याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः

विकिपुस्तकानि तः

याज्ञवल्क्यस्मृतिः


[१. साधारणव्यवहारमातृकाप्रकरणम्]

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ यास्मृ२.१ ॥


श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ यास्मृ२.२ ॥


अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ यास्मृ२.३ ॥


रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥ यास्मृ२.४ ॥


स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ यास्मृ२.५ ॥


प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितम् अर्थिना ।
समामासतदर्धाहर्- नामजात्यादिचिह्नितम् ॥ यास्मृ२.६ ॥


श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।
ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ यास्मृ२.७ ॥


तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतोऽन्यथा ।
चतुष्पाद् व्यवहारोऽयं विवादेषूपदर्शितः ॥ यास्मृ२.८ ॥


[२. असाधारणव्यवहारमातृकाप्रकरणम्]

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ यास्मृ२.९ ॥


कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च ।
उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥ यास्मृ२.१० ॥


निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ यास्मृ२.११ ॥


साहसस्तेयपारुष्य- गोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ यास्मृ२.१२ ॥


देशाद् देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥ यास्मृ२.१३ ॥


परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्य् अपि ॥ यास्मृ२.१४ ॥


स्वभावाद् विकृतिं गच्छेन् मनोवाक्कायकर्मभिः ।
अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ यास्मृ२.१५ ॥


संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ यास्मृ२.१६ ॥


साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ यास्मृ२.१७ ॥


सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ यास्मृ२.१८ ॥

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।
भूतम् अप्य् अनुपन्यस्तं हीयते व्यवहारतः ॥ यास्मृ२.१९ ॥


निह्नुते लिखितं नैकम् एकदेशे विभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥ यास्मृ२.२० ॥


स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।
अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः ॥ यास्मृ२.२१ ॥


प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ यास्मृ२.२२ ॥


सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तराक्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ यास्मृ२.२३ ॥


पश्यतोऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ यास्मृ२.२४ ॥


आधिसीमोपनिक्षेप- जडबालधनैर् विना ।
तथोपनिधिराजस्त्री- श्रोत्रियाणां धनैर् अपि ॥ यास्मृ२.२५ ॥


आध्यादीनां विहर्तारं धनिने दापयेद् धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥ यास्मृ२.२६ ॥


आगमोऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ यास्मृ२.२७ ॥


आगमस् तु कृतो येन सोऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ यास्मृ२.२८ ॥


योऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विनाकृता ॥ यास्मृ२.२९ ॥


नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ यास्मृ२.३० ॥


बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रीनक्तमन्तरागार- बहिःशत्रुकृतांस् तथा ॥ यास्मृ२.३१ ॥


मत्तोन्मत्तार्तव्यसनि- बालभीतादियोजितः ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ यास्मृ२.३२ ॥


प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ यास्मृ२.३३ ॥


राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्धं द्विजः पुनः ।
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥ यास्मृ२.३४ ॥


इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् ।
अनिवेदितविज्ञातो दाप्यस् तं दण्डम् एव च ॥ यास्मृ२.३५ ॥


देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद् धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ यास्मृ२.३६ ॥


[३. ऋणादानप्रकरणम्]

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रि- चतुष्पञ्चकम् अन्यथा ॥ यास्मृ२.३७ ॥


कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।
दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ यास्मृ२.३८ ॥


संततिस् तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ यास्मृ२.३९ ॥


प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश् च तद्धनम् ॥ यास्मृ२.४० ॥


गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः ।
दत्त्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥ यास्मृ२.४१ ॥


राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ यास्मृ२.४२ ॥


हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ यास्मृ२.४३ ॥


दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं चेत् स्याद् वर्धते न ततः परम् ॥ यास्मृ२.४४ ॥


अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ यास्मृ२.४५ ॥


न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥ यास्मृ२.४६ ॥


सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ यास्मृ२.४७ ॥


गोपशौण्डिकशैलूष- रजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तेषां यस्माद् वृत्तिस् तदाश्रया ॥ यास्मृ२.४८ ॥


प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।
स्वयंकृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अर्हति ॥ यास्मृ२.४९ ॥


पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ यास्मृ२.५० ॥


रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ यास्मृ२.५१ ॥


भ्रातॄणाम् अथ दंपत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ यास्मृ२.५२ ॥


दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ यास्मृ२.५३ ॥


दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥ यास्मृ२.५४ ॥


बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥ यास्मृ२.५५ ॥


प्रतिभूर् दापितो यत् तु प्रकाशं धनिनो धनम् ।
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥ यास्मृ२.५६ ॥


संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणस् तथा ॥ यास्मृ२.५७ ॥


आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ यास्मृ२.५८ ॥


गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते ।
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥ यास्मृ२.५९ ॥


आधेः स्वीकरणात् सिद्धी रक्ष्यमाणोऽप्य् असारताम् ।
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥ यास्मृ२.६० ॥


चरित्रबन्धककृतं स वृद्ध्या दापयेद् धनम् ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ यास्मृ२.६१ ॥


उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुले न्यस्याधिम् आप्नुयात् ॥ यास्मृ२.६२ ॥


तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः ।
विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥ यास्मृ२.६३ ॥


यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ यास्मृ२.६४ ॥


[४. उपनिधिप्रकरणम्]

वासनस्थम् अनाख्याय हस्तेऽन्यस्य यद् अर्प्यते ।
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥ यास्मृ२.६५ ॥


न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।
भ्रेषश् चेन् मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥ यास्मृ२.६६ ॥


आजीवन् स्वेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् ।
याचितान्वाहितन्यास- निक्षेपादिष्व् अयं विधिः ॥ यास्मृ२.६७ ॥


[५. साक्षिप्रकरणम्]

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ यास्मृ२.६८ ॥


त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ यास्मृ२.६९ ॥


स्त्रीबालवृद्धकितव- मत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाखण्डि- कूटकृद्विकलेन्द्रियाः ॥ यास्मृ२.७० ॥


पतिताप्तार्थसंबन्धि- सहायरिपुतस्कराः ।
साहसी दृष्टदोषश् च निर्धूताद्यास् त्व् असाक्षिणः ॥ यास्मृ२.७१ ॥


उभयानुमतः साक्षी भवत्य् एकोऽपि धर्मवित् ।
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ यास्मृ२.७२ ॥


साक्षिणः श्रावयेद् वादि- प्रतिवादिसमीपगान् ।
ये पातककृतां लोका महापातकिनां तथा ॥ यास्मृ२.७३ ॥


अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
स तान् सर्वान् अवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ यास्मृ२.७४ ॥


सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम् ।
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ यास्मृ२.७५ ॥


अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि ॥ यास्मृ२.७६ ॥


न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः ।
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ यास्मृ२.७७ ॥


द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ यास्मृ२.७८ ॥


यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस् तस्य पराजयः ॥ यास्मृ२.७९ ॥


उक्तेऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ यास्मृ२.८० ॥


पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ यास्मृ२.८१ ॥


यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत् तमोवृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ यास्मृ२.८२ ॥


वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् ।
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ यास्मृ२.८३ ॥


[६. लेख्यप्रकरणम्]

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥ यास्मृ२.८४ ॥


समामासतदर्धाहर्- नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीय- पितृनामादिचिह्नितम् ॥ यास्मृ२.८५ ॥


समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ यास्मृ२.८६ ॥


साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥ यास्मृ२.८७ ॥


उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ यास्मृ२.८८ ॥


विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृताद् ऋते ॥ यास्मृ२.८९ ॥


ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु ।
आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ॥ यास्मृ२.९० ॥


देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥ यास्मृ२.९१ ॥


संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्न- संबन्धागमहेतुभिः ॥ यास्मृ२.९२ ॥


लेख्यस्य पृष्ठेऽभिलिखेद् दत्त्वा दत्त्वा र्णिको धनम् ।
धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ यास्मृ२.९३ ॥


दत्त्वा र्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् ।
साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् ॥ यास्मृ२.९४ ॥


