व्याकरणमहाभाष्य खण्ड 25

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्



(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-१/१३) इह कस्मात् न भवति ॒ ग्रामार्धः , नगरार्धः इति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-२/१३) अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-३/१३) क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-४/१३) समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-५/१३) इह कस्मात् न भवति ॒ अर्धम् पिप्पलीनाम् इति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-६/१३) न वा भवति अर्धपिप्पल्यः इति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-७/१३) भवति यदा खण्डसमुच्चयः ॒ अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-८/१३) यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-९/१३) तदा कस्मात् न भवति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-१०/१३) एकाद्खिकरणे इति वर्तते ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-११/१३) न तर्हि इदानीम् इदम् भवति ॒ अर्धराशिः इति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-१२/१३) भवति ।

(पा-२,२.२; अकि-१,४०७.२-९; रो-२,६५५-६५६; भा-१३/१३) एकम् एतत् अधिकरणम् यः असौ राशिः नाम ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१/६४) अन्यतरस्याङ्ग्रहणम् किमर्थम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२/६४) अन्यतरस्याम् समासः यथा स्यात् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३/६४) समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४/६४) द्वितीयम् भिक्षायाः इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५/६४) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-६/६४) प्रकृता महाविभाषा ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-७/६४) तया वाक्यम् अपि भविष्यति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-८/६४) इदम् तर्हि प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-९/६४) एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१०/६४) भिक्षाद्वितीयम् इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-११/६४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१२/६४) अयम् अपि विभाषा षष्ठीसमासः अपि ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१३/६४) तौ उभौ वचनात् भविष्यतः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१४/६४) अतः उत्तरम् पठति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१५/६४) द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् ज्ञापकम् अवयवविधाने सामान्यविधानाभावस्य ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१६/६४) द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१७/६४) किम् ज्ञाप्यते ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१८/६४) एतत् ज्ञापयति आचार्यः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-१९/६४) अवयवविधौ सामान्यविधिः न भवति इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२०/६४) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२१/६४) भिनत्ति छिनत्ति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२२/६४) श्नमि कृते शप् न भवति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२३/६४) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२४/६४) शबादेशाः श्यनादयः करिष्यन्ते ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२५/६४) तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२६/६४) न कर्तव्यम् ।प्रकृतम् अनुवर्तते ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२७/६४) क्व प्रकृतम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२८/६४) कर्तरि शप् इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-२९/६४) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३०/६४) रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३१/६४) प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३२/६४) न अयम् प्रत्ययविधिः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३३/६४) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३४/६४) एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३५/६४) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३६/६४) दिक्पूर्वपदात् ङीप् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३७/६४) प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३८/६४) ङीप मुक्ते ङीष् न भवति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-३९/६४) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४०/६४) वक्ष्यति एतत् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४१/६४) दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४२/६४) इदम् तर्हि प्रयोजनम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४३/६४) अर्धपिप्पली अर्धकोशातकी ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४४/६४) एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४५/६४) उन्मत्तगङ्गम् लोहितगङ्गम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४६/६४) अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४७/६४) दाक्षिः प्लाक्षिः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४८/६४) इञा मुक्ते अण् न भवति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-४९/६४) यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५०/६४) तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५१/६४) अस्ति अत्र विशेषः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५२/६४) द्वे हि अत्र विभाषा ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५३/६४) दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५४/६४) तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५५/६४) क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५६/६४) किम् कारणम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५७/६४) पूरणेन इति प्रतिषेधात् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५८/६४) न एतत् पूरणान्तम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-५९/६४) अना एतत् पर्यवपन्नम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-६०/६४) एतत् अपि पूरणान्तम् एव ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-६१/६४) कथ. पूरणम् नाम अर्थः तम् आह तीयशब्दः ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-६२/६४) अतः पूरणम् ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-६३/६४) यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव ।

(पा-२,२.३; अकि-१,४०७.११-४०८.२०; रो-२,६५७-६६०; भा-६४/६४) एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१/२०) किमर्थः चकारः ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-२/२०) अनुकरषणार्थः ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-३/२०) अन्यतरस्याम् इति एतत् अनुकृष्यते ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-४/२०) किम् प्रयोजनम् ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-५/२०) अन्यतरस्याम् समासः यथा स्यात् ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-६/२०) समासेन मुक्ते वाक्यम् अपि यथ स्यात् ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-७/२०) जीविकाम् प्राप्तः इति ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-८/२०) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-९/२०) प्रकृता महाविभाषा ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१०/२०) तया वाक्यम् भविष्यति ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-११/२०) इदम् तर्हि प्रयोजनम् ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१२/२०) द्वितीयासमासः अपि यथ स्यात् ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१३/२०) जीविकाप्राप्तः इति ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१४/२०) एतत् अपि न अस्ति प्रयोजनम्. अयम् अपि उच्यते द्वितीयासमासः अपि ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१५/२०) तत् उभयम् वचनात् भविष्यति ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१६/२०) एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१७/२०) किम् तर्हि ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१८/२०) अत्वम् अनेन विधीयते ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-१९/२०) प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति ।

(पा-२,२.४; अकि-१,४०८.२२-४०९.४; रो-२,६६०; भा-२०/२०) प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-१/१२) किम्प्रधानः अयम् समासः ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-२/१२) उत्तरपदार्थप्रधानः ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-३/१२) यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-४/१२) अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति ॒ राज्ञः पुरुषः राजपुरुषः इति ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-५/१२) इह पुनः वाक्ये षष्ठी समासे प्रथमा ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-६/१२) केन एतत् एवम् भवति ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-७/१२) यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-८/१२) अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-९/१२) तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-१०/१२) न तर्हि इदानीम् इदम् भवति ॒ मासजातस्य इति ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-११/१२) भवति ।

(पा-२,२.५.१; अकि-१,४०९.६-१२; रो-२,६६१-६६२; भा-१२/१२) बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१/३६) कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२/३६) कालस्य येन समासः सः अपरिमाणी ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३/३६) तस्य अपरिमाणित्वात् अनिर्देशः ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-४/३६) अगमकः निर्देशः अनिर्देशः ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-५/३६) न हि जातस्य मासः परिमाणम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-६/३६) कस्य तर्हि ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-७/३६) त्रिंशद्रात्रस्य ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-८/३६) तत् यथा ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-९/३६) द्रोणः बदराणाम् देवदत्तस्य इति ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१०/३६) न देवदत्तस्य द्रोणः परिमाणम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-११/३६) कस्य तर्हि ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१२/३६) बदराणाम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१३/३६) सिद्धम् तु कालपरिमाणम् यस्य स कालः तेन ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१४/३६) सिद्धम् एतत् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१५/३६) कथम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१६/३६) कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१७/३६) सिध्यति ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१८/३६) सूत्रम् तर्हि भिद्यते ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-१९/३६) यथान्यासम् एव अस्तु ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२०/३६) ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२१/३६) कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२२/३६) येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२३/३६) तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२४/३६) कया क्रियया ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२५/३६) आदित्यगत्या ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२६/३६) तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२७/३६) यदि एवम् जातस्य मासः परिमाणम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२८/३६) एकवचनद्विगोः च उपसङ्ख्यानम् । एकवचनान्तानाम् इति वक्तव्यम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-२९/३६) इह मा भूत् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३०/३६) मासौ जातस्य मासाः जातस्य इति ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३१/३६) द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् ॒ द्विमासजातः , त्रिमासजातः ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३२/३६) उक्तम् वा ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३३/३६) किम् उक्तम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३४/३६) एकवचने तावत् उक्तम् अनभिधानात् इति ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३५/३६) द्विगोः किम् उक्तम् ।

(पा-२,२.५.२; अकि-१,४०९.१३-४१०.६; रो-२,६६२-६६६; भा-३६/३६) उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१/९३) किम्प्रधानः अयम् समासः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२/९३) उत्तरपदार्थप्रधानः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३/९३) यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४/९३) अन्यपदार्थप्रधानः तर्हि भविष्यति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५/९३) यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६/९३) पूर्वपदार्थप्रधानः तर्हि भविष्यति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७/९३) यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति ॒ अव्ययम् हि अस्य पूर्वपदम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८/९३) न एषः दोषः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-९/९३) पाठेन अव्ययसञ्ज्ञा क्रियते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१०/९३) न च नञ्समासः तत्र पठ्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-११/९३) यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१२/९३) पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१३/९३) यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१४/९३) न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१५/९३) किम् तर्हि ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१६/९३) स्वाभाविकम् एतत् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१७/९३) तत् यथा॒ समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१८/९३) न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-१९/९३) तत्र किम् अस्माभिः शक्यम् कर्तुम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२०/९३) यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२१/९३) अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२२/९३) गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२३/९३) तत् यथा ॒ शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२४/९३) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२५/९३) एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२६/९३) अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२७/९३) ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२८/९३) न एषः दोषः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-२९/९३) इदम् तावत् अयम् प्रष्टव्यः ॒ अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३०/९३) अस्ति अत्र विशेषः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३१/९३) राजा विशेषकः प्रयुज्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३२/९३) तेन विशिष्टस्य आनयनम् भवति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३३/९३) इह अपि तर्हि नञ् विशेषकः प्रयुज्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३४/९३) तेन नञ्विशिष्टस्य आनयनम् भविष्यति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३५/९३) कः पुनः असौ ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३६/९३) निवृत्तपदार्थकः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३७/९३) यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३८/९३) किम् च अतः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-३९/९३) यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४०/९३) अथ वाचनिकी तत् वक्तव्यम् ॒ नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४१/९३) एवम् तर्हि स्वाभाविकी निवृत्तिः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४२/९३) ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४३/९३) नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४४/९३) कीलप्रतिकीलवत् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४५/९३) तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४६/९३) यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४७/९३) न इति एव राजानः ब्रूयुः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४८/९३) एवम् तर्हि स्वाभाविकी निवृत्तिः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-४९/९३) ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५०/९३) नञ्निमित्ता तु उपलब्धिः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५१/९३) तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५२/९३) यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५३/९३) एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५४/९३) न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५५/९३) तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५६/९३) एवम् वा एतत् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५७/९३) अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५८/९३) तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-५९/९३) समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते. तद् यथा ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६०/९३) पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६१/९३) एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६२/९३) गुणहीने तावत्. अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६३/९३) अब्राह्मणः अयं यः गच्छन् भक्षयति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६४/९३) जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६५/९३) सन्देहात् तावत् ॒ गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६६/९३) ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६७/९३) तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६८/९३) दुरुपदेशात् ॒ दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-६९/९३) स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७०/९३) ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७१/९३) तत्र दुरुपदेशात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७२/९३) आतः च सन्देहात् दुरुपदेशात् वा ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७३/९३) न हि अयम् कालम् माषराशिवर्णम् आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७४/९३) निर्ज्ञातम् तस्य भवति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७५/९३) इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति सङ्गृहीतम् भवति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७६/९३) किम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७७/९३) अनेकम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७८/९३) किम् अत्र सङ्गृहीतम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-७९/९३) एकवचनम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८०/९३) कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८१/९३) प्रसज्य अयम् क्रियागुणौ ततः पश्चात् निवृत्तिम् करोति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८२/९३) तत् यथा ॒ आसय शायय भोजय अनेकम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८३/९३) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् ॒ अनेकः तिष्ठति इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८४/९३) भवति च एवञ्जातीयकानाम् अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८५/९३) तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८६/९३) इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८७/९३) तत्र कः दोषः ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८८/९३) स्वरे हि दोषः स्यात् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-८९/९३) अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-९०/९३) अब्राह्मणत्वम् इति च इष्यते ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-९१/९३) नञ्समासे भाववचने उक्तम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-९२/९३) किम् उक्तम् ।

