब्रसू-२,३.२५ ।
गुणाद्वा लोकवत् । ब्रसू-२,३.२६ ।
व्यतिरेको गन्धवत् तथा हि दर्शयति । ब्रसू-२,३.२७ ।
पृथगुपदेशात् । ब्रसू-२,३.२८ ।
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ब्रसू-२,३.२९ ।
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । ब्रसू-२,३.३० ।
पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात् । ब्रसू-२,३.३१ ।
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा । ब्रसू-२,३.३२ ।
कर्ता शास्त्रार्थवत्त्वात् । ब्रसू-२,३.३३ ।
उपादानाद् विहारोपदेशाच् च । ब्रसू-२,३.३४ ।
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । ब्रसू-२,३.३५ ।
उपलब्धिवदनियमः । ब्रसू-२,३.३६ ।
शक्तिविपर्ययात् । ब्रसू-२,३.३७ ।
समाध्यभावाच् च । ब्रसू-२,३.३८ ।
यथा च तक्षोभयथा । ब्रसू-२,३.३९ ।
परात् तु तच्छ्रुतेः । ब्रसू-२,३.४० ।
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ब्रसू-२,३.४१ ।
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ब्रसू-२,३.४२ ।
मन्त्रवर्णात् । ब्रसू-२,३.४३ ।
अपि स्मर्यते । ब्रसू-२,३.४४ ।
प्रकाशादिवत् तु नैवं परः । ब्रसू-२,३.४५ ।
स्मरन्ति च । ब्रसू-२,३.४६ ।
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ब्रसू-२,३.४७ ।
असन्ततेश् चाव्यतिकरः । ब्रसू-२,३.४८ ।
आभास एव च । ब्रसू-२,३.४९ ।
अदृष्टानियमात् । ब्रसू-२,३.५० ।
अभिसन्ध्यादिष्व् अपि चैवम् । ब्रसू-२,३.५१ ।
प्रदेशभेदाद् इति चेन् नान्तर्भावात् । ब्रसू-२,३.५२ ।
तथा प्राणाः । ब्रसू-२,४.१ ।
गौण्यसंभवात् तत्प्राक् श्रुतेश् च । ब्रसू-२,४.२ ।
तत्पूर्वकत्वाद् वाचः । ब्रसू-२,४.३ ।
सप्त गतेर् विशेषितत्वाच् च । ब्रसू-२,४.४ ।
हस्तादयस् तु स्थितेऽतो नैवम् । ब्रसू-२,४.५ ।
अणवश् च । ब्रसू-२,४.६ ।
श्रेष्ठश् च । ब्रसू-२,४.७ ।
न वायुक्रिये पृथगुपदेशात् । ब्रसू-२,४.८ ।
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ब्रसू-२,४.९ ।
अकरणत्वाच् च न दोषस् तथा हि दर्शयति । ब्रसू-२,४.१० ।
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । ब्रसू-२,४.११ ।
अणुश् च । ब्रसू-२,४.१२ ।
ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । ब्रसू-२,४.१३ ।
तस्य च नित्यत्वात् । ब्रसू-२,४.१४ ।
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ब्रसू-२,४.१५ ।
भेदश्रुतेर् वैलक्षण्याच् च । ब्रसू-२,४.१६ ।
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ब्रसू-२,४.१७ ।
मांसादि भौमं यथाशब्दमितरयोश् च । ब्रसू-२,४.१८ ।
वैशेष्यात् तु तद्वादस् तद्वादः । ब्रसू-२,४.१९ ।
[संपादयतु] तृतीय अध्याय ( साधना )
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । ब्रसू-३,१.१ ।
त्र्यात्मकत्वात् तु भूयस्त्वात् । ब्रसू-३,१.२ ।
प्राणगतेश् च । ब्रसू-३,१.३ ।
अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात् । ब्रसू-३,१.४ ।
प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः । ब्रसू-३,१.५ ।
