व्याकरणमहाभाष्य खण्ड 63

विकिपुस्तकानि तः



(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१/३२) किमर्थम् इदम् उच्यते ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२/३२) अन्तादिवद्वचनम् आमिश्रस्य आदेशवचनात् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-३/३२) अन्तादिवत् इति उच्यते आमिश्रस्य आदेशवचनात् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-४/३२) आमिश्रस्य अयम् आदेशः उच्यते ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-५/३२) सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-६/३२) तत् यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात् न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-७/३२) इष्यते च ग्रहणम् स्यात् इति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-८/३२) तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तादिवच्वचनम् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-९/३२) एवमर्थम् इदम् उच्यते ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१०/३२) अस्ति प्रयोजनम् एतत् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-११/३२) किम् तर्हि इति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१२/३२) तत्र यस्य अन्तादिवत् तन्निर्देशः ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१३/३२) तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१४/३२) अस्य अन्तवत् भवति अस्य आदिवत् भवति इति वक्तव्यम् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१५/३२) सिद्धम् तु पूर्वपराधिकारात् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१६/३२) सिद्धम् एतत् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१७/३२) कथम् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१८/३२) पूर्वपराधिकारात् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-१९/३२) पूर्वपरयोः इति वर्तते ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२०/३२) पूर्वस्य कार्यम् प्रति अन्तवत् भवति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२१/३२) परस्य कार्यम् प्रति आदिवत् भवति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२२/३२) अथ यत्र उभयम् आश्रीयते किम् तत्र पूर्वस्य अन्तवत् भवति आहोस्वित् परस्य आदिवत् भवति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२३/३२) उभयतः आश्रये न अन्तादिवत् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२४/३२) किम् वक्तव्यम् एतत् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२५/३२) न हि ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२६/३२) कथम् अनुच्यमानम् गंस्यते ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२७/३२) लौकिकः अयम् दृष्टान्तः ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२८/३२) तत् यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यम् करोति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-२९/३२) यदा तु तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-३०/३२) किम् पुनः कारणम् उभयोः न करोति ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-३१/३२) यौगपद्यासम्भवात् ।

(पा-६,१.८५.१; अकि-३,५९.१०-६०.६; रो-४, ४०४-४०६; भा-३२/३२) न अस्ति यौगपद्येन सम्भवः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१/११८) अथ अन्तवत्त्वे कानि प्रयोजनानि ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२/११८) अन्तवत्त्वे प्रयोजनम् बह्वच्पूर्वपदात् ठज्विधाने ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३/११८) अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४/११८) द्वादशान्यिकः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५/११८) पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७/११८) यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८/११८) तरयोदशान्यिकः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९/११८) प्रत्ययैकादेशः पूर्वविधौ ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०/११८) प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११/११८) मधु पिबन्ति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१२/११८) शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१३/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१४/११८) यत्र एकादेशः न भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१५/११८) पिबति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१६/११८) वैभक्तस्य णत्वे ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१७/११८) वैभक्तस्य णत्वे प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१८/११८) क्षीरपेण , सुरापेण ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१९/११८) उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२०/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२१/११८) यत्र एकादेशः न भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२२/११८) क्षीरपाणाम् , सुरापाणम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२३/११८) अदसः ईत्त्वोत्त्वे ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२४/११८) अदसः ईत्त्वोत्त्वे प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२५/११८) अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२६/११८) अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२७/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२८/११८) यत्र एकादेशः न भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-२९/११८) अमीभिः , अमूभ्याम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३०/११८) स्वरितत्वे प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३१/११८) कार्या , हार्या ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३२/११८) तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३३/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३४/११८) यत्र एकादेशः न भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३५/११८) कार्यः , हार्यः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३६/११८) स्वरितत्वम् विप्रतिषेधात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३७/११८) स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३८/११८) परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-३९/११८) न एषः युक्तः विप्रतिषेधः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४०/११८) नित्यः एकादेशः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४१/११८) कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४२/११८) अनित्यः एकादेशः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४३/११८) अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४४/११८) स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४५/११८) अन्तरङ्गः तर्हि एकादेशः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४६/११८) का अन्तरङ्गता ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४७/११८) वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४८/११८) स्वरितत्वम् अपि अन्तरङ्गम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-४९/११८) कथम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५०/११८) उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५१/११८) उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५२/११८) स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५३/११८) लिङ्गविशिष्तग्रहणात् वा ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५४/११८) अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५५/११८) पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५६/११८) गुडोदकम् , मथितोदकम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५७/११८) पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५८/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-५९/११८) यत्र अकादेशः न भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६०/११८) उदश्विदुदकम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६१/११८) पूर्वपदान्तोदात्तत्वम् च ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६२/११८) पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६३/११८) पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६४/११८) परत्वात् पूर्वपदान्तोदात्तत्वम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६५/११८) पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६६/११८) एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६७/११८) इह उभयम् प्राप्नोति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६८/११८) मथितोदकम् , गुडोदकम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-६९/११८) पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७०/११८) सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७१/११८) एकादेशे हि स्वरिताप्रसिद्धिः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७२/११८) एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७३/११८) यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७४/११८) मथितोदकम् , गुडोदकम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७५/११८) कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७६/११८) प्राटिता , प्राशिता ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७७/११८) कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७८/११८) क्व तर्हि स्यात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-७९/११८) यत्र न अकादेशः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८०/११८) प्रकारकः , प्रकरणम् । कृदन्तप्रकृतिस्वरत्वम् च ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८१/११८) कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८२/११८) कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८३/११८) परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८४/११८) कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८५/११८) इह उभयम् प्राप्नोति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८६/११८) प्राटिता , प्राशिता ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८७/११८) कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८८/११८) सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-८९/११८) एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९०/११८) यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९१/११८) किम् कारणम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९२/११८) उत्तरपदस्य अपरत्वात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९३/११८) न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९४/११८) ननु च अन्तादिवद्भावेन परम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९५/११८) उभयतः आश्रये न अन्तादिवत् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९६/११८) उत्तरपदवृद्धिः च एकादेशात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९७/११८) उत्तरपदवृद्धिः च एकादेशात् भवति विप्रतिषेधेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९८/११८) उत्तरपदवृद्धेः अवकाशः पूर्वत्रैगर्तकः, अपरत्रैगर्तकः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-९९/११८) एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१००/११८) इह उभयम् प्राप्नोति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०१/११८) पूर्वैषुकामशमः , अपरैषुकामशः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०२/११८) उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०३/११८) एकादेशप्रसङ्गः तु अन्तरङ्गबलीयस्त्वात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०४/११८) एकादेशः तु प्राप्नोति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०५/११८) किम् कारणम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०६/११८) अन्तरङ्गस्य बलीयस्त्वात् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०७/११८) अन्तरङ्गम् बलीयः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०८/११८) तत्र कः दोषः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१०९/११८) तत्र वृद्धिविधानम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११०/११८) तत्र वृद्धिः विधेया ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-१११/११८) न एषः दोषः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११२/११८) आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११३/११८) कथम् कृत्वा ज्ञापकम् ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११४/११८) इन्द्रे द्वौ अचौ ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११५/११८) तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११६/११८) ततः अनच्कः इन्द्रः सम्पन्नः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११७/११८) तत्र कः प्रसङ्गः वृद्धेः ।

(पा-६,१.८५.२; अकि-३,६०.७-६३.७; रो-४,४०६-४११; भा-११८/११८) पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१/५५) अथ आदिवत्त्वे कानि प्रयोजनानि ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२/५५) आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३/५५) आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४/५५) अग्नी इति , वायू इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५/५५) द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-६/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-७/५५) यत्र एकादेशः न भवति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-८/५५) त्रपुणी इति , जतुनी इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-९/५५) सुप्तिङाब्विधिषु ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१०/५५) सुप्तिङाब्विधिषु प्रयोजनम् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-११/५५) सुप् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१२/५५) वृक्षे तिष्ठति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१३/५५) प्लक्षे तिष्ठति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१४/५५) सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१५/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१६/५५) यत्र एकादेशः न भवति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१७/५५) वृक्षः तिष्ठति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१८/५५) प्लक्षः तिष्थति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-१९/५५) सुप् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२०/५५) तिङ् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२१/५५) पचे, यजे इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२२/५५) तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२३/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२४/५५) यत्र एकादेशः न भवति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२५/५५) पचति , यजति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२६/५५) तिङ् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२७/५५) आप् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२८/५५) खट्वा , माला ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-२९/५५) अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३०/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३१/५५) यत्र एकादेशः न भवति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३२/५५) क्रुञ्चा , उष्णिहा , देवदिशा ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३३/५५) आङ्ग्रहणे पदविधौ ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३४/५५) आङ्ग्रहणे पदविधौ प्रयोजनम् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३५/५५) अद्य आहते ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३६/५५) कदा आहते ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३७/५५) आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३८/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-३९/५५) यत्र एकादेशः न भवति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४०/५५) आहते ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४१/५५) आटः च वृद्धिविधौ ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४२/५५) आटः च वृद्धिविधौ प्रयोजनम् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४३/५५) अद्य ऐहिष्ट ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४४/५५) कदा ऐहिष्ट ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४५/५५) आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४६/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४७/५५) यत्र एकादेशः न ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४८/५५) ऐहिष्ट , ऐक्षिष्ट ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-४९/५५) कृदन्तप्रातिपदिकत्वे च ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५०/५५) कृदन्तप्रातिपदिकत्वे च प्रयोजनम् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५१/५५) धारयः , पारयः ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५२/५५) कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५३/५५) क्व तर्हि स्यात् ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५४/५५) यत्र एकादेशः न ।

(पा-६,१.८५.३; अकि-३,६३.८-६४.८; रो-४,४११-४१२; भा-५५/५५) कारकः , हारकः ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१/४१) न अभ्यासादीनाम् ह्रस्वत्वे ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२/४१) अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३/४१) के पुनः अभ्यासादयः ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-४/४१) अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-५/४१) अभ्यासह्रस्वत्वम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-६/४१) उपेयाज , उपोवाप ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-७/४१) ऊहेः ह्रस्ववम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-८/४१) उपोह्यते , प्रोह्यते , परोह्यते ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-९/४१) अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१०/४१) अम्ब अत्र , अक्क अत्र ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-११/४१) कुमारि इदम् , किशोरि इदम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१२/४१) आराशस्त्रि इदम् , धानाशष्कुलि इदम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१३/४१) निष्कौशाम्बि इदम् , निर्वाराणसि इदम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१४/४१) अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१५/४१) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१६/४१) न वा एतत् वक्तव्यम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१७/४१) किम् कारणम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१८/४१) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-१९/४१) अन्तरङ्गम् ह्रस्वत्वम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२०/४१) बहिरङ्गाः एते विधयः ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२१/४१) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२२/४१) वर्णाश्रयविधौ च ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२३/४१) वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२४/४१) किम् प्रयोजनम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२५/४१) प्रयोजनम् खट्वाभिः जुहाव अस्यै अश्वः इति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२६/४१) इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२७/४१) न एषः दोषः ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२८/४१) तपरकरणसामर्थ्यात् न भविष्यति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-२९/४१) अस्ति अन्यत् तपरकरणे प्रयोजनम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३०/४१) किम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३१/४१) कीलालपाभिः , शुभंयाभिः ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३२/४१) जुहाव ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३३/४१) आतः औ णलः इति औत्वम् प्राप्नोति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३४/४१) अस्यै अश्वः इति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३५/४१) एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३६/४१) न वा अताद्रूप्यातिदेशात् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३७/४१) न वा वक्तव्यम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३८/४१) किम् कारणम् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-३९/४१) अताद्रूप्यातिदेशात् ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-४०/४१) न इह ताद्रूप्यम् अतिदिश्यते ।

(पा-६,१.८५.४; अकि-३,६४.९-६५.६; रो-४,४१३-४१४; भा-४१/४१) रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१/३९) किमर्थम् इदम् उच्यते ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२/३९) षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३/३९) षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-४/३९) आदेशलक्षणप्रतिषेधाऋथम् तावत् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-५/३९) कोसिञ्चत् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-६/३९) योसिञ्चत् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-७/३९) एकादेशे कृते इणः इति षत्वम् प्राप्नोति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-८/३९) असिद्धत्वात् न भवति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-९/३९) उत्सर्गलक्षणभावार्थम् च ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१०/३९) अधीत्य , प्रेत्य ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-११/३९) एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१२/३९) असिद्धत्वात् भवति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१३/३९) अस्ति प्रयोजनम् एतत् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१४/३९) किम् तर्हि इति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१५/३९) तत्र उत्सर्गलक्षणाप्रसिद्धिः उत्सर्गाभावात् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१६/३९) तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१७/३९) अधीत्य , प्रेत्य इति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१८/३९) किम् कारणम् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-१९/३९) उत्सर्गाभावात् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२०/३९) ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वम् पश्यामः ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२१/३९) ननु च अत्र अपि असिद्धवचनात् सिद्धम् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२२/३९) असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२३/३९) असिद्धवचनात् सिद्धम् इति चेत् तत् न ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२४/३९) किम् कारणम् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२५/३९) अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२६/३९) न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२७/३९) न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२८/३९) तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-२९/३९) तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३०/३९) अधीत्य , प्रेत्य इति स्थानिवद्भावः ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३१/३९) कोसिञ्चत् , योसिञ्चत् इति अत्र असिद्धत्वम् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३२/३९) स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३३/३९) स्थानिवद्वचनम् अनर्थकम् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३४/३९) किम् कारणम् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३५/३९) शास्त्रासिद्धत्वात् ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३६/३९) न अनेन कार्यासिद्धत्वम् क्रियते ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३७/३९) किम् तर्हि ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३८/३९) शास्त्रासिद्धत्वम् अनेन क्रियते ।

(पा-६,१.८६.१; अकि-३,६५.८-६६.७; रो-४,४१४-४१५; भा-३९/३९) एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् भवति इति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१/३२) सम्प्रसारणङीट्सु सिद्धः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२/३२) सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यम् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-३/३२) शकहूषु , परिवीषु ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-४/३२) सम्प्रसारण ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-५/३२) ङि ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-६/३२) वृक्षे च्छत्रम् , वृक्षे छत्रम् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-७/३२) ङि ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-८/३२) इट् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-९/३२) अपचे च्छत्रम् , अपचे छत्रम् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१०/३२) सम्प्रसारणङीट्सु सिद्धः पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । सम्प्रसारणङीट्सु सिद्धः एकादेशः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-११/३२) कुतः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१२/३२) पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१३/३२) पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१४/३२) यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वम् प्राप्नोति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१५/३२) तुग्विधिम् प्रति पदान्तपदाद्योः एकादेशः असिद्धः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१६/३२) षत्वम् प्रति एकादेशमात्रम् असिद्धम् भवति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१७/३२) यदि षत्वम् प्रति एकादेशमात्रम् असिद्धम् शकहूषु , परिवीषु , अत्र षत्वम् न प्राप्नोति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१८/३२) अस्तु तर्हि अविशेषेण ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-१९/३२) कथम् सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२०/३२) न एषः दोषः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२१/३२) भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२२/३२) यत् अयम् कस्कादिषु भ्रातुष्पुत्रग्रहणम् करोति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२३/३२) यदि एतत् ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वम् न प्राप्नोति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२४/३२) तुल्यजातीयकस्य ज्ञापकम् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२५/३२) किम् च तुल्ज्यजातीयम् ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२६/३२) यः कुप्वोः ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२७/३२) यदि एवम् वेञः अप्रत्यये परतः उः इति प्राप्नोति उत् इति च इष्यते ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२८/३२) यथालक्षणम् अप्रयुक्ते ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-२९/३२) अथ वा न एवम् विज्ञायते ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-३०/३२) पूर्वस्य च पदादेः परस्य च पदान्तस्य इति ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-३१/३२) कथम् तर्हि ।

(पा-६,१.८६.२; अकि-३,६६.८-२३; रो-४,४१६-४१८; भा-३२/३२) परस्य च पदादेः पूर्वस्य च पदान्तस्य इति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१/४९) गुणग्रहणम् किमर्थम् न आत् एकः भवति इति एव उच्येत ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२/४९) आत् एकः चेत् गुणः केन ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३/४९) आत् एकः चेत् गुणः केन इदानीम् भविष्यति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४/४९) खट्वेन्द्रः , मालेन्द्रः , खट्वोदकम् , मालोदकम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-५/४९) स्थाने अन्तरतमः हि सः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-६/४९) स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-७/४९) ऐदौतौ अपि तर्हि प्रप्नुतः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-८/४९) ऐदौतौ न एचि तौ उक्तौ । ऐदौतौ न भविष्यतः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-९/४९) किम् कारणम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१०/४९) एचि हि ऐदौतौ उच्येते ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-११/४९) इह तर्हि खट्वर्श्यः , मालर्श्यः , ऋकारः तर्हि प्राप्नोति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१२/४९) ऋकारः न उभयान्तरः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१३/४९) उभयोः यः अन्तरतमः तेन भवितव्यम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१४/४९) न च ऋकारः उभयोः अन्तरतमः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१५/४९) आकारः तर्हि प्राप्नोति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१६/४९) आकारः न ऋति धातौ सः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१७/४९) आकारः न भविष्यति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१८/४९) किम् कारणम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-१९/४९) ऋति धातौ आकारः उच्यते ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२०/४९) तत् नियमार्थम् भविष्यति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२१/४९) ऋकारादौ धातौ एव न अन्यत्र इति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२२/४९) प्लुतः तर्हि प्राप्नोति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२३/४९) प्लुतः च विषये स्मृतः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२४/४९) विषये प्लुतः उच्यते ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२५/४९) यदा च सः विषयः भवितव्यम् तदा प्लुतेन ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२६/४९) आन्तर्यात् त्रिमात्रचतुर्मात्राः । इदम् तर्हि प्रयोजनम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२७/४९) आन्तर्यतः त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२८/४९) खट्वा इन्द्रः खट्वेन्द्रः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-२९/४९) खट्वा उदकम् खट्वोदकम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३०/४९) खट्वा ईषा खट्वेषा ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३१/४९) खट्वा ऊढा खट्वोढा ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३२/४९) खट्वा एलका खट्वैलका ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३३/४९) खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३४/४९) खट्वा औपगवः खट्वौपगवः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३५/४९) अथ क्रियमाणे अपि गुणग्रहणे कस्मात् एव अत्र त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३६/४९) तपरत्वात् ने ते स्मृताः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३७/४९) तपरे गुणवृद्धी ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३८/४९) ननु च भोः तः परः यस्मात् सः अयम् तपरः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-३९/४९) न इति आह ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४०/४९) तात् अपि परः तपरः इति ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४१/४९) यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४२/४९) यवः स्तवः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४३/४९) लवः पवः इति अत्र न स्यात् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४४/४९) न एषः तकारः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४५/४९) कः तर्हि ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४६/४९) दकारः ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४७/४९) किम् दकारे प्रयोजनम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४८/४९) अथ किम् तकारे प्रयोजनम् ।

(पा-६,१.८७.१; अकि-३,६६.२५-६८.३; रो-४,४१८-४२०; भा-४९/४९) यदि असन्देहार्थः तकारः दकारः अपि ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१/१७) गुणे ङिशीताम् उपसङ्ख्यानम् दीर्घत्वबाधनार्थम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-२/१७) गुणे ङिशीताम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-३/१७) ङि ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-४/१७) वृक्षे इन्द्रः , प्लक्षे इन्द्रः ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-५/१७) शी ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-६/१७) ये इन्द्रम् , ते इन्द्रम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-७/१७) इट् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-८/१७) अपचे इन्द्रम् , अयजे इन्द्रम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-९/१७) किम् प्रयोजनम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१०/१७) दीर्घत्वबाधनार्थम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-११/१७) सवर्णदीर्घत्वम् मा भूत् इति ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१२/१७) न वा बहिरङ्गलक्षणत्वात् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१३/१७) न वा कर्तव्यम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१४/१७) किम् कारणम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१५/१७) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१६/१७) बहिरङ्गलक्षणम् सवर्णदीर्घत्वम् ।

(पा-६,१.८७.२; अकि-३,४-१०; रो-४,४२०; भा-१७/१७) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-१/८) आत् एकः चेत् गुणः केन ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-२/८) स्थाने अन्तरतमः हि सः ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-३/८) ऐदौतौ न एचि तौ उक्तौ ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-४/८) ऋकारः न उभयान्तरः ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-५/८) आकारः न ऋति धातौ सः ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-६/८) प्लुतः च विषये स्मृतः ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-७/८) आन्तर्यात् त्रिमात्रचतुर्मात्राः ।

(पा-६,१.८७.३; अकि-३,६८.११-१४; रो-४,४२०; भा-८/८) तपरत्वात् ने ते स्मृताः ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१/२७) किम् इदम् एत्येधत्योः रूपग्रहणम् आहोस्वित् धातुग्रहणम् ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२/२७) किम् च अतः ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-३/२७) यदि रूपग्रहणम् सिद्धम् उपैति , प्रैति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-४/२७) उपैषि , प्रैषि इति न सिध्यति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-५/२७) अथ धातुग्रहणम् सिद्धम् एतत् भवति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-६/२७) किम् तर्हि इति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-७/२७) इणि इकारादौ वृद्धिप्रतिषेधः ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-८/२७) इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-९/२७) उपेतः प्रेतः इति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१०/२७) योगविभागात् सिद्धम् ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-११/२७) योगविभागः करिष्यते ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१२/२७) वृद्धिः एचि ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१३/२७) ततः एत्येधत्योः ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१४/२७) एत्येधत्योः च एचि वृद्धिः भवति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१५/२७) तत ऊठि ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१६/२७) ऊठि च वृद्धिः भवति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१७/२७) एवम् अपि आ इतः एतः ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१८/२७) उपेतः , प्रेतः इति अत्र अपि प्राप्नोति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-१९/२७) आङि पररऊपम् अत्र बाधकम् भविष्यति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२०/२७) न अप्राप्ते पररूपम् इयम् वृद्धिः आरभ्यते ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२१/२७) सा यथा एङि पररूपम् बाधते एवम् आङि पररूपम् बाधेत ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२२/२७) न बाधते ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२३/२७) किम् कारणम् ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२४/२७) येन न अप्राप्ते तस्य बाधनम् भवति ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२५/२७) न च अप्राप्ते एङि पररूपम् इयम् वृद्धिः आरभ्यते ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२६/२७) आङि पररूपे पुनः प्राप्ते च अप्राप्ते च ।

(पा-६,१.८९.१; अकि-३,६८.१६-६९.६; रो-४,४२१-४२२; भा-२७/२७) अथवा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति इयम् वृद्धिः एङि पररूपम् बाधिष्यते न आङि पररूपम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१/२७) अक्षात् ऊहिन्याम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२/२७) अक्षात् ऊहिन्याम् वृद्धिः वक्तव्या ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-३/२७) अक्षौहिणी ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-४/२७) प्रात् ऊहोढोढ्येषैष्येषु ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-५/२७) प्रात् ऊह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-६/२७) प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-७/२७) स्वात् ईरेरिणोः ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-८/२७) स्वात् ईर , ईरिन् इति एतयोः वृद्धिः वक्तव्या ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-९/२७) स्वैरः , स्वैरी ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१०/२७) ईरिन्ग्रहणम् शक्यम् अकर्तुम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-११/२७) कथम् स्वरी इति ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१२/२७) इनिना एतत् मत्वर्थीयेन सिद्धम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१३/२७) स्वैरः अस्य अस्ति इति स्वैरी ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१४/२७) ऋते च तृतीयासमासे ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१५/२७) ऋते च तृतीयासमासे वृद्धिः वक्तव्या ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१६/२७) सुखार्तः , दुःखार्तः ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१७/२७) ऋते इति किम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१८/२७) सुखेतः , दुःखेतः ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-१९/२७) तृतीयाग्रहणम् किम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२०/२७) परमर्तः ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२१/२७) समासे इति किम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२२/२७) सुखेनर्तः ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२३/२७) प्रवत्सतरकम्बल्वसनानाम् च ऋणे ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२४/२७) प्रवत्सतरकम्बल्वसनानाम् च ऋणे वृद्धिः वक्तव्या ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२५/२७) प्रार्णम् , वत्सतराणम् , वसनार्णम् ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२६/२७) ऋणदशाभ्याम् च ।ऋणदशाभ्याम् च वृद्धिः वक्तव्या ।

(पा-६,१.८९.२; अकि-३,६९.७-२१; रो-४,४२२-४२३; भा-२७/२७) ऋणार्णम् , दशार्णम् ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-१/११) किमर्थः चकारः ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-२/११) वृद्धेः अनुकर्षणार्थः ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-३/११) न एतत् अस्ति प्रयोजनम् ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-४/११) प्रकृता वृद्धिः अनुवर्तिष्यते ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-५/११) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-६/११) आतः अचि वृद्धिः एव यथा स्यात् ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-७/११) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-८/११) किम् च अन्यत् प्राप्नोति ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-९/११) पररूपम् ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-१०/११) उसि ओमाङ्क्षु आटः पररूपप्रतिषेधम् चोदयिष्यति ।

(पा-६,१.९०; अकि-३,७०.२-५; रो-४,४२३; भा-११/११) सः न वक्तव्यः भवति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१/१६) धातौ इति किमर्थम् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-२/१६) इह मा भूत् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-३/१६) प्रर्षभम् वनम् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-४/१६) उपसर्गात् वृद्धिविधौ धातुग्रहणे उक्तम् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-५/१६) किम् उक्तम् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-६/१६) गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनम् इति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-७/१६) क्रियमाणे अपि धातुग्रहणे प्रर्च्छकः इति प्राप्नोति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-८/१६) यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनात् न भवति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-९/१६) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१०/१६) उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-११/१६) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१२/१६) किम् च अन्यत् प्राप्नोति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१३/१६) ह्रस्वत्वम् ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१४/१६) ऋति अकः इति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१५/१६) ऋति ह्रस्वात् उपसर्गात् वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति ।

(पा-६,१.९१.१; अकि-३,७०.७-१४; रो-४,४२३-४२४; भा-१६/१६) सः न वक्तव्यः भवति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१/१८८) छे तुकः सम्बुद्धिगुणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२/१८८) छे तुक् भवति इति अस्मात् सम्बुद्धिगुणः भवति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३/१८८) छे तुक् भवति इति अस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४/१८८) इच्छति , गच्छति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५/१८८) सम्बुद्धिगुणस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६/१८८) अग्ने, वायो ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८/१८८) अग्नेच् छत्रम् , अग्ने छत्रम् , वायोच् छत्रम् , वायो छत्रम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९/१८८) सम्बुद्धिगुणः भवति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०/१८८) सः तर्हि विप्रतिषेधः वक्तव्यः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११/१८८) न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२/१८८) किम् काऋअणम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३/१८८) बहिरङ्गलक्षणत्वात् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४/१८८) बहिरङ्गलक्षणः तुक् अन्तरङ्गलक्षणः सम्बुद्धिगुणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५/१८८) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६/१८८) अन्तरेण विप्रतिषेधम् अन्तरेण अपि च एताम् परिभाषाम् सिद्धम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७/१८८) कथम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८/१८८) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१९/१८८) सम्बुद्धिलोपः क्रियताम् गुणः इति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२०/१८८) किम् अत्र कर्तव्यम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२१/१८८) परत्वात् गुणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२२/१८८) नित्यः सम्बुद्धिलोपः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२३/१८८) कृते अपि गुणे प्राप्नोति अकृते अपि ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२४/१८८) गुणः अपि नित्यः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२५/१८८) कृते अपि समुबुद्धिलोपे प्राप्नोति अकृते अपि ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२६/१८८) अनित्यः गुणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२७/१८८) न हि कृते सम्बुद्धिलोपे प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२८/१८८) तावति एव छेन आनन्तर्यम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-२९/१८८) तत्र तुका भवितव्यम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३०/१८८) तस्मात् सुष्ठु उच्यते ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३१/१८८) छे तुकः सम्बुद्धिगुणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३२/१८८) न वा बहिरङ्गलक्षणत्वात् इति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३३/१८८) सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३४/१८८) सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३५/१८८) सम्प्रसारणदीर्घत्वस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३६/१८८) हूतः , जीनः , संवीतः , शूनः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३७/१८८) तुकः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३८/१८८) अग्निचित् , सोमसुत् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-३९/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४०/१८८) परिवीषु , शकहूषु ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४१/१८८) णिलोपस्य अवकाशः ।कारणा , हारणा ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४२/१८८) तुकः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४३/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४४/१८८) प्रकार्य गतः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४५/१८८) प्रहार्य गतः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४६/१८८) अल्लोपस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४७/१८८) चिकीर्षिता , जिहीर्षिता ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४८/१८८) तुकः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-४९/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५०/१८८) प्रचिकीर्ष्य गतः , प्रजिहीर्ष्य गतः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५१/१८८) अभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५२/१८८) के पुनः अभ्यासगुणादयः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५३/१८८) ह्रस्वत्वात्त्वेत्त्वगुणाः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५४/१८८) ह्रस्वत्वस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५५/१८८) पपतुः , पपुः , तस्थतुः , तस्थुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५६/१८८) तुकः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५७/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५८/१८८) अपचच्छतुः , अपचच्छुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-५९/१८८) अत्त्वस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६०/१८८) चक्रतुः , चक्रुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६१/१८८) तुकः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६२/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६३/१८८) अपचच्छृदतुः , अपचच्छृदुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६४/१८८) इत्त्वस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६५/१८८) पिपक्षति , यियक्षति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६६/१८८) तुकः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६७/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६८/१८८) चिच्छादयिषति , चिच्छर्दयिषति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-६९/१८८) गुणस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७०/१८८) लोलूयते , बेभिद्यते ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७१/१८८) तुकः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७२/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७३/१८८) चेच्छिद्यते , चोच्छुप्यते ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७४/१८८) यणदेशात् आत् गुणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७५/१८८) यणदेशात् आत् गुणः भवति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७६/१८८) यणदेशस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७७/१८८) दधि अत्र , मधु अत्र ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७८/१८८) आत् गुणस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-७९/१८८) खट्वेन्द्रः , खट्वोदकम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८०/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८१/१८८) वृक्षः अत्र, प्लक्शः अत्र ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८२/१८८) इरुर्गुणवृद्धिविधयः च ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८३/१८८) इरुर्गुणवृद्धिविधयः च यणदेशात् भवन्ति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८४/१८८) इरुरोः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८५/१८८) आस्तीर्णम् , निपूर्ताः पिण्डाः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८६/१८८) यणदेशस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८७/१८८) चक्रतुः , चक्रुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८८/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-८९/१८८) दूरे हि अध्वा जगुरिः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९०/१८८) मित्रावरुणौ ततुरिः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९१/१८८) किरति , गिरति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९२/१८८) गुणवृद्ध्योः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९३/१८८) चेता , गौः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९४/१८८) यणदेशस्य सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९५/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९६/१८८) चयनम् , चायकः , लवनम् , लावकः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९७/१८८) भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९८/१८८) भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च यणदेशात् च भवन्ति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-९९/१८८) भलोपस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१००/१८८) गार्ग्यः , वात्स्यः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०१/१८८) एकादेशयणादेशयोः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०२/१८८) दधीन्द्रः , मधूदकम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०३/१८८) दधि अत्र , मधु अत्र. इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०४/१८८) दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०५/१८८) अचि भलोपः एकादेशात् भवति विप्र्तिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०६/१८८) अचि भलोपस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०७/१८८) दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०८/१८८) एकादेशस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१०९/१८८) दण्डाग्रम् , क्षुपाग्रम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११०/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१११/१८८) गाङ्गेयः गाङ्गः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११२/१८८) धातुस्वरस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११३/१८८) पचति , पठति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११४/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११५/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११६/१८८) श्र्यर्थम् , श्रीषा ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११७/१८८) प्रातिपदिकस्वरस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११८/१८८) आम्रः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-११९/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२०/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२१/१८८) अग्न्युदकम् , वृक्षार्थम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२२/१८८) प्रत्ययस्वरस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२३/१८८) चिकीर्षुः , औपगवः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२४/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२५/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२६/१८८) चिकीर्षुअर्थम् , औपगवार्थम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२७/१८८) समासान्तोदात्तस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२८/१८८) राजपुरुषः , ब्राह्मणकम्बलः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१२९/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३०/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३१/१८८) राजवैद्यर्थम् , राजवैदी ईहते ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३२/१८८) उदात्तनिवृत्तिस्वरस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३३/१८८) नदी , कुमारी ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३४/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३५/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३६/१८८) कुमार्यर्थम् , कुमारी ईहते ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३७/१८८) अल्लोपाल्लोपौ च आर्धधातुके ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३८/१८८) अल्लोपाल्लोपौ च आर्धधातुके एकादेशात् भवतः विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१३९/१८८) अल्लोपस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४०/१८८) चिकीर्षिता , जिहीर्षिता ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४१/१८८) एकादेशस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४२/१८८) पचन्ति , पठन्ति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४३/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४४/१८८) चिकीर्षकः , जिहीर्षकः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४५/१८८) आल्लोपस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४६/१८८) पपिः सोमम् , ददिः गः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४७/१८८) एकादेशस्य अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४८/१८८) यान्ति , वान्ति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१४९/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५०/१८८) ययतुः , ययुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५१/१८८) इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५२/१८८) इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च एकादेशयणादेशाभ्याम् भवन्ति विप्रतिषेधेन ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५३/१८८) इयङुवङोः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५४/१८८) श्रियौ , श्रियः , भ्रुवौ , भ्रुवः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५५/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५६/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५७/१८८) चिक्षियिव , चिक्षियिम , लुलुवतुः , लुलुवुः , पुपुवतुः , पुपुवुः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५८/१८८) गुणवृद्ध्योः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१५९/१८८) चेता , गौः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६०/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६१/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६२/१८८) साधुचायी , सुचायी , नग्नम्भावुकः अध्वर्युः , शयिता , शयितुम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६३/१८८) टितः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६४/१८८) अग्नीनाम् , इन्दूनाम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६५/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६६/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६७/१८८) वृक्षाणाम् , प्लक्षाणाम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६८/१८८) कितः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१६९/१८८) साधुदायी , सुष्ठुदायी ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७०/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७१/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७२/१८८) दायकः , धायकः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७३/१८८) मितः अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७४/१८८) त्रपुणी , जतुनी ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७५/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७६/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७७/१८८) अस्थीनि , दधीनि , अतिसखीनि ब्राह्मणकुलानि ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७८/१८८) पूर्वपदविकाराणाम् अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१७९/१८८) होतापोतारौ ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८०/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८१/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८२/१८८) नेष्टोद्गातारौ आग्नेन्द्रम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८३/१८८) उत्तरपदविकाराः च इति वक्तव्यम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८४/१८८) उत्तरपदविकाराणाम् अवकाशः ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८५/१८८) समीपम् , दुरीपम् ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८६/१८८) एकादेशयणादेशयोः सः एव ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८७/१८८) इह उभयम् प्राप्नोति ।

(पा-६,१.९१.२; अकि-३,७०.१५-७३.१४; रो-४,४२४-४३१; भा-१८८/१८८) प्रेपम् , परेपम् ।