(पा-२,२.६; अकि-१,४१०.८-४१२.१२; रो-२,६६६-६७७; भा-९३/९३) त्वतल्भ्याम् नञ्समासः पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति ।

(पा-२,२.७; अकि-१,४१२.१४-१६; रो-२,६७७; भा-१/५) ईषत् गुणवचनेन ।ईषत् गुणवचनेन इति वक्तव्यम् ।

(पा-२,२.७; अकि-१,४१२.१४-१६; रो-२,६७७; भा-२/५) अकृता इति उच्यमाने इह च प्रसज्येत ।

(पा-२,२.७; अकि-१,४१२.१४-१६; रो-२,६७७; भा-३/५) ईषत् गार्ग्यः इति ।

(पा-२,२.७; अकि-१,४१२.१४-१६; रो-२,६७७; भा-४/५) इह च न स्यात् ।

(पा-२,२.७; अकि-१,४१२.१४-१६; रो-२,६७७; भा-५/५) ईषत्कडारः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१/३१) कृद्योगा च ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२/३१) कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-३/३१) इध्मप्रव्रश्चनः पलाशशातनः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-४/३१) किमर्थम् इदम् उच्यते ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-५/३१) प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-६/३१) तस्य अयम् पुरस्तात् अपकर्षः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-७/३१) का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-८/३१) सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-९/३१) कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१०/३१) तत्स्थैः च गुणैः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-११/३१) तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१२/३१) ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१३/३१) न तु तद्विशेषणैः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१४/३१) न तु तद्विशेषणैः इति वक्तव्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१५/३१) इह मा भूत् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१६/३१) घृतस्य तीव्रः चन्दनस्य मृदुः इति ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१७/३१) किमर्थम् इदम् उच्यते ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१८/३१) गुणेन इति प्रतिषेधम् वक्ष्यति ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-१९/३१) तस्य अयम् पुरस्तात् अपकर्षः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२०/३१) किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२१/३१) न एवम् शक्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२२/३१) इह हि न स्यात् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२३/३१) काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२४/३१) एतत् एव तस्मिन् योगे उदाहरणम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२५/३१) यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२६/३१) कथम् असामर्थ्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२७/३१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२८/३१) द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-२९/३१) तस्मात् गुणेन न इति वक्तव्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-३०/३१) गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् ।

(पा-२,२.८; अकि-१,४१२.१८-४१३.१३; रो-२,६७८-६८०; भा-३१/३१) तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् ।

(पा-२,२.१०; अकि-१,४१३.१५-१७; रो-२,६८१; भा-१/४) प्रतिपदविधाना च ।

(पा-२,२.१०; अकि-१,४१३.१५-१७; रो-२,६८१; भा-२/४) प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् ।

(पा-२,२.१०; अकि-१,४१३.१५-१७; रो-२,६८१; भा-३/४) इह मा भूत् ।

(पा-२,२.१०; अकि-१,४१३.१५-१७; रो-२,६८१; भा-४/४) सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१/६१) गुणे किम् उदाहरणम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२/६१) ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३/६१) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४/६१) असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-६/६१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-७/६१) द्रव्यम् अत्र अपेक्ष्यते दन्ताः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-८/६१) इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-९/६१) इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१०/६१) ननु च उक्तम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-११/६१) असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१२/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१३/६१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१४/६१) द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१५/६१) न एषः दोषः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१६/६१) भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१७/६१) सति किम् उदाहरणम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१८/६१) ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-१९/६१) न एतत् अस्ति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२०/६१) प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२१/६१) या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२२/६१) तत्र अस्मार्थ्यात् न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२३/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२४/६१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२५/६१) द्रव्यम् अत्र अपेक्ष्यते ओदनः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२६/६१) इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२७/६१) ननु च अत्र अपि प्रतिषिध्यते ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२८/६१) वक्ष्यति एतत् द्विषः शतुः वावचनम् इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-२९/६१) अव्यये किम् उदाहरणम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३०/६१) ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३१/६१) न एतत् अस्ति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३२/६१) असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३३/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३४/६१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३५/६१) द्रव्यम् अत्र अपेक्ष्यते आसनम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३६/६१) इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३७/६१) एतत् अपि न अस्ति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३८/६१) प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-३९/६१) या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४०/६१) तत्र अस्मार्थ्यात् न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४१/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४२/६१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४३/६१) द्रव्यम् अत्र अपेक्ष्यते कटः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४४/६१) इदम् तर्हि ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४५/६१) पुरा सूर्यस्य उदेतोः आधेयः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४६/६१) पुरा वत्सानाम् अपाकर्तोः ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४७/६१) ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४८/६१) वक्ष्यति एतत् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-४९/६१) अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५०/६१) समानाधिकरणे किम् उदाहरणम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५१/६१) राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५२/६१) न एतत् अस्ति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५३/६१) असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५४/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५५/६१) समानाधिकरणम् असमर्थवत् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५६/६१) इदम् तर्हि ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५७/६१) सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५८/६१) ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-५९/६१) कथम् असामर्थ्यम् ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-६०/६१) समानाधिकरणम् असमर्थवत् भवति इति ।

