रसमञ्जरी

विकिपीडिया, एक मुक्त ज्ञानकोष से

यहां जाईयें: नेविगेशन, ख़ोज

अनुक्रम

[संपादित करें] रसमञ्जरी , १

यद्गण्डमण्डलगलन्मधुवारि बिन्दुः पानालसाति निभृतां ललितालिमाला ।
यद्गुञ्जितेन विनिहन्ति नवेन्द्रनील शङ्कां स वो गणपतिः शिवमातनोतु ।। रम- १.१ ।।

इन्दीवरी भवति यच्च चरणारविन्दद्वन्द्वे पुरन्दरपुरःसरदेवतानाम् ।
वन्दारुता कलयतां सुकिरीटकोटिः श्री शारदा भवतु सा भवपारदाय ।। रम- १.२ ।।

हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।
त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं सूतेन्द्रं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।
श्रीवैद्यनाथतनयः सुनयः सुशीलः श्रीशालिनाथ इति विश्रुतनामधेयः ।
तेनावलोक्य विधिवद् विविधप्रबन्धान् आरम्भते सुकृतिना रसमञ्जरीयम् ।। रम- १.३ ।।

सन्मधुव्रतं वृन्दानां सततं चित्तहारिणी ।
अनेकरसपूर्णेयं क्रियते रसमञ्जरी ।। रम- १.४ ।।

हरति सकलरोगान्मूर्छितो यो नराणां वितरति किल बद्धः खेचरत्वं जवेन ।
सकलसुरमुनीन्द्रैर् वन्दितं शम्भुबीजं स जयति भवसिन्धुः पारदः पारदोऽयम् ।। रम- १.५ ।।

शुष्केन्धनमहाराशिं यद्वद्दहति पावकः ।
तद्वद्दहति सूतोऽयं रोगान् दोषत्रयोद्भवान् ।। रम- १.६ ।।

तेजो मृगाङ्कमौले सोढुं यन्नैव तेजसां पुञ्जैः ।
अजरामरतां वितरति कल्पतरुं च रसेश्वरं वन्दे ।। रम- १.७ ।।

यो न वेत्ति कृपाराशिं रसहरिहरात्मकम् ।
वृथा चिकित्सां कुरुते स वैद्यो हास्यतां व्रजेत् ।। रम- १.८ ।।

गुरुसेवां विना कर्म यः कुर्यान्मूढचेतसः ।
स याति निष्फलत्वं हि स्वप्नलब्धधनं यथा ।। रम- १.९ ।।

विद्यां गृहीतुमिच्छन्ति चौर्यच्छद्मबलादिना ।
न तेषां सिध्यते किंचिन्मणिमन्त्रौषधादिकम् ।। रम- १.१० ।।

मन्त्रसिद्धो महावीरो निश्चलः शिववत्सलः ।
देवीभक्तः सदा धीरो देवतायागतत्परः ।। रम- १.११ ।।

सर्वशास्त्रार्थतत्त्वज्ञः कुशलो रसकर्मणि ।
एतल्लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ।। रम- १.१२ ।।

शिष्यो निजगुरोर्भक्तः सत्यवक्ता दृढव्रतः ।
निरालस्यः स्वधर्मज्ञो देव्याराधनतत्परः ।। रम- १.१३ ।।

[संपादित करें] पारदनामानि

शिवबीजं सूतराजः पारदश्च रसेन्द्रकः ।
एतानि रसनामानि तथान्यानि शिवे यथा ।। रम- १.१४ ।।

अन्तःसुनीलो बहिरुज्ज्वलो वा मध्याह्णसूर्यप्रतिमप्रकाशः ।
शस्तोऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धये ।। रम- १.१५ ।।

दोषमुक्तो यदा सूतस्तदा मृत्युरुजापहः ।
साक्षादमृतम् एवैष दोषयुक्तो रसो विषम् ।। रम- १.१६ ।।

[संपादित करें] पारददोषाः

नागो वङ्गोऽग्निचापल्यम् असह्यत्वं विषं गिरिः ।
मला ह्येते च विज्ञेया दोषाः पारदसंस्थिताः ।। रम- १.१७ ।।

जाड्यं कुष्ठं महादाहं वीर्यनाशं च मूर्च्छनाम् ।
मृत्युं स्फोटं रोगपुञ्जं कुर्वन्त्येते क्रमान्नृणाम् ।। रम- १.१८ ।।

[संपादित करें] पारदशोधन

अथातः सम्प्रवक्ष्यामि पारदस्य च शोधनम् ।
रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ।। रम- १.१९ ।।

पञ्चाशत् पञ्चविंशद्वा दश पञ्चैकमेव वा ।
पलाद् ऊनं न कर्तव्यं रससंस्कारमुत्तमम् ।। रम- १.२० ।।

[संपादित करें] पारदशोधन (१)

पलत्रयं चित्रकसर्षपाणां कुमारीकन्याबृहतीकषायैः ।
दिनत्रयं मर्दितसूतकस्तु विमुच्यते पञ्चमलादिदोषैः ।। रम- १.२१ ।।

[संपादित करें] पारदशोधन (२)

इष्टिकारजनीचूर्णैः षोडशांशं रसस्य च ।
मर्दयेत्तं तथा खल्वे जम्बीरोत्थद्रवैर्दिनम् ।। रम- १.२२ ।।

[संपादित करें] सामान्यदोषशोधनम्

काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ।। रम- १.२३ ।।

राजवृक्षो मलं हन्ति पावको हन्ति पावकम् ।
चापल्यं कृष्णधत्तूरस् त्रिफला विषनाशिनी ।। रम- १.२४ ।।

कटुत्रयं गिरिं हन्ति असह्यत्वं त्रिकण्टकः ।
प्रतिदोषं पलांशेन तत्र सूतं सकाञ्जिकम् ।। रम- १.२५ ।।

सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः ।
जायते शुद्धसूतोऽयं योजयेत् सर्वकर्मसु ।। रम- १.२६ ।।

[संपादित करें] पारदशोधनम् (२)

सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा विमर्दयेत् ।
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत् सुधीः ।। रम- १.२७ ।।

रसस्य दशमांशं तु गन्धं दत्त्वा विमर्दयेत् ।
जम्बीरोत्थद्रवैर् यामं पात्यं पातनयन्त्रके ।। रम- १.२८ ।।

पुनर् मर्द्यं पुनः पात्यं सप्तवारं विशुद्धये ।
युक्तं सर्वस्य सूतस्य तप्तखल्वे विमर्दनम् ।। रम- १.२९ ।।

[संपादित करें] तप्तखल्व

अजाशकृत्तुषाग्निं तु भूगर्भे त्रितयं क्षिपेत् ।
तस्योपरिस्थितं खल्वं तप्तखल्वमिदं स्मृतम् ।। रम- १.३० ।।

[संपादित करें] पारदशोधनम्

कुमार्याश्च निशाचूर्णैर् दिनं सूतं विमर्दयेत् ।
पातयेत्पातनायन्त्रे सम्यक् शुद्धो भवेद्रसः ।। रम- १.३१ ।।

[संपादित करें] पारदशोधन

श्रीखण्डदेवदारुश्च काकतुण्डी जयाद्रवैः ।
कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ।। रम- १.३२ ।।

दिनैकं मर्दयेत्पश्चाच्छुद्धं च विनियोजयेत् ।

[संपादित करें] पारदशोधन

अथवा हिङ्गुलात् सूतं ग्राहयेत् तन्निगद्यते ।। रम- १.३३ ।।

जम्बीरनिम्बुनीरेण मर्दितं हिङ्गुलं दिनम् ।
ऊर्ध्वपातनयन्त्रेण ग्राह्यः स्यान्निर्मलो रसः ।। रम- १.३४ ।।

कञ्चुकैर्नागवङ्गाद्यैर् निर्मुक्तो रसकर्मणि ।
विना कर्माष्टकेनैव सूतोऽयं सर्वकर्मकृत् ।। रम- १.३५ ।।

सर्वसिद्धमतम् एतद् ईरितं सूतशुद्धिकरम् अद्भुतं परम् ।
अल्पकर्मविधिभूरिसिद्धिदं देहलोहकरणे हि शस्यते ।। रम- १.३६ ।।

संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् ।
देहस्य नाशं विविधं च कुष्ठं कष्टं च रोगाञ्जनयेन्नराणाम् ।। रम- १.३७ ।।

[संपादित करें] रसमञ्जरी , २

अथातः सम्प्रवक्ष्यामि रसजारणमुत्तमम् ।
अथाजीर्णम् अबीजं च सूतकं यस्तु घातयेत् ।। रम- २.१ ।।

ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ।
तस्मात्सर्वप्रयत्नेन जारितं मारयेद्रसम् ।। रम- २.२ ।।

[संपादित करें] पारदबलिजारणं

प्रक्षिप्य तोयं मृत्कुण्डे तस्योपरि शरावकम् ।
संचूर्णमेखलायुक्तं स्थापयेत्तस्य चान्तरे ।। रम- २.३ ।।

रसं क्षिप्त्वा गन्धकस्य रजस्तस्योपरि क्षिपेत् ।
समं भागं ततो दद्याच्छरावेण पिधापयेत् ।। रम- २.४ ।।

लघ्वीयसीं भस्ममुद्रां ततः कुर्याद् भिषग्वरः ।
आरण्योपलकैः सम्यक् चतुर्भिः पुटमाचरेत् ।। रम- २.५ ।।

एवं पुनः पुनर् गन्धं दत्त्वा दत्त्वा भिषग्वरः ।
सम्यक् कुर्वीत सूतस्य देवि षड्गुणजारणम् ।। रम- २.६ ।।

[संपादित करें] पारदसुवर्णजारणं

रसः स्यात् पटुशिग्रुतुत्थैः सराजिकैर्व्योषणकैस् त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनु सुवर्णमुख्यानयं खादति सर्वधातून् ।। रम- २.७ ।।

[संपादित करें] पारदजारण

अथवा बिडयोगेन शिखिपित्तेन लेपितम् ।
चरेत् सुवर्णं रसराट् तप्तखल्वे यथासुखम् ।। रम- २.८ ।।

निर्दग्धशंखचूर्णं च रविक्षीरेण संप्लुतम् ।
पुटितं शतशो देवि प्रशस्तं जारणं विदुः ।। रम- २.९ ।।

स्वर्णाभ्रसर्वलोहानि यथेष्टानि च जारयेत् ।
अनेकविधिना सूतं चतुःषष्ट्यंशकादिना ।
द्वात्रिंशत् षोडशांशेन जारयेत् कनकं बुधः ।। रम- २.१० ।।

[संपादित करें] रसमारणं

द्विपलं शुद्धसूतं च सूतार्धं शुद्धगन्धकम् ।
कन्यानीरेण संमर्द्य दिनमेकं निरन्तरम् ।। रम- २.११ ।।

रुद्ध्वा तद्भूधरे यन्त्रे दिनैकं मारयेत् पुटान् ।

[संपादित करें] रसमारण (२)

भुजङ्गवल्लीनीरेण मर्दितं पारदं दृढम् ।। रम- २.१२ ।।

कर्कोटीकन्दमृन्मूषासम्पुटस्थं पुटे गजे ।
भस्म तद्योगवाहि स्यात्सर्वकर्मसु योजयेत् ।। रम- २.१३ ।।

[संपादित करें] रसमारण (३)

श्वेताङ्कोलजटावारि मर्द्यः सूतो दिनत्रयम् ।
पुटितश्चान्धमूषायां सूतो भस्मत्वमाप्नुयात् ।। रम- २.१४ ।।

प्रत्यहं रक्तिकापञ्च भक्षयेन्मधु सर्पिषा ।
को वा तस्य गुणान् वक्तुं भुवि शक्नोति मानवः ।। रम- २.१५ ।।

[संपादित करें] रससिन्दूरनिर्माण (१)

पलमत्र रसं शुद्धं तावन्मात्रं सुगन्धकम् ।
विधिवत् कज्जलीं कृत्वा न्यग्रोधाङ्कुरवारिभिः ।। रम- २.१६ ।।

भावनात्रितयं दत्त्वा स्थालीमध्ये निधापयेत् ।
विरच्य कवचीयन्त्रं वालुकाभिः प्रपूरयेत् ।। रम- २.१७ ।।

जायते रससिन्दूरं तरुणारुणसन्निभम् ।
अनुपानविशेषेण करोति विविधान् गुणान् ।। रम- २.१८ ।।

[संपादित करें] रससिन्दूर (२)

गन्धकेन समः सूतो निर्गुण्डीरसमर्दितः ।
पाचितो वालुकायन्त्रे रक्तं भस्म प्रजायते ।। रम- २.१९ ।।

[संपादित करें] रससिन्दूर

सूतार्द्धं गन्धकं शुद्धं माक्षिकोद्भूतसत्त्वकम् ।
गन्धतुल्यं विमर्द्याथ दिनं निर्गुण्डिकाद्रवैः ।। रम- २.२० ।।

स्थापयेद्वालुकायन्त्रे काचकूप्यां विपाचयेत् ।
अन्धमूषागतं वाथ वालुकायन्त्रके दिनम् ।। रम- २.२१ ।।

पक्वं संजायते भस्म दाडिमीकुसुमोपमम् ।

[संपादित करें] रससिन्दूर

पृथक् समं समं कृत्वा पारदं गन्धकं तथा ।। रम- २.२२ ।।

नवसारं धूमसारं स्फटिकीं याममात्रके ।
निम्बुनीरेण संमर्द्य काचकुप्यां विपाचयेत् ।। रम- २.२३ ।।

मुखे पाषाणवटिकां दत्त्वा मुद्रां प्रलेपयेत् ।
सप्तभिर् मृत्तिकावस्त्रैः पृथक् संशोष्य वेष्टयेत् ।। रम- २.२४ ।।

सच्छिद्रायां मृदः स्थाल्यां कूपिकां संनिवेशयेत् ।
पूरयेत् सिकतापुरैर् आ गलं मतिमान् भिषक् ।। रम- २.२५ ।।

निवेश्य चुल्ल्यां दहनं मन्दमध्यखरं क्रमात् ।
प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतलम् उद्धरेत् ।। रम- २.२६ ।।

स्फोटयित्वा पुनः स्थालीमूर्ध्वगं गन्धकं त्यजेत् ।
अधस्थं रससिन्दूरं सर्वकर्मसु योजयेत् ।। रम- २.२७ ।।

[संपादित करें] रससिन्दूर

गन्धकं धूम [... औ१ Zएइछेन्झ्] रं च शुद्धसूतं समं समम् ।
यामैकं मर्दयेत्खल्वे काचकुप्यां निवेशयेत् ।। रम- २.२८ ।।

रुद्ध्वा द्वादशयामं तु वालुकायन्त्रगं पचेत् ।
स्फोटयेत् स्वाङ्गशीतं तमूर्ध्वलग्नं तु तं त्यजेत् ।
अधस्थं मृतसूतं च सर्वयोगेषु योजयेत् ।। रम- २.२९ ।।

[संपादित करें] रससिन्दूर

भागौ रसस्य त्रय एव भागा गन्धस्य भागं पवनासनस्य ।
संमर्द्य गाढं सकलं सुभाण्डे तां कज्जलीं काचकृते विदध्यात् ।। रम- २.३० ।।

संवेष्ट्य मृत्कर्पटकैः स्वयं तां मुखे सुचूर्णां खटिकां च कृत्वा ।
क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायन्त्रगतां ततः स्यात् ।। रम- २.३१ ।।

बन्धूकपुष्पारुणम् ईशजस्य भस्म प्रयोज्यं सकलामयेषु ।
निजानुपानैर् मरणं जरां च निहन्ति वल्लक्रमसेवनेन ।। रम- २.३२ ।।

[संपादित करें] रससिन्दूर

पक्वमूषागतं सूतं गन्धकं चाधरोत्तरम् ।
तुल्यं सुचूर्णितं कृत्वा काकमाचीद्रवं पुनः ।। रम- २.३३ ।।

द्वाभ्यां चतुर्गुणं देयं द्रवं मूषां निरुध्य च ।
पाचयेद् वालुकायन्त्रे क्रमवृद्धाग्निना दिनम् ।
आरक्तं जायते भस्म सर्वयोगेषु योजयेत् ।। रम- २.३४ ।।

[संपादित करें] रससिन्दूर

अश्वगन्धादिवर्गेण रसं स्वेद्यं प्रयत्नतः ।
रसतुल्यं गन्धकं च मर्दयेत् कुशलो भिषक् ।। रम- २.३५ ।।

पाचयेद्रससिन्दूरं जायतेऽरुणसन्निभम् ।
श्रेष्ठं सर्वरसानां हि पुष्टिकामबलप्रदम् ।। रम- २.३६ ।।

इदमेवायुषो वृद्धिं कर्तुं नान्यदलं भवेत् ।
विनापि स्वर्णराजेन मुनिभिः परिकीर्तितम् ।। रम- २.३७ ।।

[संपादित करें] रसकर्पूर

टङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः ।
मर्दयेद् भृङ्गजैर्द्रावैर्दिनैकं वा धमेत् पुनः ।। रम- २.३८ ।।

ध्मातो भस्मत्वमायाति शुद्धः कर्पूरसन्निभः ।

[संपादित करें] रसकर्पूर

खटीष्टिगैरिकावल्मीमृत्तिका सैन्धवं समम् ।। रम- २.३९ ।।

भागद्वयमितो गन्धो रसभागद्वयं स्मृतम् ।
हण्डिकायां विनिःक्षिप्य पार्श्वे पार्श्वे च खर्पटान् ।। रम- २.४० ।।

दग्ध्वाथ हण्डिकां दत्त्वा द्विरष्टप्रहरं पचेत् ।
मृतसूतं तु गृह्णीयाच्छुद्धः कर्पूरसन्निभम् ।। रम- २.४१ ।।

कल्कादिवेष्टितं कृत्वा निर्गिलेद् उपदंशके ।

[संपादित करें] रसकर्पूर

पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुनानेकशः सूतं धातुयुतं खटीकवलितं तं सम्पुटे रोधयेत् ।
अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्णिं हठात् भस्म ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ।। रम- २.४२ ।।

तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रभुक्तं नृणाम् ऊर्ध्वं रेचयति द्वियाममसकृत्पेयं जलं शीतलम् ।
एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ।। रम- २.४३ ।।

[संपादित करें] रसमूर्छन

मेघनादवचाहिङ्गुलशुनैर् मर्दयेद् रसम् ।
नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ।। रम- २.४४ ।।

पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्णिना ।
ऊर्ध्वलग्नं समादाय दृढं वस्त्रेण वेष्टयेत् ।। रम- २.४५ ।।

ऊर्ध्वाधो गन्धकं तुल्यं दत्त्वा सौम्यानले पचेत् ।
जीर्णे गन्धे पुनर्देयं षड्भिर् वारैः समं समम् ।। रम- २.४६ ।।

षड्गुणे गन्धके जीर्णे मूर्छितो रोगहा भवेत् ।

[संपादित करें] रसमूर्छन

लोहपात्रेऽथवा ताम्रे पलैकं शुद्धगन्धकम् ।। रम- २.४७ ।।

मृद्वग्निना द्रुते तस्मिञ्छुद्धं सूतपलत्रयम् ।
क्षिप्त्वाथ चालयेत् किंचिल्लोहदर्व्या पुनः पुनः ।। रम- २.४८ ।।

गोमयं कदलीपत्रं तस्योपरि च ढालयेत् ।
इत्येवं गन्धबद्धं च सर्वरोगेषु योजयेत् ।। रम- २.४९ ।।

मारितो देहसिद्ध्यर्थं मूर्छितो व्याधिघातने ।
रसभस्म क्वचिद्रोगे देहार्थं मूर्छितं क्वचित् ।
बद्धो द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ।। रम- २.५० ।।

[संपादित करें] बद्धपारदलक्षणानि

अक्षयी च लघुर्द्रावी तेजस्वी निर्मलो गुरुः ।
स्फुटनं पुनरावृत्तिर्बद्धसूतस्य लक्षणम् ।। रम- २.५१ ।।

[संपादित करें] मूर्छितपारदलक्षणानि

कज्जलाभो यदा सूतो विहाय घनचापलम् ।
दृश्यतेऽसौ तदा ज्ञेयो मूर्छितः सुतरां बुधैः ।। रम- २.५२ ।।

[संपादित करें] मृतपारदलक्षणानि

आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् ।
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ।। रम- २.५३ ।।

[संपादित करें] निर्बीजबद्धपारदः

रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितं क्रमेण निर्बीजनामाखिलरोगहन्ता ।। रम- २.५४ ।।

[संपादित करें] सबीजबद्धपारदः

बीजीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः सह साधितोऽयम् ।
पुनस्ततः षड्गुणगन्धचूर्णैः सबीजबद्धो ऽप्यधिकप्रभावः ।। रम- २.५५ ।।

रसवीर्यविपाकेषु विद्यात्सूतं सुधामयम् ।
सेवितोऽसौ सदा देहे रोगनाशाय कल्पते ।। रम- २.५६ ।।

[संपादित करें] ककाराष्टक

कूष्माण्डं कर्कटीं चैव कलिङ्गं कारवेल्लकम् ।
कुसुम्भिकं च कर्कोटीं कदलीं काकमाचिकाम् ।। रम- २.५७ ।।

ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
हितं मुद्गाम्बुदुग्धाज्यं शाल्यन्नं च विशेषतः ।। रम- २.५८ ।।

शाकं पुनर्नवायास्तु मेघनादं च चिल्लिकाम् ।
सैन्धवं नागरं मुस्तं पद्ममूलानि भक्षयेत् ।। रम- २.५९ ।।

अभ्यङ्गं मैथुनं स्नानं यथेष्टं च सुखाम्बुना ।
रूपयौवनसम्पन्नां सानुकूलां प्रियां भजेत् ।। रम- २.६० ।।

बुद्धिः प्रज्ञा बलं कान्तिः प्रभा चैवं वयस्तथा ।
वर्धन्ते सर्व एवैते रससेवाविधौ नृणाम् ।। रम- २.६१ ।।

यस्य रोगस्य यो योगस्तेनैव सह योजयेत् ।
रसेन्द्रो हरते रोगान्नरकुञ्जरवाजिनाम् ।। रम- २.६२ ।।


[संपादित करें] रसमञ्जरी , ३

[संपादित करें] उपरसाः

गन्धकं वज्रवैक्रान्तं गगनं तालकं शिलाम् ।
खर्परं शिखितुत्थं च विमला हेममाक्षिकम् ।। रम- ३.१ ।।

कासीसं कान्तपाषाणं वराटाञ्जनहिङ्गुलम् ।
कङ्कुष्ठं शंखभूनागं टङ्कणं तु शिलाजतु ।। रम- ३.२ ।।

एते उपरसाः प्रोक्ताः शोध्या द्राव्याश्च मारयेत् ।

[संपादित करें] गन्धक

तत्रादौ गन्धकोत्पत्तिं शोधनं त्वथ कथ्यते ।। रम- ३.३ ।।

श्वेतद्वीपे पुरा देव्याः क्रीडन्त्याः प्रसृतं रजः ।
क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ।। रम- ३.४ ।।

धौतं यत् सलिले तस्मिन् गन्धवद्गन्धकं स्मृतम् ।
चतुर्धा गन्धकः प्रोक्तो रक्तपीतसितासितैः ।। रम- ३.५ ।।

रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने ।
व्रणादिलेपने श्वेतः श्रेष्ठः कृष्णस्तु दुर्लभः ।। रम- ३.६ ।।

अशुद्धगन्धः कुरुतेऽतिकुष्ठं तापं भ्रमं पित्तरुजं करोति ।
रूपं सुखं वीर्यबलं निहन्ति तस्मात् सुशुद्धं विनियोजनीयम् ।। रम- ३.७ ।।

[संपादित करें] गन्धकशोधनम् (१)

साज्यभाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे गन्धकं क्षिप्त्वा शरावेणावरोधयेत् ।। रम- ३.८ ।।

भाण्डं निक्षिप्य भूम्यां तदूर्ध्वं देयं पुटं लघु ।
ततः क्षीरेण गन्धं च शुद्धं योगेषु योजयेत् ।। रम- ३.९ ।।

[संपादित करें] गन्धकशोधनम् (२)

गन्धकं शोधयेद् दुग्धे दोलायन्त्रेण तत्त्ववित् ।
तेन शुद्धो भवत्येष धातूणां प्राणमूर्छकः ।। रम- ३.१० ।।

[संपादित करें] गन्धकशोधनम् (३)

घृतयुक्तम् अयोदर्व्या गन्धं वह्णौ प्रगालयेत् ।
एकीभूतं ततो गन्धं दुग्धमध्ये परिक्षिपेत् ।। रम- ३.११ ।।

तेन शुद्धो भवेद्गन्धः सर्वयोगेषु योजयेत् ।
शोधितो रसराजः स्याज्जरामृत्युरुजापहः ।
अग्निसंदीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ।। रम- ३.१२ ।।

[संपादित करें] गन्धकतैल

अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु तत् ।। रम- ३.१३ ।।

तद्वर्तिर्ज्वलिता वंशैर्धृता धार्या त्वधोमुखी ।। रम- ३.१४ ।।

तैलं पतत्यधो भाण्डे ग्राह्यं योगेषु योजयेत् ।
अग्निसंदीपनं श्रेष्ठं वीर्यवृद्धिं करोति च ।। रम- ३.१५ ।।

[संपादित करें] हीरक

श्वेतपीता रक्तकृष्णा द्विजाद्या वज्रजातयः ।
पुंस्त्रीनपुंसकं चेति लक्षणेन तु लक्षयेत् ।। रम- ३.१६ ।।

वृत्ताः फलकसम्पूर्णास् तेजोवन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ।। रम- ३.१७ ।।

रेखाबिन्दुसमायुक्ताः षट्कोणास्ताः स्त्रियः स्मृताः ।
त्रिकोणाः पत्रवद्दीर्घा विज्ञेयास्ते नपुंसकाः ।। रम- ३.१८ ।।

सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणं स्यान्नपुंसकम् ।। रम- ३.१९ ।।

विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।
वादादौ वैश्यजातीयो वयःस्तम्भे तुरीयकः ।। रम- ३.२० ।।

स्त्री तु स्त्रिये प्रदातव्या क्लीबे क्लीबं तथैव च ।
सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ।। रम- ३.२१ ।।

पाण्डुरोगं पार्श्वपीडां किलासं दाहसन्ततिम् ।
रोगानीकं गुरुत्वं च धत्ते वज्रम् अशोधितम् ।। रम- ३.२२ ।।

[संपादित करें] वज्रशोधनम् (१)

व्याघ्रीकन्दगतं वज्रं दोलायन्त्रे विपाचितम् ।
सप्ताहं कोद्रवक्वाथे कौलत्थे विमलं भवेत् ।। रम- ३.२३ ।।

[संपादित करें] वज्रशोधनम् (२)

व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्चेत् कुलिशं विमलं भवेत् ।। रम- ३.२४ ।।

[संपादित करें] वज्रमारणं (१)

त्रिवर्षारूढकार्पासमूलम् आदाय पेषयेत् ।
त्रिवर्षनागवल्ल्याश्च द्रावेण तं प्रपेषयेत् ।। रम- ३.२५ ।।

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटं कृत्वा कुलिशं म्रियते ध्रुवम् ।। रम- ३.२६ ।।

[संपादित करें] वज्रमारण (२)

कांस्यपात्रे तु भेकस्य मूत्रे वज्रं सुभावयेत् ।
त्रिः सप्तकृत्वः संतप्तं वज्रमेव मृतं भवेत् ।। रम- ३.२७ ।।

[संपादित करें] वज्रमारण (३)

त्रिः सप्तकृत्वः संतप्तं खरमूत्रेण सेचयेत् ।
मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ।। रम- ३.२८ ।।

प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै ।
भस्मीभवति तद्भुक्तं वज्रवत्कुरुते तनुम् ।। रम- ३.२९ ।।

आयुष्यं सौख्यजनकं बलदं रूपदं तथा ।
रोगघ्नं मृत्युहरणं वज्रभस्म भवत्यलम् ।। रम- ३.३० ।।

[संपादित करें] वैक्रान्त

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ।। रम- ३.३१ ।।

श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ।। रम- ३.३२ ।।

[संपादित करें] वैक्रान्तशोधनम्

वैक्रान्तं वज्रवच्छुद्धं ध्मातं तं हयमूत्रके ।
हितं तद्भस्म संयोज्यं वज्रस्थाने विचक्षणैः ।। रम- ३.३३ ।।

आयुःप्रदः सकलबन्धकरो ऽतिवृष्यः प्रज्ञाप्रदः सकलरोगसमूलहारी ।
दीप्ताग्निकृत् पविसमानगुणस् तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ।। रम- ३.३४ ।।

[संपादित करें] वैक्रान्तसत्त्वपातनम्

वैक्रान्तं वज्रकन्दे च पेषयेद् वज्रवारिणा ।
माहिषं नवनीतं च सक्षौद्रं पिण्डितं ततः ।। रम- ३.३५ ।।

शोषयित्वा धमेत् सत्त्वं इन्द्रगोपसमं भवेत् ।

[संपादित करें] अभ्रक

पिनाकं दर्दुरं नागं वज्रमभ्रं चतुर्विधम् ।
ध्मातं वह्णौ दलचयं पिनाकं विसृजत्यलम् ।। रम- ३.३६ ।।

फूत्कारं नागवत् कुर्यात् दर्दुरं भेकशब्