[७. दिव्यप्रकरणम्]

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्व् एतानि शीर्षकस्थेऽभियोक्तरि ॥ यास्मृ२.९५ ॥


रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः ।
विनापि शीर्षकात् कुर्यान् नृपद्रोहेऽथ पातके ॥ यास्मृ२.९६ ॥


सचैलं स्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ यास्मृ२.९७ ॥


तुला स्त्रीबालवृद्धान्ध- पङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ यास्मृ२.९८ ॥


नासहस्राद् धरेत् फालं न विषं न तुलां तथा ।
नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा ॥ यास्मृ२.९९ ॥


तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ यास्मृ२.१०० ॥


त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ यास्मृ२.१०१ ॥


यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ यास्मृ२.१०२ ॥


करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ यास्मृ२.१०३ ॥


त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ यास्मृ२.१०४ ॥


तस्येत्य् उक्तवतो लौहं पञ्चाशत् पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ यास्मृ२.१०५ ॥

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् ।
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ यास्मृ२.१०६ ॥


मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् ।
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ यास्मृ२.१०७ ॥


सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं वशेत् ॥ यास्मृ२.१०८ ॥


समकालम् इषुं मुक्तम् आनीयान्यो जवी नरः ।
गते तस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ यास्मृ२.१०९ ॥


त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।
त्रायस्वास्माद् अभीशापात् सत्येन भव मेऽमृतम् ॥ यास्मृ२.११० ॥


एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।
यस्य वेगैर् विना जीर्येच् छुद्धिं तस्य विनिर्दिशेत् ॥ यास्मृ२.१११ ॥


देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संस्राव्य पाययेत् तस्माज् जलं तु प्रसृतित्रयम् ॥ यास्मृ२.११२ ॥


अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ यास्मृ२.११३ ॥


[८. दायविभागप्रकरणम्]

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ यास्मृ२.११४ ॥


यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ यास्मृ२.११५ ॥


शक्तस्यानीहमानस्य किंचिद् दत्त्वा पृथक् क्रिया ।
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ यास्मृ२.११६ ॥


विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् ।
मातुर् दुहितरः शेषम् ऋणात् ताभ्य ऋतेऽन्वयः ॥ यास्मृ२.११७ ॥


पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रमौद्वाहिकं चैव दायादानां न तद् भवेत् ॥ यास्मृ२.११८ ॥


क्रमाद् अभ्यागतं द्रव्यं हृतम् अप्य् उद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ यास्मृ२.११९ ॥


सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः ।
अनेकपितृकाणां तु पितृतो भागकल्पना ॥ यास्मृ२.१२० ॥


भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ यास्मृ२.१२१ ॥


विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद् वा तद् विभागः स्याद् आयव्ययविशोधितात् ॥ यास्मृ२.१२२ ॥


पितृभ्यां यस्य तद् दत्तं तत् तस्यैव धनं भवेत् ।
पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ॥ यास्मृ२.१२३ ॥


असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम् ॥ यास्मृ२.१२४ ॥


चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः ॥ यास्मृ२.१२५ ॥


अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते ।
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ यास्मृ२.१२६ ॥


अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ यास्मृ२.१२७ ॥


औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥ यास्मृ२.१२८ ॥


गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ यास्मृ२.१२९ ॥


अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ यास्मृ२.१३० ॥


क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः ।
दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ यास्मृ२.१३१ ॥


उत्सृष्टो गृह्यते यस् तु सोऽपविद्धो भवेत् सुतः ।
पिण्डदोऽंशहरश् चैषां पूर्वाभावे परः परः ॥ यास्मृ२.१३२ ॥


सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः ।
जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् ॥ यास्मृ२.१३३ ॥


मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् ।
अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ यास्मृ२.१३४ ॥


पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुता गोत्रजा बन्धु- शिष्यसब्रह्मचारिणः ॥ यास्मृ२.१३५ ॥


एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ यास्मृ२.१३६ ॥


वानप्रस्थयतिब्रह्म- चारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्य- धर्मभ्रात्रेकतीर्थिनः ॥ यास्मृ२.१३७ ॥


संसृष्टिनस् तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च ॥ यास्मृ२.१३८ ॥


अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः ॥ यास्मृ२.१३९ ॥


क्लीबोऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः ॥ यास्मृ२.१४० ॥


औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः ।
सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥ यास्मृ२.१४१ ॥


अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ यास्मृ२.१४२ ॥


पितृमातृपतिभ्रातृ- दत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ यास्मृ२.१४३ ॥


बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च ।
अतीतायाम् अप्रजसि बान्धवास् तद् अवाप्नुयुः ॥ यास्मृ२.१४४ ॥


अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि ।
दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ यास्मृ२.१४५ ॥


दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् ।
मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम् ॥ यास्मृ२.१४६ ॥


दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ यास्मृ२.१४७ ॥


अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत् ॥ यास्मृ२.१४८ ॥


विभागनिह्नवे ज्ञाति- बन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ यास्मृ२.१४९ ॥


[९. सीमाविवादप्रकरणम्]

सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ यास्मृ२.१५० ॥


नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिंनास्थि- चैत्याद्यैर् उपलक्षिताम् ॥ यास्मृ२.१५१ ॥


सामन्ता वा समग्रामाश् चत्वारोऽष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ यास्मृ२.१५२ ॥


अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ।
अभावे ज्ञातृचिह्नानां राजा सींनः प्रवर्तिता ॥ यास्मृ२.१५३ ॥


आरामायतनग्राम- निपानोद्यानवेश्मसु ।
एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ यास्मृ२.१५४ ॥


मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ यास्मृ२.१५५ ॥


न निषेध्योऽल्पबाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रोबहूदकः ॥ यास्मृ२.१५६ ॥


स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥ यास्मृ२.१५७ ॥


फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत् ॥ यास्मृ२.१५८ ॥


[१०. स्वामिपालविवादप्रकरणम्]

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥ यास्मृ२.१५९ ॥


भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः ।
समम् एषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ यास्मृ२.१६० ॥


यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् ।
गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥ यास्मृ२.१६१ ॥


पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद् दण्डम् अर्हति ॥ यास्मृ२.१६२ ॥


महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ यास्मृ२.१६३ ॥


यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥ यास्मृ२.१६४ ॥


पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनो द्रव्यम् एव च ॥ यास्मृ२.१६५ ॥


ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा ।
द्विजस् तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ यास्मृ२.१६६ ॥


धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥ यास्मृ२.१६७ ॥


[११. अस्वामिविक्रयप्रकरणम्]

स्वं लभेतान्यविक्रीतं क्रेतुर् दोषोऽप्रकाशिते ।
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥ यास्मृ२.१६८ ॥


नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत् ॥ यास्मृ२.१६९ ॥


विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥ यास्मृ२.१७० ॥


आगमेनोपभोगेन नष्टं भाव्यम् अतोऽन्यथा ।
पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते ॥ यास्मृ२.१७१ ॥


हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ यास्मृ२.१७२ ॥


शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ यास्मृ२.१७३ ॥


पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥ यास्मृ२.१७४ ॥


[१२. दत्ताप्रदानिकप्रकरणम्]

स्वं कुटुम्बाविरोधेन देयं दारसुताद् ऋते ।
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥ यास्मृ२.१७५ ॥


प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः ॥ यास्मृ२.१७६ ॥


[१३. क्रीतानुशयप्रकरणम्]

दशैकपञ्चसप्ताह- मासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्री- दोह्यपुंसां परीक्षणम् ॥ यास्मृ२.१७७ ॥


अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ यास्मृ२.१७८ ॥


शते दशपला वृद्धिर् और्णे कार्पाससौत्रिके ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ यास्मृ२.१७९ ॥


कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिश् च कौशेये वाल्कलेषु च ॥ यास्मृ२.१८० ॥


देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम् ॥ यास्मृ२.१८१ ॥


[१४. अभ्युपेत्याशुश्रूषाप्रकरणम्]

बलाद्दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते ।
स्वामिप्राणप्रदो भक्त- त्यागात् तन् निष्क्रयाद् अपि ॥ यास्मृ२.१८२ ॥


प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।
वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ यास्मृ२.१८३ ॥


कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर् गृहे ।
अन्तेवासी गुरुप्राप्त- भोजनस् तत्फलप्रदः ॥ यास्मृ२.१८४ ॥


[१५. संविद्व्यतिक्रमप्रकरणम्]

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥ यास्मृ२.१८५ ॥


निजधर्माविरोधेन यस् तु समयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ यास्मृ२.१८६ ॥


गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ यास्मृ२.१८७ ॥


कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ यास्मृ२.१८८ ॥


समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ यास्मृ२.१८९ ॥


समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ यास्मृ२.१९० ॥


धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ यास्मृ२.१९१ ॥


श्रेणिनैगमपाखण्ड- गणानाम् अप्य् अयं विधिः ।
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत् ॥ यास्मृ२.१९२ ॥


[१६. वेतनादानप्रकरणम्]

गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ यास्मृ२.१९३ ॥


दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥ यास्मृ२.१९४ ॥


देशं कालं च योऽतीयाल् लाभं कुर्याच् च योऽन्यथा ।
तत्र स्यात् स्वामिनश् छन्दोऽधिकं देयं कृतेऽधिके ॥ यास्मृ२.१९५ ॥


यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥ यास्मृ२.१९६ ॥


अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥ यास्मृ२.१९७ ॥


प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजकोऽपि च ॥ यास्मृ२.१९८ ॥


[१७. द्यूतसमाह्वयप्रकरणम्]

ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ यास्मृ२.१९९ ॥


स सम्यक्पालितो दद्याद् राज्ञे भागं यथाकृतम् ।
जितम् उद्ग्राहयेज् जेत्रे दद्यात् सत्यं वचः क्षमी ॥ यास्मृ२.२०० ॥


प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेद् अन्यथा न तु ॥ यास्मृ२.२०१ ॥


द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि ।
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ॥ यास्मृ२.२०२ ॥


द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये ॥ यास्मृ२.२०३ ॥


[१८. वाक्पारुष्यप्रकरणम्]

सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥ यास्मृ२.२०४ ॥


अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥ यास्मृ२.२०५ ॥


अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ यास्मृ२.२०६ ॥

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ यास्मृ२.२०७ ॥


बाहुग्रीवानेत्रसक्थि- विनाशे वाचिके दमः ।
सत्यस् तदर्धिकः पाद- नासाकर्णकरादिषु ॥ यास्मृ२.२०८ ॥


अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ यास्मृ२.२०९ ॥


पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ यास्मृ२.२१० ॥


त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ यास्मृ२.२११ ॥


[१९. दण्डपारुष्यप्रकरणम्]

असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात् ॥ यास्मृ२.२१२ ॥


भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूत- स्पर्शने द्विगुणस् ततः ॥ यास्मृ२.२१३ ॥


समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।
हीनेष्व् अर्धदमो मोह- मदादिभिरदण्डनम् ॥ यास्मृ२.२१४ ॥


विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ यास्मृ२.२१५ ॥


उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ यास्मृ२.२१६ ॥


पादकेशांशुककरोल्- लुञ्चनेषु पणान् दश ।
पीडाकर्षांशुकावेष्ट- पादाध्यासे शतं दमः ॥ यास्मृ२.२१७ ॥


शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः ।
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ यास्मृ२.२१८ ॥


करपाददतो भङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ यास्मृ२.२१९ ॥


चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥ यास्मृ२.२२० ॥


एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः ।
कलहापहृतं देयं दण्डश् च द्विगुणस् ततः ॥ यास्मृ२.२२१ ॥


दुःखम् उत्पादयेद् यस् तु स समुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ यास्मृ२.२२२ ॥


अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिं तद् व्ययं तथा ॥ यास्मृ२.२२३ ॥


दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ यास्मृ२.२२४ ॥


दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ यास्मृ२.२२५ ॥


लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च ।
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥ यास्मृ२.२२६ ॥


प्ररोहिशाखिनां शाखा- स्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणो दमः ॥ यास्मृ२.२२७ ॥


चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ यास्मृ२.२२८ ॥


गुल्मगुच्छक्षुपलता- प्रतानौषधिवीरुधाम् ।
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ यास्मृ२.२२९ ॥


[२०. साहसप्रकरणम्]

सामान्यद्रव्यप्रसभ- हरणात् साहसं स्मृतम् ।
तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ यास्मृ२.२३० ॥


यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ यास्मृ२.२३१ ॥


अर्घ्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ यास्मृ२.२३२ ॥


सामन्तकुलिकादीनाम् अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥ यास्मृ२.२३३ ॥


स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशेत् ॥ यास्मृ२.२३४ ॥


शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥ यास्मृ२.२३५ ॥


वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ यास्मृ२.२३६ ॥


पितृपुत्रस्वसृभातृ- दंपत्याचार्यशिष्यकाः ।
एषाम् अपतितान्योन्य- त्यागी च शतदण्डभाक् ॥ यास्मृ२.२३७ ॥


वसानस्त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम् ।
विक्रयावक्रयाधानय् आचितेषु पणान् दश ॥ यास्मृ२.२३८ ॥

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे च तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः ॥ यास्मृ२.२३९ ॥


तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥ यास्मृ२.२४० ॥


अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ यास्मृ२.२४१ ॥


भिषङ् मिथ्याचरन् दण्ड्यस् तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राज- पुरुषेषूत्तमं दमम् ॥ यास्मृ२.२४२ ॥


अबन्ध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥ यास्मृ२.२४३ ॥


मानेन तुलया वापि योऽंशम् अष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ यास्मृ२.२४४ ॥


भेषजस्नेहलवण- गन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस् तु षोडश ॥ यास्मृ२.२४५ ॥


मृच्चर्ममणिसूत्रायः- काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ यास्मृ२.२४६ ॥


समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ यास्मृ२.२४७ ॥


भिन्ने पणे च पञ्चाशत्- पणे तु शतम् उच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ यास्मृ२.२४८ ॥


संभूय कुर्वताम् अर्घं संबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥ यास्मृ२.२४९ ॥


संभूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ यास्मृ२.२५० ॥


राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निःस्रवस् तस्माद् वणिजां लाभकृत् स्मृतः ॥ यास्मृ२.२५१ ॥


स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ यास्मृ२.२५२ ॥


पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घोऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥ यास्मृ२.२५३ ॥


[२१. विक्रीयासंप्रदानप्रकरणम्]

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥ यास्मृ२.२५४ ॥


विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति ।
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥ यास्मृ२.२५५ ॥


राजदैवोपघातेन पण्ये दोषम् उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ यास्मृ२.२५६ ॥


अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद् यदि ।
विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणो भवेत् ॥ यास्मृ२.२५७ ॥


क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ यास्मृ२.२५८ ॥


[२२ संभूयसमुत्थानप्रकरणम्]

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ यास्मृ२.२५९ ॥


प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् ।
स तद् दद्याद् विप्लवाच् च रक्षिताद् दशमांशभाक् ॥ यास्मृ२.२६० ॥


अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ यास्मृ२.२६१ ॥


मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपासरन् ।
दाप्यस् त्व् अष्टगुणं यश् च सव्याजक्रयविक्रयी ॥ यास्मृ२.२६२ ॥


तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणप्रातिवेश्यानाम् एतद् एवानिमन्त्रणे ॥ यास्मृ२.२६३ ॥


देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस् तद्- आगतास् तैर् विना नृपः ॥ यास्मृ२.२६४ ॥


जिह्मं त्यजेयुर् निर्लाभम् अशक्तोऽन्येन कारयेत् ।
अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम् ॥ यास्मृ२.२६५ ॥


[२३ स्तेयप्रकरणम्]

ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ यास्मृ२.२६६ ॥


अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥ यास्मृ२.२६७ ॥


परद्रव्यगृहाणां च पृच्छका गूढचारिणः ।
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ यास्मृ२.२६८ ॥


गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ यास्मृ२.२६९ ॥


चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः ।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥ यास्मृ२.२७० ॥


घातितेऽपहृते दोषो ग्रामभर्तुर् अनिर्गते ।
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके ॥ यास्मृ२.२७१ ॥


स्वसींनि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथ वा पुनः ॥ यास्मृ२.२७२ ॥


बन्दिग्राहांस् तथा वाजि- कुञ्जराणां च हारिणः ।
प्रसह्यघातिनश् चैव शूलान् आरोपयेन् नरान् ॥ यास्मृ२.२७३ ॥


उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ यास्मृ२.२७४ ॥


क्षुद्रमध्यमहाद्रव्य- हरणे सारतो दमः ।
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ यास्मृ२.२७५ ॥


भक्तावकाशाग्न्युदक- मन्त्रोपकरणव्ययान् ।
दत्त्वा चौरस्य वा हन्तुर् जानतो दम उत्तमः ॥ यास्मृ२.२७६ ॥


शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ यास्मृ२.२७७ ॥


विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ यास्मृ२.२७८ ॥


विषाग्निदां पतिगुरु- निजापत्यप्रमापणीम् ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ यास्मृ२.२७९ ॥


अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक् ॥ यास्मृ२.२८० ॥


स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह ।
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ यास्मृ२.२८१ ॥


क्षेत्रवेश्मवनग्राम- विवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ यास्मृ२.२८२ ॥


[२४ स्त्रीसंग्रहणप्रकरणम्]

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥ यास्मृ२.२८३ ॥


नीवीस्तनप्रावरण- सक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकासनम् एव च ॥ यास्मृ२.२८४ ॥


स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥ यास्मृ२.२८५ ॥


सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ यास्मृ२.२८६ ॥


अलंकृतां हरन् कन्याम् उत्तमं ह्य् अन्यथाधमम् ।
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ यास्मृ२.२८७ ॥


सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः ।
दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ यास्मृ२.२८८ ॥


शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने ।
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ यास्मृ२.२८९ ॥

अवरुद्धासु दासीसु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत् पणिकं दमम् ॥ यास्मृ२.२९० ॥


प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक् ॥ यास्मृ२.२९१ ॥


गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् ।
अगृहीते समं दाप्यः पुमान् अप्य् एवम् एव हि ॥ यास्मृ२.२९२ ॥


अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः ।
चतुर्विंशतिको दण्डस् तथा प्रव्रजितागमे ॥ यास्मृ२.२९३ ॥


अन्त्याभिगमने त्व् अङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥ यास्मृ२.२९४ ॥


[२५ प्रकीर्णकप्रकरणम्]

ऊनं वाभ्यधिकं वापि लिखेद् यो राजशासनम् ।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ यास्मृ२.२९५ ॥


अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥ यास्मृ२.२९६ ॥


कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥ यास्मृ२.२९७ ॥


चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः ।
काष्ठलोष्टेषुपाषाण- बाहुयुग्यकृतस् तथा ॥ यास्मृ२.२९८ ॥


छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच् चैवापसरता हिंसने स्वाम्य् अदोषभाक् ॥ यास्मृ२.२९९ ॥


शक्तोऽप्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥ यास्मृ२.३०० ॥


जारं चौरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥ यास्मृ२.३०१ ॥


राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् ।
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ यास्मृ२.३०२ ॥


मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा ।
राजयानासनारोढुर् दण्ड उत्तमसाहसः ॥ यास्मृ२.३०३ ॥


द्विनेत्रभेदिनो राज- द्विष्टादेशकृतस् तथा ।
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ यास्मृ२.३०४ ॥


दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥ यास्मृ२.३०५ ॥


यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ यास्मृ२.३०६ ॥


राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ यास्मृ२.३०७ ॥