(पा-२,२.११; अकि-१,४१३.१९-४१४.२१; रो-२,६८१-६८४; भा-६१/६१) अधात्वभिहितम् इति एवम् तत् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१/३५) कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२/३५) कुतः सन्देहः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३/३५) उभयम् प्रकृतम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-४/३५) तत्र अन्यतरत् शक्यम् विशेषयितुम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-५/३५) कः च अत्र विशेषः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-६/३५) कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासवचनम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-७/३५) कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-८/३५) इध्मप्रव्रश्चनः पलाशशातनः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-९/३५) तृककाभ्यम् च अनर्थकः प्रतिषेधः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१०/३५) तृककाभ्यम् च अनर्थकः प्रतिषेधः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-११/३५) अपाम् स्रष्टा ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१२/३५) कर्मणि इति एव सिद्धम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१३/३५) अस्तु तर्हि कर्मणि यः क्तः इति ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१४/३५) किम् उदाहरणम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१५/३५) ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१६/३५) क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१७/३५) क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१८/३५) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-१९/३५) समासः कस्मात् न भवति ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२०/३५) असामर्थ्यात् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२१/३५) कथम् असामर्थ्यम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२२/३५) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२३/३५) द्रव्यम् अत्र अपेक्ष्यते ओदनः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२४/३५) प्रतिषेध्यम् इति चेत् कर्तरि अपि प्रतिषेधः ।अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२५/३५) ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२६/३५) पूजायाम् च प्रतिषेधानर्थक्यम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२७/३५) पूजायाम् च प्रतिषेधः अनर्थः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२८/३५) राज्ञाम् पूजितः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-२९/३५) कर्मणि इति एव सिद्धम् ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३०/३५) तस्मात् उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३१/३५) तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३२/३५) सः तर्हि वक्तव्यः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३३/३५) न वक्तव्यः इत्यर्थे अयम् चः पठितः ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३४/३५) कमणि च ।

(पा-२,२.१४; अकि-१,४१४.२३-४१५.१९; रो-२,६८४-६८६; भा-३५/३५) कर्मणि इति एवम् या षष्ठी इति ।

(पा-२,२.१७; अकि-१,४१५.२१-२२; रो-२,६८६; भा-१/४) किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः ।

(पा-२,२.१७; अकि-१,४१५.२१-२२; रो-२,६८६; भा-२/४) विधिः इति आह ।

(पा-२,२.१७; अकि-१,४१५.२१-२२; रो-२,६८६; भा-३/४) कुतः एतत् ।

(पा-२,२.१७; अकि-१,४१५.२१-२२; रो-२,६८६; भा-४/४) विधिः हि विभाषा नित्यः प्रतिषेधः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१/६०) प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२/६०) वृक्षम् प्रति विद्योतते विद्युत् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३/६०) साधुः देवदत्तः मातरम् प्रति ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४/६०) व्यवेतप्रतिषेधः च ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५/६०) व्यवेतानाम् च प्रतिषेधः वक्तव्यः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-६/६०) अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-७/६०) सिद्धम् तु क्वाङ्स्वतिदुर्गतिवचनात् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-८/६०) सिद्धम् एतत् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-९/६०) कथम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१०/६०) क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-११/६०) कु ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१२/६०) कुब्राह्मणः कुवृषलः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१३/६०) आङ् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१४/६०) आकडारः आपिङ्गलः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१५/६०) सु ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१६/६०) सुब्राह्मणः सुवृषलः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१७/६०) अत् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१८/६०) अतिब्राह्मणः अतिवृषलः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-१९/६०) दुर् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२०/६०) दुर्ब्राह्मणः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२१/६०) गति ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२२/६०) प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२३/६०) प्रादयः क्तार्थे ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२४/६०) प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२५/६०) प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२६/६०) एतत् एव च सौनागैः विस्तरतरकेण पठितम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२७/६०) स्वती पूजायाम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२८/६०) स्वतीपूजायाम् इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-२९/६०) सुराजा अतिराजा ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३०/६०) दुः निन्दायाम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३१/६०) दुः निन्दायाम् इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३२/६०) दुष्कुलम् दुर्गवः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३३/६०) आङ् ईषदर्थे ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३४/६०) आङ् ईषदर्थे इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३५/६०) आकडारः आपिङ्गलः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३६/६०) कुः पापार्थे ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३७/६०) कुः पापार्थेइति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३८/६०) कुब्राह्मणः कुवृषलः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-३९/६०) प्रादयः गताद्यर्थे प्रथमया ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४०/६०) प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४१/६०) प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४२/६०) अत्यादयः क्रान्ताद्यर्थे द्वितीयया ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४३/६०) अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४४/६०) अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४५/६०) अवादयः क्रुष्टाद्यर्थे तृतीयया ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४६/६०) अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४७/६०) अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४८/६०) पर्यादयः ग्लानाद्यर्थे चतुर्थ्या ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-४९/६०) पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५०/६०) परिग्लानः अध्ययनाय पर्यधयनः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५१/६०) निरादयः क्रान्ताद्यर्थे पञ्चम्या ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५२/६०) निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५३/६०) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५४/६०) अव्ययम् प्रवृद्धादिभिः ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५५/६०) अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५६/६०) पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५७/६०) इवेन विभक्त्यन्तलोपः पूर्व्पदप्रकृतिस्वरत्वम् च ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५८/६०) वाससीइव कन्येइव ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-५९/६०) उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् ।

(पा-२,२.१८; अकि-१,४१६.२-४१७.६; रो-२,६८६-६९०; भा-६०/६०) अनुव्यचलत् अनुप्राविशत् यत् परियन्ति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१/६२) अतिङ् इति किमर्थम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२/६२) कारकः व्रजति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३/६२) हारकः व्रजति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४/६२) अतिङ् इति शक्यम् अकर्तुम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५/६२) कस्मात् न भवति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-६/६२) कारकः व्रजति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-७/६२) हारकः व्रजति इति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-८/६२) सुप् सुपा इति वर्तते ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-९/६२) अतः उत्तरम् पठति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१०/६२) उपपदम् अतिङ् इति तदर्थप्रतिषेधः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-११/६२) उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१२/६२) कस्य ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१३/६२) तिङर्थस्य ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१४/६२) कः पुनः तिङर्थः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१५/६२) क्रिया ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१६/६२) क्रियाप्रतिषेधः वा ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१७/६२) अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१८/६२) अथ अक्रियया इति किम् प्रत्युदाह्रियते ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-१९/६२) कारकः गतः हारकः गतः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२०/६२) न एतत् क्रियावाचि ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२१/६२) किम् तर्हि. द्रव्यवाचि ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२२/६२) इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२३/६२) एतत् अपि द्रव्य्वाचि ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२४/६२) कथम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२५/६२) कृदभिहितः भावः द्रव्यवत् भवति इति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२६/६२) एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२७/६२) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२८/६२) गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-२९/६२) यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३०/६२) समर्थेन ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३१/६२) यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३२/६२) पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३३/६२) न एतत् अस्ति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३४/६२) पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३५/६२) साधनम् हि क्रियाम् निर्वर्तयति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३६/६२) ताम् उपसर्गः विशिनष्टि ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३७/६२) अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३८/६२) षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-३९/६२) षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४०/६२) षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४१/६२) उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४२/६२) इह उभयम् प्राप्नोति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४३/६२) कुम्भकारः नगरकारः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४४/६२) उपपदसमासः भवति विप्रतिषेधेन ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४५/६२) न वा षष्ठीसमासाभावाद् उपपदसमासः । न वा अर्थः विप्रतिषेधेन ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४६/६२) किम् कारणम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४७/६२) न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४८/६२) कथम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-४९/६२) गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५०/६२) अथ वा विभाषा षष्ठीसमासः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५१/६२) यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५२/६२) अनेन एव यथा स्यात् तेन मा भूत् इति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५३/६२) कः च अत्र विशेषः तेन वा स्यात् अनेन वा ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५४/६२) उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५५/६२) ननु च नित्यम् यः समासः सः नित्यसमासः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५६/६२) यस्य विग्रहः न अस्ति ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५७/६२) न इति आह ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५८/६२) नित्याधिकारे यः समासः सः नित्यसमासः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-५९/६२) न एवम् शक्यम् ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-६०/६२) अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-६१/६२) तस्मात् नित्यः समासः नित्यसमासः ।

(पा-२,२.१९; अकि-१,४१७.८-४१८.१३; रो-२,६९०-६९६; भा-६२/६२) यस्य विग्रहः न अस्ति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१/१८) एवकारः किमर्थः ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-२/१८) नियमार्थः ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-३/१८) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-४/१८) सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-५/१८) इष्टतः अवधारणार्थः तर्हि भविष्यति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-६/१८) यथा एवम् विज्ञायेत ॒ अमा एव अव्ययेन इति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-७/१८) मा एवम् विज्ञायि ॒ अमा अव्ययेन एव इति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-८/१८) अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-९/१८) अस्ति इति आह ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१०/१८) खशयम् ब्राह्मणकुलम् इति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-११/१८) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१२/१८) अन्तरङ्गत्वात् अत्र समासः भविष्यति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१३/१८) इदम् तर्हि प्रयोजनम् ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१४/१८) अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१५/१८) अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१६/१८) अग्रे भोजम् अग्रे भुक्त्वा ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१७/१८) अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति ।

(पा-२,२.२०; अकि-१,४१८.१५-२२; रो-२,६९७; भा-१८/१८) सः न वक्तव्यः भवति ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१/१८) शेषः इति उच्यते ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-२/१८) कः शेषः नाम ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-३/१८) येषाम् पदानाम् अनुक्तः समासः सः शेषः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-४/१८) शेषवचनम् पदतः चेत् न अभावात् ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-५/१८) शेषवचनम् पदतः चेत् तत् न ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-६/१८) किम् कारणम् ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-७/१८) अभावात् ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-८/१८) न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-९/१८) अर्थतः तर्हि शेषग्रहणम् ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१०/१८) येषु अर्थेषु अनुक्तः समासः सः शेषः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-११/१८) अर्थतः चेत् अविशिष्टम् । अर्थतः चेत् अविशिष्टम् एतत् भवति ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१२/१८) कुतः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१३/१८) पदतः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१४/१८) न हि सन्ति ते अर्थाः येषु अनुक्तः समासः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१५/१८) त्रिकतः तर्हि शेषग्रहणम् ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१६/१८) यस्य त्रिकस्य अनुक्तः समासः सः शेषः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१७/१८) कस्य च अनुक्तः ।

