व्याकरणमहाभाष्य खण्ड 07

विकिपुस्तकानि तः



(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१/५४) पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२/५४) तत्र वेतस्वान् इति रुः प्राप्नोति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३/५४) न एषः दोषः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४/५४) भसञ्ज्ञा अत्र बाधिका भविष्यति ॒ तसौ मत्वर्थे इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-५/५४) अकारान्तम् एतत् भसञ्ज्ञाम् प्रति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-६/५४) पदसञ्ज्ञाम् प्रति सकारान्तम् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-७/५४) ननु च एवम् विज्ञास्यते ॒ यः सम्प्रति पदान्तः इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-८/५४) कर्मसाधनस्य विधिशब्दस्य उपादाने एतत् एवम् स्यात् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-९/५४) अयम् च विधिशब्दः अस्ति एव कर्मसाधनः ॒ विधीयते विधिः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१०/५४) अस्ति भावसाधनः ॒ विधानम् विधिः इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-११/५४) तत्र भावसाधनस्य उपादाने एषः दोषः भवति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१२/५४) इह च ॒ ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै ॒ धकारस्य जश्त्वम् प्राप्नोति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१३/५४) अस्ति पुनः किम् चित् भावसाधनस्य विधिशब्दस्य उपादाने सति इष्टम् सङ्गृहीतम् आहोस्वित् दोषान्तम् एव ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१४/५४) अस्ति इति आह ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१५/५४) इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा श्रूयेत सः न श्रूयते ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१६/५४) षडिकः च अपि सिद्धः भवति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१७/५४) वाचिकः तु न सिध्यति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१८/५४) अस्तु तर्हि कर्मसाधनः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-१९/५४) यदि कर्मसाधनः षडिकः न सिध्यति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२०/५४) अस्तु तर्हि भावसाधनः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२१/५४) वाचिकः न सिध्यति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२२/५४) वाचिकषडिकौ न संवदेते ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२३/५४) कर्तव्यः अत्र यत्नः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२४/५४) कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै. उभयतः आश्रये न अन्तादिवत् इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२५/५४) कथम् वेतस्वान् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२६/५४) न एवम् विज्ञायते ॒ पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२७/५४) कथम् तर्हि ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२८/५४) पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-२९/५४) अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् जश्त्वम् च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३०/५४) किम्. भसञ्ज्ञा नाम ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३१/५४) वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति उच्यते ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३२/५४) तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३३/५४) न एषः दोषः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३४/५४) न एवम् विज्ञायते ॒ वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३५/५४) कथम् तर्हि ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३६/५४) वरे अयलोपविधिम् प्रति इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३७/५४) किम् इदम् अयलोपविधिम् प्रति इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३८/५४) अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-३९/५४) अथ वा योगविभागः करिष्यते ॒ वरे लुप्तम् न स्थानिवत् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४०/५४) ततः यलोपविधिम् च प्रति न स्थानिवत् इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४१/५४) यलोपे किम् उदाहरणम् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४२/५४) कण्डूयतेः अप्रत्ययः कण्डूः इति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४३/५४) न एतत् अस्ति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४४/५४) क्वौ लुप्तम् न स्थानिवत् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४५/५४) इदम् तर्हि ॒ सौरी बलाका ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४६/५४) न एतत् अस्ति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४७/५४) उपधात्वविधिम् प्रति न स्थानिवत् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४८/५४) इदम् तर्हि प्रयोजनम् ॒ आदित्यः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-४९/५४) न एतत् अस्ति ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-५०/५४) पूर्वत्रासिद्धे न स्थानिवत् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-५१/५४) इदम् तर्हि ॒ कण्डूतिः , वल्गूतिः ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-५२/५४) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-५३/५४) कण्डूया वल्गूया इति भवितव्यम् ।

(पा-१,१.५८.१; अकि-१,१५१.१४-१५२.१५; रो-१,४४७-४५३; भा-५४/५४) इदम् तर्हि ॒ कण्डूयतेः क्तिच् ॒ ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१/२१) प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-२/२१) प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् इति वक्तव्यम् ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-३/२१) स्वर ॒ आकर्षिकः , चिकीर्षकः , जिहीर्षकः ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-४/२१) यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति ॒ पञ्चारत्न्यः , दशारत्न्यः ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-५/२१) स्वर ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-६/२१) दीर्घ ॒ प्रतिदीव्ना प्रतिदीव्ने ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-७/२१) यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति ॒ किर्योः , गिर्योः ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-८/२१) दीर्घ ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-९/२१) यलोप ॒ ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१०/२१) यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति ॒ वाय्वोः , अध्वर्य्वोः इति ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-११/२१) तत् तर्हि वक्तव्यम् ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१२/२१) न वक्तव्यम् ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१३/२१) इह हि लोपः अपि प्रकृतः आदेशः अपि ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१४/२१) विधिग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१५/२१) दीर्घादयः अपि निर्दिश्यन्ते ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१६/२१) केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् ॒ स्वरदीर्घयलोपविधिषु लोपाजादेशः न स्थानिवत् इति ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१७/२१) आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः शक्यते कर्तुम् ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१८/२१) न च एतनि आनुपूर्व्येण सन्निविष्टानि ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-१९/२१) अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-२०/२१) तत् यथा ॒ अनड्वाहम् उदहारि या त्वम् हरसि शिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति ।

(पा-१,१.५८.२; अकि-१,१५२.१६-१५३.३; रो-१,४५३-४५४; भा-२१/२१) तस्य यथेष्तम् अभिसम्बन्धः भवति ॒ उदहारि भगिनि या त्वम् कुम्भम् हरसि शिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१/७१) क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२/७१) क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३/७१) क्वौ किम् उदाहरणम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४/७१) कण्डूयतेः अप्रत्ययः कण्डूः इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५/७१) न एतत् अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६/७१) यलोपविधिम् प्रति न स्थानिवत् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-७/७१) इदम् तर्हि ॒ पिपठिषतेः अप्रत्ययः पिपठीः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-८/७१) न एतत् अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-९/७१) दीर्घत्वम् प्रति न स्थानिवत् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१०/७१) इदम् तर्हि ॒ लावयतेः लौः , पावयतेः पौः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-११/७१) न एतत् अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१२/७१) अकृत्वा वृद्ध्यावादेशौ णिलोपः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१३/७१) प्रत्ययलक्षणेन वृद्धिः भविष्यति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१४/७१) इदम् तर्हि ॒ लवम् आचष्टे लवयति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१५/७१) लवयतेः अप्रत्ययः लौः , पौः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१६/७१) स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१७/७१) क्वौ लुप्तम् न स्थानिवत् इति भवति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१८/७१) एवम् अपि न सिध्यति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-१९/७१) कथम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२०/७१) क्वौ णिलोपः णौ अकारलोपः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२१/७१) तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२२/७१) न एषः दोषः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२३/७१) न एवम् विज्ञायते ॒ क्वौ लुप्तम् न स्थानिवत् इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२४/७१) कथम् तर्हि ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२५/७१) क्वौ विधिम् प्रति न स्थानिवत् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२६/७१) लुकि किम् उदाहरणम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२७/७१) बिम्बम् , बदरम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२८/७१) न एतत् अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-२९/७१) पुंवद्भावेन अपि एतत् सिद्धम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३०/७१) इदम् तर्हि ॒ आमलकम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३१/७१) एतत् अपि न अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३२/७१) वक्ष्यति एतत् ॒ फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३३/७१) इदम् तर्हि ॒ पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः , दशपटुः इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३४/७१) ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३५/७१) कथम् पुंवद्भावः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३६/७१) भस्य अढे तद्धिते पुंवत् भवति इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३७/७१) भस्य इति उच्यते ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३८/७१) यजादौ च भम् भवति न च अत्र यजादिम् पश्यामः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-३९/७१) प्रत्ययलक्षणेन यजादिः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४०/७१) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४१/७१) एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४२/७१) टक्छसोः च इति उच्यते ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४३/७१) न च अत्र टक्छसौ पश्यामः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४४/७१) प्रत्ययलक्षणेन ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४५/७१) न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४६/७१) न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४७/७१) किम् तर्हि ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४८/७१) अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति ॒ पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः , दशेन्द्रः , पञ्चाग्निः , दशाग्निः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-४९/७१) उपधात्वे किम् उदाहरणम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५०/७१) पिपठिषतेः अप्रत्ययः पिपठीः इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५१/७१) न एतत् अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५२/७१) दीर्घविधिम् प्रति न स्थानिवत् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५३/७१) इदम् तर्हि॒ सौरी बलाका ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५४/७१) न एतत् अस्ति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५५/७१) यलोपविधिम् प्रति न स्थानिवत् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५६/७१) इदम् तर्हि ॒ पारिखीयः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५७/७१) चङ्परनिर्ह्रासे च उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५८/७१) वादितवन्तम् प्रयोजितवान् ॒ अवीवदत् वीणाम् परिवादकेन ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-५९/७१) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६०/७१) यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६१/७१) ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६२/७१) विशेषे एतत् वक्तव्यम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६३/७१) क्व ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६४/७१) प्रत्ययविधौ इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६५/७१) इह मा भूत् ॒ पटयति लघयति इति ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६६/७१) कुत्वे च उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६७/७१) अर्चयतेः अर्कः , मर्चयतेः मर्कः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६८/७१) न एतत् घञन्तम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-६९/७१) औणादिकः एषः कशब्दः ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-७०/७१) तस्मिन् आष्टमिकम् कुत्वम् ।

(पा-१,१.५८.३; अकि-१,१५३.४-१५४.६; रो-१,४५५-४५९; भा-७१/७१) एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१/२८) पूर्वत्रासिद्धे च ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२/२८) पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-३/२८) किम् प्रयोजनम् ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-४/२८) प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् ॒ अदुग्ध , अदुग्धाः ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-५/२८) लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-६/२८) दधः आकारलोपे आदिचतुर्थत्वे ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-७/२८) दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् ॒ धत्से धद्ध्वे धद्ध्वम् इति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-८/२८) दधः तथोः च इति चकारः न कर्तव्यः भवति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-९/२८) हलः यमाम् यमि लोपे ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१०/२८) हलः यमाम् यमि लोपे प्रयोजनम् ॒ आदित्यः ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-११/२८) हलः यमाम् यमि लोपः सिद्धः भवति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१२/२८) अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१३/२८) अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् ॒ पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१४/२८) द्विर्वचनादीनि च ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१५/२८) द्विर्वचनादीनि च न पठितव्यानि भवन्ति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१६/२८) पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१७/२८) किम् अविशेषेण ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१८/२८) न इति आह ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-१९/२८) वरेयलोपस्वरवर्जम् ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२०/२८) वरेयलोपम् स्वरम् च वर्जयित्वा ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२१/२८) तस्य दोषः संयोगादिलोपलत्वणत्वेषु ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२२/२८) तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२३/२८) संयोगादिलोप ॒ काक्यर्थम् , वास्यर्थम् ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२४/२८) स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२५/२८) लत्वम् ॒ निगार्यते निगाल्यते ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२६/२८) अचि विभाषा इति लत्वम् न प्राप्नोति ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२७/२८) णत्वम् ॒ माषवपनी व्रीहिवापनी ।

(पा-१,१.५८.४; अकि-१,१५४.७-१५५.७; रो-१,४५९-४६१; भा-२८/२८) प्रातिपदिकान्तस्य इति णत्वम् प्राप्नोति ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-१/१४) आदेशे स्थानिवदनुदेशात् तद्वतः द्विर्वचनम् ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-२/१४) आदेशे स्थानिवदनुदेशात् तद्वतः ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-३/१४) किंवतः ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-४/१४) आदेशवतः द्विर्वचनम् प्राप्नोति ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-५/१४) तत कः दोषः ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-६/१४) तत्र अभ्यासरूपम् ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-७/१४) तत्र अभ्यासरूपम् न सिध्यति ॒ चक्रतुः , चक्रुः इति ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-८/१४) अज्ग्रहणम् तु ज्ञापकम् रूपस्थानिवद्भावस्य ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-९/१४) यत् अयम् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः रूपम् स्थानिवत् भवति इति ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-१०/१४) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-११/१४) अज्ग्रहणस्य एतत् प्रयोजनम् ॒ इह मा भूत् ॒ जेघ्रीयते , देध्मीयते इति ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-१२/१४) यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-१३/१४) अथ हि कार्यम् न अर्थः अज्ग्रहणेन ।

(पा-१,१.५९.१; अकि-१,१५५.९-१८; रो-१,४६१-४६२; भा-१४/१४) भवति एव अत्र द्विर्वचनम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१/५६) तत्र गाङ्प्रतिषेधः । तत्र गाङः प्रतिषेधः वक्तव्यः ॒ अधिजगे ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२/५६) इवर्णाभ्यासता प्राप्नोति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३/५६) न वक्तव्यः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४/५६) गाङ् लिटि इति द्विलकारकः निर्देशः ॒ लिटि लकारादौ इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५/५६) कृ̄त्येजन्तदिवादिनामधातुषु अभ्यासरूपम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-६/५६) कृ̄त्येजन्तदिवादिनामधातुषु अभ्यासरूपम् न सिध्यति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-७/५६) कृ̄ति ॒ अचिकीर्तत् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-८/५६) कृ̄ति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-९/५६) एजन्त ॒ जग्ले मम्ले ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१०/५६) एजन्त ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-११/५६) दिवादि ॒ दुद्यूषति सुस्यूषति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१२/५६) दिवादि ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१३/५६) नामधातु ॒ भवनम् इच्छति भवनीयति भवनीयतेः सन् ॒ बिभवनीयिषति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१४/५६) एवम् तर्हि प्रत्यये इति वक्ष्यामि ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१५/५६) प्रत्यये इति चेत् कृ̄त्येजन्तनमधातुषु अभ्यासरूपम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१६/५६) प्रत्यये इति चेत् कृ̄त्येजन्तनमधातुषु अभ्यासरूपम् न सिध्यति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१७/५६) दिवादयः एके परिहृताः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१८/५६) एवम् तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-१९/५६) सः तर्हि निमित्तशब्दः उपादेयः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२०/५६) न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२१/५६) अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२२/५६) तत् यथा ॒ दधित्रपुसम् प्रत्यक्षः ज्वरः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२३/५६) ज्वरनिमित्तम् इति गम्यते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२४/५६) नड्वलोदकम् पादरोगः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२५/५६) पादरोगनिमित्तम् इति गम्यते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२६/५६) अयुः घृतम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२७/५६) आयुषः निमित्तम् इति गम्यते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२८/५६) अथ वा अकारः मत्वर्थीयः ॒ द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-२९/५६) एवम् अपि न ज्ञायते कियन्तम् असौ कालम् स्थानिवत् भवति इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३०/५६) यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३१/५६) एवम् तर्हि प्रतिषेधः प्रकृतः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३२/५६) सः अनुवर्तिष्यते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३३/५६) क्व प्रकृतः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३४/५६) न पदान्तद्विर्वचन इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३५/५६) द्विर्वचननिमित्ते अचि अजादेशः न भवति इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३६/५६) एवम् अपि न ज्ञायते कियन्तम् असौ कालम् न भवति इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३७/५६) यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३८/५६) एवम् तर्हि उभयम् अनेन क्रियते ॒ प्रत्ययः च विशेष्यते द्विर्वचनम् च ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-३९/५६) कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४०/५६) लभ्यम् इति आह ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४१/५६) कथम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४२/५६) एकशेषनिर्देशात् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४३/५६) एकशेषनिर्देशः अयम् ॒ द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४४/५६) द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४५/५६) द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् । द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः ॒ अवनुनावयिषति , अवचुक्षावयिषति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४६/५६) न वक्तव्यः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४७/५६) ओः पुयण्जिषु वचनम् ज्ञापकम् णौ स्थानिवद्भावस्य ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४८/५६) यत् अयम् पुयण्जि अपरे इति आह तत् ज्ञापयति आचार्यः भवति णौ स्थानिवत् इति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-४९/५६) यदि एतत् ज्ञाप्यते अचीकीर्तत् अत्र अपि प्राप्नोति ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५०/५६) तुल्यजातीयस्य ज्ञापकम् ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५१/५६) कः च तुल्यजातीयः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५२/५६) यथाजातीयकाः पुयण्जयः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५३/५६) कथञ्जातीयकाः च एते ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५४/५६) अवर्णपराः ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५५/५६) कथम् जग्ले मम्ले ।

(पा-१,१.५९.२; अकि-१,१५५.१९-१५६.२७; रो-१,४६२-४६६; भा-५६/५६) अनैमित्तिकम् आत्त्वम् शिति तु प्रतिषेधः ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१/१७) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-२/१७) पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत् , आशिशत् , चक्रतुः , चक्रुः इति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-३/१७) आल्लोपोपधालोपणिलोपयणादेशेषु कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-४/१७) स्थानिवद्भावात् भवति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-५/१७) न एतानि सन्ति प्रयोजनानि ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-६/१७) पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-७/१७) कथम् ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-८/१७) वक्ष्यति हि आचार्यः ॒ द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्त्वेभ्यः इति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-९/१७) सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१०/१७) किम् पुनः अत्र ज्यायः ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-११/१७) स्थानिवद्भावः एव ज्यायान् ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१२/१७) पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् ॒ ओदौदादेशस्य उत् भवति चुटुतुशरादेः अभ्यासस्य इति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१३/१७) ननु च त्वया अपि इत्त्वम् वक्तव्यम् ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१४/१७) परार्थम् मम भविष्यति ॒ सनि अतः इत् भवति इति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१५/१७) मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति ॒ उत्परस्य अतः ति च इति ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१६/१७) इत्त्वम् अपि त्वया वक्तव्यम् यत् समानाश्रयम् तदर्थम् ॒ उत्पिपविषते संयियविषति इति एवमर्थम् ।

(पा-१,१.५९.३; अकि-१,१५७.१-११; रो-१,४६६-४६८; भा-१७/१७) तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१/५०) अर्थस्य सञ्ज्ञा कर्तव्या शब्दस्य मा भूत् इति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२/५०) इतरेतराश्रयम् च भवति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३/५०) का इतरेतराश्रयता ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४/५०) सतः अदर्शनस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञय च अदर्शनम् भाव्यते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-५/५०) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-६/५०) इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-७/५०) लोपसञ्ज्ञायाम् अर्थसतोः उक्तम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-८/५०) किम् उक्तम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-९/५०) अर्थस्य तावत् उक्तम् ॒ इतिकरणः अर्थनिर्देशार्थः इति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१०/५०) सतः अपि उक्तम् ॒ सिद्धम् तु नित्यशब्दत्वात् इति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-११/५०) नित्याः शब्दाः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१२/५०) नित्येषु च शब्देषु सतः अदर्शनस्य सञ्ज्ञा क्रियते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१३/५०) न सञ्ज्ञया अदर्शनम् भाव्यते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१४/५०) सर्वप्रसङ्गः तु सर्वस्य अन्यत्र अदृष्टत्वात् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१५/५०) सर्वप्रसङ्गः तु भवति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१६/५०) सर्वस्य अदर्शनस्य लोपसञ्ज्ञा प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१७/५०) किम् कारणम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१८/५०) सर्वस्य अन्यत्र अदृष्टत्वात् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-१९/५०) सर्वः हि शब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न दृश्यते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२०/५०) त्रपु जतु इति अत्र अणः अदर्शनम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२१/५०) तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२२/५०) तत्र कः दोषः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२३/५०) तत्र प्रत्ययलक्षणप्रतिषेधः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२४/५०) तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२५/५०) तस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२६/५०) अचः ञ्णिति इति वृद्धिः प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२७/५०) न एषः दोषः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२८/५०) ञ्णिति अङ्गस्य अचः वृद्धिः उच्यते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-२९/५०) यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् भवति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३०/५०) यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।



(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३१/५०) क्विपः तर्हि अदर्शनम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३२/५०) तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३३/५०) तत्र कः दोषः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३४/५०) तत्र प्रत्ययलक्षणप्रतिषेधः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३५/५०) तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३६/५०) तस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३७/५०) ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३८/५०) सिद्धम् तु प्रसक्तादर्शनस्य लोपसञ्ज्ञित्वात् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-३९/५०) सिद्धम् एतत् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४०/५०) कथम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४१/५०) प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति वक्तव्यम् ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४२/५०) यदि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यते ग्रामणीः , सेनानीः ॒ अत्र वृद्धिः प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४३/५०) प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति षष्ठीनिर्दिष्टस्य ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४४/५०) यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा इति अत्र लोपसञ्ज्ञा न प्राप्नोति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४५/५०) अथ प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यमाने कथम् इव एतत् सिध्यति ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४६/५०) कः शब्दस्य प्रसङ्गः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४७/५०) यत्र गम्यते च अर्थः न च प्रयुज्यते ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४८/५०) अस्तु तर्हि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति एव ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-४९/५०) कथम् ग्रामणीः , सेनानीः ।

(पा-१,१.६०; अकि-१,१५८.२-१५९.४; रो-१,४६९-४७१; भा-५०/५०) यः अत्र अणः प्रसङ्गः क्विपा असौ बाध्यते ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१/५६) प्रत्ययग्रहणम् किमर्थम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२/५६) लुमति प्रत्ययग्रहणम् अप्रत्ययसञ्ज्ञाप्रतिषेधार्थम् । लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः सञ्ज्ञाः मा भूवन् इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३/५६) किम् प्रयोजनम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४/५६) प्रयोजनम् तद्धितलुकि कंसीयपरशव्ययोः लुकि च गोप्रकृतिनिवृत्त्यर्थम् । तद्धितलुकि गोनिवृत्त्यर्थम् कंसीयपरशव्ययोः च लुकि प्रकृतिनिवृत्त्यर्थम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५/५६) लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-६/५६) प्रत्ययग्रहणात् न भवति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-७/५६) कंसीयपरशव्ययोः यञञौ लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-८/५६) प्रत्ययग्रहणात् न भवति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-९/५६) गोनिवृत्त्यर्थेन तावत् न अर्थः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१०/५६) योगविभागात् सिद्धम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-११/५६) योगविभागः करिष्यते ॒ गोः उपसर्जनस्य ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१२/५६) गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१३/५६) ततः स्त्रियाः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१४/५६) स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१५/५६) ततः लुक् तद्धितलुकि इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१६/५६) स्त्रियाः इति वर्तते ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१७/५६) गोः इति निवृत्तम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१८/५६) कंसीयपरशव्ययोः विशिष्टनिर्देशात् सिद्धम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-१९/५६) कंसीयपरशव्ययोः अपि विशिष्टनिर्देश्ः कर्तव्यः ॒ कंसीयपरशव्ययोः यञञौ भवतः छयतोः च लुक् भवति इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२०/५६) सः च अवश्यम् विशिष्टनिर्देशः कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे उकारसशब्दयोः मा भूत् इति ॒ कमेः सः कंसः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२१/५६) परान् शृणाति इति परशुः इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२२/५६) न एषः दोषः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२३/५६) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२४/५६) सः एषः अनन्यार्थः विशिष्टनिर्देशः कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२५/५६) उक्तम् वा ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२६/५६) किम् उक्तम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२७/५६) ङ्याप्प्रातिपदिकग्रहणम् आङ्गभपदसञ्ज्ञार्थम् यच्छयोः च लुगर्थम् इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२८/५६) षष्ठीनिर्देशार्थम् तु ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-२९/५६) षष्ठीनिर्देशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३०/५६) अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३१/५६) अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३२/५६) कस्य ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३३/५६) स्थानेयोगत्वस्य ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३४/५६) क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते ॒ अणिञोः तद्राजस्य यञञोः शपः इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३५/५६) इह न का चित् षष्ठी ॒ जनपदे लुप् इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३६/५६) अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३७/५६) क्व प्रकृतम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३८/५६) प्रत्ययः परः च इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-३९/५६) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४०/५६) ङ्याप्प्रातिपदिकात् इति एषा पञ्चमी प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४१/५६) प्रत्ययविधिः अयम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४२/५६) न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४३/५६) न अयम् प्रत्ययविधिः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४४/५६) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४५/५६) सर्वादेशार्थम् वा वचनप्रामाण्यात् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४६/५६) सर्वादेशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४७/५६) लुक्श्लुलुपः सर्वादेशाः यथा स्युः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४८/५६) अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव लुक्श्लुलुपः सर्वादेशाः लभ्याः ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-४९/५६) वचनप्रामाण्यात् ॒ प्रत्ययग्रहणसामाऋथ्यात् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५०/५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५१/५६) आचार्यप्रवृत्तिः ज्ञापयति लुक्श्लुलुपः सर्वादेशाः भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् शास्ति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५२/५६) उत्तरार्थम् तु ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५३/५६) उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५४/५६) न कर्तव्यम्. क्रियते तत्र एव ॒ प्रत्ययलोपे प्रत्ययलक्षणम् इति ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५५/५६) द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् ।

(पा-१,१.६१; अकि-१,१५९.६-१६०.२३; रो-१,४७१-४७६; भा-५६/५६) एकदेशलोपे मा भूत् इति ॒ आघ्नीत सम् रायस्पोषेण ग्मीय इति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१/२३) प्रत्ययग्रहणम् किमर्थम्. लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-२/२३) न एषः दोषः ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-३/२३) न एवम् विज्ञायते ॒ लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-४/२३) कथम् तर्हि ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-५/२३) प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-६/२३) इदम् तर्हि प्रयोजनम् ॒ सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-७/२३) लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-८/२३) किम् प्रयोजनम् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-९/२३) ग्रामणिकुलम् , सेनानिकुलम् ॒ औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१०/२३) सः मा भूत् इति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-११/२३) यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१२/२३) लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१३/२३) लोपोत्तरकलः हि अत्र तुक् आगमः ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१४/२३) तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१५/२३) कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१६/२३) बहिरङ्गम् ह्रस्वत्वम् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१७/२३) अन्तरङ्गः तुक् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१८/२३) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-१९/२३) इदम् तर्हि प्रयोजनम् ॒ कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-२०/२३) एकदेशलोपे मा भूत् इति ॒ आघ्नीत सम् रायस्पोषेण ग्मीय इति ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-२१/२३) पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम्. अन्यतरत् शक्यम् अकर्तुम् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-२२/२३) अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् ।

(पा-१,१.६२.१; अकि-१,१६०.२५-१६१.१४.; रो-१,४७६-४७८; भा-२३/२३) प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति ॒ गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१/४८) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२/४८) प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् शास्त्रस्य ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३/४८) प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४/४८) सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-५/४८) सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह ॒ एव स्यात् गोमन्तौ यवमन्तौ ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-६/४८) गोमान् यवमान् इति अत्र न स्यात् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-७/४८) इष्यते च स्यात् इति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-८/४८) तत् च अन्तरेण यत्नम् न सिध्यति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-९/४८) अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१०/४८) एवमर्थम् इदम् उच्यते ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-११/४८) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१२/४८) किम् तर्हि इति. लुकि उपसङ्ख्यानम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१३/४८) लुकि उपसङ्ख्यानम् कर्तव्यम् ॒ पञ्च सप्त ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१४/४८) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१५/४८) लोपे हि विधानम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१६/४८) लोपे हि प्रत्ययलक्षणम् विधीयते ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१७/४८) तेन लुकि न प्राप्नोति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१८/४८) न वा अदर्शनस्य लोपसञ्ज्ञित्वात् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-१९/४८) न वा कर्तव्यम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२०/४८) किम् कारणम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२१/४८) अदर्शनस्य लोपसञ्ज्ञित्वात् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२२/४८) अदर्शनम् लोपसञ्ज्ञम् इति उच्यते ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२३/४८) लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२४/४८) तेन लुकि अपि भविष्यति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२५/४८) यदि एवम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२६/४८) प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२७/४८) प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२८/४८) तत्र कः दोषः ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-२९/४८) तत्र लुकि श्लुविधिप्रतिषेधः ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३०/४८) तत्र लुकि श्लुविधिः अपि प्राप्नोति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३१/४८) सः प्रतिषेध्यः ॒ अत्ति हन्ति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३२/४८) श्लौ इति द्विर्वचनम् प्राप्नोति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३३/४८) न वा पृथक्सञ्ज्ञाकरणात् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३४/४८) न वा एषः दोषः ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३५/४८) किम् कारणम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३६/४८) पृथक्सञ्ज्ञाकरणात् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३७/४८) पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३८/४८) तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-३९/४८) यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४०/४८) तत्र कः दोषः ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४१/४८) अगोमती गोमती सम्पन्ना गोमतीभूता ॒ लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४२/४८) ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४३/४८) यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४४/४८) तत्र सः एव दोषः ॒ लुकि उपसङ्ख्यानम् इति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४५/४८) अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४६/४८) किम्. लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४७/४८) लुमति प्रतिषेधात् वा ।

(पा-१,१.६२.२; अकि-१,१६१.१५-१६२.२१; रो-१,४७९-४८२; भा-४८/४८) अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१/६५) सतः निमित्ताभावात् पदसञ्ज्ञाभावः । सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् ॒ राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्॒ राजपुरुषः इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२/६५) अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३/६५) सति एतत्प्रत्यये आसीत् ॒ अनया भविष्यति अनया न भविष्यति इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४/६५) लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५/६५) अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६/६५) तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-७/६५) तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-८/६५) क्व ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-९/६५) परिवीः इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१०/६५) किम् कारणम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-११/६५) एकयोगलक्षणत्वात् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१२/६५) एकयोगलक्षणे तुग्दीर्घत्वे ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१३/६५) इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१४/६५) तानि एतानि प्रत्युत्थाप्यन्ते ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१५/६५) अनेन एव तुक् अनेन एव च दीर्घत्वम् इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१६/६५) तत् एतत् एकयोगलक्षणम् भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१७/६५) एकयोगलक्षणानि च न प्रकल्पन्ते ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१८/६५) सिद्धम् तु स्थानिसञ्ज्ञानुदेशात् आन्यभाव्यस्य ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-१९/६५) सिद्धम् एतत् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२०/६५) कथम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२१/६५) स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२२/६५) किम् कृतम् भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२३/६५) सत्तामात्रम् अनेन क्रियते ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२४/६५) यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२५/६५) तत् वक्तव्यम् भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२६/६५) यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२७/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२८/६५) यदि एवम् आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-२९/६५) न हि का चित् हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३०/६५) हन्तेः अपि सञ्ज्ञा अस्ति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३१/६५) का ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३२/६५) हन्तिः एव ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३३/६५) कथम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३४/६५) स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् स्वम् रूपम् शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३५/६५) भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३६/६५) भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३७/६५) भसञ्ज्ञा ॒ राज्ञः पुरुषः राजपुरुषः ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३८/६५) प्रत्ययलक्षणेन यचि भम् इति भासञ्ज्ञा प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-३९/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४०/६५) ङीप् ॒ चित्रायाम् जाता चित्रा ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४१/६५) प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४२/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४३/६५) ष्फ ॒ वतङ्डी ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४४/६५) प्रत्ययलक्षणेन यञन्तात् इति ष्फः प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४५/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४६/६५) गोः आत्वम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४७/६५) गाम् इच्छति गव्यति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४८/६५) प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वम् प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-४९/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५०/६५) तस्य दोषः ङौनकारलोपेत्त्वेम्विधयः । तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५१/६५) आर्द्रे चर्मन् लोहिते चर्मन् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५२/६५) प्रत्ययलक्षणेन यचि भम् इति भसञ्ज्ञा सिद्धा भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५३/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५४/६५) इत्त्वम् ॒ आशीः ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५५/६५) प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५६/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५७/६५) इम् ॒ अतृणेत् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५८/६५) प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-५९/६५) स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६०/६५) सूत्रम् च भिद्यते ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६१/६५) यथान्यासम् एव अस्तु ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६२/६५) ननु च उक्तम् सतः निमित्ताभावात् पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६३/६५) न एषः दोषः ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६४/६५) वक्ष्यति अत्र परिहारम् ।

(पा-१,१.६२.३; अकि-१,१६२.२२-१६४.१०; रो-१,४८२-४८६; भा-६५/६५) इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१/५६) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२/५६) प्रयोजनम् अपृक्तशिलोपे नुम् अमामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३/५६) अपृक्तलोपे शिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिः इति प्रयोजनानि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४/५६) नुम् ॒ अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५/५६) नुम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-६/५६) अमामौ ॒ हे अनड्वन् , अनड्वान् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-७/५६) गुणः ॒ अधोक् , अलेट् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-८/५६) वृद्धिः ॒ नि अमार्ट् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-९/५६) दीर्घत्वम् ॒ अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१०/५६) इम् ॒ अतृणेट् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-११/५६) अडाटौ ॒ अधोक् , अलेट् , ऐयः , औनः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१२/५६) श्नम्विधिः ॒ अभिनः अत्र , अच्छिनः अत्र ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१३/५६) अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१४/५६) प्रत्ययलक्षणेन भवन्ति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१५/५६) न एतानि सन्ति प्रयोजनानि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१६/५६) स्थानिवद्भावेन अपि एतानि सिद्धानि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१७/५६) न सिध्यन्ति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१८/५६) आदेशः स्थानिवत् इति उच्यते ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-१९/५६) न च लोपः आदेशः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२०/५६) लोपः अपि आदेशः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२१/५६) कथम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२२/५६) आदिश्यते यः सः आदेशः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२३/५६) लोपः अपि आदिश्यते ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२४/५६) दोषः खलु अपि स्यात् यदि लोपः न आदेशः स्यात् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२५/५६) इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२६/५६) यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२७/५६) क्व च स्थानिवद्भावः न अस्ति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२८/५६) यः अल्विधिः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-२९/५६) किम् प्रयोजनम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३०/५६) प्रयोजनम् ङौनकार्लोपेत्त्वेम्विधयः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३१/५६) भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३२/५६) भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति. भसञ्ज्ञायाम् तावत् न दोषः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३३/५६) आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधम् शास्ति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३४/५६) ङीपि अपि ॒ न एवम् विज्ञायते ॒ अणन्तात् अकारान्तात् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३५/५६) कथम् तर्हि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३६/५६) अण् यः अकारः इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३७/५६) ष्फे अपि ॒ न एवम् विज्ञायते ॒ यञन्तात् अकारन्तात् इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३८/५६) कथम् तर्हि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-३९/५६) यञ् यः अकारः इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४०/५६) गोः आत्वे अपि ॒ न एवम् विज्ञायते ॒ अमि अचि इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४१/५६) कथम् तर्हि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४२/५६) अचि अमि इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४३/५६) प्रयोजनानि अपि तर्हि तानि न सन्ति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४४/५६) यत् तावत् उच्यते ङौनकार्लोपः इति क्रियते एतत् न्यासे एव ॒ न ङिसम्बुद्ध्योः इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४५/५६) इत्त्वम् अपि ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४६/५६) वक्ष्यति एतत् ॒ शासः इत्त्वे आशासः क्वौ इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४७/५६) इम्विधिः अपि ॒ हलि इति निवृत्तम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४८/५६) यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-४९/५६) एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५०/५६) न तर्हि इदानीम् अयम् योगः वक्तव्यः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५१/५६) वक्तव्यः च ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५२/५६) किम् प्रयोजनम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५३/५६) प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् शब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५४/५६) किम् प्रयोजनम् ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५५/५६) शोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः ।

(पा-१,१.६२.४; अकि-१,१६४.११-१६५.१३; रो-१,४८६-४९०; भा-५६/५६) सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति ।