व्याकरणमहाभाष्य खण्ड 13

विकिपुस्तकानि तः



(पा-१,२.४६; अकि-१,२२२.९-११; रो-२,८५; भा-१/४) समासग्रहणम् किमर्थम् ।

(पा-१,२.४६; अकि-१,२२२.९-११; रो-२,८५; भा-२/४) समासग्रहणे उक्तम् ।

(पा-१,२.४६; अकि-१,२२२.९-११; रो-२,८५; भा-३/४) किम् उक्तम् ।

(पा-१,२.४६; अकि-१,२२२.९-११; रो-२,८५; भा-४/४) अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१/३४) प्रातिपदिकग्रहणम् किमर्थम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२/३४) नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् तिब्निवृत्त्यर्थम् । नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् क्रियते तिब्निवृत्त्यर्थम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-३/३४) तिबन्तस्य ह्रस्वत्वम् मा भूत् ॒ काण्डे कुड्ये ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-४/३४) रमते ब्राह्मणकुलम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-५/३४) अव्ययप्रतिषेधः ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-६/३४) अव्ययानाम् प्रतिषेधः वक्तव्यः ॒ दोषा ब्राह्मणकुलम् दिवा ब्राह्मणकुलम् इति ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-७/३४) सः तर्हि वक्तव्यः ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-८/३४) न वक्तव्यः ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-९/३४) न अत्र अव्ययम् नपुंसके वर्तते ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१०/३४) किम् तर्हि ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-११/३४) अधिकरणम् अत्र अव्ययम् नपुंसकस्य ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१२/३४) इह तर्हि प्राप्नोति ॒ काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् इति ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१३/३४) न वा लिङ्गाभावात् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१४/३४) न वा वक्तव्यम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१५/३४) किम् कारणम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१६/३४) लिङ्गाभावात् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१७/३४) अलिङ्गम् अव्ययम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१८/३४) किम् पुनः अयम् अव्ययस्य एव परिहारः आहोस्वित् तिबन्तस्य अपि ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-१९/३४) तिबन्तस्य अपि इति आह ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२०/३४) कथम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२१/३४) अव्ययम् हि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२२/३४) उच्चैः, नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२३/३४) तिबन्तम् च अपि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२४/३४) काण्डे कुड्ये* इति विभक्तर्थ्यप्रधानम् , रमते ब्राह्मणकुलम् इति क्रियाप्रधानम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२५/३४) न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२६/३४) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२७/३४) क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत ॒ काण्डे कुड्ये ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२८/३४) द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-२९/३४) गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-३०/३४) तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् ॒ ह्रस्वः नपुंसके यत् तस्य इति ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-३१/३४) किम् च नपुंसके ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-३२/३४) नपुंसकम् यस्य गुणः ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-३३/३४) कस्य च नपुंसकम् गुणः ।

(पा-१,२.४७.१; अकि-१,२२२.१३-२२३.११; रो-२,८५-८८; भा-३४/३४) प्रातिपदिकस्य ।

(पा-१,२.४७.२; अकि-१,२२३.१२-१६; रो-२,८८; भा-१/६) यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः ।

(पा-१,२.४७.२; अकि-१,२२३.१२-१६; रो-२,८८; भा-२/६) यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः वक्तव्यः ॒ युगवरत्राय युगवरत्रार्थम् , युगवरत्रेभ्यः ।

(पा-१,२.४७.२; अकि-१,२२३.१२-१६; रो-२,८८; भा-३/६) यञेकादेशदीर्घैत्त्वेषु बहिरङ्गलक्षणत्वात् सिद्धम् ।

(पा-१,२.४७.२; अकि-१,२२३.१२-१६; रो-२,८८; भा-४/६) बहिरङ्गाः एते विधयः ।

(पा-१,२.४७.२; अकि-१,२२३.१२-१६; रो-२,८८; भा-५/६) अन्तरङ्गम् ह्रस्वत्वम् ।

(पा-१,२.४७.२; अकि-१,२२३.१२-१६; रो-२,८८; भा-६/६) असिद्धम् बहिरङ्गम् अन्तरङ्गे

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-१/१०) उपसर्जनह्रस्वत्वे च ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-२/१०) उपसर्जनह्रस्वत्वे च ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-३/१०) किम् ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-४/१०) यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः वक्तव्यः ॒ अतिखट्वाय अतिखट्वार्थम् अतिखट्वेभ्यः ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-५/१०) उपसर्जनह्रस्वत्वे च ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-६/१०) किम् ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-७/१०) बहिरङ्गलक्षणत्वात् सिद्धम् इति एव ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-८/१०) बहिरङ्गाः एते विधयः ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-९/१०) अन्तरङ्गम् ह्रस्वत्वम् ।

(पा-१,२.४८.१; अकि-१,२२३.१८-२१; रो-२,८८-८९; भा-१०/१०) असिद्धम् बहिरङ्गम् अन्तरङ्गे

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१/७०) गोटाङ्ग्रहणम् कृन्निवृत्त्यर्थम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२/७०) गोटाङ्ग्रहणम् कर्तव्यम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३/७०) किम् इदम् टाङ् इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४/७०) प्रत्याहारग्रहणम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५/७०) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६/७०) टापः प्रभृति आ ष्यङः ङकारात् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-७/७०) किम् प्रयोजनम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-८/७०) कृन्निवृत्त्यर्थम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-९/७०) कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वम् मा भूत् इति ॒ अतितन्त्रीः , अतिश्रीः , अतिलक्ष्मीः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१०/७०) तत् तर्हि वक्तव्यम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-११/७०) न वक्तव्यम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१२/७०) स्त्रीग्रहणम् स्वर्यते ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१३/७०) तत्र स्वरितेन अधिकारगतिः भवति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१४/७०) स्त्रियाम् इति एवम् प्रकृत्य ये विहिताः तेषाम् ग्रहणम् विज्ञास्यते ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१५/७०) स्वरितेन अधिकारगतिः भवति इति न दोषः भवति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१६/७०) यदि एवम् प्रत्ययग्रहणम् इदम् भवति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१७/७०) तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इह न प्राप्नोति ॒ अतिराजकुमारिः , अतिसेनानीकुमारिः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१८/७०) अस्त्रीप्रत्ययेन इति एवम् तत् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-१९/७०) ईयसः बहुव्रीहौ पुंवद्वचनम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२०/७०) ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२१/७०) बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी विद्यमानश्रेयसी ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२२/७०) पूर्वपदस्य च प्रतिषेधः गोसमासनिवृत्त्यर्थम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२३/७०) पूर्वपदस्य च प्रतिषेधः वक्तव्यः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२४/७०) किम् प्रयोजनम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२५/७०) गोसमासनिवृत्त्यर्थम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२६/७०) गोनिवृत्त्यर्थम् समासनिवृत्त्यर्थम् च ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२७/७०) गोनिवृत्त्यर्थम् तावत् ॒ गोकुलम् , गोक्षीरम् , गोपालकः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२८/७०) समासनिवृत्त्यर्थम् ॒ राजकुमारीपुत्रः , सेनानीकुमारीपुत्रः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-२९/७०) किम् उच्यते समासनिवृत्त्यर्थम् इति न पुनः असमासः अपि किम् चित् पूर्वपदम् यदर्थः प्रतिषेधः स्यात् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३०/७०) स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासम् स्त्र्यन्तम् प्रातिपदिकम् उपसर्जनम् अस्ति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३१/७०) ननु च इदम् अस्ति ॒ खट्वापादः , मालापादः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३२/७०) एकादेशे कृते अन्तादिवद्भावात् प्राप्नोति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३३/७०) उभयतः आश्रये न अन्तादिवत् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३४/७०) गोनिवृत्त्यर्थेन तावत् न अर्थः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३५/७०) गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च एतत् गोन्तम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३६/७०) ननु च एतत् अपि व्यपदेशिवद्भावेन गोन्तम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३७/७०) व्यपदेशिवद्भावः अप्रातिपदिकेन ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३८/७०) समासनिवृत्त्यर्थेन च अपि न अर्थः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-३९/७०) स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४०/७०) प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४१/७०) तत्र सम्बन्धात् एतत् गन्तव्यम् ॒ यम् प्रति यत् अप्रधानम् तस्य चेत् सः अन्तः भवति इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४२/७०) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४३/७०) उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत ॒ पञ्च कुमार्यः प्रियाः अस्य पञ्चकुमारीप्रियः , दशकुमारीप्रियः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४४/७०) कपि च ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४५/७०) कपि च प्रतिषेधः वक्तव्यः ॒ बहुकुमारीकः , बहुवृषलीकः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४६/७०) द्वन्द्वे च ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४७/७०) द्वन्द्वे च प्रतिषेधः वक्तव्यः ॒ कुक्कुटमयूर्यौ ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४८/७०) उक्तम् वा ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-४९/७०) किम् उक्तम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५०/७०) कपि तावत् उक्तम् ॒ न कपि इति प्रतिषेधः इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५१/७०) न एतत् अस्ति उक्तम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५२/७०) के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५३/७०) कुतः एतत् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५४/७०) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५५/७०) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५६/७०) यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत ॒ प्रियम् ग्रामणि ब्राह्मणकुलम् अस्य प्रियग्रामणिकः ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५७/७०) इदम् तर्हि उक्तम् ॒ कपि कृते अनन्त्यत्वात् ह्रस्वत्वम् न भविष्यति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५८/७०) इदम् इह सम्प्रधार्यम् ॒ कप् क्रियताम् ह्रस्वत्वम् इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-५९/७०) किम् अत्र कर्तव्यम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६०/७०) परत्वात् कप् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६१/७०) अन्तरङ्गम् ह्रस्वत्वम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६२/७०) अन्तरङ्गतरः कप् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६३/७०) ननु च अयम् कप् समासान्तः इचि उच्यते ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६४/७०) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६५/७०) येषाम् पदानाम् समासः न तावत् तेषाम् अन्यत् भवति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६६/७०) कपम् तावत् प्रतीक्षते ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६७/७०) द्वन्द्वे अपि उक्तम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६८/७०) किम् उक्तम् ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-६९/७०) परवत् लिङ्गम् इति शब्दशब्दार्थौ इति ।

(पा-१,२.४८.२; अकि-१,२२३.२२-२२५.१४; रो-२,८९-९४; भा-७०/७०) तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१/१८) तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-२/१८) तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः वक्तव्यः ॒ अवन्ती कुन्ती कुरूः ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-३/१८) तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः अलुक्परत्वात् ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-४/१८) तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-५/१८) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-६/१८) लुक् कस्मात् न भवति ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-७/१८) अलुक्परत्वात् ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-८/१८) लुकि इति उच्यते ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-९/१८) न च अत्र लुकम् पश्यामः ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१०/१८) लुकि इति न एषा परसप्तमी शक्या विज्ञातुम् ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-११/१८) न हि लुका पौर्वापर्यम् अस्ति ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१२/१८) का तर्हि ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१३/१८) सत्सप्तमी ॒ लुकि सति इति ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१४/१८) सत्सप्तमी चेत् प्राप्नोति ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१५/१८) एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१६/१८) किम् ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१७/१८) उपसर्जनस्य इति वर्तते ।

(पा-१,२.४९; अकि-१,२२५.१६-२३; रो-२,९५; भा-१८/१८) न च जातिः उपसर्जनम् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१/२०) इत् गोण्याः न इति वक्तव्यम् । गोण्याः न इति एव वक्तव्यम् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-२/२०) न अर्थः इत्त्वेन ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-३/२०) का रूपसिद्धिः ॒ पञ्चगोणिः , दशगोणिः ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-४/२०) ह्रस्वता हि विधीयते ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-५/२०) ह्रस्वत्वम् अत्र विधीयते ॒ गोस्त्रियोः उपसर्जनस्य इति ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-६/२०) इति वा वचने तावत् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-७/२०) इत् इति वा उच्येत न इति वा कः नु अत्र विशेषः ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-८/२०) मात्रार्थम् वा कृतम् भवेत् । अथ वा मात्रार्थम् इदम् वक्तव्यम् ॒ गोणीमात्रम् इदम् गोणिः ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-९/२०) अपरः आह ॒ गोण्याः इत्त्वम् प्रकरणात् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१०/२०) अशिष्यम् गोण्याः इत्त्वम् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-११/२०) किम् कारणम् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१२/२०) प्रकरणात् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१३/२०) प्रकृतम् ह्रस्वत्वम् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१४/२०) ह्रस्वः इति वर्तते ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१५/२०) ननु सूच्याः ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१६/२०) सूच्याद्यर्थम् अथ अपि वा ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१७/२०) सूच्याद्यर्थम् इदम् द्रष्टव्यम् ॒ पञ्चसूचिः , दशसूचीः ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१८/२०) इत् गोण्याः न इति वक्तव्यम् ह्रस्वता हि विधीयते । इति वा वचने तावत् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-१९/२०) मात्रार्थम् वा कृतम् भवेत् ॥ गोण्याः इत्त्वम् प्रकरणात् ।

(पा-१,२.५०; अकि-१,२२६.२-१८; रो-२,९६-९८; भा-२०/२०) सूच्याद्यर्थम् अथ अपि वा ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१/२१) व्यक्तिवचने इति किमर्थम् ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-२/२१) शिरीषाणाम् अदूरभवः ग्रामः शिरीषाः ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-३/२१) तस्य ग्रामस्य वनम् शिरीषवनम् ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-४/२१) किम् च स्यात् ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-५/२१) विभाषा ओषधिवनस्पतिभ्यः इति णत्वम् प्रसज्येत ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-६/२१) अपरः आह ॒ कटुबदर्याः अदूरभवः ग्रामः कटुबदरी ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-७/२१) षष्ठी युक्तवद्भावेन मा भूत् इति ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-८/२१) अथ व्यक्तिवचने इति अपि उच्यमाने कस्मात् एव अत्र न भवति ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-९/२१) षष्ठी अपि हि वचनम् ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१०/२१) न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-११/२१) किम् तर्हि ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१२/२१) अन्वर्थग्रहणम् ॒ उच्यते वचनम् इति ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१३/२१) एवम् अपि षष्ठी प्राप्नोति ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१४/२१) षष्ठी अपि हि उच्यते ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१५/२१) लुपा उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१६/२१) आतिदेशिकी तर्हि प्राप्नोति ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१७/२१) एवम् तर्हि प्राक् अपि वृत्तेः युक्तम् वृत्तम् च अपि । इह यावता युक्तम् वक्तुः च कामचारः प्राक् वृत्तेः लिङ्गसङ्ख्ये ये ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१८/२१) प्राक् अपि वृत्तेः युक्तम् वनस्पतिभिः नगरम् वृत्तम् च अपि युक्तम् वनस्पतिभिः नगरम् ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-१९/२१) वृत्ते च युक्तवद्भावः विधीयते ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-२०/२१) कामचारः च प्रयोक्तुः प्राक् वृत्तेः ये लिङ्गसङ्ख्ये ते* अतिदेष्टुम् वृत्तस्य वा ये लिङ्गसङ्ख्ये ।

(पा-१,२.५१.१; अकि-१,२२६.२०-२२७.१०; रो-२,९८-१००; भा-२१/२१) यावता कार्मचारः वृत्तस्य ये लिङ्गसङ्ख्ये ते* अतिदिश्येते न प्राक् वृत्तेः ये ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१/२२) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-२/२२) अन्यत्र अभिधेयव्यक्तिवचनभावात् लुपि युक्तवदनुदेशः ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-३/२२) अन्यत्र अभिधेयवत् लिङ्गवचनानि भवन्ति ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-४/२२) क्व अन्यत्र ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-५/२२) लुकि ॒ लवणः सुपः , लवणा यवागुः , लवणम् शाकम् इति ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-६/२२) अन्यत्र अभिधेयवत् लिङ्गवचनानि भवन्ति लुकि. इह अपि अन्यत्र अभिधेयवत् लिङ्गवचनानि प्राप्नुवन्ति ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-७/२२) इष्यन्ते च अभिधानवत् स्युः इति ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-८/२२) तत् च अन्तरेण यत्नम् न सिध्यति इति लुपि युक्तवदनुदेशः ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-९/२२) एवमर्थम् इदम् उच्यते ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१०/२२) अस्ति प्रयोजनम् एतत् ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-११/२२) किम् तर्हि इति ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१२/२२) लुपः अदर्शनसञ्ज्ञित्वात् अर्थगतिः न उपपद्यते ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१३/२२) लुप् नाम इयम् अदर्शनस्य सञ्ज्ञा क्रियते ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१४/२२) न च अदर्शनस्य लिङ्गसङ्ख्ये शक्येते* अतिदेष्टुम् ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१५/२२) लुपः अदर्शनसञ्ज्ञित्वात् अर्थगतिः न उपपद्यते ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१६/२२) न वा अदर्शनस्य अशक्यत्वात् अर्थगतिः साहचर्यात् ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१७/२२) न वा एषः दोषः ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१८/२२) किम् कारणम् ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-१९/२२) अदर्शनस्य अशक्यत्वात् ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-२०/२२) अदर्शनस्य लिङ्गसङ्ख्ये* अशक्ये* अतिदेष्टुम् इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-२१/२२) योगाभावात् च अन्यस्य ।

(पा-१,२.५१.२; अकि-१,२२७.११-२६; रो-२,१००-१०२; भा-२२/२२) अदर्शनेन च योगः न अस्ति इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात्

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-१/७) समासे उत्तरपदस्य बहुवचनस्य लुपः ।

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-२/७) समासे उत्तरपदस्य बहुवचनस्य लुपः युक्तवद्भावः वक्तव्यः ॒ मधुरापञ्चालाः ।

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-३/७) किम् प्रयोजनम् ।

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-४/७) नियमार्थम् ।

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-५/७) समासे उत्तरपदस्य एव ।

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-६/७) क्व मा भूत् ।

(पा-१,२.५१.३; अकि-१,२२८.१-३; रो-२,१०२; भा-७/७) पञ्चालमधुरे* इति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-१/९) कथम् इदम् विज्ञायते ॒ जातिः यत् विशेषणम् इति आहोस्वित् जातेः यानि विशेषणानि इति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-२/९) किम् च अतः ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-३/९) यदि विज्ञायते जातिः यत् विशेषणम् इति सिद्धम् पञ्चालाः जनपदः इति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-४/९) सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति न सिध्यति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-५/९) अथ विज्ञायते जातेः यानि विशेषणानि इति सिद्धम् सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-६/९) पञ्चालाः जनपदः इति न सिध्यति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-७/९) एवम् तर्हि न एवम् विज्ञायते जातिः यत् विशेषणम् इति न अपि जातेः यानि विशेषणानि इति ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-८/९) कथम् तर्हि ।

(पा-१,२.५२.१; अकि-१,२२८.५-१०; रो-२,१०२-१०३; भा-९/९) विशेषणानाम् युक्तवद्भावः भवति आ जातिप्रयोगात् ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१/१७) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-२/१७) विशेषणानाम् वचनम् जातिनिवृत्त्यर्थम् ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-३/१७) जातिनिवृत्त्यर्थः अयम् आरम्भः ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-४/१७) किम् उच्यते जातिनिवृत्त्यर्थः इति न पुनः विशेषणानाम् अपि युक्तवद्भावः यथा स्यात् इति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-५/१७) समानाधिकरणत्वात् सिद्धम् ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-६/१७) समानाधिकरणत्वात् विशेषणानाम् युक्तवद्भावः भविष्यति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-७/१७) यदि एवम् न अर्थः अनेन ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-८/१७) लुपः अन्यत्र अपि जातेः युक्तवद्भावः न भवति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-९/१७) क्व अन्यत्र ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१०/१७) बदरी सूक्ष्मकण्टका मधुरा वृक्षः इति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-११/१७) किम् पुनः कारणम् अन्यत्र अपि जातेः युक्तवद्भावः न भवति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१२/१७) आविष्टलिङ्गा जातिः यत् लिङ्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात् न तत् लिङ्गम् जहाति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१३/१७) न तर्हि इदानीम् अयम् योगः वक्तव्यः ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१४/१७) वक्तव्यः च ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१५/१७) किम् प्रयोजनम् ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१६/१७) इदम् तत्र तत्र उच्यते गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति ।

(पा-१,२.५२.२; अकि-१,२२८.११-२१; रो-२,१०३-१०४; भा-१७/१७) तत् अनेन क्रियते

(पा-१,२.५२.३; अकि-१,२२८.२२-२२९.५; रो-२,१०४-१०५; भा-१/५) हरीतक्यादिषु व्यक्तिः । हरीतक्यादिषु व्यक्तिः भवति युक्तवद्भावेन ॒ हरीतक्याः फलानि हरीतक्यः फलानि ।

(पा-१,२.५२.३; अकि-१,२२८.२२-२२९.५; रो-२,१०४-१०५; भा-२/५) खलतिकादिषु वचनम् ।

(पा-१,२.५२.३; अकि-१,२२८.२२-२२९.५; रो-२,१०४-१०५; भा-३/५) खलतिकादिषु वचनम् भवति युक्तवद्भावेन ॒ खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकम् वनानि ।

(पा-१,२.५२.३; अकि-१,२२८.२२-२२९.५; रो-२,१०४-१०५; भा-४/५) मनुष्यलुपि प्रतिषेधः ।

(पा-१,२.५२.३; अकि-१,२२८.२२-२२९.५; रो-२,१०४-१०५; भा-५/५) मनुष्यलुपि प्रतिषेधः वक्तव्यः ॒ चञ्चा अभिरूपः , वध्रिका दर्शनीयः ।

(पा-१,२.५३; अकि-१,२२९.७-८; रो-२,१०६; भा-१/३) किम् याः एताः कृत्रिमाः टिघुभादिसञ्ज्ञाः तत्प्रामाण्यात् अशिष्यम् ।

(पा-१,२.५३; अकि-१,२२९.७-८; रो-२,१०६; भा-२/३) न इति आह ।

(पा-१,२.५३; अकि-१,२२९.७-८; रो-२,१०६; भा-३/३) सञ्ज्ञानम् सञ्ज्ञा ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१/५३) इदम् अयुक्तम् वर्तते ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२/५३) किम् अत्र अयुक्तम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३/५३) बहवः ते अर्थाः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४/५३) तत्र युक्तम् बहुवचनम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-५/५३) तत् यत् एकवचने शासितव्ये बहुवचनम् शिष्यते एतत् अयुक्तम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-६/५३) बहुषु एकवचनम् इति नाम वक्तव्यम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-७/५३) अतः उत्तरम् पठति ॒ जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् । जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् भविष्यति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-८/५३) यत् तत् व्रीहौ व्रीहित्वम् यवे यवत्वम् गार्ग्ये गार्ग्यत्वम् तत् एकम् तच् च विवक्षितम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-९/५३) तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१०/५३) इष्यते च बहुवचनम् स्यात् इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-११/५३) तत् च अन्तरेण यत्नम् न सिध्यति इति जात्याख्यायम् एकस्मिन् बहुवचनम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१२/५३) एवमर्थम् इदम् उच्यते ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१३/५३) अस्ति प्रयोजनम् एतत् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१४/५३) किम् तर्हि इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१५/५३) तत्र एकवचनादेशे उक्तम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१६/५३) किम् उक्तम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१७/५३) व्रीहिभ्यः आगतः इति अत्र घेः ङिति इति गुणः प्राप्नोति इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१८/५३) न एषः दोषः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-१९/५३) अर्थातिदेशात् सिद्धम् । अर्थातिदेशः अयम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२०/५३) न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२१/५३) किम् तर्हि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२२/५३) अन्वर्थग्रहणम् ॒ उच्यते वचनम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२३/५३) बहूनाम् अर्थानाम् वचनम् बहुवचनम् इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२४/५३) यावत् ब्रूयात् एकः अर्थः बहुवत् भवति इति तावत् एकस्मिन् बहुवचनम् इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२५/५३) सङ्ख्याप्रयोगे प्रतिषेधः । सङ्ख्याप्रयोगे प्रतिषेधः वक्तव्यः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२६/५३) एकः व्रीहिः सम्पन्नः सुभिक्षम् करोति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२७/५३) अस्मदः नामयुवप्रत्यययोः च । अस्मदः नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधः वक्तव्यः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२८/५३) नामप्रयोगे ॒ अहम् देवदत्तः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-२९/५३) अहम् यज्ञदत्तः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३०/५३) युवप्रत्ययप्रयोगे ॒ अहं गार्ग्यायणः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३१/५३) अहम् वात्स्यायनः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३२/५३) युवग्रहणेन नार्थः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३३/५३) अस्मदः नामप्रत्ययप्रयोगे न इति एव ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३४/५३) इदम् अपि सिद्धम् भवति ॒ अहम् गार्ग्यः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३५/५३) अहम् वात्स्यः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३६/५३) अपरः आह ॒ अस्मदः सविशेषणस्य प्रयोगे न इति एव ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३७/५३) इदम् अपि सिद्धम् भवति ॒ अहम् पटुः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३८/५३) अहम् पण्डितः ब्रवीमि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-३९/५३) अशिष्यम् वा बहुवत् पृथक्त्त्वाभिधानात् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४०/५३) अशिष्यः वा बहुवद्भावः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४१/५३) किम् कारणम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४२/५३) पृथक्त्वाभिधानात् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४३/५३) पृथक्त्वेन हि द्रव्याणि अभिधीयन्ते ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४४/५३) बहवः ते अर्थाः ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४५/५३) तत्र युक्तम् बहुवचनम् ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४६/५३) किम् उच्यते पृथक्त्वाभिधानात् इति यावता इदानीम् एव उक्तम् ॒ जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४७/५३) जातिशब्देन हि द्रव्याभिधानम् । जातिशब्देन हि द्रव्यम् अपि अभिधीयते जातिः अपि ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४८/५३) कथम् पुनः ज्ञायते जातिशब्देन द्रव्यम् अपि अभिधीयते इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-४९/५३) एवम् हि कः चित् महति गोमण्डले गोपालकम् आसीनम् पृच्छति ॒ अस्ति अत्र काम् चिद् गाम् पश्यसि इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-५०/५३) सः पश्यति ॒ पश्यति च अयम् गाः पृच्छति च काम् चिद् अत्र गाम् पश्यसि इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-५१/५३) नूनम् अस्य द्रव्यम् विवक्षितम् इति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-५२/५३) तत् यदा द्रव्याभिधानम् तदा बहुवचनम् भविष्यति ।

(पा-१,२.५८; अकि-१,२२९.१०-२३०.२१; रो-२,१०६-१०९; भा-५३/५३) यदा सामान्याभिधानम् तदा एकवचनम् भविष्यति ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-१/९) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-२/९) कथम् अहम् ब्रवीमि , आवाम् ब्रूवः , वयम् ब्रूमः ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-३/९) इमानि इन्द्रियाणि कदा चित् स्वातन्त्र्येण विवक्षितानि भवन्ति ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-४/९) तत् यथा ॒ इदम् मे अक्षि सुष्ठु पश्यति ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-५/९) अयम् मे कर्णः सुष्ठु शृणोति इति ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-६/९) कदा चित् पारतन्त्र्येण ॒ अनेन अक्ष्णा सुष्ठु पश्यामि ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-७/९) अनेन कर्णेन सुष्ठु शृणोमि इति ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-८/९) तत् यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनम् भविष्यति ।

(पा-१,२.५९; अकि-१,२३०.२३-२३१.२; रो-२,१०९-११०; भा-९/९) यदा पारतन्त्र्येण तदा एकवचनद्विवचने भविष्यतः ।

(पा-१,२.६०; अकि-१,२३१.४-७; रो-२,११०; भा-१/६) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,२.६०; अकि-१,२३१.४-७; रो-२,११०; भा-२/६) कथम् उदिते पूर्वे फल्गुन्यौ , उदिताः पूर्वाः फल्गुन्यः , उदिते पूर्वे प्रोष्ठपदे , उदिताः पूर्वाः प्रोष्ठपदाः ।

(पा-१,२.६०; अकि-१,२३१.४-७; रो-२,११०; भा-३/६) फल्गुनीसम्पीपगते चन्द्रमसि फल्गुनीशब्दः वर्तते ।

