व्याकरणमहाभाष्य खण्ड 49

Wikibooks तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्



(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-१/१०) युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-२/१०) युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः कर्तव्यः ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-३/१०) युष्मदस्मदोः अन्यतरस्याम् छः भवति ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-४/१०) युष्मदीयः अस्मदीयः ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-५/१०) ततः खञ् च ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-६/१०) खञ् च भवति युष्मदस्मदोः अन्यतरस्याम् ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-७/१०) यौष्मकीणः आस्माकीनः ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-८/१०) किमर्थः योगविभागः ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-९/१०) समसङ्ख्याप्रतिषेधार्थः ।

(पा-४,३.१; अकि-२,३०२.२-७; रो-३,६८९; भा-१०/१०) सङ्ख्यातानुदेशः मा भूत् इति ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१/१९) आदेशवचने च ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-२/१९) किम् ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-३/१९) योगविभागः कर्तव्यः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-४/१९) तस्मिन् अणि युष्माकास्माकौ भवतः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-५/१९) यौष्माकः आस्माकः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-६/१९) ततः खञि ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-७/१९) खञि च युष्माकास्माकौ भवतः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-८/१९) यौष्माकीणः आस्माकीनः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-९/१९) किमर्थः योगविभागः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१०/१९) समसङ्ख्याप्रतिषेधार्थः इति एव ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-११/१९) तत्र पुनः खञ्ग्रहणम् ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१२/१९) तत्र पुनः खञ्ग्रहणम् कर्तव्यम् ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१३/१९) न हि अन्तरेण खञ्ग्रहणम् योगाङ्गम् उपजायते ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१४/१९) तत् तर्हि वक्तव्यम् ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१५/१९) न वक्तव्यम् ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१६/१९) एवम् वक्ष्यामि ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१७/१९) तस्मिन् खञि युष्माकास्माकौ भवतः ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१८/१९) ततः अणि च ।

(पा-४,३.२; अकि-२,३०२.९-१६; रो-३,६९०; भा-१९/१९) अणि चयुष्माकास्माकौ भवतः इति ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१/२५) एकार्थग्रहणम् च ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२/२५) एकार्थग्रहणम् च कर्तव्यम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-३/२५) एकार्थयोः युष्मदस्मदोः इति वक्तव्यम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-४/२५) किमर्थम् न एकवचने इति एव सिद्धम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-५/२५) न सिध्यति ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-६/२५) किम् कारणम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-७/२५) एकवचनाभावात् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-८/२५) एकवचने इति उच्यते ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-९/२५) न च अत्र एकवचनम् पश्यामः ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१०/२५) यदि पुनः एकवचनपरत्वेन अण्खञौ विशेष्येयाताम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-११/२५) न एवम् शक्यम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१२/२५) इह हि प्रसज्येयाताम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१३/२५) युष्माकम् छात्रः यौष्माकीणः ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१४/२५) आस्माकीनः ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१५/२५) इह च न स्याताम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१६/२५) तव छात्राः तावकीनाः ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१७/२५) मामकीनाः ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१८/२५) तस्मात् न एवम् शक्यम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-१९/२५) न चेत् एवम् एकार्थग्रहणम् कर्तव्यम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२०/२५) न कर्तव्यम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२१/२५) न इदम् पारिभाषिकस्य एकवचनस्य ग्रहणम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२२/२५) किम् तर्हि ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२३/२५) अन्वर्थग्रहणम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२४/२५) उच्यते वचनम् ।

(पा-४,३.३; अकि-२,३०२.१८-३०३.७; रो-३,६९०-६९१; भा-२५/२५) एकस्य अर्थस्य वचनम् एकवचनम् ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-१/१०) अर्धात् यद्विधाने सपूर्वात् ठञ् ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-२/१०) अर्धात् यद्विधाने सपूर्वात् ठञ् वक्तव्यः ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-३/१०) बालेयार्धिकः गौतमार्धिकः ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-४/१०) दिक्पूर्वपदात् यत् च ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-५/१०) दिक्पूर्वपदात् यत् च ठञ् च वक्तव्यः ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-६/१०) पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-७/१०) किमर्थम् इदम् उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदात् अर्धात् उभयम् उच्यते ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-८/१०) इदम् अद्य अपूर्वम् क्रियते ॒ अर्धात् यद्विधाने सपूर्वात् ठञ् इति ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-९/१०) तत् द्वेष्यम् विजानीयात् ॒ सर्वम् विकल्पते इति ।

(पा-४,३.४; अकि-२,३०३.९-१६; रो-३,६९१-६९२; भा-१०/१०) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्ते ॒ दिक्पूर्वपदात् यथान्यासम् एव भवति इति ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१/२२) श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-२/२२) श्वसः तुटि कृते आदेशानुपपत्तिः ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-३/२२) किम् कारणम् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-४/२२) अनादित्वात् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-५/२२) तुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-६/२२) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-७/२२) पूर्वान्ते कप्रतिषेधः ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-८/२२) यदि पूर्वान्तः कादेशस्य प्रतिषेधः वक्तव्यः ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-९/२२) शौवस्तिकम् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१०/२२) तान्तात् इति कादेशः प्राप्नोति ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-११/२२) अस्तु तर्हि परादिः ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१२/२२) ननु च उक्तम् श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् इति ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१३/२२) सिद्धम् तु आदिष्टस्य तुड्वचनात् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१४/२२) सिद्धम् एतत् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१५/२२) कथम् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१६/२२) तुड् आदिष्टस्य इति वक्तव्यम् ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१७/२२) अथ वा चेन सन्नियोगः करिष्यते ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१८/२२) तुट् च ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-१९/२२) किम् च ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-२०/२२) यत् च अन्यत् प्राप्नोति ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-२१/२२) किम् च अन्यत् प्राप्नोति ।

(पा-४,३.१५; अकि-२,३०३.१८-३०४.५; रो-३,६९२-६९३; भा-२२/२२) आदेशः ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१/१६) हेमन्तस्य अणि तलोपवचनानर्थक्यम् हेम्नः प्रकृत्यन्तरत्वात् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-२/१६) हेमन्तस्य अणि तलोपवचनम् अनर्थकम् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-३/१६) किम् कारणम् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-४/१६) हेम्नः प्रकृत्यन्तरत्वात् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-५/१६) प्रकृत्यन्तरम् हेमन्शब्दः ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-६/१६) आतः च प्रकृत्यन्तरम् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-७/१६) एवम् हि आह ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-८/१६) हेमन् हेमन् आगनीगन्ति कर्णौ ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-९/१६) तस्मात् एतौ हेमन् न शुष्यतः इति ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१०/१६) अलोपदर्शनात् च ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-११/१६) अलोपः खलु अपि दृश्यते ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१२/१६) पङ्क्तिः हैमन्ती इति ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१३/१६) अपरः आह ॒ हेमन्तस्य अण्वचनम् अणि च तलोपवचनम् अनर्थकम् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१४/१६) किम् कारणम् ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१५/१६) हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनात् च इति एव ।

(पा-४,३.२२; अकि-२,३०४.७-१४; रो-३,६९३-६९४; भा-१६/१६) तत्र ऋतुभ्यः इति एव सिद्धम् ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-१/८) चिरपरुत्परारिभ्यः त्नः वक्तव्यः ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-२/८) चिरत्नम् परुत्त्नम् परारित्नम् ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-३/८) प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-४/८) प्रत्नम् आत्मानम् ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-५/८) अग्रादिपश्चात् डिमुच् स्मृतः ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-६/८) अग्रिमम् आदिमम् पश्चिमम् ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-७/८) अन्तात् च इति वक्तव्यम् ।

(पा-४,३.२३.१; अकि-२,३०४.१६-१९; रो-३,६९४; भा-८/८) अन्तिमम्.

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१/४२) अथ सायचिरयोः किम् निपात्यते ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२/४२) सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियुक्तम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३/४२) सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-४/४२) सायन्तनम् चिरन्तनम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-५/४२) न एतत् अस्ति प्रयोजनम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-६/४२) मकारान्तः सायंशब्दः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-७/४२) कथम् सायाह्नः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-८/४२) सायमः अह्ने मलोपः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-९/४२) सायमः अह्ने मलोपः वक्तव्यः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१०/४२) कथम् सायतरे ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-११/४२) तरे च इति वक्तव्यम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१२/४२) कथम् सायम् साये ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१३/४२) वा सप्तम्याम् इति वक्तव्यम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१४/४२) अथ प्राह्णप्रगयोः किम् निपात्यते ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१५/४२) प्राह्णप्रग्योः एकारान्तत्वम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१६/४२) प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१७/४२) प्राह्णेतनम् प्रगेतनम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१८/४२) न एतत् अस्ति प्रयोजनम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-१९/४२) सप्तम्याः अलुका अपि सिद्धम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२०/४२) भवेत् सिद्धम् यदा सप्तमी ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२१/४२) यदा तु अन्या विभक्तिः तदा न सिध्यति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२२/४२) तुटि उक्तम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२३/४२) किम् उक्तम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२४/४२) तुटि आदेशानुपपत्तिः अनादित्वात् इति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२५/४२) तुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२६/४२) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२७/४२) पूर्वान्ते विसर्जनीयः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२८/४२) यदि पूर्वान्तः विसर्जनीयः वक्तव्यः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-२९/४२) प्रातस्तनम् पुनस्तनम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३०/४२) परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३१/४२) अस्तु तर्हि परादिः ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३२/४२) ननु च उक्तम् तुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३३/४२) सिद्धम् तु आदिष्टस्य तुड्वचनात् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३४/४२) सिद्धम् एतत् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३५/४२) कथम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३६/४२) तुड् आदिष्टस्य इति वक्तव्यम् ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३७/४२) अथ वा चेन सन्नियोगः करिष्यते ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३८/४२) तुट् च ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-३९/४२) किम् च ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-४०/४२) यत् च अन्यत् प्राप्नोति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-४१/४२) किम् च अन्यत् प्राप्नोति ।

(पा-४,३.२३.२; अकि-२,३०४.२०-३०५.२०; रो-३,६९५-६९६; भा-४२/४२) आदेशः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१/५८) पूर्वाह्णापराह्णाभ्याम् सुबन्तवचनम् सप्तमीश्रवणाऋथम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२/५८) पूर्वाह्णापराह्णाभ्याम् सुबन्तत्वम् वक्तव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३/५८) किम् प्रयोजनम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४/५८) सप्तमीश्रवणाऋथम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५/५८) सप्तम्याः श्रवणम् यथा स्यात् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-६/५८) पूर्वाह्णेतनम् अपराह्णेतनम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-७/५८) तत् तर्हि वक्तव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-८/५८) न वक्तव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-९/५८) आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र सप्तमी इति यत् अयम् घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकम् शास्ति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१०/५८) अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमीप्रसङ्गः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-११/५८) अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमी प्राप्नोति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१२/५८) दोषातनम् दिवातनम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१३/५८) अस्तु अव्ययात् इति लुक् भविष्यति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१४/५८) इह अपि लुक् प्राप्नोति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१५/५८) पूर्वाह्णेतनम् अपराह्णेतनम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१६/५८) अलुक् अत्र लुकम् बाधिष्यते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१७/५८) इह अपि बाधेत ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१८/५८) दोषातनम् दिवातनम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-१९/५८) समानाश्रयः लुक् अलुका बाध्यते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२०/५८) कः च समानाश्रयः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२१/५८) यः प्रत्ययाश्रयः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२२/५८) अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२३/५८) न सिध्यति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२४/५८) इह हि सति प्रत्यये लुका भवितव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२५/५८) सति लुकि अलुका भवितव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२६/५८) तत्र च प्रत्ययः एव न अस्ति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२७/५८) कुतः लुक् भविष्यति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२८/५८) सा एषा ज्ञापकेन असती विभक्तिः आकृष्यते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-२९/५८) सा यथा इह बाधिका भवति पूर्वाह्णेतनम् अपराह्णेतनम् एवम् इह अपि स्यात् दोषातनम् दिवातनम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३०/५८) एवम् तर्हि न ब्रूमः अलुग्वचनम् ज्ञापकम् भवति अत्र सप्तमी इति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३१/५८) किम् तर्हि ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३२/५८) भवति सुबन्तात् उत्पत्तिः इति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३३/५८) किम् पुनः ज्ञाप्यम् एतत् यावता समर्थानाम् प्रथमात् वा इति वर्तते सामर्थ्यम् च सुबन्तेन ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३४/५८) ज्ञाप्यम् इति आह ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३५/५८) कथम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३६/५८) ङ्याप्प्रातिपदिकात् इति अपि वर्तते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३७/५८) तत्र कुतः एतत् सुबन्तात् उत्पत्तिः भविष्यति न पुनः ङ्याप्प्रातिपदिकात् इति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३८/५८) कथम् यत् उक्तम् वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् इति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-३९/५८) समर्थस्य यत् वृद्धम् ङ्याप्प्रातिपदिकम् इति एतत् विज्ञायते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४०/५८) यदि एतत् ज्ञप्यते कथम् द्विपदः आगतम् द्विपाद्रूप्यम् प्रष्ठौहः आगतम् प्रष्ठ्वाड्रूप्यम् कीलालपः आगतम् कीलालपारूप्यम् पपुषः आगतम् पपिवड्रूप्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४१/५८) पद्भावः ऊहाकारलोपः प्रसारणम् इति एते विधयः प्राप्नुवन्ति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४२/५८) लुके कृते न भविष्यन्ति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४३/५८) इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४४/५८) लुकि कृते भत्वात् न भविष्यति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४५/५८) इदम् इह सम्प्रधार्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४६/५८) लुक् क्रियताम् नलोपः इति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४७/५८) किम् अत्र कर्तव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४८/५८) परत्वात् नलोपः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-४९/५८) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५०/५८) नलोपः क्रियताम् तद्धितोत्पत्तिः इति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५१/५८) किम् अत्र कर्तव्यम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५२/५८) परत्वात् नलोपः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५३/५८) असिद्धः नलोपः ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५४/५८) तस्य असिद्धत्वात् तद्धितोत्पत्तिः भविष्यति ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५५/५८) परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५६/५८) इदम् अपि तत्र परिगण्यते ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५७/५८) कथम् ।

(पा-४,३.२४; अकि-२,३०५.२२-३०६.२७; रो-३,६९७-७००; भा-५८/५८) सुब्विधिः इति सर्वविभक्त्यन्तः समासः ॒ सुपः विधिः सुब्विधिः , सुबन्तात् विधिः सुब्विधिः इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१/३६) किमर्थम् जातादयः अर्थाः निर्दिश्यन्ते ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२/३६) जातादिषु अर्थेषु घादयः यथा स्युः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३/३६) स्वार्थे मा भूवन् इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-४/३६) न एतत् अस्ति प्रयोजनम् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-५/३६) शेषे इति वर्तते ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-६/३६) तेन स्वार्थे न भविष्यन्ति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-७/३६) अतः उत्तरम् पठत् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-८/३६) तत्रजातादिषु वचनम् नियमार्थम् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-९/३६) नियमार्थः अयम् आरम्भः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१०/३६) जातादिषु एव घादयः यथा स्युः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-११/३६) इह मा भूवन् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१२/३६) तत्र आस्ते तत्र शेते इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१३/३६) यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१४/३६) संस्कृतम् इति एवम् भविष्यति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१५/३६) भवेत् सिद्धम् दार्षदाः सक्तवः इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१६/३६) इदम् तु न सिध्यति ॒ औलूखलः यावकः इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१७/३६) संस्कृतम् हि नाम तत् भवति यत् ततः एव अपकृष्य अभ्यवह्रियते ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१८/३६) न च यावकः उलूखलात् एव अपकृष्य अभ्यवह्रियते ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-१९/३६) अवश्यम् रन्धनादीनि प्रतीक्ष्याणि ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२०/३६) तस्मात् न अर्थः अनेन नियमेन ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२१/३६) कस्मात् न भवति ॒ तत्र आस्ते तत्र शेते इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२२/३६) अनभिधानात् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२३/३६) तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२४/३६) क्रियमाणेषु अपि हि अर्थनिर्देशेषु यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२५/३६) तत् यथा ॒ अङ्गुल्या खनति वृक्षमूलात् आगतः इति ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२६/३६) न तर्हि इदानीम् जातादयः अर्थाः निर्देष्टव्याः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२७/३६) निर्देष्टव्याः च ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२८/३६) किम् प्रयोजनम् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-२९/३६) अपवादविधानार्थम् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३०/३६) प्राविषः ठप् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३१/३६) प्रावृषि जातः प्रावृषकः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३२/३६) क्व मा भूत् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३३/३६) प्रावृषि भवः प्रावेषेण्याः बलाहकाः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३४/३६) यानि तु एतानि निरपवादानि अर्थापदेशानि तानि शक्यानि अकर्तुम् ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३५/३६) कृतलब्धक्रीतकुशलाः ।

(पा-४,३.२५; अकि-२,३०७.२-१८; रो-३,७००-७०१; भा-३६/३६) स्रौघ्नः देवदत्तः इति ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१/१७) लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-२/१७) लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-३/१७) चित्रायाम् जाता चित्रा स्त्री चित्रा ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-४/१७) रेवती रेवती स्त्री रेवती ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-५/१७) रोहिणी रोहिणी स्त्री ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-६/१७) फल्गुन्यषाढाभ्याम् टानौ ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-७/१७) फल्गुन्यषाढाभ्याम् टानौ वक्तव्यौ ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-८/१७) फल्गुनी ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-९/१७) अषाढाः उपदधाति ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१०/१७) श्रविष्ठाषाढाभ्याम् छण् ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-११/१७) श्रविष्ठाषाढाभ्याम् छण् वक्तव्यः ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१२/१७) श्राविष्ठीयाः आषाढीयाः ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१३/१७) न वा नक्षत्रेभ्यः बलुलम् लुग्वचनात् ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१४/१७) न वा वक्तव्यः ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१५/१७) किम् कारणम् ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१६/१७) नक्षत्रेभ्यः बलुलम् लुग्वचनात् ।

(पा-४,३.३४; अकि-२,३०७.२१-३०८.८; रो-३,७०२; भा-१७/१७) नक्षत्रेभ्यः बलुलम् लुक् इति एवम् अत्र लुक् भविष्यति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१/२५) प्रायभवग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२/२५) प्रायभवग्रहणम् अनर्थकम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-३/२५) किम् कारणम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-४/२५) तत्रभवेन कृतत्वात् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-५/२५) यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-६/२५) तत्र तत्र भवः इति एव सिद्धम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-७/२५) न सिध्यति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-८/२५) अनित्यभवः प्रायभवः ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-९/२५) अनित्यभवः प्रायभवः इति चेत् मुक्तसंशयेन तुल्यम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१०/२५) यत् भवान् मुक्तसंशयम् तत्र भवे उदाहरणम् न्याय्यम् मन्यते स्रौघ्नः देवदत्तः इति तेन एतत् तुल्यम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-११/२५) सः अपि हि अवश्यम् उदक्देशादीनि अभिनिष्क्रामति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१२/२५) अथ एतत् भवान् प्रायभवे उदाहरणम् न्याय्यम् मन्यते तत्र भवे किम् उदाहरणम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१३/२५) यत् तत्र नित्यम् भवति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१४/२५) स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१५/२५) एवम् तर्हि तत्र भवति इति प्रकृत्य जीह्वामूलाङ्गुलेः छः विधीयते ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१६/२५) सः यथा दृष्टापचरे अङ्गुलीयम् इति भवति एवम् प्रयभवे अपि भविष्यति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१७/२५) इदम् तर्हि प्रयोजनम् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१८/२५) प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकम् वक्ष्यति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-१९/२५) सः प्रायभवे एव यथा स्यात् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२०/२५) तत्र भवे मा भूत् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२१/२५) उपजानुभवम् गडु इति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२२/२५) अथ इदानीम् तत्र भवः इति प्रकृत्य शरीरावयवात् यत् विधीयते ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२३/२५) सः अत्र कस्मात् न भवति ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२४/२५) अनभिधानात् ।

(पा-४,३.३९; अकि-२,३०८.१०-२३; रो-३,७०३-७०४; भा-२५/२५) सः यथा एव अनभिधानात् यत् न भवति एवम् ठक् अपि न भविष्यति ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-१/१५) विकारे कोशात् ढञ् ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-२/१५) विकारे कोशात् ढञ् वक्तव्यः ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-३/१५) कोशस्य विकारः कौशेयम् ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-४/१५) सम्भूते हि अर्थानुपपत्तिः ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-५/१५) सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात् ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-६/१५) न हि अदः कोशे सम्भवति ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-७/१५) किम् तर्हि ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-८/१५) कोशस्य अदः विकारः ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-९/१५) यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-१०/१५) भस्म अपि कोशस्य विकारः ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-११/१५) अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात् न भवति ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-१२/१५) क्रिमिः अपि हि कोशे सम्भवति ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-१३/१५) अनभिधानात् ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-१४/१५) यथा एव तर्हि अनभिधानात् क्रिमौ न भवति एवम् भस्मनि अपि न भविष्यति ।

(पा-४,३.४२; अकि-२,३०९.२-९; रो-३,७०४-७०५; भा-१५/१५) अर्थः च उपपन्नः भवति ।

(पा-४,३.४८; अकि-२,३०९.११-१३; रो-३,७०५; भा-१/५) अयुक्तः अयम् निर्देशः ।

(पा-४,३.४८; अकि-२,३०९.११-१३; रो-३,७०५; भा-२/५) कालात् इति वर्तते. न च कलापी नाम कलः अस्ति ।

(पा-४,३.४८; अकि-२,३०९.११-१३; रो-३,७०५; भा-३/५) न एषः दोषः ।

(पा-४,३.४८; अकि-२,३०९.११-१३; रो-३,७०५; भा-४/५) साहचर्यात् ताच्छब्द्यम् भविष्यति ।

(पा-४,३.४८; अकि-२,३०९.११-१३; रो-३,७०५; भा-५/५) कलापिसहचरितः कालः कलापी कालः इति ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-१/१०) तत्र इति वर्तमाने पुनः तत्रग्रहणम् किमर्थम् ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-२/१०) तत्रप्रकरणे तत्र इति पुनर्वचनम् कालनिवृत्त्यर्थम् ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-३/१०) तत्रप्रकरणे तत्र इति पुनर्वचनम् क्रियते कालनिवृत्त्यर्थम् ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-४/१०) कालाधिकारः निवर्त्यते ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-५/१०) न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-६/१०) कः वा अभिसम्बन्धः यत् तत्रग्रहणम् कालाधिकारम् निवर्तयेत् ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-७/१०) एषः अभिसम्बन्धः ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-८/१०) कालाभिसम्बद्धम् तत्रग्रहणम् अनुवर्तते ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-९/१०) तत्रग्रहणम् च तत्रग्रहणस्य निवर्तकम् भवति ।

(पा-४,३.५३; अकि-२,३०९.१५-२०; रो-३,७०५-७०६; भा-१०/१०) तस्मिन् निवृत्ते कालाधिकारः अपि निवर्तते ।

(पा-४,३.५८; अकि-२,३१०.२-६; रो-३,७०६; भा-१/६) ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् ।

(पा-४,३.५८; अकि-२,३१०.२-६; रो-३,७०६; भा-२/६) ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-४,३.५८; अकि-२,३१०.२-६; रो-३,७०६; भा-३/६) पारिमुख्यम् पारिहनव्यम् ।

(पा-४,३.५८; अकि-२,३१०.२-६; रो-३,७०६; भा-४/६) अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः ।

(पा-४,३.५८; अकि-२,३१०.२-६; रो-३,७०६; भा-५/६) अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,३.५८; अकि-२,३१०.२-६; रो-३,७०६; भा-६/६) औपकूलः औपमूलः औपशालः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१/३१) अत्यल्पम् इदम् उच्यते ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२/३१) समानस्य तदादेः च अध्यात्मादिषु च इष्यते ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-३/३१) समानस्य ॒ सामानिकः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-४/३१) तदादेः ॒ समानग्रामिकः समानदेशिकः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-५/३१) अध्यात्मादिषु च इष्यते ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-६/३१) आध्यात्मिकः आधिदैविकः आधिभौतिकः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-७/३१) ऊर्ध्वन्दमात् च देहात् च ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-८/३१) ठञ् वक्तव्यः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-९/३१) और्ध्वन्दमिकम् और्ध्वदेहिकम् ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१०/३१) लोकोत्तरपदस्य च ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-११/३१) ठञ् वक्तव्यः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१२/३१) ऐहलौकिकम् पारलौकिकम् ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१३/३१) मुखपार्श्वतसोः ईयः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१४/३१) मुख पार्श्व इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१५/३१) मुखतीयः पार्श्वतीयः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१६/३१) कुक् जनस्य परस्य च ।ईयः वक्तव्यः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१७/३१) जनकीयम् परकीयम् ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१८/३१) ईयः कार्यः अथ मध्यस्य ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-१९/३१) मध्यीयः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२०/३१) मण्मीयौ च प्रत्ययौ ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२१/३१) मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२२/३१) माध्यमः मध्यमीयः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२३/३१) मध्य [ऋ॒ मध्यः] मध्यम् दिनण् च अस्मात् ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२४/३१) मध्यशब्दः मध्यशब्दम् आपद्यते दिनण् च अस्मात् प्रत्ययः भवति ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२५/३१) माध्यन्दिनः उद्गायति ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२६/३१) स्थाम्नः लुक् अजिनात् तथा ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२७/३१) स्थाम्नः लुक् वक्तव्यः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२८/३१) अश्वत्थामा ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-२९/३१) अजिनान्तात् च लुक् वक्तव्यः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-३०/३१) उलाजिनः सिंहाजिनः व्याघ्राजिनः ।

(पा-४,३.६०; अकि-२,३१०.८-३११ ७; रो-३,७०७-७०८; भा-३१/३१) बाह्यः दैव्यः पाञ्चजन्यः गाम्भीर्यम् च ञ्यः इष्यते ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१/३२) किमर्थम् भवव्याख्यानयोः युगपत् अधिकारः क्रियते ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२/३२) भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-३/३२) भवव्याख्यानयोः युगपत् अधिकारः क्रियते अपवादविधानार्थः ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-४/३२) युगपद् अपवादान् वक्ष्यामि इति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-५/३२) किम् उच्यते अपवादविधानार्थः इति न पुनः निर्देशार्थः अपि स्यात् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-६/३२) कृतनिर्देशौ हि तौ ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-७/३२) कृतनिर्देशौ हि एतौ अर्थौ ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-८/३२) एकः तत्र भवः इति अपरः तस्य इदम् इति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-९/३२) अथ व्याख्यातव्यनाम्नः ग्रहणम् किमर्थम् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१०/३२) तत्र व्याख्यातव्यनाम्नः ग्रहणम् भवार्थम् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-११/३२) तत्र व्याख्यातव्यनाम्नः ग्रहणम् क्रियते भवार्थम् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१२/३२) किम् उच्यते भवार्थम् इति न पुनः व्याख्यानार्थम् अपि ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१३/३२) व्याख्याने हि अवचनात् सिद्धम् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१४/३२) व्याख्याने हि सति अन्तरेण वचनम् सिद्धम् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१५/३२) यत् प्रति व्याख्यानम् इति एतत् भवति तस्मात् उत्पत्तिः भविष्यति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१६/३२) किम् प्रति एतत् भवति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१७/३२) व्याख्यातव्यनाम ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१८/३२) यत् उच्यते भवार्थम् इति तत् न ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-१९/३२) व्याख्यानार्थम् अपि व्याख्यातव्यनाम्नः ग्रहणम् क्रियते ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२०/३२) इह मा भूत् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२१/३२) पाटलिपुत्रस्य व्याख्यानी सुकोसला इति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२२/३२) अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मात् एव अत्र न भवति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२३/३२) अवयशः हि आख्यानम् व्याख्यानम् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२४/३२) पाटलिपुत्रम् च अपि अवयवशः व्याचष्टे ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२५/३२) ईदृशाः अस्य प्राकाराः इति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२६/३२) सत्यम् एवम् एतत् ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२७/३२) क्व चित् तु का चित् प्रसृततरा गतिः भवति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२८/३२) शब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-२९/३२) निरुक्तम् व्याख्यायते ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-३०/३२) व्याकरणम् व्याख्यायते इति उच्यते ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-३१/३२) न कः चित् आह ।

(पा-४,३.६६.१; अकि-२,३११.९-३१२.२; रो-३,७०९-७१०; भा-३२/३२) पाटलिपुत्रम् व्याख्यायते इति ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१/१६) भवे मन्त्रेषु लुग्वचनम् ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-२/१६) भवे मन्त्रेषु लुक् वक्तव्यः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-३/१६) अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-४/१६) राजसूयः वाजपेयः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-५/१६) कल्पे च व्याख्याने ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-६/१६) कल्पे च व्याख्याने लुक् वक्तव्यः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-७/१६) अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-८/१६) राजसूयः वाजपेयः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-९/१६) सः तर्हि वक्तव्यः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१०/१६) न वा तादर्थ्यात् ताच्छब्द्यम् ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-११/१६) न वा वक्तव्यः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१२/१६) किम् कारणम् ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१३/१६) तादर्थ्यात् ताच्छब्द्यम् ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१४/१६) तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१५/१६) अग्निष्टोमार्थः अग्निष्टोमः ।

(पा-४,३.६६.२; अकि-२,३१२.३-१२; रो-३,७१०; भा-१६/१६) राजसूयः वाजपेयः ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-१/१३) क्रतुग्रहणम् किमर्थम् ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-२/१३) यज्ञेभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः यज्ञाः ततः उत्पत्तिः स्यात् ॒ आग्निष्टोमिकः राजसूयिकः वाजपेयिकः ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-३/१३) यत्र वा यज्ञशब्दः अस्ति ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-४/१३) नावयज्ञिकः पाकयज्ञिकः ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-५/१३) इह न स्यात् ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-६/१३) पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-७/१३) क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-८/१३) अथ यज्ञग्रहणम् किमर्थम् ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-९/१३) क्रतुभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः क्रतवः ततः उत्पत्तिः स्यात् ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-१०/१३) आग्निष्टोमिकः राजसूयिकः वाजपेयिकः ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-११/१३) इह न स्यात् ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-१२/१३) पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः ।

(पा-४,३.६८; अकि-२,३१२.१४-२०; रो-३,७११; भा-१३/१३) यज्ञग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-४,३.७२; अकि-२,३१२.२२-२४; रो-३,७११; भा-१/३) नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् ।

(पा-४,३.७२; अकि-२,३१२.२२-२४; रो-३,७११; भा-२/३) नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् द्रष्टव्यम् ।

(पा-४,३.७२; अकि-२,३१२.२२-२४; रो-३,७११; भा-३/३) नामिकः आख्यातिकः नामाख्यातिकः ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-१/१३) अयुक्तः अयम् निर्देशः ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-२/१३) न हि असौ विदूरात् प्रभवति ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-३/१३) किम् तर्हि. वालवायात् प्रभवति विदूरे संस्क्रियते ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-४/१३) एवम् तर्हि ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-५/१३) वालवायः विदूरम् च ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-६/१३) वालवायः विदूरशब्दम् आपद्यते ञ्यः च प्रत्ययः वक्तव्यः ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-७/१३) प्रकृत्यन्तरम् एव वा । अथ वा प्रकृत्यन्तरम् विदूरशब्दः वालवायस्य ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-८/१३) न वै तत्र वालय्वायम् विदूरः इति उपाचरन्ति ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-९/१३) न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-१०/१३) तत् यथा वाणिजः वाराणसीम् जित्वरीम् इति उपाचरन्ति एवम् वैयाकरणाः वालवायम् विदुरः इति उपाचरन्ति ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-११/१३) वालवायः विदूरम् च ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-१२/१३) प्रकृत्यन्तरम् एव वा ।

(पा-४,३.८४; अकि-२,३१३.२-१३; रो-३,७१२; भा-१३/१३) न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-१/१०) अयुक्तः अयम् निर्देशः ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-२/१०) चेतनावतः एतत् भवति निष्क्रामणम् वा अपक्रमणम् वा द्वारम् च अचेतनम् ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-३/१०) कथम् तर्हि निर्देशः करत्व्यः ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-४/१०) अभिनिष्क्रमणम् द्वारम् इति ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-५/१०) सः तर्हि तथा निर्देशः करत्व्यः ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-६/१०) न कर्तव्यः ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-७/१०) अचेतनेषु अपि चेतनावत् उपचारः दृश्यते ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-८/१०) तत् यथा ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-९/१०) अयम् अस्य कोणः अभिनिःसृतः ।

(पा-४,३.८६; अकि-२,३१३.१५-१८; रो-३,७१३; भा-१०/१०) अयम् अभिप्रविष्टः इति ।

(पा-४,३.८७; अकि-२,३१३.२०-२२; रो-३,७१३; भा-१/५) अधिकृत्य कृते ग्रन्थे लुपा- आख्यायिकाभ्यः बहुलम् ।

(पा-४,३.८७; अकि-२,३१३.२०-२२; रो-३,७१३; भा-२/५) अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलम् लुप् वक्तव्यः ।

(पा-४,३.८७; अकि-२,३१३.२०-२२; रो-३,७१३; भा-३/५) वासवदत्ता सुमनोत्तरा ।

(पा-४,३.८७; अकि-२,३१३.२०-२२; रो-३,७१३; भा-४/५) न च भवति ।

(पा-४,३.८७; अकि-२,३१३.२०-२२; रो-३,७१३; भा-५/५) भैमरथी ।

(पा-४,३.८८; अकि-२,३१४.२-४; रो-३,७१३; भा-१/३) द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ।

(पा-४,३.८८; अकि-२,३१४.२-४; रो-३,७१३; भा-२/३) द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-४,३.८८; अकि-२,३१४.२-४; रो-३,७१३; भा-३/३) दैवासुरम् राक्षोसुरम् दैवासुरी रक्षोसुरी ।

(पा-४,३.८९-९०; अकि-२,३१४.७-८; रो-३,७१४; भा-१/३) निवासाभिजनयोः कः विशेषः ।

(पा-४,३.८९-९०; अकि-२,३१४.७-८; रो-३,७१४; भा-२/३) निवासः नाम यत्र सम्प्रति उष्यते ।

(पा-४,३.८९-९०; अकि-२,३१४.७-८; रो-३,७१४; भा-३/३) अभिजनः नाम यत्र पूर्वैः उषितम् ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-१/७) किमर्थम् वासुदेवशब्दात् वुन् विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् इति एव सिद्धम् ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-२/७) न हि अस्ति विशेषः वासुदेवशब्दात् वुनः वा वुञः वा ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-३/७) तत् एव रूपम् सः एव स्वरः ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-४/७) इदम् तर्हि प्रयोजनम् ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-५/७) वासुदेवशब्दस्य पूर्वनिपातम् वक्ष्यामि इति ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-६/७) अथ वा न एषा क्षत्रियाख्या ।

(पा-४,३.९८; अकि-२,३१४.१०-१३; रो-३,७१४; भा-७/७) सञ्ज्ञा एषा तत्रभवतः ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-१/८) सर्ववचनम् किमर्थम् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-२/८) सर्ववचनम् प्रकृतिनिर्ह्रासार्थम् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-३/८) सर्ववचनम् क्रियते प्रकृतिनिर्ह्रासार्थम् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-४/८) प्रकृतिनिर्ह्रासः यथा स्यात् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-५/८) तत् च मद्रवृज्यर्थम् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-६/८) तत् च मद्रवृज्यर्थम् द्रष्टव्यम् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-७/८) माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात् ।

(पा-४,३.१००; अकि-२,३१४.१६-३१५.२; रो-३,७१५; भा-८/८) वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१/३६) प्रोक्तग्रहणम् अनर्थकम् तत्र अदर्शनात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२/३६) प्रोक्तग्रहणम् अनर्थकम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३/३६) किम् कारणम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-४/३६) तत्र अदर्शनात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-५/३६) ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-६/३६) तत्र अदर्शनात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-७/३६) न च तत्र प्रत्ययः दृश्यते ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-८/३६) ग्रन्थे च दर्शनात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-९/३६) यत्र च दृश्यते ग्रन्थः सः ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१०/३६) तत्र कृते ग्रन्थे इति एव सिद्धम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-११/३६) छन्दोर्थम् तर्हि इदम् वक्तव्यम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१२/३६) न हि छन्दांसि क्रियन्ते ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१३/३६) नित्यानि छन्दांसि ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१४/३६) छन्दोर्थम् इति चेत् तुलयम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१५/३६) छन्दोर्थम् इति चेत् तुलयम् एतत् भवति ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१६/३६) ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१७/३६) तत्र अदर्शनात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१८/३६) न च तत्र प्रत्ययः दृश्यते ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-१९/३६) ग्रन्थे च दर्शनात् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२०/३६) यत्र च दृश्यते ग्रन्थः सः ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२१/३६) तत्र कृते ग्रन्थे इति एव सिद्धम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२२/३६) ननु च उक्तम् न हि छन्दांसि क्रियन्ते ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२३/३६) नित्यानि छन्दांसि इति ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२४/३६) यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२५/३६) तद्भेदात् च एतत् भवति ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२६/३६) काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२७/३६) न तर्हि इदानीम् इदम् वक्तव्यम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२८/३६) वक्तव्यम् च ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-२९/३६) किम् प्रयोजनम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३०/३६) यत् तेन प्रोक्तम् न च तेन कृतम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३१/३६) माधुरी वृत्तिः ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३२/३६) यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३३/३६) तत् न वक्तव्यम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३४/३६) तत् अपि अवश्यम् वक्तव्यम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३५/३६) यत् तेन् कृतम् न च तेन प्रोक्तम् ।

(पा-४,३.१०१; अकि-२,३१५.४-१९; रो-३,७१६-७१७; भा-३६/३६) वाररुचम् काव्यम् जालूकाः श्लोकाः ।

"http://sa.wikibooks.org/w/index.php?title=व्याकरणमहाभाष्य_खण्ड_49&oldid=3602" इत्यस्माद् पुनः प्राप्तिः