व्याकरणमहाभाष्य खण्ड 16

विकिपुस्तकानि तः



(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-१/१३) किम् इह उदाहरणम् ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-२/१३) इकः यण् अचि ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-३/१३) दधि अत्र मधु अत्र ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-४/१३) न एतत् अस्ति ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-५/१३) स्थाने अन्तरतमेन अपि एतत् सिद्धम् ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-६/१३) कुतः आन्तर्यम् ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-७/१३) तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-८/१३) इदम् तर्हि ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-९/१३) तस्थस्थमिपाम् ताम्तम्तामः इति ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-१०/१३) ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-११/१३) कुतः आन्तर्यम् ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-१२/१३) एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति ।

(पा-१,३.१०.१; अकि-१,२६७.८-१३; रो-२,२१८; भा-१३/१३) इदम् तर्हि तूदीशलात्रुअवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१/१६) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-२/१६) सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् । सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-३/१६) सञ्ज्ञया तावत् ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-४/१६) परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-५/१६) समासैः ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-६/१६) तूदीशलातुरवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-७/१६) सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-८/१६) सर्वस्य उद्देशस्य सर्वः अनुदेशः प्राप्नोति ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-९/१६) इष्यते च समसङ्ख्यम् यथा स्यात् इति ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१०/१६) तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथासङ्ख्यवचनम् नियमार्थम् ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-११/१६) एवमर्थम् इदम् उच्यते ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१२/१६) किम् पुनः कारणम् सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१३/१६) सञ्ज्ञासमासनिर्देशः ल्पृथक् विभक्तिसञ्ज्ञ्यनुच्चारणार्थः । सञ्ज्ञया समासैः च निर्देशाः क्रियन्तेपृथक् विभक्तीः सञ्ज्ञिनः च मा उच्चिचीरम् इति ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१४/१६) प्रकरणे च सर्वसम्प्रत्ययार्थः ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१५/१६) प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् ।

(पा-१,३.१०.२; अकि-१,२६७.१४-२६८.२; रो-२,२१८-२२०; भा-१६/१६) विदः लटः वा इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१/१३९) किम् पुनः शब्दतः साम्ये सङ्ख्यातानुदेशः भवति आहोस्वित् अर्थतः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२/१३९) कः च अत्र विशेषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३/१३९) सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४/१३९) अगमकः निर्देशः अनिर्देशः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५/१३९) परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः शब्दः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७/१३९) डारौरसः प्रथमस्य ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८/१३९) डारौरसः बहवः प्रथमस्य इति एकः शब्दः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०/१३९) एचः अयवायावः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११/१३९) अयवायावः बहवः एचः इति एकः शब्दः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३/१३९) अस्तु तर्हि अर्थतः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१४/१३९) अर्थतः चेत् लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१५/१३९) लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः भवति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१६/१३९) स्यतासीलृलुटोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१७/१३९) स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१८/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१९/१३९) नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२०/१३९) नन्द्यादयः बहवः ल्युणिन्यचः त्रयः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२१/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२२/१३९) अरीहणादयः बहवः वुञादयः सप्तदश ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२३/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२४/१३९) सिन्धुतक्षशिलादिभ्यः अणञौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२५/१३९) सिन्धुतक्षशिलादयः बहवः अणञौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२६/१३९) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२७/१३९) आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२८/१३९) आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-२९/१३९) आत्मनेपदविधिः च न सिध्यति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३०/१३९) अनुदात्तङितः आत्मनेपदम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३१/१३९) अनुदात्तङितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३२/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३३/१३९) निष्ठा ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३४/१३९) रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३५/१३९) रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३६/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३७/१३९) सार्वधातुकद्विग्रहणेषु च दोषः भवति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३८/१३९) श्नसोः अल्लोपः श्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-३९/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४०/१३९) एङः पूर्वत्वे प्रतिषेधः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४१/१३९) एङः पूर्वत्वे प्रतिषेधः वक्तव्यः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४२/१३९) एङः पदान्तात् अति ङसिङसोः च ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४३/१३९) ङसिङसौ द्वौ एङ् इति अस्य द्वौ अर्थौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४४/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४५/१३९) अस्तु तर्हि शब्दतः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४६/१३९) ननु च उक्तम् सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४७/१३९) न एषः दोषाः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४८/१३९) स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-४९/१३९) कुतः आन्तर्यम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५०/१३९) एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५१/१३९) संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५२/१३९) अतिप्रसङ्गः गुणवृद्धिप्रतिषेधे क्ङिति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५३/१३९) अतिप्रसङ्गः भवति गुणवृद्धिप्रतिषेधे क्ङिति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५४/१३९) गुणवृद्धी द्वे क्ङितौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५५/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५६/१३९) न एषः दोषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५७/१३९) गकारः अपि अत्र निर्दिश्यते ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५८/१३९) तत् गकारग्रहणम् अपि कर्तव्यम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-५९/१३९) न कर्तव्यम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६०/१३९) क्रियते न्यासे एव ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६१/१३९) ककारे गकारः चर्त्वभूतः निर्दिश्यते ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६२/१३९) गिति किति ङिति इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६३/१३९) उदि कूले रुजिवहोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६४/१३९) उदिकूले द्वे रुजिवहौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६५/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६६/१३९) न एषः दोषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६७/१३९) न उदिः उपपदम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६८/१३९) किम् तर्हि ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-६९/१३९) विशेषणम् रुजिवहोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७०/१३९) उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७१/१३९) तच्छीलादिषु धातुत्रिग्रहणेषु ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७२/१३९) तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७३/१३९) विदिभिदिच्छिदेः कुरच् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७४/१३९) विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७५/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७६/१३९) घञादिषु द्विग्रहणेषु ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७७/१३९) घञादिषु द्विग्रहणेषु दोषः भवति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७८/१३९) निरभ्योः पूल्वोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-७९/१३९) निरभी द्वौ पूल्वौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८०/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८१/१३९) न एषः दोषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८२/१३९) इष्यते च अत्र सङ्ख्यातानुदेशः ॒ निष्पावः , अभिलावः इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८३/१३९) एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८४/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८५/१३९) अवे तृ̄स्त्रोः करणाधिकरणयोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८६/१३९) तृ̄स्त्रौ द्वौ करणाधिकरणे द्वे ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८७/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८८/१३९) कर्तृकर्मणोः च भूकृञोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-८९/१३९) कर्तृकर्मणी द्वे भूकृञौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९०/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९१/१३९) अनवक्ल्̥प्त्यमर्षयोः अकिंवृत्ते अपि ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९२/१३९) अनवक्ल्̥प्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९३/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९४/१३९) कृभ्वोः क्त्वाणमुलौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९५/१३९) कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९६/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९७/१३९) अधीयानविदुषोः छन्दोब्राह्मणानि ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९८/१३९) छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-९९/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१००/१३९) रोपधेतोः पथिदूतयोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०१/१३९) रोपधेतोः प्राचाम् तत् गच्छति पथिदूतयोः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०२/१३९) रोपधेतौ द्वौ पथिदूतौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०३/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०४/१३९) तत्र भवतः तस्य व्याख्यानः क्रतुयज्ञेभ्यः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०५/१३९) तत्र भवतस्तस्यव्याख्यानौ द्वौ क्रतुयज्ञौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०६/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०७/१३९) सङ्घादिषु अञ्प्रभृतयः षङ्घादिषु अञ्प्रभृतयः सङ्ख्यातानुदेशेन न सिध्यन्ति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०८/१३९) न एषः दोषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१०९/१३९) घोषग्रहणम् अत्र कर्तव्यम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११०/१३९) वेशोयशाअदेः भगात् यल्खौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१११/१३९) वेशोयशाअदी द्वौ यल्खौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११२/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११३/१३९) ङसिङसोः ख्यत्यात् परस्य ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११४/१३९) ङसिङसौ द्वौ ख्यत्यौ द्वौ ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११५/१३९) तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११६/१३९) न वा समानयोगवचनात् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११७/१३९) न वा एषः दोषः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११८/१३९) किम् कारणम् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-११९/१३९) समानयोगवचनात् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२०/१३९) समानयोगे सङ्ख्यातानुदेशम् वक्ष्यामि ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२१/१३९) तस्य दोषः विदः लटः वा ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२२/१३९) तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२३/१३९) ध्माधेत्टोः नाडीमुष्ट्योः च ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२४/१३९) ध्माधेत्टोः नाडीमुष्ट्योः च सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२५/१३९) खलगोरथात् इनित्रकट्यचः च ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२६/१३९) सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२७/१३९) सिन्ध्वपकराभ्याम् कन् अणञौ च ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२८/१३९) सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१२९/१३९) युष्मदस्मदोः च आदेशाः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३०/१३९) युष्मदस्मदोः च आदेशाः सङ्ख्यातानुदेशेन न सिध्यन्ति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३१/१३९) तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः ताम् आस्थाय प्रतिविधेयम् दोषेषु ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३२/१३९) अथ वा एवम् वक्ष्यामि ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३३/१३९) यथासङ्ख्यम् अनुदेशः समानाम् स्वरितेन ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३४/१३९) ततः अधिकारः ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३५/१३९) अधिकारः च भवति स्वरितेन इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३६/१३९) एवम् अपि स्वरितम् दृष्ट्वा सन्देहः स्यात् ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३७/१३९) न ज्ञायते किम् अयम् समसङ्ख्यार्थः आहोस्वित् अधिकारार्थः इति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३८/१३९) सन्देहमात्रम् एतत् भवति ।

