व्याकरणमहाभाष्य खण्ड 17

विकिपुस्तकानि तः



(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१/१९) अकर्मकात् इति एव ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-२/१९) उत् तपति सुवर्णम् सुवर्णकारः ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-३/१९) स्वाङ्गकर्मकात् च ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-४/१९) स्वाङ्गकर्मकात् च इति वक्तव्यम् ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-५/१९) उत्तपते पाणी ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-६/१९) वितपते पाणी ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-७/१९) उत्तपते पृष्ठम् ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-८/१९) वितपते पृष्ठम् ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-९/१९) अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१०/१९) निष्टप्यते इति ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-११/१९) किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१२/१९) तपिः अयम् अकर्मकः ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१३/१९) अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१४/१९) न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१५/१९) यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१६/१९) तत् यथा ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१७/१९) नदीवहति इति अकर्मकः ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१८/१९) भारम् वहति इति सकर्मकः ।

(पा-१,३.२७; अकि-१,२८१.१९-२८२.५; रो-२,२५५-२५६; भा-१९/१९) तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-१/७) अकर्मकात् इति एव ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-२/७) आयच्छति रज्जुम् कूपात् ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-३/७) आहन्ति वृषलम् पादेन ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-४/७) स्वाङ्गकर्मकात् च ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-५/७) स्वाङ्गकर्मकात् च इति वक्तव्यम् ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-६/७) आयच्छते पाणी ।

(पा-१,३.२८; अकि-१,२८२.७-९; रो-२,२५६; भा-७/७) आहते उदरम् इति ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-१/१५) समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-२/१५) समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-३/१५) संवित्ते सम्पृच्छते संस्वरते ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-४/१५) अर्तिश्रुदृशिभ्यः च ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-५/१५) अर्तिश्रुदृशिभ्यः च इति वक्तव्यम् ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-६/१५) म समृत मा समृषाताम् मा समृषत ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-७/१५) अर्ति ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-८/१५) श्रु ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-९/१५) संश्र्णुते ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-१०/१५) दृशि ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-११/१५) सम्पश्यते ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-१२/१५) उपसर्गात् अस्यत्यूह्योः वावचनम् ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-१३/१५) उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-१४/१५) निरस्यति निरस्यते ।

(पा-१,३.२९; अकि-१,२८२.११-१८; रो-२,२५६-२५७; भा-१५/१५) समूहति समूहते ।

(पा-१,३.४०; अकि-१,२८२.२०-२१; रो-२,२५७; भा-१/३) ज्योतिषाम् उद्गमने. ज्योतिषाम् उद्गमने इति वक्तव्यम् ।

(पा-१,३.४०; अकि-१,२८२.२०-२१; रो-२,२५७; भा-२/३) इह मा भूत् ।

(पा-१,३.४०; अकि-१,२८२.२०-२१; रो-२,२५७; भा-३/३) आक्रामति धूमः हर्म्यतलम् इति ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१/१९) व्यक्तवाचाम् इति किमर्थम् ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-२/१९) वरतनु सम्प्रवदन्ति कुक्कुटाः ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-३/१९) व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-४/१९) एते अपि हि व्यक्तवाचः ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-५/१९) आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-६/१९) एवम् तर्हि व्यक्तवाचाम् इति उच्यते ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-७/१९) सर्वे एव हि व्यक्तवाचः ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-८/१९) तत्र प्रकर्षगतिः विज्ञास्यते ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-९/१९) साधीयः ये व्यक्तवाचः इति ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१०/१९) के च साधीयः ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-११/१९) येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१२/१९) न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१३/१९) एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१४/१९) आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१५/१९) न एवम् ते आहुः ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१६/१९) अनुकरणम् एतत् तेषाम् ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१७/१९) अथ वा न एवम् विज्ञायते व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१८/१९) कथम् तर्हि ।

(पा-१,३.४८; अकि-१,२८३.२-११; रो-२,२५७-२५८; भा-१९/१९) व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति ।

(पा-१,३.५१; अकि-१,२८३.१३-१५; रो-२,२५८; भा-१/६) अवाद् ग्रः गिरतेः ।

(पा-१,३.५१; अकि-१,२८३.१३-१५; रो-२,२५८; भा-२/६) अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् ।

(पा-१,३.५१; अकि-१,२८३.१३-१५; रो-२,२५८; भा-३/६) गृणातेः मा भूत् ।

(पा-१,३.५१; अकि-१,२८३.१३-१५; रो-२,२५८; भा-४/६) तत् तर्हि वक्तव्यम् ।

(पा-१,३.५१; अकि-१,२८३.१३-१५; रो-२,२५८; भा-५/६) न वक्तव्यम् प्रयोगाभावात् ।

(पा-१,३.५१; अकि-१,२८३.१३-१५; रो-२,२५८; भा-६/६) अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-१/८) तृतीयायुक्तात् इति किमर्थम् ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-२/८) उभौ लोकौ चञ्चरसि इमम् च अमुम् च देवल ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-३/८) तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-४/८) अत्र अपि हि तृतीयया योगः ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-५/८) एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-६/८) तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यत्र तृतीयया योगः इति ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-७/८) क्व च साधीयः ।

(पा-१,३.५४; अकि-१,२८३.१७-२२; रो-२,२५८-२५९; भा-८/८) यत्र तृतीयया योगः श्रूयते ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-१/११) सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-२/११) कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-३/११) एवम् तर्हि अशिष्टव्यवहारे अनेन तृतीया च विधीयते आत्मनेपदम् च ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-४/११) दास्या सम्प्रयच्छते ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-५/११) वृषल्या सम्प्रच्छते ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-६/११) यः हि शिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-७/११) यदि एवम् न अर्थः अनेन योगेन ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-८/११) केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-९/११) सहयुक्ते तृतीया स्यात् व्यतिहारे तङः विधिः ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-१०/११) सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति ।

(पा-१,३.५५; अकि-१,२८४.२-८; रो-२,२५९-२६०; भा-११/११) कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् ।

(पा-१,३.५६; अकि-१,२८४.१०-१२; रो-२,२६०; भा-१/६) इह कस्मात् न भवति ।

(पा-१,३.५६; अकि-१,२८४.१०-१२; रो-२,२६०; भा-२/६) स्वम् शाटकान्तम् उपयच्छति इति ।

(पा-१,३.५६; अकि-१,२८४.१०-१२; रो-२,२६०; भा-३/६) अस्वम् यदा स्वम् करोति तदा भवितव्यम् ।

(पा-१,३.५६; अकि-१,२८४.१०-१२; रो-२,२६०; भा-४/६) यदि एवम् स्वीकरणे इति प्राप्नोति ।

(पा-१,३.५६; अकि-१,२८४.१०-१२; रो-२,२६०; भा-५/६) विचित्राः तद्धितवृत्तयः ।

(पा-१,३.५६; अकि-१,२८४.१०-१२; रो-२,२६०; भा-६/६) न अतः तद्धितः उत्पद्यते ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१/१६) अनोः ज्ञः प्रतिषेधे सकर्मकवचनम् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-२/१६) अनोः ज्ञः प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-३/१६) इह म भूत् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-४/१६) औषधस्य अनुजिज्ञासते इति ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-५/१६) न वा अकर्मकस्य उत्तरेण विधानात् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-६/१६) न वा कर्तव्यम् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-७/१६) किम् कारणम् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-८/१६) अकर्मकस्य उत्तरेण विधानात् ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-९/१६) अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१०/१६) प्रतिषेधः पूर्वस्य च ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-११/१६) पूर्वस्य च अयम् प्रतिषेधः ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१२/१६) सः च सकर्मकार्थः आरम्भः ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१३/१६) कथम् पुनः ज्ञायते पूर्वय्स अयम् प्रतिषेधः इति ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१४/१६) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१५/१६) कथम् पुनः ज्ञायते सकर्मकार्थः आरम्भः इति ।

(पा-१,३.५८; अकि-१,२८४.१४-२८५.२; रो-२,२६०-२६१; भा-१६/१६) अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः विज्ञायते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१/३६) शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२/३६) शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदस्य अभावः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३/३६) शीयते शीयेते शीयन्ते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-४/३६) किम् च भोः शदेः शित् परस्मैपदेषु इति उच्यते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-५/३६) न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु विज्ञायते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-६/३६) कथम् अनुदात्तङितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् उच्यते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-७/३६) एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च विज्ञायते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-८/३६) कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् वक्तुम् ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-९/३६) किम् तर्हि ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१०/३६) अविशेषेण सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य शेषात् कर्तरि परस्मैपदम् इति उच्यते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-११/३६) एवम् अपि परस्मैपदाश्रयः भवति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१२/३६) कथम् ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१३/३६) इदम् तावद् अयम् प्रष्टव्यः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१४/३६) यदि इदम् न उच्येत किम् इह स्यात् इति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१५/३६) परस्मैपदम् इति आह ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१६/३६) परस्मैपदम् इति चेत् परस्मैपदाश्रयः भवति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१७/३६) सिद्धम् तु लडादीनाम् आत्मनेपदवचनम् ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१८/३६) सिद्धम् एतत् ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-१९/३६) कथम् ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२०/३६) शदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२१/३६) सिध्यति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२२/३६) सूत्रम् तर्हि भिद्यते ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२३/३६) यथान्यासम् एव अस्तु ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२४/३६) ननु च उक्तम् शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः इति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२५/३६) न एषः दोषः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२६/३६) शितः इति न एषा पञ्चमी ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२७/३६) का तर्हि ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२८/३६) सम्बन्धषष्ठी ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-२९/३६) शितः यः शदिः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३०/३६) कः च शितः शदिः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३१/३६) प्रकृतिः ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३२/३६) शदेः शित्प्रकृतेः इति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३३/३६) अथ वा आह अयम् शदेः शितः इति न च शदिः शित् अस्ति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३४/३६) ते एवम् विज्ञास्यामः शदेः शिद्विषयात् इति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३५/३६) अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति ।

(पा-१,३.६०.१; अकि-१,२८५.४-२१; रो-२,२६१-२६३; भा-३६/३६) विकरणः हि इह आश्रीयते शितः इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१/६७) उपसर्गपूर्वनियमे अड्व्यवाये उपसङ्ख्यानम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२/६७) उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३/६७) न्यविशत व्यक्रीणीत ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४/६७) किम् पुनः कारणात् न सिध्यति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५/६७) अटा व्यवहितत्वात् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६/६७) ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-७/६७) न सिध्यति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-८/६७) अङ्गस्य हि अट् उच्यते विकरणान्तम् च अङ्गम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-९/६७) सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१०/६७) एवम् तर्हि इदम् इह सम्प्रधार्यम् ॒ अट् क्रियताम् विकरणः इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-११/६७) किम् अत्र कर्तव्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१२/६७) परत्वात् अट् आगमः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१३/६७) नित्याः विकरणाः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१४/६७) कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१५/६७) अट् अपि नित्यः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१६/६७) कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१७/६७) अनित्यः अट् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१८/६७) अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-१९/६७) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२०/६७) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२१/६७) अट् क्रियताम् लादेशः इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२२/६७) किम् अत्र कर्तव्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२३/६७) परत्वात् अट् आगमः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२४/६७) नित्यः लादेशः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२५/६७) कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२६/६७) नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः भविष्यति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२७/६७) नित्यत्वात् लादेशस्य आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२८/६७) नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-२९/६७) अट् अपि नित्यनिमित्तः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३०/६७) कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३१/६७) अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३२/६७) तस्मात् उपसङ्ख्यानम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३३/६७) तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३४/६७) न कर्तव्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३५/६७) अन्तरङ्गः तर्हि लादेशः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३६/६७) न एतत् विवदामहे अन्तरङ्गः न अन्तरङ्गः इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३७/६७) अस्तु अयम् नित्यः अन्तरङ्गः च ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३८/६७) अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति ॒ विकरणाः अट् आगमः नियमः इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-३९/६७) तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४०/६७) तत् तु न लभ्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४१/६७) अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४२/६७) तत् तु न लभ्यम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४३/६७) किम् कारणम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४४/६७) आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४५/६७) अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४६/६७) तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४७/६७) ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४८/६७) पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-४९/६७) न एषः दोषः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५०/६७) यत् तावत् उच्यते आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५१/६७) भवेत् सिद्धम् यत्र विकरणाः नित्याः आङ्गम् अनित्यम् तत्र आङ्गात् पूर्वम् विकरणाः स्युः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५२/६७) यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आङ्गम् तावत् भवति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५३/६७) यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५४/६७) अस्तु अत्र आट् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५५/६७) आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५६/६७) ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५७/६७) न एषः दोषः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५८/६७) चक्रकेषु इष्टतः व्यवस्था ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-५९/६७) अथ वा नेः इति न एषा पञ्चमी ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६०/६७) का तर्हि ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६१/६७) विशेषणषष्ठी ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६२/६७) नेः यः विशिः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६३/६७) कः च नेः विशिः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६४/६७) विशेष्यः ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६५/६७) व्यवहितः च अपि शक्यते विशेषयितुम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६६/६७) अथ वा निः अपि पदम् विशिः अपि पदम् ।पदविधिः च समर्थामाम् ।

(पा-१,३.६०.२; अकि-१,२८५.२२-२८७.५; रो-२,२६३-२६८; भा-६७/६७) व्यवहिते अपि सामर्थ्यम् भवति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१/२२) किम् इदम् पूर्वग्रहणम् सनपेक्षम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-२/२२) प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-३/२२) आहोस्वित् योगापेक्षम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-४/२२) प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-५/२२) किम् च अतः ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-६/२२) यदि सनपेक्षम् निमित्तम् अविशेषितम् भवति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-७/२२) पूर्ववत् सनः न ज्ञायते किमन्तात् भवितव्यम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-८/२२) अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-९/२२) बुभुक्षते उपयुयुक्षते इति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१०/२२) यथा इच्छसि तथा अस्तु ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-११/२२) अस्तु तावत् सनपेक्षम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१२/२२) ननु च उक्तम् निमित्तम् अविशेषितम् भवति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१३/२२) निमित्तम् च विशेषितम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१४/२२) कथम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१५/२२) सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१६/२२) पूर्ववत् सनः आत्मनेपदम् भवति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१७/२२) कुतः सनः इति ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१८/२२) अथ वा पुनः अस्तु योगापेक्षम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-१९/२२) ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-२०/२२) विधिः च प्रक्ल्̥प्तः ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-२१/२२) कथम् ।

(पा-१,३.६२.१; अकि-१,२८७.७-१५; रो-२,२६८-२६९; भा-२२/२२) उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१/५०) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२/५०) पूर्ववत् सनः इति शदिम्रियत्यर्थम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३/५०) शदिम्रियत्यर्थः अयम् आरम्भः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४/५०) शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-५/५०) इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-६/५०) इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-७/५०) शिशित्सति मुमूर्षति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-८/५०) कथम् पुनः पूर्ववत् सनः इति अनेन शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-९/५०) वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१०/५०) तत् यथा ॒ उशीनरवत् मद्रेषु यवाः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-११/५०) सन्ति न सन्ति इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१२/५०) मातृवत् अस्याः कलाः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१३/५०) सन्ति न सन्ति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१४/५०) एवम् इह अपि पूर्ववत् भवति न भवति इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१५/५०) न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१६/५०) यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१७/५०) यदि तर्हि शदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१८/५०) आसिसिषते शिशयिषते ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-१९/५०) अथ विध्यर्थः शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२०/५०) यथा इच्छसि तथा अस्तु ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२१/५०) अस्तु तावत् प्रतिषेधार्थः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२२/५०) ननु च उक्तम् विधिः न प्रकल्पते इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२३/५०) विधिः च प्रक्ल्̥प्तः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२४/५०) कथम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२५/५०) एतत् एव ज्ञापयति सनन्तात् आत्मनेपदम् भवति इति यत् अयम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् शास्ति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२६/५०) अथ वा पुनः अस्तु विध्यर्थः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२७/५०) ननु च उक्तम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२८/५०) न एषः दोषः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-२९/५०) प्रकृतम् सनः न इति अनुवर्तिष्यते ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३०/५०) क्व प्रकृतम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३१/५०) ज्ञाश्रुस्मृदृशाम् सनः न अनोः ज्ञः ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३२/५०) सकर्मकात् सनः न ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३३/५०) प्रत्याङ्भ्याम् श्रुवः सनः न ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३४/५०) शदेः शितः सनः न ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३५/५०) म्रियतेः लुङ्लिङोः च सनः न इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३६/५०) इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३७/५०) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् अविशेषितम् भवति इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३८/५०) न एव वा पुनः अत्र शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-३९/५०) किम् कारणम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४०/५०) शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४१/५०) किम् तर्हि ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४२/५०) शित् अपि निमित्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४३/५०) अथ अपि शदिः एव शित्परः तु निमित्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४४/५०) न च अयम् सन्परः शित्परः भवति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४५/५०) यत्र तर्हि शित् न आश्रीयते म्रियतेः लुङ्लिङोः च इति ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४६/५०) अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४७/५०) किम् तर्हि ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४८/५०) लुङ्लिङौ अपि निमित्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-४९/५०) अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तम् ।

(पा-१,३.६२.२; अकि-१,२८७.१६-२८८.१७; रो-२,२६९-२७१; भा-५०/५०) न च अयम् सन्परः लुङ्लिङ्परः भवति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१/२७) किम् पुनः पूर्वस्य यत् आत्मनेपददर्शनम् तत् सनन्तस्य अपि अतिदिश्यते ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२/२७) एवम् भवितुम् अर्हति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-३/२७) पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-४/२७) पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-५/२७) गुपादीनाम् न प्राप्नोति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-६/२७) जुगुप्सते मीमांसते इति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-७/२७) न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-८/२७) सिद्धम् तु पूर्वस्य लिङ्गातिदेशात् ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-९/२७) सिद्धम् एतत् ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१०/२७) कथम् ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-११/२७) पूर्वस्य यत् आत्मनेपदलिङ्गम् तत् सनन्तस्य अपि अतिदिश्यते ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१२/२७) कृञादिषु तु लिङ्गप्रतिषेधः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१३/२७) कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१४/२७) अनुचिकीर्षति पराचिकीर्षति इति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१५/२७) अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१६/२७) ननु च उक्तम् पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१७/२७) न एषः दोषः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१८/२७) अनुबन्धकरणसामर्थ्यात् भविष्यति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-१९/२७) अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२०/२७) तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२१/२७) यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२२/२७) न एषः दोषः ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२३/२७) अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२४/२७) यम् समुदायम् यः अवयवः न व्यभिचरति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२५/२७) सनम् च न व्यभिचरति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२६/२७) णिचम् पुनः व्यभिचरति ।

(पा-१,३.६२.३; अकि-१,२८८.१८-२८९.८; रो-२,२७१-२७२; भा-२७/२७) तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१/२१) प्रत्ययग्रहणम् णिजर्थम् ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-२/२१) प्रत्ययस्य ग्रहणम् कर्तव्यम् ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-३/२१) पूर्ववत् प्रत्ययात् इति वक्तव्यम् ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-४/२१) किम् प्रयोजनम् ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-५/२१) णिजर्थम् ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-६/२१) णिजन्तात् अपि यथा स्यात् इति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-७/२१) आकुस्मयते विकुस्मयते हृणीयते महीयते इति. तत्र कः दोषः ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-८/२१) तत्र हेतुमण्णिचः प्रतिषेधः ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-९/२१) तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१०/२१) आसयति शाययति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-११/२१) सूत्रम् च भिद्यते ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१२/२१) यथान्यासम् एव अस्तु ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१३/२१) कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति. अनुबन्धकरणसामर्थ्यात् भविष्यति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१४/२१) अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१५/२१) तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१६/२१) यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति हृणीययति महीययति अत्र अपि प्राप्नोति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१७/२१) अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१८/२१) यम् समुदायम् यः अवयवः न व्यभिचरति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-१९/२१) यकम् च न व्यभिचरति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-२०/२१) णिचम् तु व्यभिचरति ।

(पा-१,३.६२.४; अकि-१,२८९.९-२१; रो-२,२७३; भा-२१/२१) तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१/२३) कृञ्ग्रहणम् किमर्थम् ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-२/२३) इह मा भूत् ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-३/२३) ईहामास ईहामासतुः ईहामासुः ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-४/२३) कथम् च अत्र अस्तेः अनुप्रयोगः भवति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-५/२३) प्रत्याहारग्रहणम् तत्र विज्ञायते ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-६/२३) कथम् पुनः ज्ञायते तत्र प्रत्याहारग्रहणम् इति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-७/२३) इह कृञ्ग्रहणात् ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-८/२३) इह कस्मात् प्रत्याहारग्रहणम् न भवति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-९/२३) इह एव कृञ्ग्रहणात् ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१०/२३) अथ इह कस्मात् न भवति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-११/२३) उदुम्भाम् चकार उदुब्जाम् चकार ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१२/२३) ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् पश्यामः ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१३/२३) न ब्रूमः अनेन इति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१४/२३) किम् तर्हि ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१५/२३) स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१६/२३) न एषः दोषः ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१७/२३) इह नियमार्थम् भविष्यति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१८/२३) आम्प्रत्ययवत् एव इति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-१९/२३) यदि नियमार्थम् विधिः न प्रकल्पते ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-२०/२३) ईहाम् चक्रे ऊहाम् चक्रे इति ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-२१/२३) विधिः च प्रक्ल्̥प्तः ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-२२/२३) कथम् पूर्ववत् इति वर्तते ।

(पा-१,३.६३; अकि-१,२८९.२३-२९०.६; रो-२,२७४; भा-२३/२३) आम्प्रत्ययवत् पूर्ववत् च इति ।

(पा-१,३.६४; अकि-१,२९०.८-९; रो-२,२७५; भा-१/४) स्वराद्युपसृष्टात् इति वक्तव्यम् ।

(पा-१,३.६४; अकि-१,२९०.८-९; रो-२,२७५; भा-२/४) उद्युङ्क्ते अनुयुङ्क्ते ।

(पा-१,३.६४; अकि-१,२९०.८-९; रो-२,२७५; भा-३/४) अपरः आह ॒ स्वराद्यन्तोपसृष्टात् इति वक्तयम् ।

(पा-१,३.६४; अकि-१,२९०.८-९; रो-२,२७५; भा-४/४) प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते ।

(पा-१,३.६५; अकि-१,२९०.११-१३; रो-२,२७५; भा-१/४) किमर्थम् विदेशस्थस्य ग्रहणम् क्रियते न समः गमादिषु एव उच्येत ।

(पा-१,३.६५; अकि-१,२९०.११-१३; रो-२,२७५; भा-२/४) समः क्ष्णुवः सकर्मकार्थम् ।

(पा-१,३.६५; अकि-१,२९०.११-१३; रो-२,२७५; भा-३/४) सकर्मकार्थः अयम् आरम्भः ।

(पा-१,३.६५; अकि-१,२९०.११-१३; रो-२,२७५; भा-४/४) अकर्मकात् इति हि तत्र अनुवर्तते

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-१/७) अनवनकौटिल्ययोः इति वक्तव्यम् ।

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-२/७) इह अपि यथा स्यात् ।

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-३/७) प्रभुजति वाससी निभुजति जानुशिरसी इति ।

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-४/७) तत् तर्हि वक्तव्यम् ।

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-५/७) न वक्तव्यम् ।

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-६/७) यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् ।

(पा-१,३.६६; अकि-१,२९०.१५-१७; रो-२,२७५; भा-७/७) न च अस्य भुजेः अवनम् अनवनम् च अर्थः

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१/५९) णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः णेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२/५९) इतरथा हि सर्वप्रसङ्गः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३/५९) इतरथा हि सर्वत्र प्रसङ्गः स्यात् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४/५९) इह अपि प्रसज्येत ॒ आरोहन्ति हस्तिनम् हस्तिपकाः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५/५९) आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-६/५९) तत् तर्हि वक्तव्यम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-७/५९) न वक्तव्यम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-८/५९) कस्मात् न भवति ॒ आरोहन्ति हस्तिनम् हस्तिपकाः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-९/५९) आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१०/५९) एवम् वक्ष्यामि ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-११/५९) णेः आत्मनेपदम् भवति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१२/५९) ततः अणौ यत् कर्म णौ चेत् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१३/५९) अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१४/५९) ततः सः कर्ता ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१५/५९) कर्ता चेत् सः भवति णौ इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१६/५९) यदि एवम् कर्मकार्यम् भवति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१७/५९) तत्र कर्मकर्तृत्वात् सिद्धम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१८/५९) कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-१९/५९) कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२०/५९) कर्मापदिष्टौ यक्चिणौ मा भूताम् इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२१/५९) न वा यक्चिणोः प्रतिषेधात् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२२/५९) न वा एषः दोषः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२३/५९) किम् कारणम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२४/५९) यक्चिणोः प्रतिषेधात् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२५/५९) प्रतिषिध्येते अत्र यक्चिणौ ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२६/५९) यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२७/५९) यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२८/५९) तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति ॒ उत्पुच्छयते पुच्छम् स्वयम् एव ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-२९/५९) उदपुप्पुच्छत पुच्छम् स्वयम् एव ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३०/५९) अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ॒ यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उप्सङ्ख्यानम् इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३१/५९) सः च अवश्यम् प्रतिषेधः आश्रयितव्यः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३२/५९) इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३३/५९) अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३४/५९) गणयति गणम् गोपालकः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३५/५९) गणयति गणः स्वयम् एव ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३६/५९) आत्मनेपदस्य च ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३७/५९) आत्मनेपदस्य च प्रतिषेधः वक्तव्यः ॒ गणयति गणः स्वयम् एव ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३८/५९) आत्मनेपदप्रतिषेधार्थम् तु ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-३९/५९) आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४०/५९) गणयति गणः स्वयम् एव ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४१/५९) इष्यते एव अत्र आत्मनेपदम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४२/५९) किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४३/५९) इष्यते च प्राप्नोति च ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४४/५९) कथम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४५/५९) अणौ इत् कस्य इदम् णेः ग्रहणम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४६/५९) यमात् णेः प्राक् कर्म कर्ता वा विद्यते ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४७/५९) न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४८/५९) इदम् तर्हि प्रयोजनम् ॒ अनाध्याने इति वक्ष्यामि इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-४९/५९) इह मा भूत् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५०/५९) स्मरति वनगुल्मस्य कोकिलः ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५१/५९) स्मरयति एनम् वनगुल्मः स्वयम् एव ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५२/५९) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५३/५९) कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५४/५९) एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् आत्मनेपदम् इति ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५५/५९) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५६/५९) पश्यन्ति भृत्याः राजानम् ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५७/५९) दर्शयते भृत्यान् राजा ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५८/५९) दर्शयते भृत्यैः राजा ।

(पा-१,३.६७.१; अकि-१,२९०.१९-२९२.८; रो-२,२७६-२८४; भा-५९/५९) अत्र आत्मनेपदम् सिद्धम् भवति ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-१/१४) आत्मनः कर्मत्वे प्रतिषेधः ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-२/१४) आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-३/१४) हन्ति आत्मानम् ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-४/१४) घातयति आत्मा इति ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-५/१४) सः तर्हि वक्तव्यः ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-६/१४) न वा ण्यन्ते अन्यस्य कर्तृत्वात् ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-७/१४) न वा वक्तव्यः ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-८/१४) किम् कारणम् ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-९/१४) ण्यन्ते अन्यस्य कर्तृत्वात् ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-१०/१४) अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-११/१४) कथम् ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-१२/१४) द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-१३/१४) अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति ।

(पा-१,३.६७.२; अकि-१,२९२.९-१६; रो-२,२८५; भा-१४/१४) शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१/३०) स्वरितञितः इति किमर्थम् ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२/३०) याति वाति द्राति प्साति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-३/३०) स्वरितञितः इति शक्यम् अकर्तुम् ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-४/३०) कस्मात् न भवति याति वाति द्राति प्साति इति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-५/३०) कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-६/३०) ते एवम् विज्ञास्यामः ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-७/३०) येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-८/३०) न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-९/३०) तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१०/३०) अथ अभिप्रायग्रहणम् किमर्थम् ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-११/३०) स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१२/३०) लूञ् लुनीते पूञ् पुनीते ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१३/३०) इह न स्यात् ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१४/३०) यज् यजते वप् वपते ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१५/३०) अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१६/३०) अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१७/३०) तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१८/३०) कर्त्रभिप्राये क्रियाफले इति किमर्थम् ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-१९/३०) पचन्ति भक्तकाराः ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२०/३०) कुर्वन्ति कर्मकाराः ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२१/३०) यजन्ति याजकाः ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२२/३०) कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२३/३०) अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रैति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२४/३०) याजकाः यजन्ति गाः लप्स्यामहे इति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२५/३०) कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२६/३०) एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रैति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२७/३०) तत्र प्रकर्षगतिः विज्ञास्यते ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२८/३०) साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रैति इति ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-२९/३०) न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते ।

(पा-१,३.७२; अकि-१,२९२.१८-२९३.९; रो-२,२८६-२९०; भा-३०/३०) याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१/२९) शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२/२९) शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः वक्तव्यः ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-३/२९) भिद्यते कुशूलः स्वयम् एव ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-४/२९) छिद्यते रज्जुः स्वयम् एव ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-५/२९) एवम् तर्हि शेषे इति वक्ष्यामि ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-६/२९) सप्तम्या चेत् प्रकृतेः । सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-७/२९) आस्ते शेते च्यवन्ते प्लवन्ते ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-८/२९) सिद्धम् तु उभयनिर्देशात् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-९/२९) सिद्धम् एतत् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१०/२९) कथम् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-११/२९) उभयनिर्देशः कर्तव्यः ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१२/२९) शेषात् शेषे इति वक्तव्यम् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१३/२९) कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१४/२९) कर्तृग्रहणम् अनुपराद्यर्थम् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१५/२९) अनुपराद्यर्थम् एतत् स्यात् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१६/२९) इह मा भूत् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१७/२९) अनुक्रियते स्वयम् एव ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१८/२९) पराक्रियते स्वयम् एव इति ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-१९/२९) सिध्यति ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२०/२९) सुत्रम् तर्हि भिद्यते ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२१/२९) यथान्यासम् एव अस्तु ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२२/२९) ननु च उक्तम् शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः इति ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२३/२९) न एषः दोषः ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२४/२९) कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२५/२९) तत् प्रकृतम् इह अनुवर्तिष्यते ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२६/२९) शेषात् कर्तरि कर्तरि इति ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२७/२९) किम् इदम् कर्तरि कर्तरि इति ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२८/२९) कर्ता एव यः कर्ता तत्र यथा स्यात् ।

(पा-१,३.७८; अकि-१,२९३.११-२५; रो-२,२९१-२९२; भा-२९/२९) कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१/३१) किमर्थम् इदम् उच्यते ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२/३१) परस्मैपदप्रतिषेधात् कृञादिषु विधानम् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-३/३१) परस्मैपदप्रतिषेधात् कृञादिषु परस्मैपदम् विधीयते ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-४/३१) प्रतिषिध्यते तत्र परस्मैपदम् स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-५/३१) अस्ति प्रयोजनम् एतत् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-६/३१) किम् तर्हि इति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-७/३१) तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-८/३१) तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-९/३१) किम् कारणम् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१०/३१) अप्रतिषिद्धत्वात् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-११/३१) न हि आत्मनेपदम् प्रतिषिध्यते ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१२/३१) किम् तर्हि ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१३/३१) परस्मैपदम् अनेन विधीयते ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१४/३१) न वा द्युतादिभ्यः वावचनात् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१५/३१) न वा एषः दोषः ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१६/३१) किम् कारणम् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१७/३१) द्युतादिभ्यः वावचनात् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१८/३१) यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-१९/३१) आत्मनेपदनियमे वा प्रतिषेधः ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२०/३१) आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२१/३१) स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२२/३१) अनुपराभ्याम् कृञः न इति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२३/३१) सिध्यति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२४/३१) सूत्रम् तर्हि भिद्यते ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२५/३१) यथान्यासम् एव अस्तु ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२६/३१) ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२७/३१) परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२८/३१) अथ वा इदम् तावत् अयम् प्रष्टव्यः ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-२९/३१) स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-३०/३१) आत्मनेपदेन बाध्यते ।

(पा-१,३.७९; अकि-१,२९४.२-१९; रो-२,२९२-२९३; भा-३१/३१) यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते ।

(पा-१,३.८६; अकि-१,२९४.२१; रो-२,२९४; भा-१/२) बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् ।

(पा-१,३.८६; अकि-१,२९४.२१; रो-२,२९४; भा-२/२) सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१/२३) अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-२/२३) अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-३/२३) इह अपि यथा स्यात् ॒ चेतयमाणम् प्रयोजयति चेतयति इति ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-४/२३) यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-५/२३) अकर्मकग्रहणम् अण्यन्तविशेषणम् यथा विज्ञायेत ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-६/२३) अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् विशेषणम् स्यात् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-७/२३) णेः इति वर्तते ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-८/२३) ण्यन्तविशेषणम् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-९/२३) तत्र कः दोषः ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१०/२३) इह एव स्यात् ॒ चेतयमानम् प्रयोजयति चेतयति इति ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-११/२३) इह न स्यात् ॒ आसयति शाययति इति ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१२/२३) सिद्धम् तु अतस्मिन् णौ इति वचनात् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१३/२३) सिद्धम् एतत् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१४/२३) कथम् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१५/२३) अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१६/२३) सिध्यति ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१७/२३) सूत्रम् तर्हि भिद्यते ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१८/२३) यथान्यासम् एव अस्तु ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-१९/२३) ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-२०/२३) न एषः दोषः ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-२१/२३) अणौ इति कस्य इदम् णेः ग्रहणम् ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-२२/२३) यस्माण् णेः प्राक् कर्म कर्ता वा विद्यते ।

(पा-१,३.८८; अकि-१,२९४.२३-२९५.१०; रो-२,२९४-२९५; भा-२३/२३) न च एतस्माण् णेअः प्राक् कर्म कर्ता वा विद्यते ।

(पा-१,३.८९; अकि-१,२९५.१३-१४; रो-२,२९५-२९६; भा-१/३) पादिषु धेटः उपसङ्ख्यानम् ।

(पा-१,३.८९; अकि-१,२९५.१३-१४; रो-२,२९५-२९६; भा-२/३) पादिषु धेटः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,३.८९; अकि-१,२९५.१३-१४; रो-२,२९५-२९६; भा-३/३) धापयते शिशुमेक समीची ।

(पा-१,३.९३; अकि-१,२९५.१६-१९; रो-२,२९६.; भा-१/५) किमर्थः चकारः ।

(पा-१,३.९३; अकि-१,२९५.१६-१९; रो-२,२९६.; भा-२/५) स्यसनोः इति एतत् अनुकृष्यते ।

(पा-१,३.९३; अकि-१,२९५.१६-१९; रो-२,२९६.; भा-३/५) यदि तर्हि न अन्तरेण चकारम् अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः ।

(पा-१,३.९३; अकि-१,२९५.१६-१९; रो-२,२९६.; भा-४/५) अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण ।

(पा-१,३.९३; अकि-१,२९५.१६-१९; रो-२,२९६.; भा-५/५) एवम् सर्वे चकाराः प्रत्याख्यायन्ते.

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१/१७) किमर्थम् इदम् उच्यते ।