विद्यासागरोक्तमपि साधु।

विकिपुस्तकानि तः

प्र.- टिप्पणीं लिखत- विद्यासागरोक्तमपि साधु।
उ.
सन्दर्भ:-
अंशित्वनिरूपणप्रकरणस्यान्ते ग्रन्थकारेण प्रपञ्चमिथ्यात्वप्रतिपादकं विद्यासागरोक्तम् अनुमानमा अनूद्य अग्रे तत्समर्थितं,
‘विद्यासागरोक्तमपि साधु’ इति।

स्पष्टीकरणम्
विद्यासागरोक्तमनुमानमेवम्-
विमतं ज्ञानव्यतिरेकेण असत्, ज्ञानव्यतिरेकेण अनुपलभ्यमानत्वात्, स्वप्नादिवत्
अत्र साध्यम्- ज्ञानव्यतिरेकेण असत्त्वम् ।एतत् पञ्चसु मिथ्यात्वेषु अन्यतममेव।
हेतु:- ज्ञानव्यतिरेकेण अनुपलभ्यमानत्वम्।
चिदाभासे सत्येव उपलभ्यमानत्वम् इत्यर्थ:।चिदाभास: इति उपाधिविशिष्टं चैतन्यम्।

लघूत्तरप्रश्ना: