व्याकरणमहाभाष्य खण्ड 68

विकिपुस्तकानि तः



(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१/३३) एकवत् च अलुक् भवति इति वक्तव्यम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२/३३) किम् प्रयोजनम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-३/३३) स्तोकाभ्याम् मुक्तः , स्तोकेभ्यः मुक्तः इति विगृह्य स्तोकान्मुक्तः इति एव यथा स्यात् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-४/३३) एकवद्व्चनम् अनर्थकम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-५/३३) एकवद्भावः च अनर्थकः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-६/३३) द्विबह्वोः अलुक् कस्मात् न भवति ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-७/३३) द्विबहुषु असमासः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-८/३३) द्विवचनबहुवचनानाम् असमासः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-९/३३) किम् वक्तव्यम् एतत् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१०/३३) न हि अनुच्यमानं गंस्यते ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-११/३३) उक्तम् वा ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१२/३३) किम् उक्तम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१३/३३) अनभिधानात् इति ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१४/३३) तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१५/३३) एकवद्वचने हि गोषुचरे अतिप्रसङ्गः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१६/३३) एकवद्वचने हि गोषुचरे अतिप्रसङ्गः स्यात् ॒ गोषुचरः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१७/३३) वर्षाभ्यः च जे ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१८/३३) वर्षाभ्यः च जे अतिप्रसङ्गः भवति ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-१९/३३) वर्षासुजः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२०/३३) अपः योनियन्मतिषु च ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२१/३३) अपः योनियन्मतिषु च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२२/३३) जे चरे च ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२३/३३) जे चरे च अतिप्रसङ्गः भवति ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२४/३३) योनि ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२५/३३) अप्सुयोनिः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२६/३३) यत् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२७/३३) अप्सव्यम् ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२८/३३) मति ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-२९/३३) अप्सुमतिः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-३०/३३) जे ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-३१/३३) अप्सुजः ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-३२/३३) चरे ।

(पा-६,३.१.२; अकि-३,१४१.१२-१४२.९; रो-४,५८२-५८४; भा-३३/३३) अप्सुचरः गह्वरेष्ठाः ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-१/७) पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-२/७) पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-३/७) ब्राह्मणाच्छंसी । अन्यार्थे च ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-४/७) अन्यार्थे च एषा पञ्चमी द्रष्टव्या ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-५/७) ब्राह्मणानि शंसति इति ब्राह्मणाच्छंसी ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-६/७) अथ वा युक्तः एव अत्र पञ्चम्यर्थः ।

(पा-६,३.२; अकि-३,१४२.११-१६; रो-४,५८४-५८५; भा-७/७) ब्राह्मणेभ्यः गृहीत्वा , आहृत्य आहृत्य शंसति इति ब्राह्मणाच्छंसी ।

(पा-६,३.३; अकि-३,१४२.१८-२२; रो-४,५८५; भा-१/६) अञ्जसः उपसङ्ख्यानम् ।

(पा-६,३.३; अकि-३,१४२.१८-२२; रो-४,५८५; भा-२/६) अञ्जसः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.३; अकि-३,१४२.१८-२२; रो-४,५८५; भा-३/६) अञ्जसाकृतम् ।

(पा-६,३.३; अकि-३,१४२.१८-२२; रो-४,५८५; भा-४/६) पुंसानुजः जनुषान्धः विकृताक्षः इति च ।

(पा-६,३.३; अकि-३,१४२.१८-२२; रो-४,५८५; भा-५/६) पुंसानुजः जनुषान्धः विकृताक्षः इति च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.३; अकि-३,१४२.१८-२२; रो-४,५८५; भा-६/६) पुंसानुजः , जनुषान्धः , विकृताक्षः ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-१/११) आत्मनः च पूरणे ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-२/११) आत्मनः च पूरणे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-३/११) आत्मनापञ्चमः , आत्मनादशमः ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-४/११) अन्यार्थे च ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-५/११) अन्यार्थे च एषा तृतीया द्रष्टव्या ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-६/११) आत्मा पञ्चमः अस्य आत्मापञ्चमः ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-७/११) अथ वा युक्तः एव अत्र तृतीयार्थः ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-८/११) आत्मना कृतम् तत् तस्य येन असौ पञ्चमः ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-९/११) कथम् जनार्दनः तु आत्मचतुर्थः एव इति ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-१०/११) बहुव्रीः अयम् ।

(पा-६,३.५; अकि-३,१४३.२-८; रो-४, ५८५-५८६; भा-११/११) आत्मा चतुर्थः अस्य इति ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-१/१४) आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-२/१४) आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-३/१४) आत्मनेभाषः , परस्मैभाषः ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-४/१४) तत् कथम् कर्तव्यम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-५/१४) यदि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या वैयाकरणख्यायाम् इति ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-६/१४) अथ हि वैयाकरणानाम् आख्या वैयाकरणाख्या न अर्थः उपसङ्ख्यानेन ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-७/१४) यदि अपि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या एवम् अपि न अर्थः उपसङ्ख्यानेन ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-८/१४) वचनात् भविष्यति ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-९/१४) अस्ति वचने प्रयोजनम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-१०/१४) किम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-११/१४) आत्मनेपदम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-१२/१४) निपातनात् एतत् सिद्धम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-१३/१४) किम् निपातनम् ।

(पा-६,३.७-८; अकि-३,१४३.११-१८; रो-४,५८६-५८७; भा-१४/१४) अनुदात्तङितः आत्मनेपदम् , शेषात् कर्तरि परस्मैपदम् इति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१/३२) हृद्द्युभ्याम् ङेः उपसङ्ख्यानम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२/३२) हृद्द्युभ्याम् ङेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-३/३२) हृदिस्पृक् , दिविस्पृक् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-४/३२) अन्यार्थे च ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-५/३२) अन्यार्थे च एषा सप्तमी द्रष्टव्या ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-६/३२) हृदयम् स्पृशति इति हृदिस्पृक् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-७/३२) दिवम् श्प्र्शति इति दिविस्पृक् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-८/३२) हलदन्ताधिकारे गोः उपसङ्ख्यानम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-९/३२) हलदन्ताधिकारे गोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१०/३२) गविष्थिरः ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-११/३२) न कर्तव्यम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१२/३२) लुकः अवादेशः विप्रतिषेधेन ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१३/३२) लुक् क्रियताम् अवादेशः इति अवादेशः भविष्यति विप्रतिषेधेन ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१४/३२) अवादेशे कृते हलन्तात् इति एव सिद्धम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१५/३२) लुकः अवादेशः विप्रतिषेधेन इति चेत् भूमिपाशे अतिप्रसङ्गः ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१६/३२) लुकः अवादेशः विप्रतिषेधेन इति चेत् भूमिपाशे अतिप्रसङ्गः भवति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१७/३२) भूम्याम् पाशः , भूमिपाशः ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१८/३२) अकः अतः इति वा सन्ध्यक्षरार्थम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-१९/३२) एवम् तर्हि अविशेषेण सप्तम्याः अलुकम् उक्त्वा अकः अतः इति वक्ष्यामि ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२०/३२) तत् नियमार्थम् भविष्यति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२१/३२) अकः अतः इति एव भवति न अन्यतः इति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२२/३२) तेन सन्ध्यक्षराणाम् सिद्धम् भवति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२३/३२) सिध्यति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२४/३२) सूत्रम् तर्हि भिद्यते ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२५/३२) यथान्यासम् एव अस्तु ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२६/३२) ननु च उक्तम् हलदन्ताधिकारे गोः उपसङ्ख्यानम् इति ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२७/३२) न एषः दोषः ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२८/३२) निपातनात् एतत् सिद्धम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-२९/३२) किम् निपातनम् ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-३०/३२) गविष्ठिरशब्दः विदादिषु पठ्यते ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-३१/३२) असकृत् खलु अपि निपातनम् क्रियते ।

(पा-६,३.९; अकि-३,१४३.२०-१४४.१७; रो-४,५८७-५८८; भा-३२/३२) गवियुधिभ्या स्थिरः इति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१/३१) किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२/३१) कथम् च प्राप्ते कथम् च अप्राप्ते ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-३/३१) यदि सञ्ज्ञायाम् इति वर्तते ततः प्राप्ते ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-४/३१) अथ निवृत्तम् ततः अप्राप्ते ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-५/३१) कः च अत्र विशेषः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-६/३१) कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-७/३१) कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः भवति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-८/३१) इह अपि प्राप्नोति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-९/३१) अविकटे उरणः दातव्यः अविकटोरणः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१०/३१) अस्तु तर्हि अप्राप्ते ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-११/३१) अप्राप्ते समासविधानम् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१२/३१) यदि अप्राप्ते समासः विधेयः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१३/३१) प्राप्ते पुनः सति सञ्ज्ञायाम् इति एव समासः सिद्धः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१४/३१) न एषः दोषः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१५/३१) एतत् एव ज्ञापयति भवति अत्र समासः इति यत् अयम् कारनाम्नि सप्तम्याः अलुकम् शास्ति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१६/३१) यदि अपि तावत् ज्ञापकात् समासः स्यात् स्वरः तु न सिध्यति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१७/३१) यत् हि तत् सप्तमीपूर्वपदम् प्रकृतिस्वरम् भवति इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् तत् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१८/३१) न एव अत्र अनेन स्वरेण भवितव्यम् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-१९/३१) किम् तर्हि सप्तमीहारिणौ धर्म्ये अहरणे इति अनेन अत्र स्वरेण भवितव्यम् ।किम् च भोः सञ्ज्ञाः अपि लोके क्रियन्ते न लोकः सञ्ज्ञासु प्रमाणम् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२०/३१) लोके च कारनाम सञ्ज्ञा ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२१/३१) ननु च उक्तम् कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः इति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२२/३१) न एषः दोषः ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२३/३१) योगविभागात् सिद्धम् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२४/३१) योगविभागः करिष्यते ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२५/३१) कारनाम्नि च प्राचाम् , ततः हलादौ ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२६/३१) हलादौ च कारनाम्नि सप्तम्याः अलुक् भवति ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२७/३१) इदम् इदानीम् किमर्थम् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२८/३१) नियमार्थम् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-२९/३१) हलादौ एव कारनाम्नि न अन्यत्र ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-३०/३१) क्व मा भूत् ।

(पा-६,३.१०; अकि-३,१४४.१९-१४५.१३; रो-४,५८९-५९१; भा-३१/३१) अविकटे उरणः दातव्यः अविकटोरणः ।

(पा-६,३.११; अकि-३,१४५.१५-१६; रो-४,५९१; भा-१/३) गुरौ अन्तात् च ।

(पा-६,३.११; अकि-३,१४५.१५-१६; रो-४,५९१; भा-२/३) गुरौ अन्तात् च इति वक्तव्यम् ।

(पा-६,३.११; अकि-३,१४५.१५-१६; रो-४,५९१; भा-३/३) अन्तेगुरुः ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-१/१४) स्वाङ्गग्रहणम् अनुवर्तते उताहो न ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-२/१४) किम् च अतः ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-३/१४) यदि अनुवर्तते सिद्धम् हस्तेबन्धः , हस्तबन्धः ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-४/१४) चक्रेभन्दः , चक्रबन्धः इति न सिध्यति ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-५/१४) अथ निवृत्तम् सिद्धम् चक्रेभन्दः , चक्रबन्धः ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-६/१४) हस्तेबन्धः , हस्तबन्धः इति न सिध्यति ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-७/१४) किम् कारणम् ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-८/१४) न इन्सिद्धबध्नातिषु इति प्रतिषेधः प्राप्नोति ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-९/१४) न एषः दोषः ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-१०/१४) सर्वत्र एव अत्र उत्तरपदाधिकरे तत्पुरुषेद् कृति बहुलम् इति प्राप्ते न इन्सिद्धबध्नातिषु इति प्रतिषेधः उच्यते ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-११/१४) तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-१२/१४) एवम् अपि न ज्ञायते कस्मिन् विषये विभाषा कस्मिन् विषये प्रतिषेधः इति ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-१३/१४) घञन्तस्य इदम् बन्धशब्दस्य ग्रहणम् प्रतिषेधे पुनः धातुग्रहणम् ।

(पा-६,३.१३; अकि-३,१४५.१८-१४६.२; रो-४,५९१-५९२; भा-१४/१४) घञन्ते विभाषा अन्यत्र प्रतिषेधः ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१/२१) तत्पुरुषे कृति बहुलम् अकर्मधारये ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-२/२१) तत्पुरुषे कृति बहुलम् इति अत्र अकर्मधारये इति वक्तव्यम् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-३/२१) इह मा भूत् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-४/२१) परमे कारके परमकारके इति ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-५/२१) तत् तर्हि वक्तव्यम् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-६/२१) न वक्तव्यम् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-७/२१) बहुलवचनात् न भविष्यति ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-८/२१) अथ किमर्थम् लुगलुगनुक्रमणम् क्रियते न तत्पुरुषे कृति बहुलम् इति एव सिद्धम् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-९/२१) लुगलुगनुक्रमणम् बहुलवचनस्य अकृत्स्नत्वात् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१०/२१) लुगलुगनुक्रमणम् क्रियते अकृत्स्नम् बहुलवचनम् इति ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-११/२१) यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१२/२१) एवम् तर्हि न ब्रूमः अकृत्स्नम् इति ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१३/२१) कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१४/२१) यत् च अनेन कृतम् सुक्तृतम् तत् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१५/२१) किमर्थम् तर्हि लुगलुगनुक्रमणम् क्रियते ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१६/२१) उदाहरणभूयस्त्वात् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१७/२१) ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१८/२१) केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-१९/२१) अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-२०/२१) सर्ववेदपाऋइषदम् हि इदम् शास्त्रम् ।

(पा-६,३.१४; अकि-३,१४६.४-१६; रो-४,५९२-५९४; भा-२१/२१) तत्र न एकः पन्थाः शक्य आस्थातुम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१/१७) षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-२/१७) षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-३/१७) वाचोयुक्तिः , दिशोदण्डः , पश्यतोहरः ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-४/१७) आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-५/१७) आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-६/१७) आमुष्यायणः , आमुष्यपुत्रिका ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-७/१७) आमुष्यकुलिका इति च वक्तव्यम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-८/१७) आमुष्यकुलिका ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-९/१७) देवानाम्प्रियः इति च ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१०/१७) देवानाम्प्रियः इति च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-११/१७) देवानाम्प्रियः ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१२/१७) शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१३/१७) शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१४/१७) शुनःशेफः , शुनःपुच्छः , शुनोलाङ्गूलः ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१५/१७) दिवः च दासे ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१६/१७) दिवः च दासे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२१; अकि-३,१४६.१८-१४७.७; रो-४,५९४; भा-१७/१७) दिवोदासाय गायत ।

(पा-६,३.२३; अकि-३,१४७.९-१२; रो-४,५९५; भा-१/५) विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणम् ।

(पा-६,३.२३; अकि-३,१४७.९-१२; रो-४,५९५; भा-२/५) विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् , विद्यासम्बन्धेभ्यः विद्यासम्बन्धेषु यथा स्यात् , योनिसम्बन्धेभ्यः योनिसम्बन्धेषु यथा स्यात् , व्यतिकरः मा भूत् ।

(पा-६,३.२३; अकि-३,१४७.९-१२; रो-४,५९५; भा-३/५) अथ एषाम् व्यतिकरेण भवितव्यम् ।

(पा-६,३.२३; अकि-३,१४७.९-१२; रो-४,५९५; भा-४/५) बाढम् भवितव्यम् ।

(पा-६,३.२३; अकि-३,१४७.९-१२; रो-४,५९५; भा-५/५) होतुःपुत्रः , पितुःन्तेवासी ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-१/११) क्व अयम् नकारः श्रूयते ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-२/११) न क्व चित् श्रूयते ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-३/११) लोपः अस्य भवति नलोपः प्रातिपदिकस्य इति ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-४/११) यदि न श्रूयते किमर्थम् उच्चार्यते ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-५/११) रपरत्वम् मा भूत् इति ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-६/११) क्रियमाणे अपि वै नकारे रपरत्वम् प्राप्नोति ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-७/११) किम् कारणम् ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-८/११) नलोपे कृते एषः अपि हि उः स्थाने अण् शिष्यते ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-९/११) न एषः दोषः ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-१०/११) उः स्थाने अण् प्रसज्य्मानः एव रपरः भवति इति उच्यते न च अयम् उः स्थाने अण् एव शिष्यते ।

(पा-६,३.२५.१; अकि-३,१४७.१४-१८; रो-४,५९५; भा-११/११) किम् तर्हि अण् च अनण् च ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१/४२) कथम् पुनः इदम् विज्ञायते ॒ ऋकारान्तानाम् यः द्वन्द्वः इति आहोस्वित् द्वन्द्वे ऋकारस्य इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२/४२) कः च अत्र विशेषः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३/४२) ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-४/४२) ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-५/४२) पितापुत्रौ ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-६/४२) कार्यी च अनिर्दिष्टः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-७/४२) कार्यी च अनिर्दिष्टः भवति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-८/४२) ऋकारान्तानाम् द्वन्द्वे न ज्ञायते कस्य आनङा भवितव्यम् इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-९/४२) अस्तु तर्हि द्वन्दे ऋकारस्य इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१०/४२) अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-११/४२) अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः भवति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१२/४२) पितृपितामहौ इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१३/४२) अस्तु तर्हि ऋकारान्तानाम् यः द्वन्द्वः इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१४/४२) ननु च उक्तम् ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१५/४२) न एषः दोषः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१६/४२) पुत्रग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१७/४२) क्व प्रकृतम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१८/४२) पुत्रे अन्यतरस्याम् इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-१९/४२) यदि तत् अनुवर्तते विभाषा स्वसृपत्योः पुत्रे च इति पुत्रे अपि विभाषा प्राप्नोति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२०/४२) न एषः दोषः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२१/४२) सम्बन्धम् अनुवर्तिष्यते ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२२/४२) षष्ठ्याः आक्रोशे ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२३/४२) पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२४/४२) ऋतः विद्यायोनिसम्बन्धेभ्यः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२५/४२) विभाषा स्वसृपत्योः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२६/४२) आनङ् ऋतः द्वन्द्वे ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२७/४२) पुत्रग्रहणम् अनुवर्तते ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२८/४२) षष्ठ्याः आक्रोशे इति निवृत्तम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-२९/४२) यत् अपि उच्यते कार्यी च अनिर्दिष्टः इति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३०/४२) कार्यी च निर्दिष्टः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३१/४२) कथम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३२/४२) उत्तरपदे इति वर्तते ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३३/४२) ङित् च अयम् क्रियते ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३४/४२) सः अन्तरेण अपि कार्यिनिर्देशम् ऋकारान्तस्य एव भविष्यति ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३५/४२) पुत्रे तर्हि कार्यी अनिर्दिष्टः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३६/४२) पुत्रे च कार्यी निर्दिष्टः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३७/४२) कथम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३८/४२) ऋकारग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-३९/४२) क्व प्रकृतम् ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-४०/४२) ऋतः विद्यायोनिसम्बन्धेभ्यः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-४१/४२) तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-६,३.२५.२; अकि-३,१४७.१८-१४८.१८; रो-४,५९६-५९७; भा-४२/४२) पुत्रे इति एषा सप्तमी ऋतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-१/११) देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-२/११) देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः वक्तव्यः ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-३/११) वाय्वग्नी , अग्निवायू ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-४/११) ब्रह्मप्रजापत्यादीनाम् च ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-५/११) ब्रह्मप्रजापत्यादीनाम् च प्रतिषेधः वक्तव्यः ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-६/११) ब्रह्मप्रजापती , शिववैश्रवणौ , स्कन्द्विशाखौ ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-७/११) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-८/११) न वक्तव्यः ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-९/११) द्वन्द्वे इति वर्तमाने पुनः द्वन्द्रग्रहणस्य एतत् प्रयोजनम् लोकवेदयोः यः द्वन्द्वः तत्र यथा स्यात् ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-१०/११) कः च लोकवेदयोः द्वन्द्वः ।

(पा-६,३.२६; अकि-३,१४८.२०-१४९.२; रो-४,५९७; भा-११/११) वेदे ये सहनिर्वापनिर्दिष्टाः न च एते सहनिर्वापनिर्दिष्टाः ।

(पा-६,३.२८; अकि-३,१४९.४-५; रो-४,५९८; भा-१/३) इद् वृद्धौ विष्णोः प्रतिषेधः ।

(पा-६,३.२८; अकि-३,१४९.४-५; रो-४,५९८; भा-२/३) इद् वृद्धौ विष्णोः प्रतिषेधः वक्तव्यः ।

(पा-६,३.२८; अकि-३,१४९.४-५; रो-४,५९८; भा-३/३) आग्नावैष्णवम् चरुम् निर्वपेत् ।

(पा-६,३.३२-३३; अकि-३,१४९.८-१०; रो-४,५९८; भा-१/५) किम् निपात्यते ।

(पा-६,३.३२-३३; अकि-३,१४९.८-१०; रो-४,५९८; भा-२/५) पूर्वपदोत्तरपदयोः ऋकारस्य अरारौ निपात्येते ।

(पा-६,३.३२-३३; अकि-३,१४९.८-१०; रो-४,५९८; भा-३/५) मातरपितरौ भोजयतः ।

(पा-६,३.३२-३३; अकि-३,१४९.८-१०; रो-४,५९८; भा-४/५) मातरपितरौ आनय ।

(पा-६,३.३२-३३; अकि-३,१४९.८-१०; रो-४,५९८; भा-५/५) अ मा गन्ताम् पितरामातरा च अ मा सोमः अमृतत्वय गम्यात् ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१/२०) भाषितपुंस्कात् इति कथम् इदम् विज्ञायते ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-२/२०) समानायाम् आकृतौ यत् भाषितपुंस्कम् आहोस्वित् क्व चित् भाषितपुंस्कम् इति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-३/२०) किम् च अतः ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-४/२०) यदि विज्ञायते समानायाम् आकृतौ यत् भाषितपुंस्कम् इति गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति अत्र न प्राप्नोति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-५/२०) अथ विज्ञायते क्व चित् भाषितपुंस्कम् इति द्रोणीभार्यः , कुटीभार्यः , पात्रीभार्यः अत्र अपि प्राप्नोति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-६/२०) अस्तु समानायाम् आकृतौ यत् भाषितपुंस्कम् इति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-७/२०) कथम् गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-८/२०) कर्तव्यः अत्र यत्नः ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-९/२०) अथ किमर्थम् ऊङः पृथक् प्रतिषेधः उच्यते न यत्र एव अन्यः प्रतिषेधः तत्र एव अयम् उच्येत ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१०/२०) न कोपधायाः इति उक्त्वा ततः ऊङः च इति उच्येत ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-११/२०) तत्र अपि अयम् अर्थः द्विः प्रतिषेधः न वक्तव्यः भवति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१२/२०) न एवम् शक्यम् ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१३/२०) पठिष्यति हि आचार्यः पुंवत् कर्मधारये प्रतिषिद्धार्थम् इति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१४/२०) सः पुंवद्भावः यथा इह भवति ॒ कारिका वृन्दारिका कारकवृन्दारिका इति एवम् इह अपि स्यात् ॒ ब्रह्मबन्धूः वृन्दारिका ब्रह्मबन्दूवृन्दारिका इति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१५/२०) अथ पृथक् प्रतिषेधे अपि उच्यमाने यावता सः प्रतिषिद्धार्थः आरम्भः कस्मात् एव अत्र न भवति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१६/२०) पृथक्प्रतिषेधवचनसामर्थ्यात् ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१७/२०) अथ वा अनूङ् इति तत्र अनुवर्तिष्यते ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१८/२०) अथ वा न अयम् प्रसज्यप्रतिषेधः ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-१९/२०) किम् तर्हि पर्युदासः अयम् यत् अन्यत् अनूङ् इति ।

(पा-६,३.३४.१; अकि-३,१५०.३-१६; रो-४,५९९-६०१; भा-२०/२०) सः च प्रतिषेधाऋथः आरम्भः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१/१६२) किम् पुनः इदम् पुंवद्भावे स्त्रीग्र्हणम् स्त्रीप्रत्ययग्रहणम् आहोस्वित् स्त्रीशब्द्ग्रहणम् आहोस्वित् स्त्र्यर्थग्रहणम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२/१६२) कः च अत्र विशेषः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३/१६२) पुंवद्भावे स्त्रीग्रहणम् स्त्रीप्रत्ययग्रहणम् चेत् तत्र पुंवत् इति उत्तरपदे तत्प्रतिषेधविज्ञानम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४/१६२) पुंवद्भावे स्त्रीग्रहणम् स्त्रीप्रत्ययग्रहणम् चेत् तत्र पुंवत् इति उत्तरपदे तत्प्रतिषेधः अयम् विज्ञायेत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५/१६२) कस्य ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६/१६२) स्त्रीप्रत्ययस्य प्रतिषेधः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७/१६२) किम् उच्यते स्त्रीप्रत्ययस्य प्रतिषेधः इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८/१६२) न पुनः अन्यत् अपि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९/१६२) अनारम्भात् पुंसि ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०/१६२) न हि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११/१६२) तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः स्त्रीप्रत्ययप्रतिषेधात् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२/१६२) कथम् पुनः पुंवत् इति अनेन स्त्रीप्रत्ययस्य प्रतिषेधः शक्यः विज्ञातुम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३/१६२) वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४/१६२) तत् यथा ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५/१६२) उशीनरवत् मद्रेषु यवाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१६/१६२) सन्ति न सन्ति इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१७/१६२) मातृवत् अस्याः कलाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१८/१६२) सन्ति न सन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१९/१६२) एवम् इह अपि पुंवत् भवति पुंवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२०/१६२) यथा पुंसः स्त्रीप्रत्ययः न भवति एवम् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य न भवति इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२१/१६२) प्रातिपदिकस्य च प्रत्यापत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२२/१६२) प्रातिपदिकस्य च प्रत्यापत्तिः वक्तव्या ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२३/१६२) एनी भार्या अस्य , एतभार्यः , श्येतभार्यः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२४/१६२) पुंवद्भावेन किम् क्रियते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२५/१६२) स्त्रीप्रत्ययस्य निवृत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२६/१६२) अर्थः अनिवृत्तः स्त्रीत्वम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२७/१६२) तस्य अनिवृत्तत्वात् केन नशब्दः न श्रूयेत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२८/१६२) स्त्रियाम् इति उच्यमानः प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-२९/१६२) स्थानिवत्प्रसङ्गः च ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३०/१६२) स्थानिवभावः च प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३१/१६२) पट्वीभारा अस्य पटुभार्यः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३२/१६२) पुंवद्भावेन किम् क्रियते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३३/१६२) स्त्रीप्रत्ययस्य निवृत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३४/१६२) तस्य स्थानिवभावात् यणादेशः प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३५/१६२) किमर्थम् इदम् उभयम् उच्यते न प्रातिपदिकस्य च प्रत्यापत्तिः इति एव स्थानिवभावः अपि चोदितः स्यात् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३६/१६२) पुरस्तात् इदम् आचार्येण दृष्टम् स्थानिवत्प्रसङ्गः च इति तत् पठितम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३७/१६२) ततः उत्तरकालम् इदम् दृष्टम् प्रातिपदिकस्य च प्रत्यापत्तिः इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३८/१६२) तत् अपि पठितम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-३९/१६२) न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४०/१६२) वतण्ड्यादिषु पुंवद्वचनम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४१/१६२) वतण्ड्यादिषु पुंवद्भावः वक्तव्यः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४२/१६२) के पुनः वतण्ड्यादयः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४३/१६२) लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४४/१६२) लुक् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४५/१६२) गार्ग्यः वृन्दारिका गर्गवृन्दारिका ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४६/१६२) पुंवद्भावेन किम् क्रियते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४७/१६२) स्त्रीप्रत्ययस्य निवृत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४८/१६२) अर्थः अनिवृत्तः स्त्रीत्वम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-४९/१६२) तस्य अनिवृत्तत्वात् केन यशब्दः न श्रूयेत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५०/१६२) अस्त्रियाम् इति हि लुक् उच्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५१/१६२) लुक् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५२/१६२) अलुक् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५३/१६२) वतण्डी वृन्दारिका वातण्ड्यवृन्दारिका ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५४/१६२) पुंवद्भावेन किम् क्रियते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५५/१६२) स्त्रीप्रत्ययस्य निवृत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५६/१६२) अर्थः अनिवृत्तः स्त्रीत्वम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५७/१६२) तस्य अनिवृत्तत्वात् लुक् स्त्रियाम् वतण्डात् इति यकारस्य लुक् प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५८/१६२) यदि पुनः अयम् ईकारे एव लुक् उच्येत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-५९/१६२) तत् ईकारग्रहणम् कर्तव्यम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६०/१६२) न कर्तव्यम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६१/१६२) क्रियते न्यासे एव ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६२/१६२) प्रश्लिष्टनिर्देशः अयम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६३/१६२) स्त्री , ई स्त्री , स्त्रियाम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६४/१६२) ईकारविधौ वै अप्रत्ययकस्य पाठः क्रियते वतण्ड इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६५/१६२) शार्ङ्गरवादौ सप्रत्ययकस्य पाठः करिष्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६६/१६२) सः वै सप्रत्ययकस्य पाठः कर्तव्यः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६७/१६२) अन्तरङ्गत्वात् च लुक् प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६८/१६२) अलुक् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-६९/१६२) अस्त्रीविषय ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७०/१६२) कौण्डीवृसी वृन्दारिका कौण्डीवृस्यवृन्दारिका ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७१/१६२) पुंवद्भावेन किम् क्रियते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७२/१६२) स्त्रीप्रत्ययस्य निवृत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७३/१६२) अर्थः अनिवृत्तः स्त्रीत्वम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७४/१६२) तस्य अनिवृत्तत्वात् केन यशब्दः श्रूयेत ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७५/१६२) अस्त्रियाम् इति हि ञ्यः विधीयते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७६/१६२) अस्त्रीविषय ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७७/१६२) द्विस्त्रीप्रत्यय ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७८/१६२) गार्ग्यायणी वृन्दारिका गार्ग्यवृन्दारिका ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-७९/१६२) अत्र पुंवद्भावः न प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८०/१६२) किम् कारणम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८१/१६२) भाषितपुंस्कात् अनूङः समानाधिकरणे उत्तरपदे पुंवद्भावः भवति इति उच्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८२/१६२) यः च अत्र भाषितपुंस्कात् अनूङ् न असौ उत्तरपदे यः च उत्तरपदे न असौ भाषितपुंस्कात् अनूङ् इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८३/१६२) अस्तु तर्हि स्त्रीशब्दग्रहणम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८४/१६२) स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वप्रसङ्गः अविशेषात् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८५/१६२) स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८६/१६२) अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८७/१६२) तेषाम् कालिकाः स्त्रियः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८८/१६२) कालिकावृन्दारिकाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-८९/१६२) अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९०/१६२) क्षेमवृद्धयः क्षत्रियाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९१/१६२) तेषाम् तनुकेश्यः स्त्रियः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९२/१६२) तनुकेशीवृन्दारिकाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९३/१६२) क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९४/१६२) हंसस्य वरटा ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९५/१६२) कच्छपस्य डुली ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९६/१६२) ऋश्यस्य रोहित् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९७/१६२) अश्वस्य वडवा ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९८/१६२) पुरुषस्य योषित् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-९९/१६२) किम् कारणम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१००/१६२) अविशेषात् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०१/१६२) न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०२/१६२) अनुपादीयमाने विशेषे सर्वत्र प्रसङ्गः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०३/१६२) कथम् च नाम न उपादीयते यावता भाषितपुंस्कात् इति उच्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०४/१६२) भाषितपुंस्कानुपपत्तिः च ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०५/१६२) ह्यर्थे च अयम् चः पठितः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०६/१६२) सर्वः हि शब्दः भाषितपुंस्कात् परः शक्यः कर्तुम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०७/१६२) अस्तु तर्हि अर्थग्रहणम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०८/१६२) अर्थातिदेशे विप्रतिषेधानुपपत्तिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१०९/१६२) अर्थातिदेशे विप्रतिषेधः न उपपद्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११०/१६२) पठिष्यति हि आचार्यः विप्रतिषेधम् पुंवद्भावात् ह्रस्वत्वम् खिद्घादिकेषु इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१११/१६२) सः विप्रतिषेधः न उपपद्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११२/१६२) द्विकार्ययोगः हि नाम विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११३/१६२) शब्दस्य ह्रस्वत्वम् अर्थस्य पुंवद्भावः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११४/१६२) किम् च सर्वप्रसङ्गः अविशेषात् इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११५/१६२) सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११६/१६२) अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११७/१६२) तेषाम् कालिकाः स्त्रियः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११८/१६२) कालिकावृन्दारिकाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-११९/१६२) अङ्गारकवृन्दारिकाः प्राप्नुवन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२०/१६२) क्षेमवृद्धयः क्षत्रियाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२१/१६२) तेषाम् तनुकेश्यः स्त्रियः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२२/१६२) तनुकेशीवृन्दारिकाः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२३/१६२) क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२४/१६२) हंसस्य वरटा ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२५/१६२) कच्छपस्य डुली ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२६/१६२) ऋश्यस्य रोहित् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२७/१६२) अश्वस्य वडवा ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२८/१६२) पुरुषस्य योषित् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१२९/१६२) किम् कारणम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३०/१६२) अविशेषात् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३१/१६२) न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३२/१६२) कथम् च नाम न उपादीयते यावता भाषितपुंस्कात् इति उच्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३३/१६२) भाषितपुंस्कानुपपत्तिः हि भवति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३४/१६२) न हि अर्थेन् पौर्वापर्यम् अस्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३५/१६२) अयम् तावत् अदोषः यत् उच्यते अर्थातिदेशे विप्रतिषेधानुपपत्तिः इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३६/१६२) न अवश्यम् द्विकारयोगः एव विप्रतिषेधः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३७/१६२) किम् तर्हि ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३८/१६२) असम्भवः अपि ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१३९/१६२) सः च अत्र अस्ति असम्भवः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४०/१६२) कः असम्भवः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४१/१६२) पुंवद्भावः अभिनिर्वर्तमानः ह्रस्वत्वस्य निमित्तम् विहन्ति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४२/१६२) ह्रस्वत्वम् अभिनिर्वर्तमानम् पुंवद्भावम् बाधते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४३/१६२) सति असम्भवे युक्तः विप्रतिषेधः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४४/१६२) अयम् तर्हि दोषः सर्वप्रसङ्गः अविशेषात् इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४५/१६२) तस्मात् अस्तु सः एव मध्यमः पक्षः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४६/१६२) ननु च उक्तम् स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वप्रसङ्गः अविशेषात् इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४७/१६२) न एषः दोषः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४८/१६२) समासनिर्देशः अयम् ॒ भाषितपुंस्कात् अनूङ् यस्मिन् सः अयम् भाषितपुंस्कादनूङ् इति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१४९/१६२) यदि एवम् लुक् प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५०/१६२) निपातनात् न भविष्यति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५१/१६२) अथ वा अलुक् प्रकृतः सः अनुवर्तिष्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५२/१६२) कथम् पुनः अनूङ् इति अन्येन स्त्रीप्रत्ययग्रहणम् शक्यम् विज्ञातुम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५३/१६२) नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५४/१६२) नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५५/१६२) तथा हि अर्थः गम्यते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५६/१६२) तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५७/१६२) न असौ लोष्टम् आनीय कृती भवति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५८/१६२) एवम् इह अपि अनूङ् इति ऊङ्प्रतिषेधात् अन्यस्मिन् ऊङ्सदृशे कार्यम् विज्ञायते ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१५९/१६२) किम् च अन्यत् अनूङ् ऊङ्सदृशम् ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१६०/१६२) स्त्रीप्रत्ययः ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१६१/१६२) एवम् अपि इडबिड् वृन्दारिका , ऐडबिड्वृन्दारिका , पृथ् वृन्दारिका , पार्थवृन्दारिका , दरत् वृन्दारिका , दारदवृन्दारिका , उशिक् वृन्दारिका , औशिजवृन्दारिका , अत्र पुंवद्भावः न प्राप्नोति ।

(पा-६,३.३४.२; अकि-३,१५०.१७-१५३.२०; रो-४,६०१-६०९; भा-१६२/१६२) कर्तव्यः अत्र यत्नः ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-१/११) अथ इह कथम् भवितव्यम् ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-२/११) पट्वीमृद्व्यौ भार्ये अस्य पट्वीमृदुभार्यः , आहोस्वित् पटुमृदुभार्यः इति ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-३/११) पट्वीमृदुभार्यः इति भवितव्यम् ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-४/११) पुंवद्भावः कस्मात् न भवति ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-५/११) भाषितपुंस्कात् इति उच्यते ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-६/११) ननु च भोः पटुशब्दः मृदुशब्दः पुंसि भाष्येते ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-७/११) समानायाम् आकृतौ यत् भाषितपुंस्कम् आकृत्यन्तरे च एतौ भाषितपुंस्कौ ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-८/११) समानायाम् आकृतौ अपि एतौ भाषितपुंस्कौ ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-९/११) कथम् ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-१०/११) आरभ्यते मतुब्लोपः ।

(पा-६,३.३४.३; अकि-३,१५३.२१-२८; रो-४,६०९-६१०; भा-११/११) एवम् तर्हि भाषितपुंस्कात् अनूङ् समानाधिकरणे उत्तरपदे कृतः तस्य पुंवद्भावः यस्य च अकृतः न असौ भाषितपुंस्कात् अनूङ् समानाधिकरणे उत्तरपदे ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-१/७) पूरण्याम् प्रधानपूरणीग्रहणम् ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-२/७) पूरण्याम् प्रधानपूरणीग्रहणम् कर्तव्यम् ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-३/७) इह मा भूत् ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-४/७) कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः इति ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-५/७) अथ इह कथम् भवितव्यम् कल्याणी पञ्चमी आसाम् रात्रीणाम् इति ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-६/७) कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् ।

(पा-६,३.३४.४; अकि-३,१५४.१-४; रो-४,६१०; भा-७/७) रात्रयः अत्र प्रधानम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१/६८) इह के चित् तसिलादयः आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावः न इष्यते के चित् च अन्यत्र पठ्यन्ते येषु पुंवद्भावः इष्यते ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२/६८) तत्र किम् न्याय्यम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३/६८) परिगणनम् कर्तव्यम् । तसिलादी त्रतसौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४/६८) त्रतसौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५/६८) तस्याम् शालायाम् वसति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६/६८) तत्र वसति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-७/६८) तस्याः , ततः , यस्याम् , यत्र, यस्याः , यतः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-८/६८) तरतमपौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-९/६८) तरतमपौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१०/६८) दर्शनीयतरा दर्शनीयतमा ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-११/६८) चरड्जातीयरौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१२/६८) चरड्जातीयरौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१३/६८) पटुचरी , पटुजातीया ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१४/६८) कल्पब्देशीयरौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१५/६८) कल्पब्देशीयरौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१६/६८) दर्शनीयकल्पा , दर्शनीयदेशीया ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१७/६८) रूपप्पाशपौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१८/६८) रूपप्पाशपौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-१९/६८) दर्शनीयरूपा , दर्शनीयपाशा ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२०/६८) थम्थालौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२१/६८) थम्थालौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२२/६८) कया आकृत्या कथम् , यया यथा ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२३/६८) दार्हिलौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२४/६८) दार्हिलौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२५/६८) तस्याम् वेलायाम् , तदा , तर्हि । तिल्थ्यनौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२६/६८) तिल्थ्यनौ तसिलादी द्रष्टव्यौ ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२७/६८) वृकी वृकतिः , अजथ्या यूथिः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२८/६८) शसि बह्वल्पार्थस्य ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-२९/६८) शसि बह्वल्पार्थस्य पुंवद्भावः वक्तव्यः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३०/६८) बह्वीभ्यः देहि ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३१/६८) बहुशः देहि ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३२/६८) अल्पशः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३३/६८) त्वतलोः गुणवचनस्य ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३४/६८) त्वतलोः गुणवचनस्य पुंवद्भावः वक्तव्यः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३५/६८) पट्व्याः भावः पटुत्वम् , पटुता ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३६/६८) गुणवचनस्य इति किमर्थम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३७/६८) कठ्याः भावः कठीत्वम् , कठीता ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३८/६८) भस्य अढे तद्धिते ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-३९/६८) भस्य अढे तद्धिते पुंवद्भावः वक्तव्यः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४०/६८) हस्तिनीनाम् समूहः हास्तिकम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४१/६८) अढे इति किमर्थम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४२/६८) श्यैनेयः , रौहिणेयः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४३/६८) यदि अढे इति उच्यते , अग्नायी देवता अस्य , आग्नेयः स्थालीपाकः , अत्र न प्राप्नोति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४४/६८) इह च प्राप्नोति , कौण्डिन्यः , सापत्नः इति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४५/६८) यदि पुनः अनपत्ये इति उच्येत ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४६/६८) न एवम् शक्यम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४७/६८) इह हि न स्यात् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४८/६८) गार्ग्यायण्याः अपत्यम् माणवकः गार्गः जाल्मः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-४९/६८) अस्तु तर्हि अढे इति एव ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५०/६८) कथम् कौण्डिन्यः , सापत्नः इति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५१/६८) कौण्डिन्ये निपातनात् सिद्धम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५२/६८) किम् निपातनम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५३/६८) आगस्त्यकौण्डिन्ययोः इति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५४/६८) सापत्नशब्दः प्रकृतयतरम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५५/६८) [ऋ ६१३॒ सापत्नः प्रकृत्यन्ततत्वात् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५६/६८) सापत्नशब्दः प्रकृतयतरम् अस्ति ।] कथम् अग्नायी देवता अस्य स्थालीपाकस्य , आग्नेयः स्थालीपाकः इति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५७/६८) अस्तु तर्हि अनपत्ये इति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५८/६८) कथम् गार्गः जाल्मः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-५९/६८) गार्गाग्नेयौ न संवदेते ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६०/६८) कर्तव्यः अत्र यत्नः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६१/६८) ठक्छसोः च ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६२/६८) ठक्छसोः च पुंवद्भावः वक्तव्यः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६३/६८) भवत्याः छात्राः , भावत्काः , भवदीयाः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६४/६८) ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६५/६८) न एवम् शक्यम् ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६६/६८) अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६७/६८) अजादिलक्षणे हि माथिकादिवत् प्रसज्येत ।

(पा-६,३.३५; अकि-३,१५४.६-१५५.२४; रो-४,६१०-६१४; भा-६८/६८) तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-१/७) मनिन्ग्रहणम् किमर्थम् ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-२/७) मानिन्ग्रहणम् अस्त्र्यर्थम् असमानाधिकरणार्थम् च ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-३/७) मानिन्ग्रहणम् क्रियते अस्त्र्यर्थम् असमानाधिकरणार्थम् च ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-४/७) अस्त्र्यर्थम् तावत् ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-५/७) दर्शनीयाम् मन्यते देवदत्तः यज्ञदत्ताम् दर्शनीयमानी अयम् अस्याः ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-६/७) असमानाधिकरणार्थम् ।

(पा-६,३.३६; अकि-३,१५६.२-६; रो-४,६१४; भा-७/७) दर्शनीयाम् मन्यते देवदत्ता यज्ञदत्ताम् दर्शनीयमानिनी इयम् अस्याः ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१/१६) किम् इदम् एवमादि अनुक्रमणम् आद्यस्य योगस्य विषये आहोस्वित् पुंवद्भावमात्रस्य ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-२/१६) किम् च अतः ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-३/१६) यदि आद्यस्य योगस्य विषये माध्यम्कीयः , शालूकिकीयः , अत्र न प्राप्नोति ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-४/१६) विधीः अपि अत्र न सिध्यति ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-५/१६) किम् कारणम् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-६/१६) भाषितपूंश्कात् अनूङ् इति उच्यते ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-७/१६) न हि एतत् भवति भाषितपूंश्कात् अनूङ् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-८/१६) इदम् तर्हि विलेपिकायाः धर्म्यम् वैलेपिकम् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-९/१६) विधिः च सिद्धः भवति प्रतिषेधः च न प्राप्नोति ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१०/१६) अथ पुंवभावमात्रस्य विषये हस्तिनीनाम् समूहः हास्तिकम् , जातिलक्षणः पुंवभावप्रतिषेधः प्राप्नोति ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-११/१६) एवम् तर्हि न कोपधायाः इति एषः योगः पुंवभावमात्रस्य उत्तरम् एवमादि अनुक्रमणम् आद्यस्य योगस्य विषये ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१२/१६) न कोपधप्रतिषेधे तद्धितवुग्रहणम् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१३/१६) न कोपधप्रतिषेधे तद्धितवुग्रहणम् कर्तव्यम् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१४/१६) तद्धितस्य यः ककारः वोः च यः ककारः तस्य ग्रहणम् कर्तव्यम् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१५/१६) इह मा भूत् ।

(पा-६,३.३७; अकि-३,१५६.८-१७; रो-४,६१५-६१६; भा-१६/१६) पाकभार्यः , भेकभार्यः ।

(पा-६,३.४०; अकि-३,१५६.१९-१५७.२; रो-४,६१६; भा-१/५) स्वाङ्गात् च ईतः अमानिनि ।

(पा-६,३.४०; अकि-३,१५६.१९-१५७.२; रो-४,६१६; भा-२/५) स्वाङ्गात् च ईतः अमानिनि इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-६,३.४०; अकि-३,१५६.१९-१५७.२; रो-४,६१६; भा-३/५) दीर्घमुखमानी , श्लक्ष्णमुखमानिनी ।

(पा-६,३.४०; अकि-३,१५६.१९-१५७.२; रो-४,६१६; भा-४/५) यदि अमानिनि इति उच्यते दीर्घमुखमानिनी , श्लक्ष्णमुखमानिनिनी इति न सिध्यति ।

(पा-६,३.४०; अकि-३,१५६.१९-१५७.२; रो-४,६१६; भा-५/५) प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१/१९) किमर्थम् इदम् उच्यते ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-२/१९) पुंवत् कर्मधारये प्रतिषिद्धार्थम् ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-३/१९) प्रतिषिद्धाऋथः अयम् आरम्भः ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-४/१९) न कोपधायाः इति उक्तम् ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-५/१९) तत्र अपि पुंवत् भवति ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-६/१९) कारिका वृन्दारिका कारकवृन्दारिका कारकजातीया कारकदेशीया ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-७/१९) सञ्ज्ञापूरणयोः च इति उक्तम् ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-८/१९) तत्र अपि पुंवत् भवति ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-९/१९) दत्ता वृन्दारिका दत्तवृन्दारिका दत्तजातीया दत्तदेशीया ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१०/१९) पञ्चमी वृन्दारिका पञ्चमवृन्दारिका पञ्चमजातीया पञ्चमदेशीया ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-११/१९) वृद्धिनिमित्तस्य इति उक्तम् ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१२/१९) तत्र अपि पुंवत् भवति ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१३/१९) स्रौघ्नी वृन्दारिका स्रौघ्नवृन्दारिका स्रौघ्नजातीया स्रौघ्नदेशीया ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१४/१९) स्वाङ्गात् च ईतः अमानिनि इति उक्तम् ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१५/१९) तत्र अपि पुंवत् भवति ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१६/१९) श्लक्ष्णमुखी वृन्दारिका श्लक्ष्णमुखवृन्दारिका श्लक्ष्णमुखजातीया श्लक्ष्णमुखदेशीया ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१७/१९) जातेः च इति उक्तम् ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१८/१९) तत्र अपि पुंवत् भवति ।

(पा-६,३.४२.१; अकि-३,१५७.४-१४; रो-४,६१६-६१७; भा-१९/१९) कठी वृन्दारिका कठवृन्दारिका कठजातीया कठदेशीया ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१/२१) कुक्कुट्यादीनाम् अण्डादिषु पुंवद्वचनम् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-२/२१) कुक्कुट्यादीनाम् अण्डादिषु पुंवद्भावः वक्तव्यः ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-३/२१) कुक्कुट्याः अण्डम् कुक्कुटाण्डम् , मृग्याः पदम् मृगपदम् , काक्याः शावः काकशावः ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-४/२१) न वा अस्त्रीपूर्वपदविवक्षितत्वात् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-५/२१) न वा वक्तव्यम् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-६/२१) किम् कारणम् अस्त्रीपूर्वपदविवक्षितत्वात् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-७/२१) न अत्र स्त्रीपूर्वपदम् विवक्षितम् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-८/२१) किम् तर्हि ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-९/२१) अस्त्रीपूर्वपदम् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१०/२१) उभयोः अण्डम् उभयोः पदम् उभयोः शावः ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-११/२१) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् इह तु कथम् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१२/२१) मृग्याः क्षीरम् मृघक्षीरम् इति ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१३/२१) अत्र अपि न वा अस्त्रीपूर्वपदविवक्षितत्वात् इति एव ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१४/२१) कथम् पुनः सतः नाम अवाविवक्षा स्यात् ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१५/२१) सतः अपि अविवक्षा भवति ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१६/२१) तत् यथा ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१७/२१) अलोमिका एडका ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१८/२१) अनुदरा कन्या इति ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-१९/२१) असतः च विवक्षा भवति ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-२०/२१) समुद्रः कुण्डिका ।

(पा-६,३.४२.२; अकि-३,१५७.१५-२४; रो-४,६१७-६१८; भा-२१/२१) विन्ध्यः वर्धितकम् इति ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१/३३) अग्नेः ईत्त्वात् वरुणस्य वृद्धिः विप्रतिषेधेन ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२/३३) अग्नेः ईत्त्वात् वरुणस्य वृद्धिः भवति विप्रतिषेधेन ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-३/३३) अग्नेः ईत्त्वस्य अवकाशः , अग्नीषोमौ ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-४/३३) वरुणस्य वृद्धेः अवकाशः , वायुवारुणम् ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-५/३३) इह उभयम् प्राप्नोति , आग्निवारुणीम् अनड्वाहीम् आलभेत ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-६/३३) वरुणस्य वृद्धिः भवति विप्रतिषेधेन ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-७/३३) न एषः युक्तः विप्रतिषेधः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-८/३३) द्विकार्ययोगः हि विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-९/३३) कथम् ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१०/३३) अग्नेः ईत्त्वम् वरुणस्य वृद्धिः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-११/३३) न अवश्यम् द्विकारयोगः एव विप्रतिषेधः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१२/३३) किम् तर्हि ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१३/३३) असम्भवः अपि ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१४/३३) सः च अत्र अस्ति असम्भवः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१५/३३) कः असौ असम्भवः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१६/३३) अग्नेः ईत्त्वम् अभिनिर्वर्तमनम् वरुणस्य वृद्धिम् बाधते ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१७/३३) वरुणस्य वृद्धिः अभिनिर्वर्तमना अग्नेः ईत्त्वम् बाधते ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१८/३३) एषः असम्भवः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-१९/३३) सति असम्भवे युक्तः विप्रतिषेधः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२०/३३) पूंवद्भावात् ह्रस्वत्वम् खिद्घादिषु ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२१/३३) पूंवद्भावात् ह्रस्वत्वम् भवति विप्रतिषेधेन खिद्घादिषु ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२२/३३) पूंवद्भावस्य अवकाशः , पटुभार्यः , मृदुभार्यः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२३/३३) खिति ह्रस्वः भवति इति अस्य अवकाशः , कालिम्मन्यः , हरिणिम्मन्यः ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२४/३३) इह उभयम् प्राप्नोति , कालिम्मन्या , हरिणिम्मन्या ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२५/३३) घादिषु नद्याः ह्रस्वः भवति इति अस्य अवकाशः , नर्तकितरा , नर्तकितमा ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२६/३३) पूंवद्भावस्य अवकाशः , दर्शनीयतरा , दर्शनीयतमा ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२७/३३) इह उभयम् प्राप्नोति , पट्वितरा , पट्वितमा ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२८/३३) के ह्रस्वः भवति इति अस्य अवकाशः , नर्तकिक ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-२९/३३) पूंवद्भावस्य अवकाशः , दारदिका ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-३०/३३) इह उभयम् प्राप्नोति , पट्विका , मृद्विका ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-३१/३३) ह्रस्वत्वम् भवति विप्रतिषेधेन ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-३२/३३) अथ इदानीम् ह्रस्वत्वे कृते पुनःप्रसङ्गविज्ञानात् पुंवद्भावः कस्मात् न भवति ।

(पा-६,३.४२.३; अकि-३,१५८.१-१८; रो-४,६१८-६१९; भा-३३/३३) सकृत् गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१/२८) ङीग्रहणम् किमर्थम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२/२८) अनेकाचः ह्रस्वः इति इयति उच्यमाने खट्वातरा मालातरा , अत्र अपि प्रसज्येत ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-३/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-४/२८) भाषितपुंस्कात् इति वर्तते ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-५/२८) एवम् अपि दत्तातरा गुप्तातरा , अत्र अपि प्राप्नोति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-६/२८) ईतः इति वर्तते ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-७/२८) एवम् अपि ग्रामणीतरः , सेनाणीतरः अत्र अपि प्राप्नोति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-८/२८) स्त्रियाम् इति वर्तते ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-९/२८) एवम् अपि ग्रामणीतरा , सेनाणीतरा अत्र अपि प्राप्नोति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१०/२८) स्त्रियाः स्त्रियाम् इति वर्तते ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-११/२८) शेषप्रक्ल्̥प्त्यर्थम् तर्हि ङीग्रहणम् कर्तव्यम् , नद्याः शेषस्य अन्यतरस्याम् इति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१२/२८) कः शेषः ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१३/२८) आङीच या नदी ङ्यन्तम् च यत् एकाच् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१४/२८) अन्तरेण अपि ङीग्रहणम् क्ल्̥प्तः शेषः ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१५/२८) कथम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१६/२८) ईतः इति वर्तते ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१७/२८) अनीत् च या नदी , ईदन्तम् च यत् एकाच् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१८/२८) शेषग्रहणम् च अपि शक्यम् अकर्तुम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-१९/२८) कथम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२०/२८) अविशेषेण घादिषु नद्याः अन्यतरस्याम् ह्रस्वत्वम् उत्सर्गः ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२१/२८) तस्य अनेकाचः नित्यम् ह्रस्वत्वम् अपवादः ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२२/२८) तस्मिन् नित्ये प्राप्ते उगितः विभाषा आरभ्यते ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२३/२८) यदि एवम् लक्ष्मितरा तन्त्रितरा इति न सिध्यति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२४/२८) लक्ष्मीतरा तन्त्रीतरा इति प्राप्नोति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२५/२८) इष्टम् एव एतद् सङ्गृहीतम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२६/२८) लक्ष्मीतरा तन्त्रीतरा इति एव भवितव्यम् ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२७/२८) एवम् हि सौनागाः पठन्ति ।

(पा-६,३.४३; अकि-३,१५८.२१-१५९.९; रो-४,६२०-६२१; भा-२८/२८) घादिषु नद्याः ह्रस्वत्वे कृन्नद्याः प्रतिषेधः ।