(पा-१,३.१०.३; अकि-१,२६८.३-२७१.१७; रो-२,२२०-२२७; भा-१३९/१३९) सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति समसङ्ख्यार्थः इति व्याख्यास्यामः ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१/२९) किमर्थम् इदम् उच्यते ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२/२९) अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-३/२९) अधिकारः क्रियते प्रतियोगम् तस्य अनिर्देशार्थः इति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-४/२९) किम् इदम् प्रतियोगम् इति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-५/२९) योगम् योगम् प्रति प्रतियोगम् ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-६/२९) योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-७/२९) किम् गतम् एतत् इयता सूत्रेण ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-८/२९) गतम् इति आह ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-९/२९) कुतः ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१०/२९) लोकतः ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-११/२९) तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१२/२९) शब्देन च अपि अधिकृतेन कः अन्यः व्यापारः शक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् ।



(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१३/२९) न वा निर्दिश्यमानाधिकृतत्वात् यथा लोके ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१४/२९) न वा एतत् प्रयोजनम् ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१५/२९) किम् कारणम् ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१६/२९) निर्दिश्यमानाधिकृतत्वात् यथा लोके ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१७/२९) निर्दिश्यमानम् अधिकृतम् गम्यते ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१८/२९) तत् यथा ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-१९/२९) देवदत्ताय गौः दीयताम् यज्ञदत्ताय विष्णुमित्राय इति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२०/२९) गौः इति गम्यते ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२१/२९) एवम् इह अपि पदरुजविशस्पृशः घञ् सृ स्थिरे भावे ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२२/२९) घञ् इति गम्यते ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२३/२९) अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२४/२९) अन्यनिर्देशः तु लोके निवर्तकः भवति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२५/२९) तत् यथा ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२६/२९) देवदत्ताय गौः दीयताम् यज्ञदत्ताय कम्बलः विष्णुमित्राय च इति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२७/२९) कम्बलः गोनिवर्तकः भवति ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२८/२९) एवम् इह अपि अभिविधौ भावे इनुण् घञः निवर्तकः स्यात् ।

(पा-१,३.११.१; अकि-१,२७१.१९-२७२.१०; रो-२,२२८-२२९; भा-२९/२९) तस्मात् परिभाषा कर्तव्या ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१/३६) अधिकारपरिमाणाज्ञानम् तु ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२/३६) अधिकारपरिमाणाज्ञानम् तु भवति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३/३६) न ज्ञायते कियन्तम् अवधिम् अधिकारः अनुवर्तते इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-४/३६) अधिकारपरिमाणज्ञानार्थम् तु ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-५/३६) अधिकारपरिमाणज्ञानार्थम् एव तर्हि अयम् योगः वक्तव्यः ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-६/३६) अधिकारपरिमाणम् ज्ञास्यामि इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-७/३६) कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् शक्यम् विज्ञातुम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-८/३६) एवम् वक्ष्यामि स्वरिते न अधिकारः इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-९/३६) स्वरितम् दृष्ट्वा अधिकारः न भवति इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१०/३६) केन इदानीम् अधिकारः भविष्यति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-११/३६) लौकिकः अधिकारः ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१२/३६) न अधिकारः इति चेत् उक्तम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१३/३६) किम् उक्तम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१४/३६) अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१५/३६) अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१६/३६) ननु च उक्तम् अधिकारपरिमाणाज्ञानम् तु इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१७/३६) यावतिथः अल् अनुबन्धः तावतः योगान् इति वचनात् सिद्धम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१८/३६) यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-१९/३६) अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२०/३६) भूयसि प्राग्वचनम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२१/३६) भूयसि प्राग्वचनम् कर्तव्यम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२२/३६) प्राक् अमुतः इति वक्तव्यम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२३/३६) तत् तर्हि वक्तव्यम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२४/३६) न वक्तव्यम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२५/३६) सन्देहमात्रम् एतत् भवति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२६/३६) सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२७/३६) प्राक् अमुतः इति व्याख्यास्यामः ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२८/३६) यदि एवम् न अर्थः अनेन ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-२९/३६) केन इदानीम् अधिकारः भविष्यति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३०/३६) लौकिकः अधिकारः ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३१/३६) ननु च उक्तम् न अधिकारः इति चेत् उक्तम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३२/३६) किम् उक्तम् ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३३/३६) अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३४/३६) सन्देहमात्रम् एतत् भवति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३५/३६) सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

(पा-१,३.११.२; अकि-१,२७२.११-२७३.५; रो-२,२२९-२३०; भा-३६/३६) इनुण् घञ् इति सन्देहे घञ् इति व्याख्यास्यामः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१/३३) न तर्हि इदानीम् अयम् योगः वक्तव्यः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२/३३) वक्तव्यः च ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-३/३३) किम् प्रयोजनम् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-४/३३) स्वरितेन अधिकारगतिः यथा विज्ञायेत , अधिकम् कार्यम् , अधिकः कारः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-५/३३) अधिकारगतिः ॒ गोस्त्रियोः उपसर्जनम् इति अत्र गोटाङ्ग्रहणम् चोदितम् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-६/३३) तत् न कर्तव्यम् भवति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-७/३३) स्त्रीग्रहणम् स्वरयिष्यते ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-८/३३) स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् विज्ञास्यते ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-९/३३) तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१०/३३) अधिकम् कार्यम् ॒ अपादानम् आचार्यः किम् न्याय्यम् मन्यते ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-११/३३) यत्र प्राप्य निवृत्तिः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१२/३३) तेन इह एव स्यात् ॒ ग्रामात् आगच्छति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१३/३३) नगरात् आगच्छति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१४/३३) साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१५/३३) स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१६/३३) तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१७/३३) यत्र कृत्स्नः आधारात्मा व्याप्तः भवति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१८/३३) तेन इह एव स्यात् ॒ तिलेषु तैलम् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-१९/३३) दध्नि सर्पिः इति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२०/३३) गङ्गायाम् गावः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२१/३३) कूपे गर्गकुलम् इति अत्र न स्यात् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२२/३३) स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२३/३३) अधिकम् कार्यम् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२४/३३) अधिकः कारः ॒ पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२५/३३) गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२६/३३) नुम्नुटौ स्वरयिष्येते ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२७/३३) तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२८/३३) कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः शक्य न पठितुम् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-२९/३३) लोकतः ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-३०/३३) तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-३१/३३) एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-३२/३३) अधिकारगतिः स्त्र्यर्था विशेषाय अधिकम् कार्यम् ।

(पा-१,३.११.३; अकि-१,२७३.६-२५; रो-२,२३०-२३२; भा-३३/३३) अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१/२४) विकरणेभ्यः प्रतिषेधः वक्तव्यः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-२/२४) चिनुतः सुनुतः लुनीतः पुनीतः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-३/२४) ङितः इति आत्मनेपदम् प्राप्नोति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-४/२४) न एषः दोषः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-५/२४) न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङितः इति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-६/२४) कथम् तर्हि ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-७/२४) ङकारः एव इत् ङित् ङितः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-८/२४) अथ वा उपदेशे इति वर्तते ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-९/२४) अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य कार्यातिदेशात् इति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१०/२४) सर्वथा चङङ्भ्याम् प्राप्नोति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-११/२४) एवम् तर्हि धातोः इति वर्तते ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१२/२४) क्व प्रकृतम् ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१३/२४) भूवादयः धातवः इति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१४/२४) तत् वै प्रथमानिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह अर्थः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१५/२४) अर्थात् विभक्तिविपरिणामः भविष्यति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१६/२४) तत् यथा ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१७/२४) उच्चानि देवदत्तस्य गृहाणि ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१८/२४) आमन्त्रयस्व एनम् ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-१९/२४) देवदत्तम् इति गम्यते ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-२०/२४) देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-२१/२४) आढ्यः वैधवेयः ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-२२/२४) देवदत्तः इति गम्यते ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-२३/२४) पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

(पा-१,३.१२.१; अकि-१,२७४.२-११; रो-२,२३३; भा-२४/२४) एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् पञ्चमीनिर्दिष्टम् भविष्यति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१/५३) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२/५३) आत्मनेपदवचनम् नियमार्थम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३/५३) नियमार्थः अयम् आरम्भः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४/५३) किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-५/५३) लविधानात् विहितम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-६/५३) लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-७/५३) अस्ति प्रयोजनम् एतत् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-८/५३) किम् तर्हि इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-९/५३) विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१०/५३) इदम् इह सम्प्रधार्यम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-११/५३) विकरणाः क्रियन्ताम् नियमः इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१२/५३) किम् अत्र कर्तव्यम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१३/५३) परत्वात् विकरणाः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१४/५३) नित्याः खलु अपि विकरणाः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१५/५३) कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१६/५३) नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१७/५३) न एषः दोषः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१८/५३) अनवकाशः नियमः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-१९/५३) सावकाशः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२०/५३) कः अवकाशः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२१/५३) ये एते लुग्विकरणाः श्लुविकरणाः लिङ्लिटौ च ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२२/५३) यदि पुनः इयम् परिभाषा विज्ञायेत ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२३/५३) किम् कृतम् भवति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२४/५३) कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२५/५३) लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२६/५३) एवम् अपि इतरेतराश्रयम् भवति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२७/५३) का इतरेतराश्रयता ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२८/५३) अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् आत्मनेपदपरस्मैपदसञ्ज्ञया भवितव्यम् सञ्ज्ञया च तिबादयः भाव्यन्ते ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-२९/५३) तत् इतरेतराश्रयम् भवति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३०/५३) इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३१/५३) परस्मैपदेषु तावत् न इतरेतराश्रयम् भवति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३२/५३) परस्मैपदानुक्रमणम् न करिष्यते ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३३/५३) अवश्यम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३४/५३) ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३५/५३) स्वरितञितः कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३६/५३) अनुपराभ्याम् कृञः न इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३७/५३) आत्मनेपदेषु च अपि न इतरेतराश्रयम् भवति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३८/५३) कथम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-३९/५३) भाविनी सञ्ज्ञा विज्ञास्यते सूत्रशाटकवत् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४०/५३) तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४१/५३) सः पश्यति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४२/५३) यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४३/५३) शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४४/५३) सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४५/५३) एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा सञ्ज्ञा भविष्यति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४६/५३) अथ वा पुनः अस्तु नियमः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४७/५३) ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४८/५३) न एषः दोषः ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-४९/५३) आचार्यप्रवृत्तिः ज्ञापयति विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि आश्रयति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-५०/५३) पुषादिद्युताद्ल्̥र्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-५१/५३) न एतत् अस्ति ज्ञापकम् ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-५२/५३) अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च ।

(पा-१,३.१२.२; अकि-१,२७४.११-२७५.१५; रो-२,२३३-२३७; भा-५३/५३) यत् तर्हि अनुपसर्गात् वा इति विभाषाम् शास्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१/१२८) किम् पुनः अयम् प्रत्ययनियमः ॒ अनुदात्तङितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२/१२८) आहोस्वित् प्रकृत्यर्थनियमः ॒ अनुदात्तङितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३/१२८) कः च अत्र विशेषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४/१२८) तत्र प्रत्ययनियमे शेषवचनम् परस्मैपदस्य अनिवृत्तत्वात् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५/१२८) तत्र प्रत्ययनियमे शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६/१२८) शेषात् कर्तरि परस्मैपदम् इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७/१२८) किम् कारणम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८/१२८) परस्मैपदस्य अनिवृत्तत्वात् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९/१२८) प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०/१२८) तत्र परस्मैपदम् प्राप्नोति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११/१२८) तत्र शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२/१२८) शेषात् एव परस्मैपदम् भवति न अन्यतः इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१३/१२८) क्यषः आत्मनेपदवचनम् तस्य अन्यत्र नियमात् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१४/१२८) क्यषः आत्मनेपदम् वक्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१५/१२८) लोहितायति लोहितायते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१६/१२८) किम् पुनः कारणम् न सिध्यति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१७/१२८) तस्य अन्यत्र नियमात् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१८/१२८) तत् हि अन्यत्र नियम्यते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१९/१२८) उच्यते च न च प्राप्नोति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२०/१२८) तत् वचनात् भविष्यति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२१/१२८) अस्तु तर्हि प्रकृत्यर्थनियमः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२२/१२८) प्रकृत्यर्थनियमे अन्याभावः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२३/१२८) प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२४/१२८) अनुदात्तङितः तृजादयः न प्राप्नुवन्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२५/१२८) न एषः दोषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२६/१२८) अनवकाशाः तृजादयः उच्यन्ते च ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२७/१२८) ते वचनात् भविष्यन्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२८/१२८) सावकाशाः तृजादयः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-२९/१२८) कः अवकाशः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३०/१२८) परस्मैपदिनः अवकाशः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३१/१२८) तत्र अपि नियमात् न प्राप्नुवन्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३२/१२८) तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३३/१२८) तव्यादयः अपि अनवकाशाः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३४/१२८) ते वचनात् भविष्यन्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३५/१२८) चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३६/१२८) चिण् अपि वचनात् भविष्यति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३७/१२८) घञ् तर्हि भावकर्मणोः नियमात् न प्राप्नोति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३८/१२८) तत्र अपि प्रकृतम् कर्मग्रहणम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-३९/१२८) क्व प्रकृतम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४०/१२८) अण् कर्मणि च इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४१/१२८) तत् वै तत्र उपपदविशेषणम् अभिधेयविशेषणेन च इह अर्थः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४२/१२८) न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४३/१२८) न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४४/१२८) न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४५/१२८) यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४६/१२८) शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४७/१२८) यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४८/१२८) न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-४९/१२८) भवेत् द्रव्येषु एतत् एवम् स्यात् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५०/१२८) शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५१/१२८) शेषवचनम् च ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५२/१२८) शेषग्रहणम् च कर्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५३/१२८) शेषात् कर्तरि परस्मैपदम् इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५४/१२८) किम् प्रयोजनम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५५/१२८) शेषनियमार्थम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५६/१२८) प्रकृतर्थौ नियतौ ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५७/१२८) प्रत्ययाः अनियताः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५८/१२८) ते शेषे अपि प्राप्नुवन्ति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-५९/१२८) तत्र शेषग्रहणम् कर्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६०/१२८) शेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६१/१२८) कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६२/१२८) कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् शेषग्रहणम् कर्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६३/१२८) शेषात् शेषे इति वक्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६४/१२८) इह मा भूत् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६५/१२८) भिद्यते कुशूलः स्वयम् एव इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६६/१२८) कतरस्मिन् पक्षे अयम् दोषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६७/१२८) प्रकृत्यर्थनियमे ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६८/१२८) प्रकृत्यर्थनियमे तावत् न दोषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-६९/१२८) प्रकृत्यर्थौ नियतौ ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७०/१२८) प्रत्ययाः अनियताः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७१/१२८) तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७२/१२८) प्रत्ययनियमे तर्हि अयम् दोषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७३/१२८) प्रत्ययाः नियताः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७४/१२८) प्रकृत्यर्थौ अनियतौ ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७५/१२८) तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७६/१२८) कर्तृग्रहणात् च एषः दोषः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७७/१२८) प्रकृत्यर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७८/१२८) कथम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-७९/१२८) प्रकृतयर्थौ नियतौ ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८०/१२८) प्रत्ययाः अनियताः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८१/१२८) ततः वक्ष्यामि परस्मैपदम् भवति इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८२/१२८) तत् नियमार्थम् भविष्यति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८३/१२८) यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८४/१२८) तत् तर्हि प्रत्ययनियमे द्वितीयम् शेषग्रहणम् कर्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८५/१२८) न कर्तव्यम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८६/१२८) योगविभागः करिष्यते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८७/१२८) अनुदात्तङितः आत्मनेपदम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८८/१२८) ततः भावकर्मणोः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-८९/१२८) ततः कर्तरि ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९०/१२८) कर्तरि च आत्मनेपदम् भवति भावकर्मणोः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९१/१२८) ततः कर्क्मव्यतिहारे ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९२/१२८) कर्तरि इति एव ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९३/१२८) भावकर्मणोः इति निवृत्तम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९४/१२८) यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९५/१२८) एति जीवन्तम् आनन्दः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९६/१२८) न अस्य किम् चित् रुजति इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९७/१२८) द्वितीयः योगविभागः करिष्यते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९८/१२८) अनुदात्तङितः आत्मनेपदम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-९९/१२८) ततः भावे ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१००/१२८) ततः कर्मणि ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०१/१२८) कर्मणि च आत्मनेपदम् भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०२/१२८) ततः कर्तरि ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०३/१२८) कर्तरि च आत्मनेपदम् भवति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०४/१२८) कर्मणि इति अनुवर्तते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०५/१२८) भावे इति निवृत्तम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०६/१२८) ततः कर्मव्यतिहारे ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०७/१२८) कर्तरि इति एव ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०८/१२८) कर्मणि इति निवृत्तम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१०९/१२८) एवम् अपि शेषग्रहणम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११०/१२८) इह मा भूत् अनुक्रियते स्वयम् एव ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१११/१२८) पराक्रियते स्वयम् एव ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११२/१२८) ननु च एतत् अपि योगविभागात् एव सिद्धम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११३/१२८) न सिध्यति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११४/१२८) अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११५/१२८) कुतः एतत् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११६/१२८) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११७/१२८) परा प्राप्तिः अप्रतिषिद्धा ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११८/१२८) तया भविष्यति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-११९/१२८) ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२०/१२८) न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२१/१२८) एवम् तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२२/१२८) तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२३/१२८) शेषात् कर्तरि कर्तरि इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२४/१२८) किमर्थम् इदम् कर्तरि कर्तरि इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२५/१२८) कर्ता एव यः कर्ता तत्र यथा स्यात् ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२६/१२८) कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२७/१२८) ततः अनुपराभ्याम् कृञः ।

(पा-१,३.१२.३; अकि-१,२७५.१६-२७७.१८; रो-२,२३७-२४४; भा-१२८/१२८) कर्तरि कर्तरि इति एव ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१/२४) क्रियाव्यतिर्हारे इति वक्तव्यम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-२/२४) कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-३/२४) तत् तर्हि वक्तव्यम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-४/२४) न वक्तव्यम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-५/२४) क्रियाम् हि लोके कर्म इति उपचरन्ति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-६/२४) काम् क्रियाम् करिष्यसि ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-७/२४) किम् कर्म करिष्यसि इति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-८/२४) एवम् अपि कर्तव्यम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-९/२४) कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१०/२४) क्रिया अपि कृत्रिमम् कर्म ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-११/२४) न सिध्यति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१२/२४) कर्तुः ईप्सिततमम् कर्म इति उच्यते ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१३/२४) कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१४/२४) क्रिया अपि क्रियेप्सिततमा भवति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१५/२४) कया क्रियया ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१६/२४) सम्पश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१७/२४) इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् सम्पश्यति ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१८/२४) सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-१९/२४) एवम् क्रिया अपि कृत्रिमम् कर्म ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-२०/२४) एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-२१/२४) तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-२२/२४) न वक्तव्यम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-२३/२४) इह कर्तरि व्यतिहारे इति इयता सिद्धम् ।

(पा-१,३.१४.१; अकि-१,२७७.२०-२७८.६; रो-२,२४४-२४५; भा-२४/२४) सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१/२७) अथ कर्तृग्रहणम् किमर्थम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२/२७) कर्मव्यतिहारादिषु कर्तृग्रहणम् भावकर्मनिवृत्त्यर्थम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-३/२७) कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-४/२७) इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-५/२७) अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-६/२७) तत्र कः दोषः ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-७/२७) तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-८/२७) तत्र कः दोषः ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-९/२७) तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१०/२७) व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-११/२७) न वा अनन्तरस्य प्रतिषेधात् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१२/२७) न वा एषः दोषः ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१३/२७) किम् कारणम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१४/२७) अनन्तरस्य प्रतिषेधात् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१५/२७) अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१६/२७) कुतः एतत् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१७/२७) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१८/२७) पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-१९/२७) ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२०/२७) न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२१/२७) उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२२/२७) न कर्तव्यम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२३/२७) क्रियते तत्र एव शेषात् कर्तरि परस्मैपदम् इति ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२४/२७) द्वितीयम् कर्तृग्रहणम् कर्तव्यम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२५/२७) किम् प्रयोजनम् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२६/२७) कर्ता एव यः कर्ता तत्र यथा स्यात् ।

(पा-१,३.१४.२; अकि-१,२७८.७-२१; रो-२,२४६; भा-२७/२७) कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-१/९) प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-२/९) प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-३/९) व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-४/९) हरिवह्योः अप्रतिषेधः ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-५/९) हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-६/९) सम्प्रहरन्ते राजानः ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-७/९) संविवहन्ते गर्गैः इति ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-८/९) न वहिः गत्यर्थः ।

(पा-१,३.१५; अकि-१,२७८.२३-२७९.३; रो-२,२४७; भा-९/९) देशान्तरप्रापणक्रियः वहिः ।

(पा-१,३.१६; अकि-१,२७९.५; रो-२,२४८; भा-१/४) प्ररस्परोपपदात् च ।

(पा-१,३.१६; अकि-१,२७९.५; रो-२,२४८; भा-२/४) प्ररस्परोपपदात् च इति वक्तव्यम् ।

(पा-१,३.१६; अकि-१,२७९.५; रो-२,२४८; भा-३/४) परस्परस्य व्यतिलुनन्ति ।

(पा-१,३.१६; अकि-१,२७९.५; रो-२,२४८; भा-४/४) परस्परस्य व्यतिपुनन्ति ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-१/७) उपसर्गग्रहणम् कर्तव्यम् ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-२/७) परा जयति सेना इति ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-३/७) तत् तर्हि वक्तव्यम् ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-४/७) न वक्तव्यम् ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-५/७) यदि अपि तावत् अयम् पराशब्दः दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु विशब्दः अदृष्टापचारः उपसर्गः एव ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-६/७) तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् ।

(पा-१,३.१९; अकि-१,२७९.९-१३; रो-२,२४८-२४९; भा-७/७) तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न अश्वः न गर्दभः ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-१/१४) आङः दः अव्यसनक्रियस्य ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-२/१४) आङः दः अव्यसनक्रियस्य इति वक्तव्यम् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-३/१४) इह अपि यथा स्यात् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-४/१४) विपादिकाम् व्याददाति ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-५/१४) कूलम् व्याददाति इति ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-६/१४) तत् तर्हि वक्तव्यम् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-७/१४) न वक्तव्यम् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-८/१४) इह आङः दः अनास्ये इति इयता सिद्धम् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-९/१४) सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-१०/१४) यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-११/१४) स्वाङ्गकर्मात् च ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-१२/१४) स्वाङ्गकर्मात् च इति वक्तव्यम् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-१३/१४) इह मा भूत् ।

(पा-१,३.२०; अकि-१,२७९.१५-२३; रो-२,२४९-२५०; भा-१४/१४) व्याददते पिपीलिकाः पतङ्गमुखम् इति ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१/३५) उपसर्गग्रहणम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२/३५) इह मा भूत् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३/३५) अनु क्रीडति माणवकम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-४/३५) समः अकूजने ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-५/३५) समः अकूजने इति वक्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-६/३५) इह मा भूत् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-७/३५) सङ्क्रीडन्ति शकटानि ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-८/३५) आगमेः क्षमायाम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-९/३५) आगमेः क्षमायाम् उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१०/३५) आगमयस्व तावत् माणव्क ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-११/३५) शिक्षेः जिज्ञासायाम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१२/३५) शिक्षेः जिज्ञासायाम् उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१३/३५) विद्यासु शिक्षते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१४/३५) धनुषि शिक्षते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१५/३५) किरतेः हर्षजीविकाकुलायकरणेषु ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१६/३५) किरतेः हर्षजीविकाकुलायकरणेषु उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१७/३५) अपस्किरते वृषभः हृष्टः ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१८/३५) अपस्किरते कुक्कुटः भक्षार्थी ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-१९/३५) अपस्किरते श्वा आश्रयार्थी ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२०/३५) हरतेः गतताच्छील्ये ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२१/३५) हरतेः गतताच्छील्ये उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२२/३५) पैतृकम् अश्वाः अनुहरन्ते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२३/३५) मातृकम् गावः अनुहरन्ते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२४/३५) आङि नुप्रच्छ्योः ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२५/३५) आङि नुप्रच्छ्योः उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२६/३५) आनुते शृगालः ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२७/३५) आपृच्छते गुरुम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२८/३५) आशिषि नाथः ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-२९/३५) आशिषि नाथः उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३०/३५) सर्पिषः नाथते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३१/३५) मधुनः नाथते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३२/३५) शपः उपलम्भने ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३३/३५) शपः उपलम्भने उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३४/३५) देवदत्ताय शपते ।

(पा-१,३.२१; अकि-१,२८०.२-२०; रो-२,२५१-२५३; भा-३५/३५) यज्ञदत्ताय शपते ।

(पा-१,३.२२; अकि-१,२८०.२२-२४; रो-२,२५३; भा-१/५) आङः स्थः प्रतिज्ञाने ।

(पा-१,३.२२; अकि-१,२८०.२२-२४; रो-२,२५३; भा-२/५) आङः स्थः प्रतिज्ञाने इति वक्तव्यम् ।

(पा-१,३.२२; अकि-१,२८०.२२-२४; रो-२,२५३; भा-३/५) अस्तिम् सकारम् आतिष्ठते ।

(पा-१,३.२२; अकि-१,२८०.२२-२४; रो-२,२५३; भा-४/५) आगमौ गुणवृद्धी आतिष्ठते ।

(पा-१,३.२२; अकि-१,२८०.२२-२४; रो-२,२५३; भा-५/५) विकारौ गुणवृद्धी आतिष्ठते ।

(पा-१,३.२४; अकि-१,२८१.२-३; रो-२,२५३; भा-१/४) उदः ईहायाम् ।

(पा-१,३.२४; अकि-१,२८१.२-३; रो-२,२५३; भा-२/४) उदः ईहायाम् इति वक्तव्यम् ।

(पा-१,३.२४; अकि-१,२८१.२-३; रो-२,२५३; भा-३/४) इह मा भूत् ।

(पा-१,३.२४; अकि-१,२८१.२-३; रो-२,२५३; भा-४/४) उत्तिष्ठति सेना इति ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१/२२) उपात् पूजासङ्गतकरणयोः ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-२/२२) उपात् पूजासङ्गतकरणयोः इति वक्तव्यम् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-३/२२) आदित्यम् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-४/२२) चन्द्रमसम् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-५/२२) सङ्गतकरणे ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-६/२२) रथिकान् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-७/२२) अश्वारोहान् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-८/२२) बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-९/२२) पश्य वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१०/२२) मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-११/२२) एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१२/२२) अपरः आह ॒ उपात् देवपूजासङ्गतकरणमित्रकरणपथिषु इति वक्तव्यम् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१३/२२) सङ्गतकरणे उदाहृतम् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१४/२२) मित्रकरणे ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१५/२२) रथिकान् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१६/२२) अश्वारोहान् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१७/२२) पथि. अयम् पन्थाः स्रुघ्नम् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१८/२२) अयम् पन्थाः साकेतम् उपतिष्थते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-१९/२२) वा लिप्सायाम् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-२०/२२) वा लिप्सायाम् इति वक्तव्यम् ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-२१/२२) भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते ।

(पा-१,३.२५; अकि-१, २८१.५-१७; रो-२,२५४; भा-२२/२२) भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा