योगयात्रा

विकिपीडिया, एक मुक्त ज्ञानकोष से

यहां जाईयें: नेविगेशन, ख़ोज

अनुक्रम

[संपादित करें] दैवपुरुषाकाराध्याय

योगयात्रा-१.१क/ यश् चक्षुर् जगतः सहस्रकरबद् धाम्नां च धामा ऽर्कवन्

योगयात्रा-१.१ख/ मोक्षद्वारम् अपावृत्तं च रविवद् ध्वान्तान्तकृत् सूर्यवत्/

योगयात्रा-१.१ग/ आत्मा सर्वशरीरिणां सवितृवत् तिमांशुवत् कालकृत्

योगयात्रा-१.१घ/ साध्वीं नः स गिरं करोतु सविता यो ऽन्यैर् अतुल्योपमः//

योगयात्रा-१.२क/ वक्ष्यामि भूपम् अधिकृत्य गुणोपपन्नं

योगयात्रा-१.२ख/ विज्ञातजन्मसमयं प्रविभ्क्तभाग्यम्/

योगयात्रा-१.२ग/ अज्ञातसूतिम् अथवा ऽविदितैष्य भाग्यं

योगयात्रा-१.२घ/ सामुद्रयात्रिकनिमित्तशतैः पृथूक्तैः//

योगयात्रा-१.३क/ कर्म ऽन्यजन्मजनितं[K.न्यजन्मनि कृतं] सद् असच् च दैवं

योगयात्रा-१.३ख/ तत् केवलं भवति जन्मनि सत्कुलाद्ये/

योगयात्रा-१.३ग/ बाल्यात् परं विनयसौष्ठवपात्रता च[K.ऽपि]

योगयात्रा-१.३घ/ पुंदैवजा कृषिवद् इत्य् उपपाद्यम् एतत्[K.अत उद्यमेत]//

योगयात्रा-१.४क/ सामन्तकालयसु[K.वसु]धोद्यममन्त्रभृत्यैर्

योगयात्रा-१.४ख/ दैवेन चेति कृषिवन् नृपतेः फलाप्तिः/

योगयात्रा-१.४ग/ स्याच् छिद्रम् एकम् अपि चेत् तत एव सर्वं

योगयात्रा-१.४घ/ नाशं प्रयाति हि दृतेः स्रवणाद्[K.दृतेश् चरणाद्] इव ऽम्भः//

योगयात्रा-१.५क/ ग्रहर्क्षतिथ्युद्गमराशिहोरा

योगयात्रा-१.५ख/ द्रेष्काणभागाद्यनुकूलमात्रम्/

योगयात्रा-१.५ग/ भवेद् यियासोर् यदि सिद्धिहेतुः

योगयात्रा-१.५घ/ स्वयं भवेद् दैवविद् एव राजा//

योगयात्रा-१.६क/ मन्त्राभिषेकमणिबन्धनशान्तिकर्म

योगयात्रा-१.६ख/ होमोपवाससुरयागजपादिमात्रम्/

योगयात्रा-१.६ग/ स्यात् सिद्धिहेतुर् अथ चेद् विजगीआअतो[K.विजिगीषतो] ऽरीण्

योगयात्रा-१.६घ/ कस्मात् तदा नरपतिर् न भवेत् पुरोधाः//

योगयात्रा-१.७क/ बुधार्थशास्त्राण्य्[K.बुद्ध्वा ऽर्थशास्त्राण्य्] अपि मन्त्रिणो ऽपि

योगयात्रा-१.७ख/ कुयुः प्रणामं न नरेश्वराणाम्/

योगयात्रा-१.७ग/ यद्य् आभिजात्यद्विपवाजिपत्ति

योगयात्रा-१.७घ/ कोशाद्यपेक्षा न भवेत् प्रधाना//

योगयात्रा-१.८क/ स्वदेशे सन्तुष्टः करितुरगकोशे सति न यो

योगयात्रा-१.८ख/ भवेद् यायी सैन्धैः[K.सो ऽन्यैः] कृतपरिभवो याति विलयम्/

योगयात्रा-१.८ग/ स्वचक्रेणैव ऽसौ क्षपितधनराष्ट्रो भवति वा/

योगयात्रा-१.८घ/ गतो यो नादत्ते[K.ऽन्यान् आदत्ते] सुनयचरितो नीतिविधूरान्//

योगयात्रा-१.९क/ उलूकस्य ध्वांक्षो निशि वलिभुजां सो ऽह्नि वशगः

योगयात्रा-१.९क/ स्थले नक्रं सिंहो मृगपम् उद्के हन्ति जलजः/

योगयात्रा-१.९ख/ अबुध्या यः कालं व्रजति नृपतिर् देशम् अथवा[K.ओमित्तेद्]

योगयात्रा-१.९ग/ हते दर्पे वाक्यं स्मरति विदुषां सो ऽरिवशगः//[K.थिस् ल्लिने ओमित्तेद्]

योगयात्रा-१.१०क/ रिपोः कृत्वा ऽवज्ञां जितम् इति विदित्वा मदबलान्

योगयात्रा-१.१०ख/ न यत्नो हातव्यः शिखिविषसमो ऽल्पो ऽपि हि रिपुः/

योगयात्रा-१.१०ग/ प्रमत्तो ऽद्रेः कुञ्जाद् अयुतबलभागैर् अपि नरैर्

योगयात्रा-१.१०घ/ हतो बद्धस्तम्भे कखति[K.बद्धः स्तम्भेकषति] मदलेखां द्विपपतिः//

योगयात्रा-१.११क/ वप्रप्राकारयन्त्रप्रहरणपरिखातोय*मेयेन्धनाढ्यं[K.धान्येन्धनाढ्यं

योगयात्रा-१.११ख/ दुर्गं कृत्वा ऽऽत्मगुपतं[K.ऽऽत्मगुल्म] द्विपतुरगभिषक्शिल्पिविप्राभ्युपेतम्/

योगयात्रा-१.११ग/ लुब्धत्रस्ताभिमानिप्रकुपितकुभृतां ज्ञातशीलैर् विहीनं

योगयात्रा-१.११घ/ कृत्वा शूराप्तसंस्थं परविषयम् इयाच् छुद्धपार्ष्णिर् नरेन्द्रः//

योगयात्रा-१.१२क/ बुध्वा शक्तिं स्वपरबलयोः सामम् एकप्रदानैः[K.सामभेकप्रदानैः]

योगयात्रा-१.१२ख/ कृत्वोपायैर् व्यसनसमरोपायसंरक्षणैश्[K.गमनसमरोपायसंसर्पणैश्] च/

योगयात्रा-१.१२ग/ भक्त्या[K.साम्ना] साधून् धनविरहितान् अर्थलुब्धांश् च दानैर्

योगयात्रा-१.१२घ/ नेयाद्[K.भेद्यान्] भेदैस् त्रिभिर् अपि न ये साधयेत् तांश् च दण्डैः//

योगयात्रा-१.१३क/ साम्नो जीवः सभृगुतनयो दण्डनाथौ कुजार्कौ

योगयात्रा-१.१३ख/ दानस्येन्दुः शिखियमबुधाः सासुरा भेदनाथाः/

योगयात्रा-१.१३ग/ वीर्योपेतैर् उपचयकरैर् लग्नगैर् वीर्यगैर्[K.केन्द्रगैर्] वा

योगयात्रा-१.१३घ/ तत् तत् सिद्धिं व्रजति तद् अहःस्व् आंशकैर्[K.अंशके] वापि तेषां//

योगयात्रा-१.१४क/ षाड्गुण्ये सन्धिर् आदौ परिपणरचितो विग्रहो ऽस्यापकारी[K.ऽस्यपाकारो]

योगयात्रा-१.१४ख/ नैतौ चेद् आसनं तत् परपुरगमनं सर्वसैनेय्न यानम्/

योगयात्रा-१.१४ग/ सैन्यार्द्धेनाभियुक्ते परपुरम् अपि यत् तद् द्विधायानम् उक्तं

योगयात्रा-१.१४घ/ संश्लेषो ऽन्यत्र यः स्यात् स खलु निगदितः संश्रयो ऽन्यो[K.ऽन्त्यो] गुणानम्//

योगयात्रा-१.१५क/ मध्याह्ने ऽर्कस् तुहिनकिरणो नित्यम् आक्रन्दसंज्ञः

योगयात्रा-१.१५ख/ पौरः पूर्वे भवति दिनकृद् यायिसंज्ञो ऽन्त्यसंस्थाः[K.ऽन्त्यसंस्थः]/

योगयात्रा-१.१५ग/ जीवः सौरिस्[K.सौरस्] तुहिनकिरणास्यात्मजश् चेति पौराः

योगयात्रा-१.१५घ/ केतुर् यायी सभृगुजकुजः सिद्धिकानन्दनश् च//

योगयात्रा-१.१६क/ यानं यायिभिर् आसनं शुभकरैर् वीर्यान्वितैर् नागरैर्

योगयात्रा-१.१६ख/ द्वैधीभावम् इयाद् यदा शुभकराः पौराः सयायिग्रहाः/

योगयात्रा-१.१६ग/ सौम्यैः सन्धिर् असद्ग्रहैश् च बलिभिर् युद्धे ऽनुकूलैर् जयः

योगयात्रा-१.१६घ/ सर्वैर् अप्य् अशुभप्रदैर् नरपतिर् दैवाम्बितं संश्रयेत्//

योगयात्रा-१.१७क/ कोशो हि राज्यतरुमूलम् अतो ऽस्य शाखाः

योगयात्रा-१.१७ख/ पक्षी विपक्ष इव किं निधनः[K.विधनं] करोति/

योगयात्रा-१.१७ग/ अन्नाद् इवेन्द्रियगणो वसुतस् तथा ऽन्नं

योगयात्रा-१.१७घ/ तत्प्राप्तिरक्षणविवृद्धिषु यत्नवान् स्यात्//

योगयात्रा-१.१८क/ नीचाचिराढ्यनृपवल्लभतस्करेभ्यो

योगयात्रा-१.१८ख/ राष्ट्रं नृपेण परिरक्ष्यम् अतो ऽस्य कोशः/

योगयात्रा-१.१८ग/ काले करप्रणयनं च यथोचितानां

योगयात्रा-१.१८घ/ तन्[K.तं] नार्थयेद् भवति येन जनापवादः//

योगयात्रा-१.१९क/ यात्रा नृपस्य शरदीष्टफला मधौ च

योगयात्रा-१.१९ख/ छिद्रे रिपोर् न नियमो ऽस्ति[K.ऽत्र] च केचिद् आहुः/

योगयात्रा-१.१९ग/ छिद्रे ऽप्य् अरेर् भवति दैवयुतस्य सिद्धिः

योगयात्रा-१.१९घ/ सामान्यम् आमिषम् इदं प्रतिभूमिपानाम्//

योगयात्रा-१.२०क/ शत्रोर् वधाय सचिवं शुभदैवयुक्तम्

योगयात्रा-१.२०ख/ आज्ञापयेन् नृपतिर् आत्मनि दैवहीने/

योगयात्रा-१.२०ग/ जह्यान् न चार्थम् अति[K.अपि] दैवपरो ऽपि भूत्वा

योगयात्रा-१.२०घ/ दृष्टे द्विपे द्विपपदानुसृतिः किम् अर्थम्//

योगयात्रा-१.२१क/ कालो ऽभ्युपैति सकृद् एव नरं कथंचित्

योगयात्रा-१.२१ख/ प्राप्नोति तन् न समयं[K.स पुनः] खलु कालकांक्सी/

योगयात्रा-१.२१ग/ कालेन गोचरगतान् अनपेक्ष्य भक्ष्यान्

योगयात्रा-१.२१घ/ मन्दक्रमो ऽप्य् अजगरः समुपैति सिद्धिम्//

योगयात्रा-१.२२क/ दुर्गस्थितं फलम् अपक्वम् अनल्पयत्नात्[K.अनल्पयत्नं]

योगयात्रा-१.२२ख/ संसिद्धिम् अप्य् उपकरोति गुणं न पुंसाम्/

योगयात्रा-१.२२ग/ साधारणं स्वपतितं च भवेद् यतो ऽतः

योगयात्रा-१.२२घ/ काले ऽभियुक्तपतितं रसवत् सुखाय//E२२


[संपादित करें] आचाराध्याय

योगयात्रा-२.१कख/ रक्तासिताद्या हि यथाम्बरस्य वर्णाः सितस्यैष भवन्ति सम्यक्/

योगयात्रा-२.१गघ/ विलग्नतिथ्यादिगुणास् तथैव विशुद्धदोषस्य भवन्ति यातुः//

योगयात्रा-२.२कख/ मद्याङ्गनावादितनृत्यगीतान्य् अक्षा वृथाद्या[K.वृथाट्या] मृगया द्युनिद्रा/

योगयात्रा-२.२गघ/ परोक्षनिन्देति च कामजानि दशैव विन्द्याद्[K.विद्याद्] व्यसनानि पुंसाम्//

योगयात्रा-२.३कख/ वाक्पारुष्यं दण्डपारुष्यम् ईर्ष्यां[K.ईर्ष्या] द्रोहो ऽसूया पैशुनं साहसञ् च/

योगयात्रा-२.३गघ/ अर्थस्योक्तं दूषणं च ऽष्टसंख्यः क्रोधोद्भूतो वर्ग एष प्रदिष्टः/

योगयात्रा-२.४कख/ महद् इदम् अनयानाम् आस्पदं मद्यम् आहुस् तनुधनमतिसत्त्वश्रेयसां कर्षणाय/ योगयात्रा-२.४गघ/ समुपहतमतिः सन्[K.संस्] तत्प्रधानेन्द्रियत्वाद् गणयति न हि भक्ष्याभक्ष्यम् अन्यानि चैवम्//

योगयात्रा-२.५क/ पत्नीयत्य् अपि मातरं मदवशात् पत्नीं च मात्रीयति

योगयात्रा-२.५ख/ श्वभ्रीयत्य् अपि मन्दिरं श्लथशिलं कूपं च गेहीयति/

योगयात्रा-२.५ग/ स्वल्पं वार्य् उदधीयतीश्वरम् अपां मोहात् स्थलीयत्य् अपि

योगयात्रा-२.५घ/ मित्रीयत्य् अपि पार्थिवं किम् अपरं कुर्यान् न यन् मद्यपः//

योगयात्रा-२.६कख/ भूयो ऽपि दीव्यति जितो जयलिप्सयैव प्राप्नोति तच् च सविशेषतरं कदाचित्/

योगयात्रा-२.६गघ/ कृत्वा ऽप्रियाणि मदतः परितो ऽप्य् अटन्ति[K.परितप्य चान्ते] भूयः[K.भूपः] पिवेत् किम् अपि दोषविशेषकांक्षी//

योगयात्रा-२.७कख/ अभ्यागमोत्सवभिषग्वचनोपदेशैः कामं पिबेद् अमतिलोपकृद् अप्रकाशम्[K.आप्रकामम्]/

योगयात्रा-२.७गघ/ द्यूतं विनेन्द्रियसुखानि हितानि युक्त्या विज्ञस्य[K.शून्यं हि] जीवितफलं विषयैर् विना किम्//

योगयात्रा-२.८क/ शौचाचारविवर्जितः शव इव त्यक्तः सुहृद्बान्धवैर्

योगयात्रा-२.८ख/ निश्शङ्को निरपत्रपो गतघृणः कृच्छ्राद् अवाप्ताशनः/

योगयात्रा-२.८ग/ बन्धुर् नास्य निबन्धनं न शपथो लोकद्वयं नेक्ष्यते

योगयात्रा-२.८घ/ मायावी कुलपांशलश् च कितवो दोषाकरो[K.दोषार्णवो] निःसुखः//

योगयात्रा-२.९कख/ दैवज्ञमन्त्रिसुहृदाप्तवचांसि राजा यो न ऽऽद्रियेन् निजविचेष्टितदुष्टबुद्धिः[K.द्रियेत् स्वमतिचेष्टितदुष्टबुद्धिः]/

योगयात्रा-२.९गघ/ सो ऽग्रेमरेण[K.सन्नायकेन] रहितो ऽन्ध इव ऽचिरेण हास्यत्वम् एति पतितो विषये रिपूणाम्//

योगयात्रा-२.१०क/ मेधावी मतिमान् अदीनवचनो दक्षः क्षमावान् ऋजुर्

योगयात्रा-२.१०ख/ धर्मात्माप्य्[K.धर्मात्मा त्व्] अनसूयको लघुकरः षाड्गुण्यविच् छक्तिमान्/

योगयात्रा-२.१०ग/ उत्साही पररन्ध्रवित् कृतधृतिर् वृद्धिक्षयस्थानवित्

योगयात्रा-२.१०घ/ शूरो न व्यसनी स्मरत्य् उपकृतिं[K.उपकृतं] वृद्धोपसेवी च यः//

योगयात्रा-२.११कख/ परीक्ष्यकारी न विकस्थनश्[K.विकत्थनश्] च दृढपतिज्ञो ऽतिदृढपहारी/

योगयात्रा-२.११गघ/ जितेन्द्रियः स्याज् जितकोपलोभनिद्रालसस्थानपरिग्रहश् च//

योगयात्रा-२.१२कख/ त्यागी विनीतः प्रियदर्शनश् च व्यपेतमोहः प्रतिपत्तियुक्तः/

योगयात्रा-२.१२गघ/ देशस्य कालस्य च भागविज्ञः[K.भागविद् यः] स्वयं च यः स्याद् व्यवहारदर्शी//

योगयात्रा-२.१३कख/ शब्दार्थविन् न्यायापटुः प्रगल्भः संग्रामविद्याकुशलो ऽभिजातः/

योगयात्रा-२.१३गघ/ स्मिताभिभाषी मितसत्यवक्ता दैवान्वितो यस्य[K.यश् च] स धाम लक्ष्म्याः//

योगयात्रा-२.१४कख/ गुणैः समस्तैर् अपि संप्रयुक्ता कन्येव यात्रा विगुणाय दत्ता/

योगयात्रा-२.१४गघ/ करोत्य् अकीर्तिं सुखवित्तहानिं[K.सुखवित्तहीनां] यात्रान्तरज्ञानजडस्य[K.पात्रान्तरज्ञानजडस्य] दातुः/

योगयात्रा-२.१५कख/ गुणान्वितस्यैव गुणं करोति यात्रा शुभर्क्षग्रहलग्नयोगात्/

योगयात्रा-२.१५गघ/ व्यर्था सदोषस्य गुणान्विता ऽपि वीणेव शब्दाश्रयवर्जितस्य//

योगयात्रा-२.१६कख/ यात्रा विशुद्धा ऽपि समं प्रवृत्ता पात्रानुरूपाणि फलानि धत्ते/

योगयात्रा-२.१६गघ/ जगत्य् उदीर्णा ऽपि हि कौशिकस्य भा भानवी नैव तमः प्रमार्ष्टि//

योगयात्रा-२.१७कख/ विचिन्त्य कार्याणि निशावसाने द्विषत्सुहृन्मण्डलसंश्रितानाम्/

योगयात्रा-२.१७गघ/ बलार्थदेशेषु नियोजितानां समाश्रितानां च कृताकृतानि//

योगयात्रा-२.१८कख/ अनाद्श्रितः ख्यातगुणः परो ऽपि शूरो ऽथवा साधुजनः प्रशस्तः/

योगयात्रा-२.१८गघ/ सम्पूजनीयो जनसंप्रहार्थम् ममेति देशोपगतो विचिन्त्य//

योगयात्रा-२.१९कख/ सवेणुबीणापणवस्वनेन गीतेन पूर्वं व्यपनीतनिद्रः/

योगयात्रा-२.१९गघ/ शय्यां त्यजेत् तूर्यरवावसाने शृण्वन् गिरो मङ्गलपाठकानाम्//

योगयात्रा-२.२०कख/ अज्ञातपूर्वाणि न दन्तकाष्ठान्य् अद्यान् न पत्रैश् च समन्वितानि/

योगयात्रा-२.२०गघ/ न चोर्ध्वशुष्कानि[K.युग्मपर्वाणि] न पाटितानि न युग्मपर्वाणि[K.चोर्ध्वशुष्कानि] विना त्वचा च//

योगयात्रा-२.२१कख/ उदङ्मुखः प्राङ्मुखसंस्थितो वा ऋज्व् अब्रणं तच् च वितस्तिमात्रम्/

योगयात्रा-२.२१गघ/ अद्यान् नरेन्द्रो विनियम्य[K.विनिगृह्या] वाचं प्रक्षाल्य जह्याच् च शुभप्रदेशे[K.शुचौ प्रदेशे]//

योगयात्रा-२.२२कख/ अभिमुखपतितं प्रशान्तदिक्स्थं शुभम् अतिशोभनम् ऊर्ध्वसंस्थितं च/

योगयात्रा-२.२२गघ/ अशुभकरम् अतो ऽन्यथा प्रदिष्टं स्थितपतितं च करोति मिष्टम्[K.मृष्टम्] अन्नम्//

योगयात्रा-२.२३कख/ प्रणम्य देवांश् च गुरूंश्[K.देवाण् स्वगुरूंश् च] पूर्वं दत्वा च गां वत्सयुतां द्विजाय/

योगयात्रा-२.२३गघ/ दृष्ट्वा मुखं सर्पिषि दर्पणे च नक्षत्रम् आदौ शृणुयात् तिथिं च//

योगयात्रा-२.२४कख/ श्रुत्वा तिथिं भग्रहवासरं[K.भं ग्रहवासरं] च प्राप्नोति धर्मार्थयशांसि सौख्यम्/

योगयात्रा-२.२४गघ/ आरोग्यम् आयुर् विजयं सुतांश् च दुःस्वप्नजातं[K.दुःस्वप्नघातं] प्रियतां च लोके//

योगयात्रा-२.२५कख/ दूर्वेभदानाञ्जनतीर्थतोयमृद्रोचनासर्षपपुष्पगन्धान्/ योगयात्रा-२.२५गघ/ सिताम्बरोष्णीषसुवणरत्नान्य् आसेव्य कुर्याद् भिषजां वचांसि//

योगयात्रा-२.२६कख/ स्मितप्रसन्नप्रथमाभिभाषितैः प्रसाददृष्ट्या करसंपरिग्रहैः/

योगयात्रा-२.२६गघ/ यथाभिरूपं[K.यथानूपं] हृदयान्य् अपि द्विषां प्रसादयन् धर्मसभां समाश्रयेत्//

योगयात्रा-२.२७कख/ विनीतवेषाभरणः सदक्षिणं[K.विनीतवेषाभरणश् च दक्षिणं] कर[K.करं] समुद्यम्य विचक्षणान्वितः/

योगयात्रा-२.२७गघ/ सुखोपविष्टः स्थित एव वा नृपः समारिमित्रो व्यवहारदर्शने//

योगयात्रा-२.२८कख/ क्षमान्वितो ऽस्मीति विचिन्त्यम् एतद् दण्ड्येषु दण्डक्षमणं न धर्मः/

योगयात्रा-२.२८गघ/ दण्डप्रभोआवो हि स दुर्जनस्य हस्ते न यो जीवति साधुवर्गः//

योगयात्रा-२.२९कख/ सुतराम् अभिवर्द्धते ऽभिमानो नीचानां क्षमया ऽन्वितेषु यस्मात्/

योगयात्रा-२.२९गघ/ अत उग्रतरेण ते निवर्त्त्या येन ऽन्ये ऽपि खलास् तथा न भूयः//

योगयात्रा-२.३०कख/ यस्मिन् गृहीतः[K.गृहीते] सदृशापराधो महाजनस् त्रासम् उपैति तस्मिन्/

योगयात्रा-२.३०गघ/ दण्डो निपात्यो मनुजेश्वरेन कालान्तरे ऽन्यद् व्यपदिश्य कार्यम्//

योगयात्रा-२.३१कख/ द्विरद इव मदेन विप्रयुक्तो विषरहितो भुजगो व्यसिश् च कोशः/

योगयात्रा-२.३१गघ/ परिभवम् उपयाति न ऽपराधे यदि मनुजाधिपतिः करोति दण्डम्//

योगयात्रा-२.३२कख/ एकस्य तुल्योदरपाणिपादा दण्डात् प्रभीताः[K.दण्डस्य भीताः] प्रणमन्ति मर्त्याः/

योगयात्रा-२.३२गघ/ अत्युग्रदण्डाद् अपि चोद्विजन्ते दण्डो ऽपराधप्रतिमः शिवाय//

योगयात्रा-२.३३कख/ दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः/

योगयात्रा-२.३३गघ/ अपक्षपातो ऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम्//

योगयात्रा-२.३४कख/ श्रान्तश् च तस्मिन् विनियुज्य साधून् संग्रामविद्यादिविभक्तकालः/

योगयात्रा-२.३४गघ/ सर्वाणि कार्याणि यथाक्रमेण कुर्यान् नृपः प्रत्यहम् आत्मवांश् च//

योगयात्रा-२.३५कख/ राज्ञा कार्यं पञ्चमे पञ्चमे ऽह्नि क्षौरर्क्षे वा श्मश्रु भस्योदये[K.तस्योदये] वा/

योगयात्रा-२.३५गघ/ त्यक्त्वा ताराः पञ्चसप्तत्रिपूर्वा[K.सप्तपञ्चत्रिपूर्वा] यात्राकाले नैव कार्यं न युद्धे//

योगयात्रा-२.३६कख/ आचारस्थः सागरान्तां धरित्रीं भुङ्क्ते दीर्धं कालम् उत्खातशत्रुः/

योगयात्रा-२.३६गघ/ यत्रा ऽऽचारस् तत्र धर्मस्य वृद्धिर् धर्माद् भोगान् देहभेदे ऽपि भुङ्क्ते//E३६


[संपादित करें] अभियोगाध्याय

योगयात्रा-३.१कख/ अभिहितगुणसंयुतेन राज्ञा कथितगुणात्ययसंस्थितो ऽभियोज्यः/

योगयात्रा-३.१गघ/ उपहतम् उपलभ्य चास्य देशं बलम् अथवा निरुपद्रुतो ऽभियुञ्ज्यात्//

योगयात्रा-३.२कख/ प्रचुरमशकयूकं मक्षिकादम्शपूर्वं बलम् अजलदवृष्ट्या पांशुवाताहतं वा[K.पांशुपाताहतं च]/

योगयात्रा-३.२गघ/ पिशितरुधिरधान्यप्राणिवृष्ट्या हतम् वा[K. च] करितुरगमनुष्या यत्र वाध्या न दीनाः[K.च ध्यानदीनाः]//

योगयात्रा-३.३क/ शब्दायन्ते मुहुर् अपि शिवा गर्दभध्वानतुल्यं

योगयात्रा-३.३ख/ त्यक्तस्नेहाः परिजनसुहृद्वाहनोपस्करेषु/

योगयात्रा-३.३ग/ कष्टं को नः शरणम् इति वा वादिनो यस्य सैन्ये

योगयात्रा-३.३घ/ विद्विष्टा वा प्रवरपुरुषाः सो ऽभियोज्यो नृपेण//

योगयात्रा-३.४क/ निरालस्यावनतवदनाः केतनस्वप्नशीला

योगयात्रा-३.४ख/ भ्रष्टाचारा मलिनपुरुषच्छायया ऽऽक्रान्तदेहाः/

योगयात्रा-३.४ग/ दीर्घश्वासाः सजलनयनाः शोकलोभाभिभूताः

योगयात्रा-३.४घ/ सैन्ये यस्य द्विजगुरुसुहृद्द्वेषिणश् चैव योधाः//

योगयात्रा-३.५कख/ अकारणप्रोद्गतरोमकूपा जये निराशाः प्रकृतेर् अपेताः/

योगयात्रा-३.५गघ/ अमङ्गलाचेष्टितजातहासाः सैन्ये नरा यस्य स चाभियोज्यः//

योगयात्रा-३.६कख/ कपोतकोलूकमधूनि यस्य समाश्रयन्ते ध्वजचामराणि/

योगयात्रा-३.६गघ/ छत्रायुधादीनि[K.छत्रायुधाद्यानि] च सो ऽभियोज्यो यस्याथवा ऽस्यजलाशयानाम्[K.ऽनाहततूर्यशब्दाः]/

योगयात्रा-३.७कख/ प्रतीपगत्वं सरिताम् इषोश् च शोषो ऽथवा ऽशोष्यजलाशयानाम्/

योगयात्रा-३.७गघ/ अवारिदेशे सलिलप्रवृतिर् अहैतुकं[K.अवैकृते] चाप्सु तरेच् छिला वा//

योगयात्रा-३.८कख/ भङ्गपातचलनान्य् अनिमित्तं रोदनानि च सुरप्रतिमानाम्/

योगयात्रा-३.८गघ/ अग्निरूपम् अनिलेन विना वा निश्चलानि च यदा प्रचलन्ति//

योगयात्रा-३.९कख/ प्रसूतिवैकृत्यम् अकालपुष्पाण्य् आरण्यसत्त्वस्य पुरप्रवेशः/

योगयात्रा-३.९गघ/ प्रदोषकाले कृकवाकुशब्दा हिमागमे च ऽन्यभृतः प्रलापाः[K.ऽन्यभृतप्रलापाः]//

योगयात्रा-३.१०कख/ दीर्घं दीनं संहताः सारमेयाः क्रोशन्त्य् उच्चैर् नित्यम् एव ऽनृतौ च/

योगयात्रा-३.१०गघ/ हन्युर् योषा योषितो निर्घृणाश् च दृष्यं नित्यं[K.श्वेतः काको] नक्तम् इद्रायुधं वा[K.च]//

योगयात्रा-३.११कख/ तिला वितैला यदि वा ऽर्द्धतैला[K.र्द्धतैलाः] सस्यस्य वृद्धिर् यदि वा ऽतिरिक्ता/

योगयात्रा-३.११गघ/ अन्नस्य वैरस्यम् असृक् तरूणां शुष्कप्ररोहो विरुजां प्रणाशः//

योगयात्रा-३.१२कख/ विहाय सर्पाखुविडालमत्स्यान् स्वजातिमांसान्य् उपभुञ्जते वा/

योगयात्रा-३.१२गघ/ व्रजन्ति वा मैथुनम् अन्यजात्यां दीप्ताश् च नित्यं विहगा मृगाश् च//

योगयात्रा-३.१३कख/ भङ्गः पातस् तोरणेन्द्रध्वजानां शीतोष्मानां व्यत्ययो भूविदारः/

योगयात्रा-३.१३गघ/ निम्नोच्चानां तुङ्गता निम्नता च[K.वा] छाया चा[K.वा] ऽर्कस्य ऽऽभिमुख्येन याता//

योगयात्रा-३.१४कख/ त्र्यहातिरिक्तः पवनो ऽतिचण्डो गन्धर्वसंज्ञस्य भवेत् पुरस्य/

योगयात्रा-३.१४गघ/ व्यक्तिर् भवेच् च ऽहनि तारकाणां नक्तं च तारागणसंप्रणाशः//

योगयात्रा-३.१५कख/ प्रासादवेश्मवसुधाशरगुल्मनिम्नेष्व् आवासका बलिभुजाम् अनपत्यता वा/

योगयात्रा-३.१५गघ/ एकाण्डजत्वम्[K.एकात्मजत्वम्] अथवा भुवि मण्डलानि कुर्वन्ति चक्रकम् इवोपरि वा भ्रमन्तः//

योगयात्रा-३.१६कख/ उल्का ऽभिघातेन तमो ऽतिदीप्त्या वक्रातिवक्रेन सुतो धरित्र्याः/

योगयात्रा-३.१६गघ/ केतुर् गतिस्पर्शन -- धूपनेन चारेण पीडां कुरुते ऽर्कपुत्रः//

योगयात्रा-३.१७कख/ त्रिभिस् त्रिभिर् भैर् अथ कृत्तिकाद्यैर् निपीडितैर्[K.निष्पीडितैर्] भूपतयो ऽभियोज्याः/

योगयात्रा-३.१७गघ/ पाञ्चालनाथो मगधाधिपश् च कलिङ्गराड् उज्जयिनीपतिश् च//

योगयात्रा-३.१८कख/ आनर्त्तराट् सैन्धवहारहोरौ[K.सैन्धवहारहौरौ] मद्रेश्वरो ऽन्यश् च कुरङ्गनाथः[K.कुलिन्दनाथः]/

योगयात्रा-३.१८गघ/ एते हि कूर्माङ्गसमाश्रितानां विशेषपीडाम् उपयान्ति भूपाः//

योगयात्रा-३.१९कख/ अङ्गेषु सूर्यो यवनेषु चन्द्रो भौमो ह्य् अवन्त्यां मगधेषु सौम्यः/

योगयात्रा-३.१९गघ/ सिन्धौ गुरुर् भोजकटे च[K.भोजकटेषु] शुक्रः सौरः सुराष्ट्रे विषये बभूव//

योगयात्रा-३.२०कख/ म्लेच्छेषु केतुश् च तमः कलिङ्गे यातो[K.जातो] यतो ऽतः परिपीडयन्ति[K.परिपिडितास् ते]/

योगयात्रा-३.२०गघ/ स्वजन्मदेशान् परिपीडयन्ति ततो[K.ते ऽतो] ऽभियोज्या क्षितिपेन देशाः//

योगयात्रा-३.२१कख/ सम्पूज्यन्ते भैरवोच्चानुनादै[K.भैरवोच्चानुरावै] रक्तैर् मांसैस् तालजङ्घादयो वा/ योगयात्रा-३.२१गघ/ दृश्यन्ते वा यातुधानाः प्रभूता भ्रष्टश्रीकः सो ऽपि देशो ऽभियोज्यः//

योगयात्रा-३.२२कख/ देशभ्रंशो यैर् निमित्तैः प्रदिष्टस् तास् ता वार्त्ता वक्ति लोके विशङ्कः/

योगयात्रा-३.२२गघ/ त्यक्त्वा देशं यान्ति यं भिक्षुका वा गम्यो देशो सो ऽप्य् असाधुप्रवृत्तः//

योगयात्रा-३.२३कख/ रोगाभिभूतं विषदूषितं वा यथा विनाशाभिमुखं शरीरम्/

योगयात्रा-३.२३गघ/ वैद्यः प्रयोगैः सुदृढं करोति राष्ट्रं तथा शान्तिभिर् अग्रजन्मा//E२३


[संपादित करें] योगाध्याय

योगयात्रा-४.१कख/ देहः कोशो योद्धा वाह्यं मन्त्रः शत्रुर् मार्गो ऽप्य् आयुः/

योगयात्रा-४.१गघ/ चित्तं कर्म प्राप्तिर् मन्त्री प्राग्लग्नाद्या भावाश् चिन्त्याः//

योगयात्रा-४.२कख/ त्रिलाभवर्जं रविसौरिभौमा[K.रविसौरभौमा] निघ्नन्ति नो कर्मणि सूर्यभौमौ[K.सूर्यभौमाः]/

योगयात्रा-४.२गघ/ पुष्णन्ति सौम्या रिपुराशिवर्ज्यम् अस्तं[K.रिपुराशिवर्जम् न ऽस्तं] भृगुर् मृत्युविलग्नम् इन्दुः//

योगयात्रा-४.३कख/ तिथ्युद्गमेन्दुकरणर्क्षदिनक्षणेषु शुद्धेष्व्[K.पापेष्व्] अभीष्टफलदा नृपतेर् यथा स्यात्/

योगयात्रा-४.३गघ/ यात्रा तथा परम् इदं कथयामि गुह्यं शिष्याय नै ऽतद् अचिराद् ह्य् उषिताय दद्यात्//

योगयात्रा-४.४कख/ योगैः क्षितिपा विनिर्गताः शकुनैस् तस्करचारणादयः/

योगयात्रा-४.४गघ/ नक्षत्रबलैर्[K.नक्षत्रगुणैर्] द्विजातयः क्षणवीर्याद् इतरो जनो ऽर्थभाक्//

योगयात्रा-४.५क/ यद् यद् योगवशाद् व्रजत्य् अगदतां द्रव्यैर् विषं योजितम्

योगयात्रा-४.५ख/ संयुक्तं मधुना घृतं च विषतां गच्छेद्[K.गच्छद्] यथा दृश्यते/

योगयात्रा-४.५ग/ तद्वद् योगसमुद्भवं प्रकुरुते हित्वा ग्रहः स्वं फलं

योगयात्रा-४.५घ/ यस्मात् तेन समुद्यतो ऽस्मि गदितुं योगान् विचित्रान् इमान्//

योगयात्रा-४.६कख/ लग्ने गुरुर् बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत् तृतीयः/

योगयात्रा-४.६गघ/ चन्द्रश् च यस्य दशमो भवति प्रयाणे तस्य ऽभिवाञ्छितफलाप्तिर् अलं नृपस्य//

योगयात्रा-४.७कख/ होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभिर् भृगुजे ऽनुकूले/

योगयात्रा-४.७गघ/ यातो ऽतिदृप्तम् अपि शत्रुबलं निहन्ति नैशं तमिस्रम् इव तिग्मम् अयूखकाली[K.अयूखमाली]//

योगयात्रा-४.८कख/ उदयारिनभः स्थलगैर्[K.उदयारिनभस्थलगैर्] दिनकृद्यमशीतकरैः/

योगयात्रा-४.८गघ/ न भवन्त्य् अरयो ऽभिमुखा हरिणा इव केशरिणः//

योगयात्रा-४.९कख/ गुरुर् उदये रिपुराशिगतो ऽर्को यदि निधने न च[K.च न] शीतमयूखः/

योगयात्रा-४.९गघ/ भवति गतो ऽत्र शशी ऽव नरेन्द्रो रिपुवनिताननतामरसानाम्//

योगयात्रा-४.१०कख/ शुकवाक्पतिबुधैर् धनसंस्थैः सप्तमे शशिनि लग्नगते ऽर्के/

योगयात्रा-४.१०गघ/ निर्गतो नृपतिर् एति कृतार्थो वैनतेयवद् अहिं[K.अरीन्] विनिगृह्य//

योगयात्रा-४.११कख/ मूर्त्तिवित्तसहजेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः/

योगयात्रा-४.११गघ/ यस्य यानसमये रणानले तस्य यान्ति शलभा इव ऽरयः//

योगयात्रा-४.१२क/ सूर्येन्दू वलवर्जितौ वलयुतौ जन्मेशलग्नेश्वरौ

योगयात्रा-४.१२ख/ पाताले दशमे ऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः/

योगयात्रा-४.१२ग/ षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितो

योगयात्रा-४.१२घ/ यातुस् तस्य न विद्विषो रणमुखे तिष्ठन्ति योषा इव//

योगयात्रा-४.१३कख/ सौरे भौमे[K.वा] लग्नगे ऽर्फे[K.ऽर्के] खमध्ये कर्मण्य् आये[K.वा] भार्गवे चन्द्रजे च/

योगयात्रा-४.१३गघ/ यायाद् भूपः[K.भूपालः] शत्रुदेशं निहन्तुं दृप्तं शत्रुं[K.वा] कालवत्[K.कालयत्] क्रूरचेष्टः//

योगयात्रा-४.१४कख/ लाभशत्रुसहजेषु यमारौ सौम्यशुक्रगुरवो बलयुक्ताः/

योगयात्रा-४.१४गघ/ गच्छतो यदि ततो ऽस्य धरित्री सागराम्बुरसना वशम् एति//

योगयात्रा-४.१५कख/ पापास् तृतीये हिबुके ? जीवो बिलग्ने शशलाञ्छनो ऽस्ते/

योगयात्रा-४.१५गघ/ यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेस्व् इव यात् नाशम्//

योगयात्रा-४.१६कख/ चन्द्रे ऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगे ऽर्के/

योगयात्रा-४.१६गघ/ सौरारयोर् भ्रातृगयोश् च यातो नृपः स्वभृत्यान् इव शास्ति शत्रून्//

योगयात्रा-४.१७कख/ गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवौ कर्मगते ऽर्कपुत्रे/

योगयात्रा-४.१७गघ/ सितज्ञयोर् बन्धुसुतस्थयोश् च यात्रा जनित्री ऽव हितानि धत्ते//

योगयात्रा-४.१८कख/ पत्यौ गिरां लग्नगते ऽवशेषैर् एकादशार्थोपगतैर् यियासोः/

योगयात्रा-४.१८गघ/ विदार्यते शत्रुबलं समन्ताद् धर्मो यथा हेतुशतैर् युगान्ते//

योगयात्रा-४.१९कख/ त्रिषण्णवान्त्येष्व् अबलः शशाङ्कश् चान्द्रिर् बली यस्य गुरुश् च केन्द्रे/

योगयात्रा-४.१९गघ/ तस्य ऽरियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयन्ति सैन्ये//

योगयात्रा-४.२०कख/ केन्द्रोपगतेन वीक्षिते गुरुणा त्रयायचतुर्थगे सिते/

योगयात्रा-४.२०गघ/ पापैर् अनवाष्टसप्तमैर्[K.अनवाष्टसप्तगैर्] वसु किं तन् न यद् आप्नुयाद् गतः//

योगयात्रा-४.२१कख/ लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनान्त्यलग्नरहितेष्व् अशुभग्रहेषु/

योगयात्रा-४.२१गघ/ यातुर् भयं न भवति प्रतरेत् समुद्रं यद्य् अश्मना[K.ऽपि] किम् उत शत्रुसमागमेषु[K.उत ऽरिसमागमेषु]//

योगयात्रा-४.२२कख/ यस्यो ऽदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरो ऽङ्गारक --- सौम्यसौराः/

योगयात्रा-४.२२गघ/ द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तान् अवलोकयन्ति//

योगयात्रा-४.२३कख/ पूर्वोक्तयोगे धनगो बुधश् चेच् छशाङ्कसूर्यौ च दशायसंस्थौ/

योगयात्रा-४.२३गघ/ अस्मिन् गतस्य ऽलिकुलोपगीता नानावनोत्था द्विरदा भवन्ति//

योगयात्रा-४.२४कख/ सूर्यादयो ऽरिसहजाम्बरशत्रुलग्नबन्ध्वायगाः सुरगुरोर् दिवसश् च[K.दिवसो ऽपि] यस्य/

योगयात्रा-४.२४गघ/ याने ऽरिसैन्यम् उपगच्छति तस्य नाशं म मांसकश्रवणकेष्व्[K.मीमांसकश्रवणकेष्व्] इव तीर्थपुण्यम्//

योगयात्रा-४.२५कख/ त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश् च यस्य/

योगयात्रा-४.२५गघ/ खलजनजनिते ऽव लोकयात्रा न भवति यस्य चिराय शत्रुसेना//

योगयात्रा-४.२६कख/ कुजरविजयुते ऽरिभे[K.ऽतिभे] गतानां सुखसहजोपगतिः सितार्कजीवैः/

योगयात्रा-४.२६गघ/ रिपुबलम्[K.परबलम्] उपयाति नाशम् आशु श्रुतम् अधनस्य कुटुम्बचिन्तयैव[K.कुटुम्बचिन्तये ऽव]//

योगयात्रा-४.२७कख/ लग्नत्रिधर्मारिदशायगेषु सितार्किजीवेन्दुकुजेन्दुजेषु/

योगयात्रा-४.२७गघ/ सार्के बुधे च ऽरिबलं विनाशम् आयाति गुह्यं पिशुनेष्व् इवो ऽक्तम्//

योगयात्रा-४.२८कख/ एकान्तरर्क्षे भृगुजात् कुजाद् वा सौम्ये स्थिते सूर्यसुताद् गुरोर् वा/

योगयात्रा-४.२८गघ/ प्रध्वस्यते[K.प्रध्वंसते] ऽरिर् न चिराद् गतस्य वेषाधिको भृत्य इवे ऽऽश्वरस्य//

योगयात्रा-४.२९अ[K.३०अ]/.एकान्तरा यदि गता भवेनेषु षट्सु पृष्ठस्थितस्य[K.पृष्ठस्थितश् च] सुरशत्रुगुरोः[K.सुरशत्रुगुरुः] प्रयाणे/

योगयात्रा-४.२९ब्[K.३०ब्]/.यातस्य नात्र रिपवो प्रहसन्ति वीर्यं विष्णोर् इवोद्धृतगदारथवादपाणेः//

योगयात्रा-४.३०कख/ निरन्तरम् यदि भवनेषु पञ्चसु ग्रहाः स्थिता दिवसकरेण वर्जिताः/

योगयात्रा-४.३०गघ/ यियासतोर्[K.यियासतो] यदि च भवन्ति पृष्ठतस् तदा परान् बलभिद् इव ऽवकृन्तति//

योगयात्रा-४.३१कख/ बृगुपुत्रमहेन्द्रगुरू गमने सहितौ यदि भं युगपत् त्यजतः/

योगयात्रा-४.३१गघ/ ज्ञगुरू यदि वा ऽंशकम् एकगतौ[K.एकम् इतौ] समरे सुरराड्[K.अमरराड्] इव भाति तदा//

योगयात्रा-४.३२कख/ निस्त्रिंशवक्रोपगते च वक्रे वक्रेण वक्रं नृपतिं[K.नृपतिर्] निहन्यात्/

योगयात्रा-४.३२गघ/ पानप्रसक्तं निशि वा प्रसुप्तं तस्यै ऽव च ऽस्ते यदि वा ऽंशकः स्यात्//

योगयात्रा-४.३३कख/ पुत्रो धरित्र्या दिनकृत् सुतश् च यदा त्यजेतां युगपन् नवांशम्/

योगयात्रा-४.३३गघ/ तदा ह्य् अवस्कन्दगतो नरेन्द्रो भुङ्क्ते रिपून् तार्क्ष्य इव द्विजिह्वान्//

योगयात्रा-४.३४कख/ बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रविशन्[K.प्रवसन्]/

योगयात्रा-४.३४गघ/ पुरुहूतदिशं यदि वा ऽन्तकृतः पुरुहूतयमप्रतिमो भवति//

योगयात्रा-४.३५कख/ सितेन्दुजौ चतुर्थगौ निशाकरश् च सप्तमे/

योगयात्रा-४.३५गघ/ यदा तदा गतो नृपः प्रशास्त्य् अरीन् विना रणान्[K.रणात्]//

योगयात्रा-४.३६कख/ शशिनि चतुर्थगृहं समुपेते बुधसहिते ऽस्तगते भृगुपुत्रे/

योगयात्रा-४.३६गघ/ गमनम् अवाप्य पतिर् मनुजानां जयति रिपून् समरेण विनै ऽव//

योगयात्रा-४.३७कख/ क्षितितनययुतान् नवांशकाद् यदि शतमे[K.शतगो] भृगुजो ऽथवा गुरुः/

योगयात्रा-४.३७गघ/ शतगुणम् अपि हन्त्य् अरेर् बलं विषम् इव कायम् असृक्पथोपपन्नम्[K.असृक्पथोपगम्]//

योगयात्रा-४.३८कख/ शतांशकाद् ऊर्ध्वम् अवस्थिते बुधे यमारयोस् तत्र गतस्य भूभृतः/

योगयात्रा-४.३८गघ/ प्रयाति नाशं समरे द्विषड् बलं यथा ऽर्थिभावोपगतस्य गौरवम्//

योगयात्रा-४.३९कख/ नक्षत्रम् एकं युगपत् प्रविष्टौ यदा धरित्रीतनयामरेज्यौ/

योगयात्रा-४.३९गघ/ कुर्यात् तदा ऽन्तं द्विषतां बलस्य द्रौणिर् यथा ऽरेर् निशि सौप्तिकेन//

योगयात्रा-४.४०कख/ ऋक्षं गुरुज्ञौ बुधभार्ग्वौ वा यदा प्रविष्टौ युगपत् समेतौ/

योगयात्रा-४.४०गघ/ अर्थान् अवाप्नोति तदा विचित्रान् छात्रः सुतीर्थान्[K.सुतीर्थाद्] गुरुपूजयैव[K.गुरुपूजये ऽव]//

योगयात्रा-४.४१कख/ यात्रादिगीशाद् यदि पञ्चमे ऽन्यो गृहे ग्रहो वीर्ययुतो ऽवतिष्ठेत्/

योगयात्रा-४.४१गघ/ समुद्यताशाकथितानि भङ्क्त्वा फलानि वीर्यान् नयति स्वकाष्ठाम्//

योगयात्रा-४.४२कख/ एको ऽपि जीवज्ञसितासितानां कुजात् त्रिकोणे रवितो ऽथ वे ऽन्दुः/

योगयात्रा-४.४२गघ/ यत्रो ऽद्यतस् तत्र न याति याता तयोर् बलीयान् नयति स्वकाष्ठाम्//

योगयात्रा-४.४३कख/ जन्मोदयर्क्षं हिबुकास्तसंस्थं यस्य ऽशुभैर् दृष्टयुतं न सौम्यैः/

योगयात्रा-४.४३गघ/ स शाण्डिलीं प्राप्य यथा गरुत्मान् दन्यं[K.दैन्यं] गतो ऽभ्येति हतस्वपक्षः//

योगयात्रा-४.४४कख/ होराष्टमे जन्मगृहाष्टमे वा स्वाच् छत्रुभाच् छत्रुगृहोदये वा/

योगयात्रा-४.४४गघ/ तद्राशिपैर् वा गमनं विलग्ने तुल्यं नराणां विषभक्षणेन//

योगयात्रा-४.४५क/ रिपुनिधनविलग्ने स्वात् त्रिषड्लाभगे वा

योगयात्रा-४.४५ख/ बलवति भवनेशे स्वे कृशे शत्रुपक्षे/

योगयात्रा-४.४५ग/ अनभिमुखदिगीशे दिक्पतौ सुस्थिते च

योगयात्रा-४.४५घ/ व्रजति यदि यथेष्टं प्राप्नुयात् तत्र यता//

योगयात्रा-४.४६कख/ केन्द्रत्रिकोणेषु शुभाः प्रशस्तास् तेष्व् एव पापा न शुभप्रदाः स्युः/

योगयात्रा-४.४६गघ/ पपो ऽपि कामं बलवन् नियोज्यः केन्द्रेषु शून्यं न शिवाय केन्द्रम्[K.लग्नम्]//

योगयात्रा-४.४७कख/ सौम्यैश् च पापैश् च चतुष्टयस्थः कृच्छ्रेण सिद्धिं समुपैति याता/

योगयात्रा-४.४७गघ/ प्रपातपातप्रतिघातवक्रैर्[K.प्रपातयानप्रतिघातवक्रा] नदी ऽव धात्रीधरकन्दरेषु//

योगयात्रा-४.४८कख/ गुरो[K.गुरौ] विलग्ने भृगुजे ऽरिसंस्थे चन्द्रे ऽष्टमे हन्ति गतो ऽरिसेनाम्/

योगयात्रा-४.४८गघ/ विष्टं[K.वृष्टिं] यथा दक्षिणमार्गचारी रूक्षो अथवा[K.यदा] ह्रस्वतनुश् च शुक्रः//

योगयात्रा-४.४९कख/ सिंहाजतौलिमिथुना[K.सिंहाजतौलिमिथुनं] मृगकर्कटौ च स्वेशान्विता यदि भवति[K.भवति] यस्य शनिश् च लग्ने/

योगयात्रा-४.४९गघ/ तत्सैनिकाः परबलं क्सपयन्ति यातुर् मूर्खस्य वित्तम् इव चारणचाटुकाराः[K.चारणचाटचक्षाः(?)]//

योगयात्रा-४.५०कख/ उदये गुरुसौम्यभार्गवैः सहजे ऽर्कार्किकुजैश् च गच्छतः/

योगयात्रा-४.५०गघ/ न भवन्त्य् अरयो रणे स्थिराः कितवानाम् इव वित्तसंचयाः//

योगयात्रा-४.५१कख/ जातकोक्तनृपयोगगतानाम् प्रत्यहं[K.प्रतिदिनम्] भवति राज्यविवृद्धिः/

योगयात्रा-४.५१गघ/ वातघूर्णितम् इव ऽर्णवयानम् परबलं हि समुपैति विनाशम्//

योगयात्रा-४.५२कख/ होराऽऽश्रिते[K.होराश्रिते] देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर् वा/ योगयात्रा-४.५२गघ/ कृत्वा रिपूणां क्षयम् अक्षताङ्गः स्वयं[K.क्षयं] क्षितीशो ऽक्षयकोशम् एति[K.ऽक्षयकोश ऐति]//

योगयात्रा-४.५३कख/ लाभार्थलग्नेषु शुभा रविः खे यस्य ऽऽरसौरौ सहजे ऽरिभे वा/ योगयात्रा-४.५३गघ/ तस्य ऽर्थकोशः समुपैति वृद्धिं लाभो[K.लोभो] यथा प्रत्यहम् अर्थवृद्ध्या//

योगयात्रा-४.५४कख/ स्वोच्चपगैर् जीवकुजार्कजार्कैर् एभ्यस् त्रिभिर् वा कथितैकलग्ने/

योगयात्रा-४.५४गघ/ राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथा ऽधनस्य//

योगयात्रा-४.५५कख/ एको ऽपि जीवार्ककुजार्कजानां स्वोच्चे विलग्ने स्वगृहे यदी ऽन्दुः/

योगयात्रा-४.५५गघ/ जातस्य[K.यातस्य] यान्त्य् अत्र पराः प्रणाशम् महाकुलानी ऽव कुटुम्बभेदैः//

योगयात्रा-४.५६कख/ लग्नाच् चतुर्थे अतिबले शशाङ्के[K.विबलः शशाङ्कः] योगाद् विना चन्द्रबलेन याता[K.यातः]/

योगयात्रा-४.५६गघ/ लब्धा ऽपि लक्ष्मीं बहुरत्नपूर्णां[K.लक्ष्मीर् बहुरत्नपूर्णा] क्षिप्रं क्षयं याति यथा शशाङ्कः//

योगयात्रा-४.५७कख/ येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् तृतीयरिपुलाभगताश् च पापाः/

योगयात्रा-४.५७गघ/ आयान्ति ते स्वभवनानि पुनः कृतार्था दत्ता द्विजातिषु पुरा विधिवद् यथार्थाः//



[संपादित करें] मिश्रकाध्याय

योगयात्रा-५.१कख/ पूर्वादितस् त्रिपरिवर्तगतैर् अजाद्यैर् भैः सप्तकैर् अनलभाच् च गमो जयाय/

योगयात्रा-५.१गघ/ वायुअग्निदिक्स्थपरिघस्य समार्द्धगैश् च मैत्राश्विहस्तगुरुभेषु च सर्वदिक्षु//

योगयात्रा-५.२कख/ पूर्वेणाइन्द्रं[K.पूर्वेणाइ ऽऽन्द्रं] दक्षिणेन ऽऽजपादं रोहिण्यो ऽतश् च ऽर्यमाख्यं च शूलम्/

योगयात्रा-५.२गघ/ कामं यायात् साम्परायेषु कार्येष्व् एवं द्वारे[K.अद्वारे ऽपि] प्रोज्झ्य शूलानि तानि//

योगयात्रा-५.३कख/ विवर्जयेत् त्वाष्ट्रयमोरगाणाम् अर्धम् द्वितीयं गमने जयेप्सुः/

योगयात्रा-५.३गघ/ पूर्वार्धम् आग्नेयमघानिलानां स्वातीम्[K.स्वातिम्] मघां चो ऽशनसः समस्ताम्//

योगयात्रा-५.४कख/ उत्पातपापग्रहपीडिते भे ये यान्ति भूरिग्रहसंयुते वा/

योगयात्रा-५.४गघ/ ते पूर्ववित्तान्य् अपि नाशयन्ति धातुप्रसक्ता इव मूर्त्तिकेन्द्राः[K.वार्तिकेन्द्राः]//

योगयात्रा-५.५कख/ रविसितकुजराहुसौरिचन्द्रा[K.रविसितकुजराहुसौरचन्द्रा] ज्ञगुरुयुताः पुरतः क्रमाद् दिगीशाः/

योगयात्रा-५.५गघ/ व्रजति यदि ललाटगे दिगीशे पतति ततो द्रुमवत् सरित्तटात्सः[K.सरित्तटस्थः]//

योगयात्रा-५.६कख/ यातो ऽयनस्य प्रतिलोमकाष्ठां यः स्यात् स्वतन्त्रो[K.सुतन्त्रो] ऽपि जितः परेषां/

योगयात्रा-५.६गघ/ स केवलव्याकरणाभियुक्तः[K.केवलं] व्याकरणाभियुक्तः काव्यज्ञगोष्ठ्याम् इव हास्यम् एति//

योगयात्रा-५.७कख/ अयनेन गतो ऽर्कसोमयोर् द्युनिशं वा स्थितयोः पृथक् पृथक्/

योगयात्रा-५.७गघ/ विदुषाम् इव सर्वशास्त्रवित्[K.शब्दशास्त्रवित्] समवाये द्विषतां विराजते//

योगयात्रा-५.८कख/ तिथिं चतुर्थीं नवमीं चतुर्दशीं विहाय विष्टिं करणं च गच्छतः/

योगयात्रा-५.८गघ/ भवन्ति चामीकरवाजिवारणाश् चतुर्थिपूर्वाश् च तदाप्तिवारणाः//

योगयात्रा-५.९कख/ ऋक्षे[K.रिक्ते] तिथौ वा व्यतिपातदुष्टे यो याति मोहात् खलु वैधृते वा/

योगयात्रा-५.९गघ/ स नाशम् आयात्य् अचिरेण याता[K.राजा] राजे ऽव दैवज्ञविलोमचेष्टः//

योगयात्रा-५.१०कख/ आरोग्यम् ऋक्षेण धनं क्षणेन कार्यस्य सिद्धिस् तिथिना शुभेन/

योगयात्रा-५.१०गघ/ राश्युद्गमेन ऽध्वनि सिद्धिम् आहुः प्रायः शुभानि[K.सुखानि] क्षणदाकरेण//

योगयात्रा-५.११अब्[K.ओमित्तेद्]/.न राजते भूरिगुणान्विता ऽपि व्यर्ह्तब्ययस्य क्षितिपस्य यात्रा/

योगयात्रा-५.११च्द्[K.ओमित्तेद्]/.शुक्रे प्रणष्टे धनदर्पितस्य विवाहयात्रेव जरार्द्दितस्य//

योगयात्रा-५.१२कख/ प्रतिशुक्रबुधाशनिवृष्टिहता दिग् अधः कुरुते नृपतिं गमने/

योगयात्रा-५.१२गघ/ मदिरामुदिता मदनाकुलिता प्रमदे ऽव कुलम् परवेश्मरता//

योगयात्रा-५.१३कख/ वीर्यान्वितैर् यायिभिर् आत्मभद्रैः क्लेशं[K.क्लेशेद्] विना हन्ति चमूम् अरीणाम्/

योगयात्रा-५.१३गघ/ त्रैलोक्यलाभे ऽप्य् असमाप्तकार्यां तृष्णां यथा चीरफलाम्बुतुष्टः//

योगयात्रा-५.१४कख/ सर्पिस् तिलौदनषैः[K.तिलोदनझषैः] पयसा च भुक्त्वा पूर्वादि वारणरथाश्वनरैर् गतस्य/

योगयात्रा-५.१४गघ/ सोढुम् प्रतापम् अरयो न न्र्पस्य शक्ता गन्धद्विपस्य कलभा इव गन्धदानम्[K.दानगन्धम्]//

योगयात्रा-५.१५कख/ एकतश् च सकलानि निमित्तान्य् एकतश् च मनसः परिशुद्धिः/

योगयात्रा-५.१५गघ/ चेतसो ऽस्ति[K.ऽपि] सहसा न[K.ऽस्ति] रणे भीर् मारुतो ऽपि विजयाजयहेतुः//

योगयात्रा-५.१६कख/ भूरिशूरवरवाजिकुञ्जरा ज्ञातयुद्धगतयो ऽभिमानिनः/

योगयात्रा-५.१६गघ/ क्व ऽपि यान्ति घनतूलराशिवन् मारुताभिहतवक्षसो ऽरयः//

योगयात्रा-५.१७कख/ अनुलोमगते[K.अनुलोमगतौ] प्रदक्षिणे सुरभौ देहसुखे ऽनिले गतः/

योगयात्रा-५.१७गघ/ तिमिराणि गभस्तिमान् इव प्रसभं हन्ति बलानि विद्विषाम्//

योगयात्रा-५.१८कख/ उपपत्तिर् अयत्नतो यदा तृणपानाशनरत्नवाससाम्//

योगयात्रा-५.१८गघ/ प्रमदाक्षितिनागवाजिनां विजयद्वारम् अपावृतं तदा//

योगयात्रा-५.१९कख/ लग्नस्य ये ऽंशा ह्य् उदिता[K.उदिता] ग्रहो यस् तेषु स्थितो लग्नफलं स धत्ते/

योगयात्रा-५.१९गघ/ यस् तान् अतीतः स भवेद् द्वितीयः स्थानेषु शेषेष्व् अपि चिन्त्यम् एतत्[K.चिन्तनीयम्]//

योगयात्रा-५.२०कख/ गतो ऽनुकूलैर् ग्रहभाग्निमारुतैर् मनो ऽब्दविद्युत्स्वनवृष्टिकार्मुकैः/

योगयात्रा-५.२०गघ/ रिपोः प्रमथ्नाति रणाजिरे चमूं द्विपः समूलां सरसी ऽव पद्मिनीम्//

योगयात्रा-५.२१कख/ दैवेन हीनः परभीषणार्थं यातो ऽतिकृच्छ्रेण नयत्य् अहानि/

योगयात्रा-५.२१गघ/ स्वशक्त्यतीतो नृपवेश्मनी ऽव कृत्वा प्रतिज्ञाम् प्रतिवादिभीतः//

योगयात्रा-५.२२कख/ दैवान्वितः साधुजनोपकारी प्रभावमन्त्रोद्यमशक्तियुक्तः/

योगयात्रा-५.२२गघ/ भुङ्क्ते महीं सम्यग् अवाप्य यात्रां ससह्यविन्द्याचलपारियात्राम्//

योगयात्रा-५.२३कख/ गोचरेण शुभदः शशी न चेद् अष्टवर्गपरिशोधितो ऽपि[Kऽथ] वा/

योगयात्रा-५.२३गघ/ पूर्ववायुर् इव पुष्पकालजो यायिनाम् फलविनाशकृद् भवेत्//

योगयात्रा-५.२४कख/ आश्रित्य चन्द्रस्य बलाबलानि ग्रहाः प्रयच्छन्ति शुभाशुभानि/

योगयात्रा-५.२४गघ/ मनःसमेतानि यथेन्द्रियाणि कर्मार्हतां[K.कर्मण्यतां] यान्ति न केवलानि//

योगयात्रा-५.२५कख/ सर्वतः क्षुतम् अशोभनम् उक्तं गोः क्षुतं[K.गोक्षुतम्] मरणं एव करोति/

योगयात्रा-५.२५गघ/ केचिद् आहुर् अफलं बकाद् च[K.हि बलाद्] यद् वृद्धपीनसितबालाकृतं च//

योगयात्रा-५.२६कख/ शकुनतिथिभलाभे छत्त्रशय्यासनाद्यं पदम् अपि विजिगीषुश् चालयेच् छ्रदधानः[K.छ्रद्धधानः]/

योगयात्रा-५.२६गघ/ यदि शकुननिमित्तस्वप्नचेतोविशुद्धिर्[K.शकुननिमित्ते ऽस्य स्वचेतोविशुद्धिर्] न भवति तद् अनिष्टं सर्वकार्येषु यानम्//

योगयात्रा-५.२७कख/ दिनकृद्दिवसे तथा ऽंशके यात्रा लग्नगते ऽथवा रवौ/

योगयात्रा-५.२७गघ/ संतापायति स्मरातुरा[K.स्मरातुरं] वेश्ये ऽवा ऽर्थविवर्जितं नरम्//

योगयात्रा-५.२८कख/ उदये शशिनो ऽंशके ऽह्नि वा भवति गतो न चिरेण दुर्मनाः//

योगयात्रा-५.२८गघ/ प्रमदाम् इव जातयौवनां[K.यातयौवनां] रत्यर्थं समवाप्य कर्कशः//

योगयात्रा-५.२९कख/ भौमोदये ऽंशे ऽहनि वा ऽस्य यात्रा करोति बन्धं वधम् अर्थनाशम्/

योगयात्रा-५.२९गघ/ संसेविता ऽपापपराङ्मुखेन मनोभवान्धेन पराङ्गने ऽव//

योगयात्रा-५.३०कख/ बुधस्य लग्नांशकवासरेषु यात्रा नरं प्रीणयति प्रकामम्/

योगयात्रा-५.३०गघ/ भावानुरक्ता प्रवराङ्गने ऽव विदग्धचेष्टा मदनाभितप्तम्[K.मदनाभिभूतम्]//

योगयात्रा-५.३१कख/ गुरोर् विलग्नांशदिनेषु यात्रा शुभानु[K.हितानु]बन्धेप्सितकामदा च/(Bॠ ५.३१--३३)

योगयात्रा-५.३१गघ/ जाये ऽव भर्तुर् मनसो ऽनुकूला कुलाभिवृद्ध्यै रतिदा हिता च//

योगयात्रा-५.३२कख/ यात्रा भृगोर् अंशदिनोदयेषु प्रीणाति कामैर् विविधैर् यियासुम्//

योगयात्रा-५.३२गघ/ विलासिनी कामवशोपयातम् भावैर् अनेकैर् मदनातुरे ऽव//

योगयात्रा-५.३३कख/ द्युलग्नभागेषु शनेश् च यात्रा प्राणच्छिदादीन् प्रचिनोति[K.प्रतनोति] दोषान्/

योगयात्रा-५.३३गघ/ अन्यप्रसक्ता वनिते ऽव मोहात् संषेविता[K.मोहान् निषेविता] मन्मथमोहितेन//

योगयात्रा-५.३४कख/ लग्नेन हीना ऽन्यगुणान्वितापि प्रीतिं न यात्रा मनसः करोति/

योगयात्रा-५.३४गघ/ स्वलङ्कृता रूपसमन्विता ऽपि प्रभ्रष्टशीला वनिते ऽव पुंसः//

योगयात्रा-५.३५कख/ लग्नस्य शुद्धिः शकुनैर् निमित्तैर् विज्ञायते ऽन्तःकरणेन सम्यक्/

योगयात्रा-५.३५गघ/ अनन्यभावाश्रयसंप्रवृत्तैः कौली ऽव पुंसश् चरितैर् विदेशे//

योगयात्रा-५.३६कख/ छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः/

योगयात्रा-५.३६गघ/ तेजोगुणान् बहिर् अपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितैव[K.स्फटिकरत्नघटस्थिते ऽव]//

योगयात्रा-५.३७कख/ स्निघद्विजत्वङ्नखरोमकेशा छाया सुगन्धा च महीसमुत्था/

योगयात्रा-५.३७गघ/ तुष्ट्यर्थलाभाभिउदयान् करोति धर्मस्य च ऽहन्य् अहनि प्रवृद्धिम्//

योगयात्रा-५.३८कख/ स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति/

योगयात्रा-५.३८गघ/ सर्वार्थसिद्धिजननी जननी ऽव चाप्या[K.ऽऽप्या] छाया फलं तनुभृतां शुभम् आदधाति//

योगयात्रा-५.३९कख/ चण्डा ऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः/

योगयात्रा-५.३९गघ/ आग्नेयी ऽति प्राणिनां स्याज् जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्ते//

योगयात्रा-५.४०कख/ मलिनपरुषकृष्णा पापगन्धा ऽनिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान्/

योगयात्रा-५.४०गघ/ स्फटिकसदृशरूपा भाग्ययुक्ता ऽत्युदारा निधिर् इव गगनोत्था श्रेयसां स्वच्छवर्णा//E४०



[संपादित करें] बल्युपहाराध्याये

योगयात्रा-६.१कख/ पुरुहूतहुताशयमा निरृतिर् वरुणानिलयक्षशिवाश् च दिशाम्/

योगयात्रा-६.१गघ/ पुनर् अर्कसितारतमोरविजाः शशिसौम्यबृहस्पतयः पतयः//

योगयात्रा-६.२कख/ शच्या सहैरावणगः सवज्रो हैमो ऽथवा दारुमयो महेन्द्रः/

योगयात्रा-६.२गघ/ विचित्रमाल्यध्वजरक्तचन्दनैः सौम्योपहारेण च पूजनीयः//

योगयात्रा-६.३कख/ अथ मन्त्रम्[K.मन्त्रः॒] इति जप्त्वा पुरतः प्रन्दरस्य/

योगयात्रा-६.३गघ/ पुरुहूतदिशं नृपो ऽभियुञ्ज्यात् पुरुहूतं हृदये निवेश्य सम्यक्//

योगयात्रा-६.४कख/ ताम्रजा प्रतिकृतिः सहस्रगो रक्तचन्दनकृतानुलेपना/

योगयात्रा-६.४गघ/ रक्तवस्त्रकुसुमध्वजार्चिता[K.ध्वजाचिता] सूर्यकान्तमणिभिर् विभूषिता//

योगयात्रा-६.५कख/ <आ कृष्ण> पूर्वं यदिवा ऽप्य् मन्त्रं समावर्त्य रवेः पुरस्तात्/

योगयात्रा-६.५गघ/ क्षीरौदनेन प्रतिपूज्य यायात् प्राचीम् पुरस्कृत्य दिनेशशक्रौ//

योगयात्रा-६.६कख/ अग्नेस् तनुः कनकेनैव कार्या रक्तआ[K.रक्तं] ध्वजं कुसुमं चन्दनं च/

योगयात्रा-६.६गघ/ आज्यम् बलिर् हुतभुग्विजिगीषोर्[K.हुतभुग्दिग्जिगीषोर्] मन्त्रो[K.मन्त्रं] पिबेति[K.पठेच् च]//

योगयात्रा-६.७कख/ कार्यश् चित्रो दितिसुतगुरुर् वामयोर्षाद्धकायो[K.यमो वा ऽर्धकायो] नानारूपाः कुसुमभलयस् तस्य चित्रो ध्वजश् च/

योगयात्रा-६.७गघ/ <शुक्रज्योतिः> प्रभृति च जपेन्[K.पठेन्] मन्त्रम् अस्य ऽग्रतस् तौ कृत्वा यायाद् भृगुजदहनौ जेतुम् इच्छुस्[K.इच्छंस्] तद् आशाम्//

योगयात्रा-६.८कख/ अयोमयम् प्रोद्यतदण्डहस्तं यमं सकृष्णध्वजपुष्पगन्धम्[K.सकृष्ण-.ध्वज-.पुष्प-.गन्धैः]/

योगयात्रा-६.८गघ/ तिलौदनैर्[K.तिलोदनैर्] अर्च्य समांसमद्यैर् च जपो ऽस्य कार्यः//

योगयात्रा-६.९कख/ मूर्त्तिः स्याद् रुधिराख्यसंज्ञमणिना[K.रुधिराक्षसंज्ञमणिना] भौमस्य रक्ताः स्रजो रक्तानि ध्वजचन्दनानि कुसुमैः पक्वान्नमांसैर् बलिः/

योगयात्रा-६.९गघ/ पदैः स्तुतिः क्षितिसुतस्यैवं यमाङ्गारकौ दिङ्नाथौ गमने ऽग्रतो नरपतिः कृत्वा व्रजेद् दक्षिणम्[K.दक्षिणाम्]//

योगयात्रा-६.१०कख/ भैरवाप्रतिकृतिः पटे कृता सर्वगन्ध[K.पुष्प]फलपुष्प[K.धूप]पूजिता/

योगयात्रा-६.१०गघ/ निरृतिमन्त्रचोदना कृष्णरक्तकुसुमध्वजाम्बरा//

योगयात्रा-६.११कख/ सुरदारुमयः शशाङ्कशत्रुः कुसुमाद्यैर् असितैः कृतोपहारः/

योगयात्रा-६.११गघ/ निरृतिसहितः[K.निरृतेर् महितः] स्वदिक्प्रयाणे स्तुतिमन्त्रो ऽस्य च कीर्तितः //

योगयात्रा-६.१२कख/ पश्चाद् व्रजेद् रजतमयं जलेश्वरं पाशान्वितम् सह गदया ऽब्जपूजितम्/

योगयात्रा-६.१२गघ/ कृत्वौदनैर् बलिम् अपि यावाकान्वितं[K.यावाकाचितं] वरुण[K.वरुणं] इति स्तुयाद् द्विजः//

योगयात्रा-६.१३कख/ सौरेर् अर्चा नीलकाचा ऋशाङ्गी पूज्या कृष्णैर् वस्त्रमाल्योपहारैः/

योगयात्रा-६.१३गघ/ <शं नो देवी> ऽत्य् एष मन्त्रो ऽपराशां जेतुं यायात् तौ पुरस्कृत्य देवौ//

योगयात्रा-६.१४कख/ वायोर् मूर्त्तिः श्वेतमृद्भिर् विधेया पूज्या श्वेतैः पुष्पवस्त्रध्वजाद्यैः/

योगयात्रा-६.१४गघ/ मन्त्रो ऽति जाप्यो वायव्याशाम् प्रस्थितस्ये ऽऽश्वरस्य//

योगयात्रा-६.१५कख/ मन्त्रः सोमस्या <ऽऽप्यायस्वे> ऽत्य् अन्यच् छ्वेतं स्रग्वस्त्राद्यम्/

योगयात्रा-६.१५गघ/ वायुं सोमं च ऽग्रे कृत्वा यायाद् राजा वायोः काष्ठाम्//

योगयात्रा-६.१६कख/ हाटकमूर्तिं[K.हाटकीम् मूर्तिं] कुर्याद् धनदस्य विभूषितां[K.भूषितां] रत्नैः सगदाञ् च[K.सर्वैः सगदां च]/

योगयात्रा-६.१६गघ/ पूजितां स्रग्वस्त्राद्यैश् च विचित्रै ऽत्य् एष हि मन्त्रः//

योगयात्रा-६.१७कख/ सौवर्णं रजतासने नृमिथुनं चन्द्रात्मजस्येष्यते हारिद्रौदन-.मिष्ट-.गन्ध-.कुसुमैर् गन्धैश् च संपूजितम्[K.तत् पूजितम्]/

योगयात्रा-६.१७गघ/ जपश् च तस्य कथितः स्याद् ब्रह्मयज्ञेति च[K.ब्रह्मयज्ञादिना] गच्छेद् उत्तरतो धनेश्वरबुधौ ध्यायन् पुरस्कृत्य च//

योगयात्रा-६.१८कख/ गोत्वग्जाप्यति भैरवा[K.गोत्वग्जा प्रतिभैरवा] प्रतिकृतिर् भस्मोत्कटा शूलिनो दध्ना चोदनषंयुतेन च[K.ओमित्तेद्] बलिर्[K.बलिभिर्] मन्त्रो /

योगयात्रा-६.१८गघ/ मूर्त्तिः स्यान् मणितो गुरोर् विमलिका[K.विमलकात्] पीतं तु वस्त्रादिकं[K.वस्त्रादि यन्] मन्त्रश् च ऽस्य इति तयोर् यायाद् दिशम् पूज्य तौ//

योगयात्रा-६.१९कख/ दिङ्नाथं कुलदेवतां स्वनगरे येषां कृताच् च ऽऽलयास् तान् सम्पूज्य यथानुरूप-.बलिभिर् दद्याद् बलिम् भौतिकीम्[K.भौतिकम्]/

योगयात्रा-६.१९गघ/ कृत्वा पायसमद्यमांसपललैर् भक्ष्यैश् च नानाविधैर् बालकृईडनकैः सुगन्धकुसुमैर्[K.सुगन्धिकुसुमैर्] मूलैः फलैः स्वादुभिः//

योगयात्रा-६.२०कख/ रथ्यापुरद्वारनदीतटेषु चतुष्पथाट्टालकनिःकुटेषु/

योगयात्रा-६.२०गघ/ गुहैकवृक्षादिषु ये वसन्ति ते पूजनीयाः प्रमथा यथावत्//

योगयात्रा-६.२१कख/

योगयात्रा-६.२१गघ/ कुबेररुद्राहिसुपर्णशक्तिभृत्पिशाचदैत्यानुचराश् च ये गणाः>//

योगयात्रा-६.२२कख/

योगयात्रा-६.२२गघ/ पवनसदृशवेगा मानिनो नित्यहृष्टास् तरुणदिनकरत्विट्स्पर्धितेजोदधाणाः>//

योगयात्रा-६.२३कख/

योगयात्रा-६.२३गघ/ नानापक्षिव्यालोष्ट्रास्या वक्त्रैर् हीनाः क्रोडास्याश् च>//

योगयात्रा-६.२४कख/

योगयात्रा-६.२४गघ/ विकटा मुकुटोत्कटरत्नभृतस् तरुणार्कतडिद्धुतभुक्कपिलाः>//

योगयात्रा-६.२५कख/

योगयात्रा-६.२५गघ/ अशनिनिपातस्वनसनिनादा[K.मनादा] द्रुतगमने च स्व[K.श्व]सनमनोगाः>//

योगयात्रा-६.२६कख/

योगयात्रा-६.२६गघ/ कणय[K.कणप]परिघकुन्तमुष्टिमाया लगुडकुठारशतघ्नीधारिणश् च>//

योगयात्रा-६.२७कख/

योगयात्रा-६.२७गघ/ जित्वा ऽरीन् द्विगुणम् अतो बलिं विचित्रं दास्यामः स्वविषयम् एत्य वः प्रसादात्>//

योगयात्रा-६.२८कख/

योगयात्रा-६.२८गघ/ रक्षार्थम् मनुजपतेः सहायकृत्यं क्रुवीध्वं रिपुबलसंक्षयाय च ऽस्य>//

योगयात्रा-६.२९कख/

योगयात्रा-६.२९गघ/ एवं भवत्य् उपकृतं सुमहद् भवद्भिः कार्यं करिष्यति यथा भवतां प्रसादात्>//E२९



[संपादित करें] नक्षत्रविजयस्नानप्राशन्

योगयात्रा-७.१कख/ मदयन्तिका ऽश्वगन्धा मदनफलवचामधूनि शस्यन्ते/

योगयात्रा-७.१गघ/ प्रथमर्क्षे भरणीषु च[K.(तु)] सिद्धार्थकभद्रदारुवचाः//

योगयात्रा-७.२कख/ न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश् च कृत्तिकास्नाने/

योगयात्रा-७.२गघ/ बहुबीजप्रशस्ततोयैर् जयार्थिनो रोहिणीस्नानम्//

योगयात्रा-७.३कख/ मुक्ताकाञ्चनमणिसंयुक्तेन ऽम्भसा मृइगाङ्कर्क्षे/

योगयात्रा-७.३गघ/ रौद्रे वचाश्वगन्धाप्रियंगुमिश्रैर् जलैः कथितम्//

योगयात्रा-७.४कख/ आदित्ये गोमयगोष्ठमृद्भिर् अथ गौरशालिभिः पुष्ये/

योगयात्रा-७.४गघ/ सिद्धार्थसहस्रद्वय[K.सिद्धार्थद्विसहस्रैः]प्रियंगुमदयन्तिकाभिश् च//

योगयात्रा-७.५कख/ वल्मीकशतान् मृद्भिः नागे[K.सार्पे] पित्र्ये च देवनिर्माल्यैः/

योगयात्रा-७.५गघ/ पूर्वासु फल्गुनीषु च सलवणघृतशाड्वलैः प्रोक्तम्//

योगयात्रा-७.६कख/ शतपुष्पया प्रियंग्वा मुस्ताभिश् चोत्तरासु क्रुवीत/

योगयात्रा-७.६गघ/ हस्ते सरोगिरिमृदा चित्रायां देवनिर्माल्यैः//

योगयात्रा-७.७कख/ स्वातौ जलरुहकुसुमैर् ऐन्द्राग्न्ये[K.ऐन्द्राग्ने] मत्स्य[K.मुस्त]पद्मकक्षौद्रैः/

योगयात्रा-७.७गघ/ मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्रे//

योगयात्रा-७.८कख/ भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर् मूले//

योगयात्रा-७.८गघ/ समधूकपद्ममत्स्यैः स्नानम् अषाढासु पूर्वासु//

योगयात्रा-७.९कख/ कुर्याद् उशीरचन्दनपद्मकमिश्रेण वारिणा वैश्वे/

योगयात्रा-७.९गघ/ नद्युभयकूलसंगममृत्कनकैः कीर्त्यते श्रवणे//

योगयात्रा-७.१०कख/ घृतभद्रदारुमधुभिश् च वासवे वारुने घृतक्षौद्रैः/

योगयात्रा-७.१०गघ/ समदनफल[K.समदनफलैः]सहदेवाम्बुशूकमदयन्तिकामिश्रैः//

योगयात्रा-७.११कख/ श्रीवासकः प्रियंगुश् च ऽऽजे स्याद् उत्तरास्व् अगुरुगन्धाः/

योगयात्रा-७.११गघ/ शस्ताः सपद्मकोशीरचन्दना मानवेन्द्राणाम्//

योगयात्रा-७.१२कख/ रेवत्यां वृषभद्विपविषाणकोशैः च सर्पिमधुपूर्णैः[K.ससर्पिमधुपूर्णैः]/

योगयात्रा-७.१२गघ/ गोरोचनाञ्जनयुतैः सलिलैश् च यियासतः पुंसः[K.यियासताम् पुंसाम्]//

योगयात्रा-७.१३कख/ गिरिवल्मीकनदीमुखकूलद्वयशक्रपादमृद्भिर् अतः/

योगयात्रा-७.१३गघ/ द्विपवृषविषाणपार्थिवगणिकाद्वाराहृताभिश् च//

योगयात्रा-७.१४कख/ गिरिशिखरान् मूर्धानं वल्मीकमृदा च शोधयेत्[K.शोचयेत्] कर्णौ/

योगयात्रा-७.१४गघ/ नद्युभयकूलसंगममृद्भिः प्रक्षालयेत् पार्श्वे//

योगयात्रा-७.१५कख/ इन्द्रस्थानाद् ग्रीवां बाहू करिवृषभयोर् विस्हाणात्[K.विस्हाणाग्रात्]/

योगयात्रा-७.१५गघ/ हृदयं च[K.ओमित्तेद्] नृपद्वारात्[K.नृपतिद्वारात्] कटिम् अपि वेश्याघृहद्वारात्//

योगयात्रा-७.१६कख/ अक्षतमाषाः स्विन्नास्तिलसहितास् तण्दुला दधि च गव्यम्[K.अक्षतमाषा आद्यं तिलसहितस् तण्डुलश् च दधिगव्यम्]/

योगयात्रा-७.१६गघ/ वृषत[K.वृषभ]पिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम्// योगयात्रा-७.१७कख/ रुधिरविलापनपायसविहग[K.भुजंग]मांसानि शांकरादीनाम्/

योगयात्रा-७.१७गघ/ पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः[K.च तत्परतः]//

योगयात्रा-७.१८कख/ प्राश्याः प्रियंगुचित्राण्डजफलं[K.प्रियंगुचित्राण्डजाः पलं] यावकं कुलत्थाश् च/

योगयात्रा-७.१८गघ/ मधुससर्पिषी[K.मधुसर्पिषी] च हस्तान् मूलान्य् आपः [मूलाम्भः] सक्तवो ऽपि[K.ओमित्तेद्] मूलात्//

योगयात्रा-७.१९कख/ श्रवणादीनां अद्यात्[K.भक्ष्याः] शालिशाकं[K.शालिः शाकं] बिडालमांसं च/

योगयात्रा-७.१९गघ/ आजं यथेष्टमांसं च शक्तवो[K.सुसक्तवो] माषसंपृक्ताः//

योगयात्रा-७.२०कख/ प्राचीं गजेन यायाद् रथेन याम्यां हयेन वारुण्याम्/

योगयात्रा-७.२०गघ/ नरयानेनोदीचीं सर्वं दत्वा दिगीशाय//

योगयात्रा-७.२१कख/ प्राच्यादि घृतं तिलौदनं मत्स्याण् क्षीरं इति प्रदक्षिणम्/

योगयात्रा-७.२१गघ/ अद्यान् न्र्पतिर् यथादिशं नक्षत्राभिहितं च सिद्धये//

योगयात्रा-७.२२क/ अस्वादु च्युतमक्षिकानुविद्धं[K.च्युतकचमक्षिकानुविद्धं]

योगयात्रा-७.२२ख/ दुर्गन्धि क्षयकृद् अभूरि यच् च दघ्दम्/

योगयात्रा-७.२२ग/ सुस्विन्नं शुचि[K.मृदु] रुचिरं मनो ऽनुकूलं

योगयात्रा-७.२२घ/ स्वाद्व् अन्नं बहु विजाय[K.च जयाय] यानकाले//E२२



[संपादित करें] अग्निनिमिताध्याय

योगयात्रा-८.१कख/ वेदी शुभा शुल्व[K.शिल्प]विधानदृष्टा दिक्स्थानमानाभ्य्धिका[K.दिक्-.स्थान-.मानानधिका] न हीना/

योगयात्रा-८.१गघ/ भ्रष्टप्रमाण[K.भ्रष्टा प्रमाणेन] प्रकरोति[K.करोति] भङ्गं दिग्वक्रसंस्था च न[K.न च] सिद्धिदा स्यात्//

योगयात्रा-८.२कख/ प्राग्भागहीना नगरस्य नेष्टा पुरोधसां[K.पुरोधसो] दक्षिणभागवक्रा/

योगयात्रा-८.२गघ/ नरेन्द्रजायाशुभदा परस्याम् उदग् बलेशस्य नृपस्य मध्ये//

योगयात्रा-८.३कख/ सत्त्वैर् अलीढं न पिपीलमक्षिकामलाविलं वा[K.तद्] विजयप्रदं हविः/

योगयात्रा-८.३गघ/ द्रव्याण्य् अनूनानि पटुः पुरोहितो जुहोति सम्यग् विजयाय भूभृताम्//

योगयात्रा-८.४कख/ गन्धमाल्यचरुकुम्भभाजनस्रुक्कुशव्यजनसर्पिषां यदा/

योगयात्रा-८.४गघ/ भङ्गविस्मृतिनिपातहीनता पार्थिवस्य न भवेत् तदा शुभम्[K.तदा भवेच् छिवम्]//

योगयात्रा-८.५कख/ शान्तायां दिशि यदि शङ्खतूर्यशब्दाः सप्तीनां प्लुतमिभबृङ्हितानि[K.रुतगजबृंहितानि] वा स्युः/

योगयात्रा-८.५गघ/ पुंसां वा प्रमुदितचेष्टितप्रलापाः श्रूयन्ते यदि च जयो ऽस्ति होमकाले//

योगयात्रा-८.६कख/ अप्रतिरथः समस्तो यात्रालिङ्गस् तथा ऽभयश् च[K.ऽभयस्य] गणः/

योगयात्रा-८.६गघ/ स्वस्त्ययनशर्मवर्मा ऽपराजिताः पुष्पसंज्ञाश् [ऽपराजिता ऽऽयुष्यसंज्ञाश्] च//

योगयात्रा-८.७कख/ इन्द्रश् चन्द्रश् चिति[K.चन्द्रेति] गणो यत्[K.यं] ते चन्द्रश् च भूतभूतेति/छेच्केद्

योगयात्रा-८.७गघ/ सूक्तं महाव्याहृतयो मन्त्राशीर्वैष्णवा[K.सूक्तमहाव्याहृतयः प्राजापत्याश् च ये] मन्त्राः//

योगयात्रा-८.८कख/ प्राजापत्याश् चोक्ता होमे[K.उक्ताः काले (लचुन) राज्ञो] निर्गच्छतो ऽनु गमने च/

योगयात्रा-८.८गघ/ अग्निपु