व्याकरणमहाभाष्य खण्ड 05

विकिपुस्तकानि तः



(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१/३५) किम् उदाहरणम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२/३५) प्रियविश्वाय ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३/३५) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-४/३५) सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-५/३५) वक्ष्यति च एतत् ॒ बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-६/३५) तत्र विश्वप्रियाय इति भवितव्यम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-७/३५) इदम् तर्हि ॒ द्व्यन्याय त्र्यन्याय ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-८/३५) ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-९/३५) न एषः दोषः ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१०/३५) वक्ष्यति एतत् ॒ सङ्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात् तत्र सङ्ख्यायाः पूर्वनिपातः भवति इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-११/३५) इदम् च अपि उदाहरणम् प्रियविश्वाय ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१२/३५) ननु च उक्तम् विश्वप्रियाय इति भवितव्यम् इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१३/३५) वक्ष्यति एतत् ॒ वा प्रियस्य इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१४/३५) न खलु अपि अवश्यम् सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१५/३५) किम् तर्हि ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१६/३५) असर्वाद्यन्तस्य अपि भवितव्यम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१७/३५) किम् प्रयोजनम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१८/३५) अकच् मा भूत् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-१९/३५) किम् च स्यात् यदि अकच् स्यात् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२०/३५) कः न स्यात् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२१/३५) कः च इदानीम् काकचोः विशेषः ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२२/३५) व्यञ्जनान्तेषु विशेषः ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२३/३५) अहकम् पिता अस्य मकत्पितृकः , त्वकम् पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२४/३५) कथम् पुनः इच्छता अपि भवता बहिरङ्गेन प्रतिषेधेन अन्तरङ्गः विधिः शख्यः बाधितुम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२५/३५) अन्तरङ्गान् अपि विधीन् बहिरङ्गः विधिः बाधते गोमत्प्रियः इति यथा ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२६/३५) क्रियते तत्र यत्नः ॒ प्रत्ययोत्तरपदयोः च इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२७/३५) ननु च इह अपि क्रियते ॒ न बहुव्रीहौ इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२८/३५) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-२९/३५) किम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३०/३५) प्रियविश्वाय ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३१/३५) उपसर्जनप्रतिषेधेन अपि एतत् सिद्धम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३२/३५) अयम् खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३३/३५) अस्ति तादर्थ्यात् ताच्छब्द्यम् ॒ बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३४/३५) तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् ।

(पा-१,१.२९.१) ९१.२-२१; रो-१,२९१-२९३; भा-३५/३५) गोनर्दीयः आह अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गम् मुक्तसंशयौ । त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यम् इति ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-१/९) प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-२/९) प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-३/९) आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-४/९) प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानानर्थक्यम् पूर्वादीनाम् व्यवस्थायाम् इति वचनात् ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-५/९) प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् नर्थकम् ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-६/९) किम् कारणम् ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-७/९) पूर्वादीनाम् व्यवस्थायाम् इति वचनात् ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-८/९) पूर्वादीनाम् व्यवस्थायाम् सर्वनामस्ञ्ज्ञा उच्यते ।

(पा-१,१.२९.२; अकि-१,९१.२२-९२.५; रो-१,२९३-२९४; भा-९/९) न च अत्र व्यवस्था गम्यते ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-१/१२) समासे इति वर्तमाने पुनः समासग्रहणम् किमर्थम् ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-२/१२) अयम् तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-३/१२) अस्ति तादर्थ्यात् ताच्छब्द्यम् ॒ तृतीयासमासार्थानि पदानि तृतीयासमासः इति ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-४/१२) तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-५/१२) अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत् प्रयोजनम् ॒ योगाङ्गम् यथा उपजायेत ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-६/१२) सति योगाङ्गे योगविभागः करिष्यते ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-७/१२) तृतीया ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-८/१२) तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-९/१२) मासपूर्वाय देहि संवत्सरपूर्वाय देहि ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-१०/१२) ततः असमासे ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-११/१२) असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति ।

(पा-१,१.३०; अकि-१,९२. ७-१४; रो-१,२९४; भा-१२/१२) मासेन पूर्वाय इति

(पा-१,१.३२; अकि-१,९२.१६; रो-१,२९५; भा-१/१) जसः कार्यम् प्रति विभाषा , अकच् हि न भवति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१/१८) अवरादीनाम् च पुनः सूत्रपाठे ग्रहणानर्थक्यम् गणे पठितत्वात् ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-२/१८) अवरादीनाम् च पुनः सूत्रपाठे ग्रहणम् अनर्थकम् ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-३/१८) किम् कारणम् ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-४/१८) गणे पठितत्वात् ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-५/१८) गणे हि एतानि पठ्यन्ते ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-६/१८) कथम् पुनः ज्ञायते सः पूर्वः पाठः अयम् पुनः पाठः इति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-७/१८) तानि हि पूर्वादीनि इमानि अवरादीनि ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-८/१८) इमानि अपि पूर्वादीनि ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-९/१८) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति सः पूर्वः पाठः अयम् पुनः पाठः इति यत् अयम् पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणम् करोति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१०/१८) नव एव पूर्वादीनि ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-११/१८) इदम् तर्हि प्रयोजनम् ॒ व्यवस्थायाम् असञ्ज्ञायाम् इति वक्ष्यामि इति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१२/१८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१३/१८) एवंविशिष्टानि एव एतानि गणे पठ्यन्ते ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१४/१८) इदम् तर्हि प्रयोजनम् द्व्यादिपर्युदासेन पर्युदासः मा भूत् इति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१५/१८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१६/१८) आचार्यप्रवृत्तिः ज्ञापयति न एषाम् द्व्यादिपर्युदासेन पर्युदासः भवति इति यत् अयम् पूर्वत्र असिद्धम् इति निपातनम् करोति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१७/१८) वार्त्तिककारः च पठति ॒ जश्भावात् इति चेत् उत्तरत्र अभावात् अपवादप्रसङ्गः इति ।

(पा-१,१.३४; अकि-१,९२.१९-९३.६; रो-१,२९५-२९७; भा-१८/१८) इदम् तर्हि प्रयोजनम् जसि विभाषाम् वक्ष्यामि इति ।

(पा-१,१.३५; अकि-१,९३.८-९; रो-१,२९७-२९८; भा-१/३) आख्याग्रहणम् किमर्थम् ।

(पा-१,१.३५; अकि-१,९३.८-९; रो-१,२९७-२९८; भा-२/३) ज्ञातिधनपर्यायवाची यः स्वशब्दः तस्य यथा स्यात् ।

(पा-१,१.३५; अकि-१,९३.८-९; रो-१,२९७-२९८; भा-३/३) इह मा भूत् ॒ स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-१/१०) उपसंव्यानग्रहणम् अनर्थकम् बहिर्योगेण कृतत्वात् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-२/१०) उपसंव्यानग्रहणम् अनर्थकम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-३/१०) किम् कारणम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-४/१०) बहिर्योगेण कृतत्वात् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-५/१०) बहिर्योगे इति एव सिद्धम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-६/१०) न वा शाटकयुगाद्यर्थम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-७/१०) न वा अनर्थकम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-८/१०) किम् कारणम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-९/१०) शाटकयुगाद्यर्थम् ।

(पा-१,१.३६.१; अकि-१,९३.११-१७; रो-१,२९८-२९९; भा-१०/१०) शाटकयुगाद्यर्थम् तर्हि इदम् वक्तव्यम् यत्र एतत् न ज्ञायते किम् अन्तरीयम् किम् उत्तरीयम् इति. अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातम् तस्य भवति इदम् अन्तरीयम् इदम् उत्तरीयम् इति ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-१/७) अपुरि इति वक्तव्यम् ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-२/७) इह मा भूत् ॒ अन्तरायाम् पुरि वसति इति ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-३/७) वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् । वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् कर्तव्यम् ॒ द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-४/७) विभाषा द्वितीयातृतीयाभ्याम् इति एतत् न वक्तव्यम् भवति ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-५/७) किम् पुनः अत्र ज्यायः ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-६/७) उपसङ्ख्यानम् एव अत्र ज्यायः ।

(पा-१,१.३६.२) पा-. ई.९३.१८-२३; रो-१,२९९; भा-७/७) इदम् अपि सिद्धम् भवति ॒ द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-१/११) किमर्थम् पृथक् ग्रहणम् स्वरादीनाम् क्रियते न चादिषु एव पठ्येरन् ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-२/११) चादीनाम् वै असत्त्ववचनानाम् निपातसञ्ज्ञा स्वरादीनाम् पुनः सत्त्ववचनानाम् असत्त्ववचनानाम् च ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-३/११) अथ किमर्थम् उभे सञ्ज्ञे क्रियेते न निपात्सञ्ज्ञा एव स्यात् ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-४/११) न एवम् शक्यम् ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-५/११) निपातः एकाच् अनाङ् इति प्रगृह्यसञ्ज्ञा उक्ता ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-६/११) सा स्वरादीनाम् अपि एकाचाम् प्रसज्येत ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-७/११) एवम् तर्हि अव्ययसञ्ज्ञा एव अस्तु ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-८/११) तत् च अशक्यम् ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-९/११) वक्ष्यति एतत् ॒ अव्यये नञ्कुनिपातानाम् इति ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-१०/११) तत् गरीयसा न्यासेन परिगणनम् कर्तव्यम् स्यात् ।

(पा-१,१.३७; अकि-१,९४.२-८; रो-१,२९९-३००; भा-११/११) तस्मात् पृथक् ग्रहणम् कर्तव्यम् उभे च सञ्ज्ञे कर्तव्ये ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-१/१२) असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-२/१२) असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् कर्तव्यम् ॒ नाना विना ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-३/१२) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-४/१२) सर्वविभक्तिः हि अविशेषात् । सर्वविभक्तिः हि एषः भवति ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-५/१२) किम् कारणम् ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-६/१२) अविशेषात् ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-७/१२) अविशेषेण विहितत्वात् ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-८/१२) त्रलादीनाम् च उपसङ्ख्यानम् ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-९/१२) त्रलादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-१०/१२) तत्र यत्र ततः यतः ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-११/१२) ननु च विशेषेण एते विधीयन्ते ॒ पञ्चम्याः तसिल् सप्तम्याः त्रल् इति ।

(पा-१,१.३८.१; अकि-१,९४.१०-१९; रो-१,३००-३०१; भा-१२/१२) वक्ष्यति एतत् ॒ इतराभ्यः अपि दृश्यन्ते इति ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१/२३) यदि पुनः अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति उच्येत ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-२/२३) अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-३/२३) अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः सञ्ज्ञायाः ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-४/२३) का इतरेतराश्रयता ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-५/२३) सति अविभक्तित्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अविभक्तित्वम् भाव्यते ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-६/२३) तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-७/२३) अलिङ्गम् असङ्ख्यम् इति वा ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-८/२३) अथ वा अलिङ्गम् असङ्ख्यम् अव्ययम् इति वक्तव्यम् ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-९/२३) एवम् अपि इतरेतराश्रयम् एव भवति ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१०/२३) का इतरेतराश्रयता ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-११/२३) सति अलिङ्गासङ्ख्यत्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अलिङ्गासङ्ख्यत्वम् भाव्यते ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१२/२३) तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१३/२३) न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता च ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१४/२३) किम् तर्हि ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१५/२३) स्वाभाविकम् एतत् ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१६/२३) तत् यथा ॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१७/२३) तत्र किम् अस्माभिः कर्तुम् शक्यम् ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१८/२३) स्वाभाविकम् एतत् ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-१९/२३) तत् तर्हि वक्तव्यम् अलिङ्गम् असङ्ख्यम् इति ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-२०/२३) न वक्तव्यम् ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-२१/२३) सिद्धम् तु पाठात् ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-२२/२३) पाठात् वा सिद्धम् एतत्. कथम् पाठः कर्तव्यः ।

(पा-१,१.३८.२; अकि-१,९४.१८-९५.११; रो-१,३०२-३०३; भा-२३/२३) तसिलादयः प्राक् पासपः , शस्प्रभृतयः प्राक् समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , नानाञौ इति ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-१/१४) अथ वा पुनः अस्तु अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति एव ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-२/१४) ननु च उक्तम् अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः इति ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-३/१४) न एषः दोषः ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-४/१४) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-५/१४) यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् शब्दाञ् प्रयुञ्जते ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् शब्दान् प्रयुञ्जते इति ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-६/१४) अभिज्ञाः च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-७/१४) आतः च अभिज्ञाः ॒ अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-८/१४) अभिज्ञाः च न च प्रयुञ्जते ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-९/१४) तत् एतत् एवम् सन्दृश्यताम् ॒ अर्थरूपम् एतत् एवञ्जातीयकम् येन अत्र विभक्तिः न भवति इति ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-१०/१४) तत् च अपि एतत् एवम् अनुगम्यमानम् दृश्यताम् ॒ किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-११/१४) उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-१२/१४) तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-१३/१४) तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः ।

(पा-१,१.३८.३; अकि-१,९५.१२-२२; रो-१,३०३-३०४; भा-१४/१४) न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१/१६) अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-२/१६) कथम् ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-३/१६) इदम् च अपि अद्यत्वे अतिबहु क्रियते ॒ एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-४/१६) कथम् तर्हि ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-५/१६) एकवचनम् उत्सर्गः करिष्यते ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-६/१६) तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-७/१६) न च अपि एवम् विग्रहः करिष्यते ॒ न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-८/१६) कथम् तर्हि ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-९/१६) न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१०/१६) त्रिकम् पुनः विभक्तिसञ्ज्ञम् ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-११/१६) एवम् गते कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१२/१६) ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१३/१६) कृत्तद्धितानाम् ग्रहणम् तु कार्यम् सङ्ख्याविशेषम् हि अभिनिश्रिताः ये ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१४/१६) तेषाम् प्रतिषेधः भवति इति वक्तव्यम् ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१५/१६) इह मा भूत् ॒ एकः , द्वौ , बहवः इति ।

(पा-१,१.३८.४; अकि-१,९५.२३-९६.५; रो-१,३०४-३०७; भा-१६/१६) तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१/२२) पाठेन इयम् अव्ययसञ्ज्ञा क्रियते ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-२/२२) सा इह न प्राप्नोति ॒ परमोच्चैः , परमनीचैः इति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-३/२२) तदन्तविधिना भविष्यति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-४/२२) इह अपि तर्हि प्राप्नोति ॒ अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-५/२२) उपसर्जनस्य न इति प्रतिषेधः भविष्यति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-६/२२) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-७/२२) न वक्तव्यः ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-८/२२) सर्वनामसञ्ज्ञायाम् प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-९/२२) सः वै तत्र प्रत्याख्यायते ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१०/२२) यथा सः तत्र प्रत्याख्यायते इह अपि तथा शक्यः प्रत्याख्यातुम् ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-११/२२) कथम् सः तत्र प्रत्याख्यायते ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१२/२२) महती इयम् सञ्ज्ञा क्रियते ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१३/२२) इयम् अपि च महती सञ्ज्ञा क्रियते ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१४/२२) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१५/२२) कुतः एतत् ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१६/२२) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१७/२२) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ॒ न व्येति इति अव्ययम् इति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१८/२२) क्व पुनः न व्येति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-१९/२२) स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-२०/२२) एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-२१/२२) ये न वियन्ति तद् अव्ययम् ।

(पा-१,१.३८.५; अकि-१,९६.६-१७; रो-१,३०७-३०८; भा-२२/२२) सदृशम् त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१/२२) कथम् इदम् विज्ञायते ॒ कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-२/२२) किम् च अतः ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-३/२२) यदि विज्ञायते कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-४/२२) अथ विज्ञायते कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-५/२२) यथा इच्छसि तथा अस्तु ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-६/२२) अस्तु तावत् कृत् यः मान्तः इति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-७/२२) कथम् कारयाम् चकार हारयाम् चकार इति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-८/२२) किम् पुनः अत्र अव्ययसञ्ज्ञया प्रार्थ्यते ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-९/२२) अव्ययात् इति लुक् यथा स्यात् ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१०/२२) मा भूत् एवम् ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-११/२२) आमः इति एवम् भविष्यति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१२/२२) न सिध्यति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१३/२२) लिग्रहणम् तत्र अनुवर्तते ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१४/२२) लिग्रहणम् निवर्तिष्यते ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१५/२२) यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१६/२२) इष्यते च प्रत्ययमात्रस्य ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१७/२२) आतः च इष्यते ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१८/२२) एवम् हि आह ॒ कृञ् च अनुप्रयुज्यते लिटि इति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-१९/२२) यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-२०/२२) अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-२१/२२) कथम् प्रतामौ प्रतामः इति ।

(पा-१,१.३९.१; अकि-१,९६.१९-९७.२; रो-१,३०८-३१०; भा-२२/२२) आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन अव्ययसञ्ज्ञा भवति इति यत् अयम् प्रशान्शब्दम् स्वरादिषु पठति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१/१२३) कृत् मेजन्तः च अनिकारोकारप्रकृतिः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२/१२३) कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३/१२३) इह मा भूत् ॒ आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४/१२३) अनन्यप्रकृतिः इति वा ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५/१२३) अथ वा अनन्यप्रकृतिः कृत् अव्ययसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६/१२३) किम् पुनः अत्र ज्यायः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७/१२३) अनन्यप्रकृतिवचनम् एव ज्यायः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८/१२३) इदम् अपि सिद्धम् भवति ॒ कुम्भकारेभ्यः , नगरकारेभ्यः इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९/१२३) तत् तर्हि वक्तव्यम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०/१२३) न वा सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११/१२३) न वा वक्तव्यम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१२/१२३) किम् कारणम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१३/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१४/१२३) कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१५/१२३) अवश्यम् एषा परिभाषा कर्तव्या ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१६/१२३) बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१७/१२३) कानि पुनः तानि ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१८/१२३) प्रयोजनम् ह्रस्वतम् तुग्विधेः ग्रामणिकुलम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१९/१२३) ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२०/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२१/१२३) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२२/१२३) बहिरङ्गम् ह्रस्वत्वम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२३/१२३) अन्तरङ्गः तुक् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२४/१२३) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२५/१२३) नलोपः वृत्रहभिः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२६/१२३) वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२७/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२८/१२३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-२९/१२३) असिद्धः नलोपः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३०/१२३) तस्य असिद्धत्वात् न भविष्यति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३१/१२३) उदुपधत्वम् अकित्त्वस्य निकुचिते ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३२/१२३) उदुपधत्वम् अकित्त्वस्य अनिमित्तम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३३/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३४/१२३) निकुचिते ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३५/१२३) निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३६/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३७/१२३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३८/१२३) अस्तु अत्र अकित्त्वम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-३९/१२३) न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४०/१२३) नाभावः यञि दीर्घत्वस्य अमुना ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४१/१२३) नाभावः यञि दीर्घत्वस्य अस्निमित्तम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४२/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४३/१२३) अमुना ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४४/१२३) नाभावे कृते अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४५/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४६/१२३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४७/१२३) वक्ष्यति एतत् ॒ न मु टादेशे इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४८/१२३) आत्त्वम् कित्त्वस्य उपादास्त ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-४९/१२३) आत्त्वम् कित्त्वस्य अनिमित्तम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५०/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५१/१२३) उपादास्त अस्य स्वरः शिक्षकस्य इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५२/१२३) आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५३/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५४/१२३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५५/१२३) उक्तम् एतत् ॒ दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५६/१२३) तिसृचतसृत्वम् ङीब्विधेः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५७/१२३) तिसृचतसृत्वम् ङीब्विधेः अनिमित्तम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५८/१२३) तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-५९/१२३) तिसृचतसृभावे कृते ऋन्नेभ्यः ङीप् इति ङीप् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६०/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६१/१२३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६२/१२३) आचार्यप्रवृत्तिः ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् शास्ति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६३/१२३) इमानि तर्हि प्रयोजनानि ॒ शतानि सहस्राणि ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६४/१२३) नुमि कृते ष्णान्ता षट् इत् षट्सञ्ज्ञा प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६५/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६६/१२३) शकटौ पद्धतौ ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६७/१२३) अत्त्वे कृते अतः इति टाप् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६८/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-६९/१२३) इयेष , उवोष ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७०/१२३) गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७१/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७२/१२३) तस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७३/१२३) तस्य एतस्य लक्षणस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७४/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७५/१२३) अत इञ् ॒ दाक्षिः , प्लाक्षिः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७६/१२३) न प्रत्ययः सन्निपातलक्षणः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७७/१२३) अङ्गसञ्ज्ञा तर्हि अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७८/१२३) आत्त्वम् पुग्विधेः क्रापयति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-७९/१२३) आत्त्वम् पुग्विधेः अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८०/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८१/१२३) क्रापयति इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८२/१२३) पुग् ह्रस्वत्वस्य अदीदपत् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८३/१२३) पुक् ह्रस्वत्वस्य अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८४/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८५/१२३) अदीदपत् इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८६/१२३) त्यदाद्यकारः टाब्विधेः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८७/१२३) त्यदाद्यकारः टाब्विधेः अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८८/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-८९/१२३) या सा ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९०/१२३) इड्विधिः आकारलोपस्य पपिवान् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९१/१२३) इड्विधिः आकारलोपस्य अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९२/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९३/१२३) पपिवान् तस्थिवान् इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९४/१२३) मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९५/१२३) मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९६/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९७/१२३) अग्निमान् वायुमान् परमवाचा परमवाचे ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९८/१२३) नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-९९/१२३) नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य अनिमित्तम् स्यात् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१००/१२३) क्व ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०१/१२३) नदि कुमारि किशोरि ब्राह्मणि ब्रह्मबन्धु ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०२/१२३) ह्रस्वत्वे कृते एङ्ह्रस्वात् सम्बुद्धेः इति लोपः न प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०३/१२३) मा भूत् एवम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०४/१२३) ङ्यन्तात् इति एवम् भविष्यति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०५/१२३) न सिध्यति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०६/१२३) दीर्घात् इति उच्यते ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०७/१२३) ह्रस्वान्तात् च न प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०८/१२३) इदम् इह सम्प्रधार्यम् ॒ ह्रस्वत्वम् क्रियताम् सम्बुद्धिलोपः इति किम् अत्र कर्तव्यम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१०९/१२३) परत्वात् ह्रस्वत्वम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११०/१२३) नित्यः सम्बुद्धिलोपः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१११/१२३) कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११२/१२३) अनित्यः सम्बुद्धिलोपः ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११३/१२३) न हि कृते ह्रस्वत्वे प्राप्नोति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११४/१२३) किम् कारणम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११५/१२३) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११६/१२३) एते दोषाः समाः भूयांसः वा ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११७/१२३) तस्मात् न अर्थः अनया परिभाषया ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११८/१२३) न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-११९/१२३) न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१२०/१२३) दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१२१/१२३) कुतः एतत् ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१२२/१२३) न हि दोषाणाम् लक्षणम् अस्ति ।

(पा-१,१.३९.२; अकि-१,९७.३-१००.४; रो-१,३१०-३१८; भा-१२३/१२३) तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१/३२) अव्ययीभावस्य अव्ययत्वे प्रयोजनम् लुग्मुख्स्वरोपचाराः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२/३२) अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-३/३२) लुग्मुख्स्वरोपचाराः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-४/३२) लुक् ॒ उपाग्नि प्रत्यग्नि ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-५/३२) अव्ययात् इति लुक् सिद्धः भवति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-६/३२) मुखस्वरः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-७/३२) उपाग्निमुखः , प्रत्यग्निमुखः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-८/३२) न अव्ययदिक्शब्द्गोमहत्स्थूलपृथुवत्सेभ्यः इति प्रतिषेधः सिद्धः भवति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-९/३२) उपचारः ॒ उपपयःकारः , उपपयःकामः इति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१०/३२) अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य इति प्रतिषेधः सिद्धः भवति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-११/३२) किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१२/३२) परिगणनम् इति आह ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१३/३२) अपि खलु अपि आहुः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१४/३२) यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१५/३२) किम् पुनः तत् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१६/३२) पराङ्गवद्भावः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१७/३२) पराङ्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१८/३२) सः इह अपि प्राप्नोति ॒ उपाग्नि अधीयान प्रत्यग्नि अधीयान ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-१९/३२) अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२०/३२) तत् इह अपि प्राप्नोति ॒ उपाग्निकम् , प्रत्यग्निकम् इति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२१/३२) मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२२/३२) सः इह अपि प्राप्नोति ॒ औपकुम्भम्मन्यः , उपमणिकम्मन्यः ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२३/३२) अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२४/३२) सः इह अपि प्राप्नोति ॒ उपकुम्भीभूतम् उपमणिकीभूतम् ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२५/३२) यदि परिगणनम् क्रियते न अर्थः अव्ययीभावस्य अव्ययसञ्ज्ञया ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२६/३२) कथम् यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२७/३२) न एतानि सन्ति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२८/३२) यत् तावत् उच्यते लुक् इति ॒ आचार्यप्रवृत्तिः ज्ञापयति भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् शास्ति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-२९/३२) उपचारः ॒ अनुत्तरपदस्थस्य इति वर्तते ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-३०/३२) तत्र मुखस्वरः एकः प्रयोजयति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-३१/३२) न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।

(पा-१,१.४१; अकि-१,१००.६-२६; रो-१,३१८-३२०; भा-३२/३२) यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१/२५) शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२/२५) शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति ॒ कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-३/२५) असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-४/२५) न हि नञः नपुंसकेन सामर्थ्यम्. केन तर्हि ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-५/२५) भवतिना ॒ न भवति नपुंसकस्य इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-६/२५) यत् तावत् उच्यते शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-७/२५) न अप्रतिषेधात् ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-८/२५) न अयम् प्रसज्यप्रतिषेधः ॒ नपुंसकस्य न इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-९/२५) किम् तर्हि ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१०/२५) पर्युदासः अयम् ॒ यत् अन्यत् नपुंसकात् इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-११/२५) नपुंसके अव्यापारः ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१२/२५) यदि केन चित् प्राप्नोति तेन भविष्यति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१३/२५) पूर्वेण च प्राप्नोति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१४/२५) अप्राप्तेः वा ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१५/२५) अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१६/२५) कुतः एतत् ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१७/२५) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१८/२५) पूर्वा प्राप्तिः अप्रतिषिद्धा ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-१९/२५) तया भविष्यति ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२०/२५) ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२१/२५) न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२२/२५) यत् अपि उच्यते ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२३/२५) असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२४/२५) कानि ।

(पा-१,१.४२-४३; अकि-१,१०१.२-१६; रो-१,३२०-३२२; भा-२५/२५) असूर्यम्पश्यानि मुखानि , अपुनर्गेयाः श्लोकाः , अश्राद्धभोजी ब्राह्मणः इति ।