(पा-२,२.२३; अकि-१,४१८.२४-४१९.८; रो-२,६९८; भा-१८/१८) प्रथमायाः ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१/७२) पदग्रहणम् किमर्थम्. अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२/७२) यथा मे माता तथा मे पिता सुस्नातम् भोः इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३/७२) पदग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४/७२) अथ अन्यग्रहणम् किमर्थम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५/७२) अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६/७२) राजपुरुषः तक्षपुरुषः इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-७/७२) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-८/७२) तत्पुरुषः स्वपदार्थे बाधकः भविष्यति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-९/७२) भवेत् एकसञ्ज्ञाधिकारे सिद्धम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१०/७२) परङ्कार्यत्वे तु न सिध्यति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-११/७२) आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१२/७२) परङ्कार्यत्वे च न दोषः ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१३/७२) शेषः इति वर्तते ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१४/७२) शेषत्वात् न भविष्यति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१५/७२) शेषवचने उक्तम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१६/७२) किम् उक्तम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१७/७२) तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१८/७२) अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-१९/७२) एकसङ्ज्ञाधिकारे च कर्तव्यम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२०/७२) अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२१/७२) अथ अनेकग्रहणम् किमर्थम्. अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२२/७२) सर्पिषः अपि स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२३/७२) मधुनः अपि स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२४/७२) गोमूत्रस्य अपि स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२५/७२) न एतत् अस्ति प्रयोजनम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२६/७२) सुप् सुपा इति वर्तते ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२७/७२) इदम् तर्हि प्रयोजनम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२८/७२) बहूनाम् अपि समासः यथा स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-२९/७२) सुसूक्ष्मजटकेशेन सुनताजिनवाससा ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३०/७२) उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३१/७२) इह अपि यथा स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३२/७२) प्लक्षन्यग्रोधखदिरपलाशाः इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३३/७२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३४/७२) आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३५/७२) तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३६/७२) ग्रहणेन तत्पुरुषः उच्यते ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३७/७२) तेन बहूनाम् न भविष्यति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३८/७२) अतः उत्तरम् पठति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-३९/७२) अनेकवचनम् उपसर्जनार्थम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४०/७२) अनेकग्रहणम् क्रियते उपसर्जनार्थम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४१/७२) प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४२/७२) चित्रगुः शबलगुः इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४३/७२) न वा एकविभक्तित्वात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४४/७२) न वा एतत् अपि प्रयोजनम् अस्ति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४५/७२) किम् कारणम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४६/७२) एकविभक्तित्वात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४७/७२) एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४८/७२) चित्रगुः शबलगुः इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-४९/७२) चित्राः यस्य गावः चित्रगुः तिष्ठति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५०/७२) चित्राः यस्य गावः चित्रगुम् पश्य ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५१/७२) चित्राः यस्य गावः चित्रगुणा कृतम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५२/७२) चित्राः यस्य गावः चित्रगवे देहि ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५३/७२) चित्राः यस्य गावः चित्रगोः आनय ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५४/७२) चित्राः यस्य गावः चित्रगोः स्वम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५५/७२) चित्राः यस्य गावः चित्रगौ निधेहि ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५६/७२) चित्राः यस्य गावः हे चित्रगो इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५७/७२) यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५८/७२) राजकुमारी तक्षकुमारी ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-५९/७२) राज्ञः या कुमारी राजकुमारी तिष्ठति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६०/७२) राज्ञः या कुमारी राजकुमारीम् पश्य ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६१/७२) राज्ञः या कुमारी राजकुमार्या कृतम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६२/७२) राज्ञः या कुमारी राजकुमार्यै देहि ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६३/७२) राज्ञः या कुमारी राजकुमार्याः आनय ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६४/७२) राज्ञः या कुमारी राजकुमार्याः स्वम् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६५/७२) राज्ञः या कुमारी राजकुमार्याम् निधेहि ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६६/७२) राज्ञः या कुमारी हे राजकुमारि इति ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६७/७२) किम् वक्तव्यम् एतत् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६८/७२) न हि ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-६९/७२) कथम् अनुच्यमानम् गंस्यते ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-७०/७२) एकग्रहणसामर्थ्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-७१/७२) यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् ।

(पा-२,२.२४.१; अकि-१,४२०.२-४२१.१६; रो-२,६९९-७०४; भा-७२/७२) विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१/९०) पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२/९०) पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३/९०) चित्रगुः देवदत्तः इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४/९०) किम् कारणम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५/९०) अभिहितत्वात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६/९०) चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७/९०) न वा अनभिहितत्वात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८/९०) न वा एषः दोषः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-९/९०) किम् कारणम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१०/९०) अनभिहितत्वात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-११/९०) चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१२/९०) कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१३/९०) सामान्याभिधाने हि विशेषानभिधानम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१४/९०) सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१५/९०) तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१६/९०) चित्रगुः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१७/९०) कः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१८/९०) देवदत्तः इति. भवेत् सिद्धम् यदा सामान्ये वृत्तिः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-१९/९०) यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२०/९०) चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२१/९०) तत् अपि सिद्धम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२२/९०) कथम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२३/९०) न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२४/९०) यदा वाक्यम् तदा न समासः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२५/९०) यदा समासः तदा न वक्यम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२६/९०) यदा समासः तदा सामान्ये वृत्तिः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२७/९०) तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२८/९०) चित्रगुः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-२९/९०) कः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३०/९०) देवदत्तः इति. सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३१/९०) चित्रगु तत् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३२/९०) चित्रगु किम् चित् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३३/९०) चित्रगु सर्वम् इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३४/९०) सामान्यम् अपि यथा विशेषः तद्वत् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३५/९०) चित्रगु इति उक्ते सन्देहः स्यात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३६/९०) सर्वम् वा विश्वम् वा इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३७/९०) तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३८/९०) अथ वा विभक्त्यर्थः अभिदीयते ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-३९/९०) एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४०/९०) तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४१/९०) विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४२/९०) विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४३/९०) बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४४/९०) अपरः आह ॒ विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४५/९०) बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४६/९०) कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४७/९०) सिद्धम् तु यथा गुणवचनेषु ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४८/९०) सिद्धम् एतत्. कथम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-४९/९०) यथा गुणवचनेषु ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५०/९०) गुणवचनेषु उक्तम् ॒ गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५१/९०) तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५२/९०) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५३/९०) एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५४/९०) यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५५/९०) अर्थग्रहणसामर्थ्यात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५६/९०) इह अनेकम् अन्यपदे इति इयता सिद्धम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५७/९०) कथम् पुनः पदे नाम वृत्तिः स्यात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५८/९०) शब्दः हि एषः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-५९/९०) शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६०/९०) सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६१/९०) यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६२/९०) उक्तम् वा ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६३/९०) किम् उक्तम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६४/९०) लिङ्गेषु तावत् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६५/९०) सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६६/९०) साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६७/९०) प्रथमा तर्हि न प्राप्नोति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६८/९०) समयात् भविष्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-६९/९०) यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७०/९०) कर्मादीनाम् अभावात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७१/९०) षष्ठी तर्हि प्राप्नोति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७२/९०) शेषलक्षणा षष्ठी ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७३/९०) अशेषत्वात् न भविष्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७४/९०) एवम् अपि व्यतिकरः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७५/९०) एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७६/९०) अर्थतः व्यवस्था भविष्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७७/९०) अथ वा सङ्ख्या नाम इयम् परप्रधाना ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७८/९०) सङ्ख्येअम् अन्या विशेष्यम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-७९/९०) यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८०/९०) अथ वा वक्ष्यति एतत् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८१/९०) तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८२/९०) एवम् अपि षष्ठी प्राप्नोति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८३/९०) किम् कारणम् ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८४/९०) व्यभिचरति एव हि अयम् समासः लिङ्गसङ्ख्ये ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८५/९०) षष्थ्यर्थम् पुनः न व्यभिचरति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८६/९०) अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८७/९०) तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८८/९०) न तर्हि इदानीम् इदम् भवति ॒ चित्रगोः देवदत्तस्य ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-८९/९०) भवति ।

(पा-२,२.२४.२; अकि-१, ४२१.१७-४२३.१४; रो-२,७०४-७१०; भा-९०/९०) बाह्यम् अर्थम् अपेक्ष्य षष्ठी ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१/६५) परिगणनम् कर्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२/६५) बहुव्रीहिः समानाधिकरणानाम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३/६५) समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४/६५) किम् प्रयोजनम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५/६५) व्यधिकरणानाम् मा भूत् इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६/६५) पञ्चभिः भुक्तम् अस्य इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-७/६५) अव्ययानाम् च ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-८/६५) अव्ययानाम् बहुव्रीहिः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-९/६५) उच्चैर्मुखः नीचैर्मुखः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१०/६५) सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपः च ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-११/६५) सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१२/६५) कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१३/६५) समुदायविकारषष्ठ्याः च ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१४/६५) समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१५/६५) केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१६/६५) प्रादिभ्यः धातुजस्य वा ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१७/६५) प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१८/६५) प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-१९/६५) नञः अस्त्यर्थानाम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२०/६५) नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२१/६५) अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२२/६५) तत् तर्हि बहु वक्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२३/६५) न वा अनभिधानात् असमानाधिकरणे सञ्ज्ञाभावः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२४/६५) न वा वक्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२५/६५) असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति ॒ पञ्चभिः भुक्तम् अस्य इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२६/६५) अनभिधानात् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२७/६५) तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२८/६५) क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-२९/६५) तत् यथा पञ्च भुक्तवन्तः अस्य इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३०/६५) अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३१/६५) तत् कथम् कर्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३२/६५) अर्थनियमे मत्वर्थग्रहणम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३३/६५) अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३४/६५) मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३५/६५) इह मा भूत् ॒ कष्टम् श्रितम् अनेन इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३६/६५) तथा च उत्तरस्य वचनार्थः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३७/६५) एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३८/६५) के चित् तावत् आहुः ॒ यत् वृत्तिसूत्रे इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-३९/६५) सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४०/६५) अपरः आह ॒ यत् वार्त्तिके इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४१/६५) कर्मवचनेन अप्रथ्मायाः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४२/६५) कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४३/६५) ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४४/६५) यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४५/६५) प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४६/६५) कर्तृवचनेन अपि ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४७/६५) कर्तृवचनेन अपि इति वक्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४८/६५) अप्रथमायाः इति किमर्थम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-४९/६५) वृष्टे देवे गतः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५०/६५) अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५१/६५) वृष्टे देवे गतम् पश्य इति ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५२/६५) बहिरङ्गा अत्र अप्रथमा ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५३/६५) सुबधिकारे अस्तिक्षीरादिवचनम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५४/६५) सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५५/६५) अस्तिक्षीरा ब्राह्मणी ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५६/६५) तत् तर्हि वक्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५७/६५) न वा अव्ययत्वात् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५८/६५) न वा वक्तव्यम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-५९/६५) किम् कारणम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६०/६५) अव्ययत्वात् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६१/६५) अव्ययः अयम् अस्तिशब्दः ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६२/६५) न एषः अस्तेः लट् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६३/६५) कथम् अव्ययत्वम् ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६४/६५) उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा ।

(पा-२,२.२४.३; अकि-१,४२३.१६-४२५.१३; रो-२,७१०-७१४; भा-६५/६५) निपातः अव्ययम् इति अव्ययसञ्ज्ञा ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१/१०१) अथ किंसब्रह्मचारी इति कः अयम् समासः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२/१०१) बहुव्रीहिः इति अह ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३/१०१) कः अस्य विग्रहः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४/१०१) के सब्रह्मचारिणः अस्य इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५/१०१) यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६/१०१) न हि अन्यत् पृष्टेन अन्यत् आख्यायते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७/१०१) एवम् तर्हि एवम् विग्रहः करिष्यते ॒ केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८/१०१) प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९/१०१) किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१०/१०१) किंसब्रह्मचारी इति च इष्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-११/१०१) एवम् तर्हि एवम् विग्रहः करिष्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१२/१०१) कः सब्रह्मचारी किंसब्रह्मचारी इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१३/१०१) भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१४/१०१) एवम् तर्हि एवम् विग्रहः करिष्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१५/१०१) कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१६/१०१) अथ वा पुनः अस्तु एवम् विग्रहः ॒ के सब्रह्मचारिणः अस्य इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१७/१०१) ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१८/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१९/१०१) अग्नौकरवाणिन्यायेन भविष्यति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२०/१०१) तत् यथा ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२१/१०१) कः चित् कम् चित् आह ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२२/१०१) अग्नौ करवाणि इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२३/१०१) कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२४/१०१) अपरः आह ॒ अग्नौ करिष्यते इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२५/१०१) क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२६/१०१) यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२७/१०१) नूनम् सः अपि कठ इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२८/१०१) एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-२९/१०१) नूनम् ते अपि कठाः इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३०/१०१) न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३१/१०१) उपसर्जनम् हे ते भवन्ति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३२/१०१) अथ अर्थतृतीयाः इति कः अयम् समासः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३३/१०१) बहुव्रीहिः इति आह ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३४/१०१) कः अस्य विग्रहः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३५/१०१) अर्धम् तृतीयम् एषाम् इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३६/१०१) कः समासार्थः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३७/१०१) समासार्थः न उपपद्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३८/१०१) अन्यपदार्थः हि नाम सः भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-३९/१०१) येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४०/१०१) एवम् तर्हि एवम् विग्रहः करिष्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४१/१०१) अर्धम् तृतीयम् अनयोः इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४२/१०१) एवम् अपि कः षष्ठ्यर्थः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४३/१०१) षष्ठ्यर्थः न उपपद्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४४/१०१) किम् हि तयोः अर्धम् भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४५/१०१) अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४६/१०१) ननु च उक्तम् समासार्थः न उपपद्यते इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४७/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४८/१०१) अवयवेन विग्रहः समुदायः समासार्थः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-४९/१०१) यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५०/१०१) सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५१/१०१) अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५२/१०१) ननु च उक्तम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५३/१०१) षष्ठ्यर्थः न उपपद्यते इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५४/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५५/१०१) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५६/१०१) अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५७/१०१) तत्र एतत् स्यात् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५८/१०१) एकस्मात् प्रादुर्भावः इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-५९/१०१) एतत् च वार्तम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६०/१०१) तत् यथा ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६१/१०१) सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६२/१०१) एवञ्जातीयकम् भ्रातृत्वम् नाम ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६३/१०१) अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६४/१०१) इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६५/१०१) अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६६/१०१) ननु च उक्तम् अनुससार पाण्डवम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६७/१०१) सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६८/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-६९/१०१) अयम् तीयन्तः शब्दः अस्ति एव पूरणम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७०/१०१) अस्ति सहायवाची ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७१/१०१) तत् यः सहायवाची तस्य इदम् ग्रहणम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७२/१०१) असिद्वितीयः असिसहायः इति गम्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७३/१०१) एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७४/१०१) एकार्थाः हि समुदायाः भवन्ति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७५/१०१) तत् यथा शतम् यूथम् वनम् इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७६/१०१) अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७७/१०१) ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७८/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-७९/१०१) भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८०/१०१) तत् यथा ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८१/१०१) शुक्लवाससम् आनय ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८२/१०१) लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८३/१०१) तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८४/१०१) अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८५/१०१) ननु च उक्तम् एकवचनम् प्राप्नोति इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८६/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८७/१०१) सङ्ख्या नाम इयम् परप्रधाना ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८८/१०१) सङ्ख्येयम् अनया विशेष्यम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-८९/१०१) यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात्

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९०/१०१) इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९१/१०१) न एषः दोषः ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९२/१०१) समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. तद् यथा ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९३/१०१) पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९४/१०१) एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९५/१०१) कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९६/१०१) न कर्तव्यम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९७/१०१) समुदायेषु अपि हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. केषु अवयवेषु ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९८/१०१) यः अवयवः तम् समुदायम् न व्यभिचरति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-९९/१०१) कम् च समुदायम् न व्यभिचरति ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१००/१०१) अर्ध्द्रोणः द्रोणम् ।

(पा-२,२.२४.४; अकि-१,४२५.१४-४२७.५; रो-२,७१४-७१९; भा-१०१/१०१) अर्धाढकम् पुनः व्यभिचरति ।

"http://sa.wikibooks.org/w/index.php?title=व्याकरणमहाभाष्य_खण्ड_25&oldid=3568" इत्यस्माद् पुनः प्राप्तिः