(पा-१,२.६०; अकि-१,२३१.४-७; रो-२,११०; भा-४/६) बहवः ते अर्थाः ।

(पा-१,२.६०; अकि-१,२३१.४-७; रो-२,११०; भा-५/६) तत्र युक्तम् बहुवचनम् ।

(पा-१,२.६०; अकि-१,२३१.४-७; रो-२,११०; भा-६/६) यदा तयोः एव अभिधानम् तदा द्विवचनम् भविष्यति ।

(पा-१,२.६१-६२; अकि-१,२३१.१०-१२; रो-२,११०; भा-१/४) इमौ अपि योगौ शक्यौ अवक्तुम् ।

(पा-१,२.६१-६२; अकि-१,२३१.१०-१२; रो-२,११०; भा-२/४) कथम् ।

(पा-१,२.६१-६२; अकि-१,२३१.१०-१२; रो-२,११०; भा-३/४) पुनर्वसुविशाखयोः सुपाम् सुलुक्पूर्वसवर्ण इति सिद्धम् ।

(पा-१,२.६१-६२; अकि-१,२३१.१०-१२; रो-२,११०; भा-४/४) पुनर्वसुविशाखयोः सुपाम् सुलुक्पूर्वसवर्ण इति एव सिद्धम्

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१/२४) तिष्यपुनर्वस्वोः इति किमर्थम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-२/२४) कृत्तिकारोहिण्यः ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-३/२४) नक्षत्र इति किमर्थम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-४/२४) तिष्यः च माणवकः पुनर्वसू मणवकौ तिष्यपुनर्वसवः ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-५/२४) अथ नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणम् किमर्थम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-६/२४) अयम् तिष्यपुनर्वसुशब्दः अस्ति एव ज्योतिषि वर्तते ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-७/२४) अस्ति च कालवाची ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-८/२४) तत् यथा ॒ बहवः तिष्यपुनर्वसवः अतिक्रान्ताः ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-९/२४) कतरेण तिष्येण गतः इति ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१०/२४) तत् यः ज्योतिषि वर्तते तस्य इदम् ग्रहणम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-११/२४) अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणस्य एतत् प्रयोजनम् ॒ विदेशस्थम् अपि तिष्यपुनर्वस्वोः कार्यम् तत् अपि नक्षत्रस्य एव यथा स्यात् ॒ तिष्यपुष्ययोः नक्षत्राणि यलोपः वक्तव्यः इति नक्षत्रग्रहणम् न कर्तव्यम् भवति ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१२/२४)
अथ वा अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्र ग्रहणस्य एतत् प्रयोजनम् ॒ तिष्यपुनर्वसुपर्यायवाचिनाम् अपि यथा स्यात् ॒ पुष्यपुनर्वसू सिध्यपुनर्वसू ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१३/२४)
अथ द्वन्द्वे इति किमर्थम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१४/२४)
यः तिष्यः तौ पुनर्वसू येषाम् ते इमे तिष्यपुनर्वसवः उन्मुग्धाः ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१५/२४)
बहुवचनस्य इति किमर्थम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१६/२४)
उदितम् तिष्यपुनर्वसू ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१७/२४)
कथम् च अत्र एकवचनम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१८/२४)
जातिद्वन्द्वः एकवत् भवति इति ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-१९/२४)
अप्राणिनाम् इति प्रतिषेधः प्राप्नोति ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-२०/२४)
एवम् तर्हि सिद्धे सति यत् बहुवचनग्रहणम् करोति तत् ज्ञापयति आचार्यः ॒ सर्वः द्वन्द्वः विभाषा एकवत् भवति इति ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-२१/२४)
किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-२२/२४)
बाभ्रवशालङ्कायनम् बाभ्रवशालङ्कायनाः इति एतत् सिद्धम् भवति ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-२३/२४)
अथ वा न अत्र भवन्तः प्राणिनाः ।

(पा-१,२.६३; अकि-१,२३१.१४-२३२.७ ऋ ११०-११३; भा-२४/२४)
प्राणाः एव अत्र भवन्तः ।