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः । ब्रसू-३,१.६ ।
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति । ब्रसू-३,१.७ ।
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ब्रसू-३,१.८ ।
चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः । ब्रसू-३,१.९ ।
आनर्थक्यम् इति चेन् न तदपेक्षत्वात् । ब्रसू-३,१.१० ।
सुकृतदुष्कृते एवेति तु बादरिः । ब्रसू-३,१.११ ।
अनिष्टादिकारिणाम् अपि च श्रुतम् । ब्रसू-३,१.१२ ।
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् । ब्रसू-३,१.१३ ।
स्मरन्ति च । ब्रसू-३,१.१४ ।
अपि सप्त । ब्रसू-३,१.१५ ।
तत्रापि तद्व्यापारादविरोधः । ब्रसू-३,१.१६ ।
विद्याकर्मणोर् इति तु प्रकृतत्वात् । ब्रसू-३,१.१७ ।
न तृतीये तथोपलब्धेः । ब्रसू-३,१.१८ ।
स्मर्यतेऽपि च लोके । ब्रसू-३,१.१९ ।
दर्शनाच् च । ब्रसू-३,१.२० ।
तृतीयशब्दावरोधः संशोकजस्य । ब्रसू-३,१.२१ ।
तत्स्वाभाव्यापत्तिरुपपत्तेः । ब्रसू-३,१.२२ ।
नातिचिरेण विशेषात् । ब्रसू-३,१.२३ ।
अन्याधिष्ठिते पूर्ववदभिलापात् । ब्रसू-३,१.२४ ।
अशुद्धम् इति चेन् न शब्दात् । ब्रसू-३,१.२५ ।
रेतःसिग्योगोऽथ । ब्रसू-३,१.२६ ।
योनेःशरीरम् । ब्रसू-३,१.२७ ।
सन्ध्ये सृष्टिराह हि । ब्रसू-३,२.१ ।
निर्मातारं चैके पुत्रादयश् च । ब्रसू-३,२.२ ।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ब्रसू-३,२.३ ।
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ब्रसू-३,२.४ ।
देहयोगाद्वा सोऽपि । ब्रसू-३,२.५ ।
सूचकश् च हि श्रुतेराचक्षते च तद्विदः । ब्रसू-३,२.६ ।
तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ब्रसू-३,२.७ ।
अतः प्रबोधोऽस्मात् । ब्रसू-३,२.८ ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ब्रसू-३,२.९ ।
मुग्धेर्ऽधसंपत्तिः परिशेषात् । ब्रसू-३,२.१० ।
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ब्रसू-३,२.११ ।
भेदाद् इति चेन् न प्रत्येकमतद्वचनात् । ब्रसू-३,२.१२ ।
अपि चैवम् एके । ब्रसू-३,२.१३ ।
अरूपवदेव हि तत्प्रधानत्वात् । ब्रसू-३,२.१४ ।
प्रकाशवच्चावैयर्थ्यात् । ब्रसू-३,२.१५ ।
आह च तन्मात्रम् । ब्रसू-३,२.१६ ।
दर्शयति चाथो अपि स्मर्यते । ब्रसू-३,२.१७ ।
अत एव चोपमा सूर्यकादिवत् । ब्रसू-३,२.१८ ।
अम्बुवदग्रहणात् तु न तथात्वम् । ब्रसू-३,२.१९ ।
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च । ब्रसू-३,२.२० ।
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ब्रसू-३,२.२१ ।
तदव्यक्तमाह हि । ब्रसू-३,२.२२ ।
अपि संराधने प्रत्यक्षानुमानाभ्याम् । ब्रसू-३,२.२३ ।
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् । ब्रसू-३,२.२४ ।
अतोऽनन्तेन तथा हि लिङ्गम् । ब्रसू-३,२.२५ ।
उभयव्यपदेशात्त्वहिकुण्डलवत् । ब्रसू-३,२.२६ ।
प्रकाशाश्रयवद्वा तेजस्त्वात् । ब्रसू-३,२.२७ ।
पूर्ववद्वा । ब्रसू-३,२.२८ ।
प्रतिषेधाच् च । ब्रसू-३,२.२९ ।
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । ब्रसू-३,२.३० ।
सामान्यात् तु । ब्रसू-३,२.३१ ।
बुद्ध्यर्थः पादवत् । ब्रसू-३,२.३२ ।
स्थानविशेषात्प्रकाशादिवत् । ब्रसू-३,२.३३ ।
उपपत्तेश् च । ब्रसू-३,२.३४ ।
तथान्यप्रतिषेधात् । ब्रसू-३,२.३५ ।
अनेन सर्वगतत्वमायामशब्दादिभ्यः । ब्रसू-३,२.३६ ।
फलमत उपपत्तेः । ब्रसू-३,२.३७ ।
श्रुतत्वाच् च । ब्रसू-३,२.३८ ।
धर्मं जैमिनिरत एव । ब्रसू-३,२.३९ ।
पूर्वं तु बादरायणो हेतुव्यपदेशात् । ब्रसू-३,२.४० ।
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ब्रसू-३,३.१ ।
भेदान् नेति चेद् एकस्याम् अपि । ब्रसू-३,३.२ ।
स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्नियमः । ब्रसू-३,३.३ ।
दर्शयति च । ब्रसू-३,३.४ ।
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च । ब्रसू-३,३.५ ।
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् । ब्रसू-३,३.६ ।
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । ब्रसू-३,३.७ ।
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि । ब्रसू-३,३.८ ।
व्याप्तेश् च समञ्जसम् । ब्रसू-३,३.९ ।
सर्वाभेदादन्यत्रेमे । ब्रसू-३,३.१० ।
आनन्दादयः प्रधानस्य । ब्रसू-३,३.११ ।
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ब्रसू-३,३.१२ ।
इतरे त्वर्थसामान्यात् । ब्रसू-३,३.१३ ।
आध्यानाय प्रयोजनाभावात् । ब्रसू-३,३.१४ ।
आत्मशब्दाच् च । ब्रसू-३,३.१५ ।
आत्मगृहीतिर् इतरवद् उत्तरात् । ब्रसू-३,३.१६ ।
अन्वयाद् इति चेत् स्याद् अवधारणात् । ब्रसू-३,३.१७ ।
कार्याख्यानादपूर्वम् । ब्रसू-३,३.१८ ।
समान एवं चाभेदात् । ब्रसू-३,३.१९ ।
सम्बन्धादेवमन्यत्रापि । ब्रसू-३,३.२० ।
न वा विशेषात् । ब्रसू-३,३.२१ ।
दर्शयति च । ब्रसू-३,३.२२ ।
संभृतिद्युव्याप्त्यपि चातः । ब्रसू-३,३.२३ ।
पुरुषविद्यायामपि चेतरेषामनाम्नानात् । ब्रसू-३,३.२४ ।
वेधाद्यर्थभेदात् । ब्रसू-३,३.२५ ।
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् । ब्रसू-३,३.२६ ।
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये । ब्रसू-३,३.२७ ।
छन्दत उभयाविरोधात् । ब्रसू-३,३.२८ ।
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः । ब्रसू-३,३.२९ ।
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् । ब्रसू-३,३.३० ।
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् । ब्रसू-३,३.३१ ।
अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् । ब्रसू-३,३.३२ ।
अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ब्रसू-३,३.३३ ।
इयदामननात् । ब्रसू-३,३.३४ ।
अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत् । ब्रसू-३,३.३५ ।
व्यतिहारो विशिंषन्ति हीतरवत् । ब्रसू-३,३.३६ ।
सैव हि सत्यादयः । ब्रसू-३,३.३७ ।
कामादीतरत्र तत्र चाऽयतनादिभ्यः । ब्रसू-३,३.३८ ।
आदरादलोपः । ब्रसू-३,३.३९ ।
उपस्थितेऽतस्तद्वचनात् । ब्रसू-३,३.४० ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् । ब्रसू-३,३.४१ ।
प्रदानवदेव तदुक्तम् । ब्रसू-३,३.४२ ।
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ब्रसू-३,३.४३ ।
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् । ब्रसू-३,३.४४ ।
अतिदेशाच् च । ब्रसू-३,३.४५ ।
विद्यैव तु निर्धारणाद्दर्शनाच् च । ब्रसू-३,३.४६ ।
श्रुत्यादिबलीयस्त्वाच् च न बाधः । ब्रसू-३,३.४७ ।
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् । ब्रसू-३,३.४८ ।
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ब्रसू-३,३.४९ ।
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः । ब्रसू-३,३.५० ।
एक आत्मनः शरीरे भावात् । ब्रसू-३,३.५१ ।
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ब्रसू-३,३.५२ ।
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ब्रसू-३,३.५३ ।
मन्त्रादिवद्वाविरोधः । ब्रसू-३,३.५४ ।
भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति । ब्रसू-३,३.५५ ।
नाना शब्दादिभेदात् । ब्रसू-३,३.५६ ।
विकल्पोऽविशिष्टफलत्वात् । ब्रसू-३,३.५७ ।
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ब्रसू-३,३.५८ ।
अङ्गेषु यथाश्रयभावः ।
ब्रसू-३,३.५९ ।
शिष्टेश् च । ब्रसू-३,३.६० ।
समाहारात् । ब्रसू-३,३.६१ ।
गुणसाधारण्यश्रुतेश् च । ब्रसू-३,३.६२ ।
न वा तत्सहभावाश्रुतेः । ब्रसू-३,३.६३ ।
दर्शनाच् च । ब्रसू-३,३.६४ ।
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः । ब्रसू-३,४.१ ।
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः ।
BBस्३,४.२ ।
आचारदर्शनात् । ब्रसू-३,४.३ ।
तच्छ्रुतेः । ब्रसू-३,४.४ ।
समन्वारम्भणात् । ब्रसू-३,४.५ ।
तद्वतो विधानात् । ब्रसू-३,४.६ ।
नियमात् । ब्रसू-३,४.७ ।
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । ब्रसू-३,४.८ ।
तुल्यं तु दर्शनम् । ब्रसू-३,४.९ ।
असार्वत्रिकी । ब्रसू-३,४.१० ।
विभागः शतवत् । ब्रसू-३,४.११ ।
अध्ययनमात्रवतः । ब्रसू-३,४.१२ ।
नाविशेषात् । ब्रसू-३,४.१३ ।
स्तुतयेऽनुमतिर्वा । ब्रसू-३,४.१४ ।
कामकारेण चैके । ब्रसू-३,४.१५ ।
उपमर्दं च । ब्रसू-३,४.१६ ।
ऊर्ध्वरेतस्सु च शब्दे हि । ब्रसू-३,४.१७ ।
परामर्शं जैमिनिरचोदनाच्चापवदति हि । ब्रसू-३,४.१८ ।
अनुष्ठेयं बादरायणस्साम्यश्रुतेः । ब्रसू-३,४.१९ ।
विधिर् वा धारणवत् । ब्रसू-३,४.२० ।
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् । ब्रसू-३,४.२१ ।
भावशब्दाच् च । ब्रसू-३,४.२२ ।
पारिप्लवार्था इति चेन् न विशेषितत्वात् । ब्रसू-३,४.२३ ।
तथा चैकवाक्योपबन्धात् । ब्रसू-३,४.२४ ।
अत एव चाग्नीन्धनाद्यनपेक्षा । ब्रसू-३,४.२५ ।
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् । ब्रसू-३,४.२६ ।
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् । ब्रसू-३,४.२७ ।
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् । ब्रसू-३,४.२८ ।
अबाधाच् च । ब्रसू-३,४.२९ ।
अपि स्मर्यते । ब्रसू-३,४.३० ।
शब्दश् चातोऽकामकारे । ब्रसू-३,४.३१ ।
विहितत्वाच् चाऽश्रमकर्मापि । ब्रसू-३,४.३२ ।
सहकारित्वेन च । ब्रसू-३,४.३३ ।
सर्वथापि त एवोभयलिङ्गात् । ब्रसू-३,४.३४ ।
अनभिभवं च दर्शयति । ब्रसू-३,४.३५ ।
अन्तरा चापि तु तद्दृष्टेः । ब्रसू-३,४.३६ ।
अपि स्मर्यते । ब्रसू-३,४.३७ ।
विशेषानुग्रहश् च । ब्रसू-३,४.३८ ।
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च । ब्रसू-३,४.३९ ।
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः । ब्रसू-३,४.४० ।
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् । ब्रसू-३,४.४१ ।
उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम् । ब्रसू-३,४.४२ ।
बहिस् तूभयथापि स्मृतेर् आचाराच् च । ब्रसू-३,४.४३ ।
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः । ब्रसू-३,४.४४ ।
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते । ब्रसू-३,४.४५ ।
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ब्रसू-३,४.४६ ।
कृत्स्नभावात् तु गृहिणोपसंहारः । ब्रसू-३,४.४७ ।
मौनवद् इतरेषाम् अप्य् उपदेशात् । ब्रसू-३,४.४८ ।
अनाविष्कुर्वन्न् अन्वयात् । ब्रसू-३,४.४९ ।
ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ब्रसू-३,४.५० ।
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः । ब्रसू-३,४.५१ ।
[संपादयतु] चतुर्थ अध्याय ( फल )
आवृत्तिर् असकृदुपदेशात् । ब्रसू-४,१.१ ।
लिङ्गाच् च । ब्रसू-४,१.२ ।
आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ब्रसू-४,१.३ ।
न प्रतीके न हि सः । ब्रसू-४,१.४ ।
ब्रह्मदृष्टिर् उत्कर्षात् । ब्रसू-४,१.५ ।
आदित्यादिमतयश् चाङ्ग उपपत्तेः । ब्रसू-४,१.६ ।
आसीनः संभवात् । ब्रसू-४,१.७ ।
ध्यानाच् च । ब्रसू-४,१.८ ।
अचलत्वं चापेक्ष्य । ब्रसू-४,१.९ ।
स्मरन्ति च । ब्रसू-४,१.१० ।
यत्रैकाग्रता तत्राविशेषात् । ब्रसू-४,१.११ ।
आप्रयाणात् तत्रापि हि दृष्टम् । ब्रसू-४,१.१२ ।
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् । ब्रसू-४,१.१३ ।
इतरस्याप्य् एवम् असंश्लेषः पाते तु । ब्रसू-४,१.१४ ।
अनारब्धकार्ये एव तु पूर्वे तदवधेः । ब्रसू-४,१.१५ ।
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ब्रसू-४,१.१६ ।
अतोऽन्यापि ह्य् एकेषाम् उभयोः । ब्रसू-४,१.१७ ।
यद् एव विद्ययेति हि । ब्रसू-४,१.१८ ।
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते । ब्रसू-४,१.१९ ।
वाङ्मनसि दर्शनाच् छब्दाच् च । ब्रसू-४,२.१ ।
अत एव सर्वाण्यनु । ब्रसू-४,२.२ ।
तन्मनः प्राण उत्तरात् । ब्रसू-४,२.३ ।
सोऽध्यक्षे तदुपगमादिभ्यः । ब्रसू-४,२.४ ।
भूतेषु तच्छ्रुतेः । ब्रसू-४,२.५ ।
नैकस्मिन् दर्शयतो हि । ब्रसू-४,२.६ ।
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य । ब्रसू-४,२.७ ।
तदापीतेः संसारव्यपदेशात् । ब्रसू-४,२.८ ।
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः । ब्रसू-४,२.९ ।
नोपमर्देनातः । ब्रसू-४,२.१० ।
अस्यैव चोपपत्तेर् ऊष्मा । ब्रसू-४,२.११ ।
प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम् । ब्रसू-४,२.१२ ।
स्मर्यते च । ब्रसू-४,२.१३ ।
तानि परे तथा ह्य् आह । ब्रसू-४,२.१४ ।
अविभागो वचनात् । ब्रसू-४,२.१५ ।
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् । ब्रसू-४,२.१६ ।
रश्म्यनुसारी । ब्रसू-४,२.१७ ।
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च । ब्रसू-४,२.१८ ।
अतश् चायनेऽपि दक्षिणे । ब्रसू-४,२.१९ ।
योगिनः प्रति स्मर्येते स्मार्ते चैते । ब्रसू-४,२.२० ।
अर्चिरादिना तत्प्रथितेः । ब्रसू-४,३.१ ।
वायुमब्दादविशेषविशेषाभ्याम् । ब्रसू-४,३.२ ।
तटितोऽधि वरुणः संबन्धात् । ब्रसू-४,३.३ ।
आतिवाहिकास् तल्लिङ्गात् । ब्रसू-४,३.४ ।
वैद्युतेनैव ततस् तच्छ्रुतेः । ब्रसू-४,३.५ ।
कार्यं बादरिरस्य गत्युपपत्तेः । ब्रसू-४,३.६ ।
विशेषितत्वाच् च । ब्रसू-४,३.७ ।
सामीप्यात् तु तद्व्यपदेशः । ब्रसू-४,३.८ ।
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् । ब्रसू-४,३.९ ।
स्मृतेश् च । ब्रसू-४,३.१० ।
परं जैमिनिर् मुख्यत्वात् । ब्रसू-४,३.११ ।
दर्शनाच् च । ब्रसू-४,३.१२ ।
न च कार्ये प्रत्यभिसन्धिः । ब्रसू-४,३.१३ ।
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च । ब्रसू-४,३.१४ ।
विशेषं च दर्शयति । ब्रसू-४,३.१५ ।
संपद्याविर्भावः स्वेन शब्दात् । ब्रसू-४,४.१ ।
मुक्तः प्रतिज्ञानात् । ब्रसू-४,४.२ ।
आत्मा प्रकरणात् । ब्रसू-४,४.३ ।
अविभागेन दृष्टत्वात् । ब्रसू-४,४.४ ।
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः । ब्रसू-४,४.५ ।
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः । ब्रसू-४,४.६ ।
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः । ब्रसू-४,४.७ ।
संकल्पाद् एव तच्छ्रुतेः । ब्रसू-४,४.८ ।
अत एव चानन्याधिपतिः । ब्रसू-४,४.९ ।
अभावं बादरिर् आह ह्य् एवम् । ब्रसू-४,४.१० ।
भावं जैमिनिर् विकल्पामननात् । ब्रसू-४,४.११ ।
द्वादशाहवद् उभयविधं बादरायणोऽतः । ब्रसू-४,४.१२ ।
तन्वभावे सन्ध्यवद् उपपत्तेः । ब्रसू-४,४.१३ ।
भावे जाग्रद्वत् । ब्रसू-४,४.१४ ।
प्रदीपवदावेशस् तथा हि दर्शयति । ब्रसू-४,४.१५ ।
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि । ब्रसू-४,४.१६ ।
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च । ब्रसू-४,४.१७ ।
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः । ब्रसू-४,४.१८ ।
विकारावर्ति च तथा हि स्थितिम् आह । ब्रसू-४,४.१९ ।
दर्शयतश् चैवं प्रत्यक्षानुमाने । ब्रसू-४,४.२० ।
भोगमात्रसाम्यलिङ्गाच् च । ब्रसू-४,४.२१ ।
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् । ब्रसू-४,४.२२ ।
[संपादयतु] सन्दर्भ
- उपरोक्त सामग्री
यहाँ से CSX में ली गयी
और Diacritic Conversion - diCrunch v2.00:b6 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (27-02-2008)
- Brahma-Sutra Translated by Swami Gambhirananda , Published by Advaita Ashram, Kolkatta
- Brahma Sutras (Vedanta Sutras) With the Commentary by Adi Sankaracharya, translated by George Thibaut
- An Analysis of the Brahma Sutra by Swami Krishnananda, The Divine Life Society - Sivananda Ashram, Rishikesh, India