व्याकरणमहाभाष्य खण्ड 79

विकिपुस्तकानि तः



(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१/४९) देविकादिषु तदादिग्रहणम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२/४९) देविकादिषु तदादिग्रहणम् कर्तव्यम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३/४९) देविकाद्यादीनाम् इति वक्तव्यम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४/४९) इह अपि यथा स्यात् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-५/४९) दाविकाकुलाः शालयः , शांशपास्थलाः देवाः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-६/४९) किम् पुनः कारणम् न सिध्यति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-७/४९) अन्यत्र तद्ग्रहणात् तदन्तग्रहणात् वा ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-८/४९) अन्यत्र हि तस्य वा ग्रहणम् भवति तदन्तस्य वा न च इदम् तत् न अपि तदन्तम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-९/४९) आद्यज्विशेषणत्वात् सिद्धम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१०/४९) आद्यज्विशेषणम् देविकादयः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-११/४९) न एवम् विज्ञायते देविकादीनाम् अङ्गानाम् अचाम् आदेः आकारः भवति इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१२/४९) कथम् तर्हि ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१३/४९) ञ्णिति अङ्गस्य अचाम् आदेः आकारः भवति सः चेत् देविकादीनाम् आद्ज्यच् भवति इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१४/४९) आन्तरतम्यनिवर्तकत्वात् वा ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१५/४९) अथ वा न अनेन अनन्तरतमा वृद्धिः निर्वर्त्यते ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१६/४९) किम् तर्हि अन्तरतमा अनेन निवर्त्यते ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१७/४९) सिद्धा अत्र वृद्धिः तद्धितेषु अचाम् आदेः इति एव तत्र अनेन अन्तरतमा वृद्धिः निवर्त्यते ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१८/४९) परिहारान्तरम् एव इदम् मत्वा पठितम् कथम् च इदम् परिहारान्तरम् स्यात् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-१९/४९) यदि न आद्यज्विशेषणम् देविकादयः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२०/४९) अवश्यम् च एतत् एवम् विज्ञेयम् अद्यज्विशेषणम् देविकादयः इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२१/४९) यदि न आद्यज्विशेषणम् देविकादयः स्युः इह अपि प्राप्नोति ॒ सुदेविकायाम् भवः सौदेविकः इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२२/४९) अथ अत्र अपि आद्यज्विशेषणत्वात् इति एव सिद्धम् परिहारान्तरम् न भवति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२३/४९) न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२४/४९) किम् तर्हि ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२५/४९) यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२६/४९) क्व च क्रियमाणे न दोषः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२७/४९) सञ्ज्ञाविधौ ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२८/४९) वृद्धिः आत् ऐच् देविकादीनाम् आकारः इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-२९/४९) इध्यति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३०/४९) सूत्रम् तर्हि भिद्यते ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३१/४९) यथान्यासम् एव अस्तु ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३२/४९) ननु च उक्तम् देविकादिषु तदादिग्रहणम् अन्यत्र तद्ग्रहणात् तदन्तग्रहणात् वा इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३३/४९) परिहृतम् एतत् आद्यज्विशेषणत्वात् सिद्धम् इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३४/४९) न्यग्रोधे च केवलग्रहणात् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३५/४९) न्यग्रोधे च केवलग्रहणात् मन्यामहे आद्यज्विशेषणम् देविकादयः इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३६/४९) तस्य हि केवलग्रहणस्य एतत् प्रयोजनम् इह मा भूत् न्याग्रोधमूलाः शालयः इति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३७/४९) यदि च आद्यज्विशेषणम् देविकादयः ततः केवलग्रहणम् अर्थवत् भवति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३८/४९) तत् एतत् कथम् कृत्वा ज्ञापकम् भवति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-३९/४९) यदि न्यग्रोधशब्दः अव्युत्पन्नम् प्रातिपदिकम् भवति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४०/४९) अथ हि न्यग्रोहति इति न्यग्रोधः ततः नियमार्थम् पदान्तः इति कृत्वा न ज्ञापकम् भवति ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४१/४९) वहीनरस्य इद्वचनम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४२/४९) वहीनरस्य इत्त्वम् वक्तव्यम् ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४३/४९) वहीनरस्य अपत्यम् वैहीनरिः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४४/४९) कुणरवाडवः तु आह ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४५/४९) न एषः वहीनरः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४६/४९) कः तर्हि ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४७/४९) विहीनरः एषः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४८/४९) विहीनः नरः कामभोगाभ्याम् विहीनरः ।

(पा-७,३.१; अकि-३,३१६.२-३१७.१०; रो-५,१८९.३-१९२.२; भा-४९/४९) विहीनरस्य अपत्यम् वैहीनरिः

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१/४५) य्वाभ्याम् परस्य अवृद्धित्वम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२/४५) य्वाभ्याम् परस्य अवृद्धित्वम् सिद्धम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३/४५) कुतः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४/४५) अपवादौ वृद्धेः हि तौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-५/४५) अपवादौ हि वृद्धेः तौ ऐचौ उच्येते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-६/४५) नित्यौ ऐचौ तयोः वृद्धिः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-७/४५) अथ वा नित्यौ ऐचौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-८/४५) कृतायाम् अपि वृद्धौ प्राप्नुतः अकृतायाम् अपि ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-९/४५) नित्यत्वात् ऐचोः कृतयोः यदि अपि वृद्धिः तयोः एव ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१०/४५) किमर्थम् न इति शिष्यते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-११/४५) अथ किमर्थम् प्रतिषेधः उच्यते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१२/४५) एचोः विषयार्थम् प्रतिषेधसन्नियुक्तवचनम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१३/४५) एचोः विषयार्थम् प्रतिषेधसन्नियोगेन ऐचौ उच्येते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१४/४५) यत्र य्वाभ्याम् परावृद्धिः तत्र अध्यश्वेः यथा न तौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१५/४५) यत्र य्वाभ्याम् परस्य अवृद्धित्वम् उच्यते तत्र ऐचौ यथा स्याताम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१६/४५) इह मा भूताम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१७/४५) आध्यश्विः , दाध्यश्विः , माध्वश्विः इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१८/४५) न एतत् अस्ति प्रयोजनम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-१९/४५) अचाम् आदेः य्वाभ्याम् हि तौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२०/४५) अचाम् आदिना अत्र य्वौ विशेषयिष्यामः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२१/४५) अचाम् आदेः यौ य्वौ इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२२/४५) कथम् द्व्याशीतिके न तौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२३/४५) द्व्याशीतिकः इति अत्र कस्मात् न तौ भवतः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२४/४५) यत्र वृद्धिः अचाम् आदेः तत्र ऐचौ अत्र घोः हि सा ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२५/४५) तत्र अचाम् आदेः इति एवम् वृद्धिः तत्र ऐचौ उच्येते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२६/४५) अत्र घोः इति एवम् वृद्धिः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२७/४५) किम् इदम् घोः इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२८/४५) उत्तरपदस्य इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-२९/४५) उत्तरपदाधिकारे अपि अवश्यम् ऐजागमः अनुवर्त्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रयलिन्दः इति एवमर्थम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३०/४५) न एषः दोषः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३१/४५) उत्तरपदेन अत्र अचाम् आदि विशेषयिष्यामः अचाम् आदिना य्वौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३२/४५) उत्तरपदस्य अचाम् आदेः यौ य्वौ इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३३/४५) अथ कस्मात् पदान्ताभ्याम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३४/४५) अथ किमर्थम् पदान्ताभ्याम् इति उच्यते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३५/४५) यथा इणः न भवेत् यणः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३६/४५) इणः यणादेशे मा भूत्. यतः छात्रा , याता इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३७/४५) इह वैयाकरणः , सौवश्वः इति शाकलम् प्राप्नोति य्वोः च स्थानिवद्भावात् आयावौ प्राप्नुतः ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३८/४५) शकलायावादेशेषु च उक्तम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-३९/४५) किम् उक्तम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४०/४५) शाकले तावत् उक्तम् सिन्नित्यसमासयोः शाकलप्रतिषेधः इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४१/४५) आयावोः किम् उक्तम् ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४२/४५) अचः पूर्वविज्ञानात् ऐचोः सिद्धम् इति ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४३/४५) य्वाभ्याम् परस्य अवृद्धित्वम् अपवादौ वृद्धेः हि तौ , नित्यौ ऐचौ तयोः वृद्धिः किमर्थम् न इति शिष्यते ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४४/४५) यत्र य्वाभ्याम् परावृद्धिः तत्र अध्यश्वेः यथा न तौ , अचाम् आदेः य्वाभ्याम् हि तौ कथम् द्व्याशीतिके न तौ ।

(पा-७,३.३; अकि-३,३१७.८-३१८.२४; रो-५,१९२.४-१९४.११; भा-४५/४५) यत्र वृद्धिः अचाम् आदेः तत्र ऐचौ अत्र घोः हि सा , अथ कस्मात् पदान्ताभ्याम् यथा इणः न भवेत् यणः

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१/२०) अथ परस्य अवृद्धिः इति अनुवर्तते उताहो न ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-२/२०) किम् च अतः ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-३/२०) यदि अनुवर्तते शौवम् मांसम् टिलोपे कृते ऐजागमः न प्राप्नोति ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-४/२०) अथ निवृत्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-५/२०) यथ इच्छसि तथा अस्तु ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-६/२०) अस्तु तावत् अनुवर्तते ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-७/२०) कथ शौवम् मांसम् ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-८/२०) आनुपूर्व्या सिद्धम् एतत् ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-९/२०) न अत्र अकृते ऐजागमे टिलोपः प्राप्नोति ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१०/२०) किम् कारणम् ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-११/२०) प्रकृत्या एकाच् इति प्रकृतिभावेन भवितव्यम् ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१२/२०) तत् एतत् आनुपूर्व्या सिद्धम् भवति ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१३/२०) अथ वा पुनः अस्तु निवृत्तम् ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१४/२०) ननु च उक्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति इति ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१५/२०) कः पुनः अर्हति स्वाध्यायशब्दम् द्वारादिषु पठितुम् ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१६/२०) एवम् किल् पठ्येत स्वम् अध्ययनम् स्वाध्यायः इति ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१७/२०) तत् च न ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१८/२०) सुष्ठु वा अध्ययनम् स्वाध्यायः शोभनम् वा अध्ययनम् स्वाध्यायः ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-१९/२०) अथ अपि स्वम् अध्ययनम् स्वाध्यायः एवम् अपि न दोषः ।

(पा-७,३.४; अकि-३,३१८.२६-३१९.९; रो-५,१९५.१३-१९७.२; भा-२०/२०) अचाम् आदेः इति वर्तते ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१/२१) अयम् श्वन्शब्दः द्वारादिषु पठ्यते तत्र कः प्रसङ्गः यत् तदादेः स्यात् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-२/२१) न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-३/२१) तदादिविधिना प्राप्नोति ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-४/२१) न एव तदादिविधिः अस्ति ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-५/२१) अतः उत्तरम् पठति ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-६/२१) प्रतिषेधे श्वादिग्रहणम् ज्ञापकम् अन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य शौवहानाद्यर्थम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-७/२१) प्रतिषेधे श्वादिग्रहणम् क्रियते ज्ञापकार्थम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-८/२१) किम् ज्ञाप्यम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-९/२१) एतत् ज्ञापयति आचार्यः अन्यत्र श्वन्ग्रहणे तदादिविधिः भवति इति ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१०/२१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-११/२१) शौवहानाद्यर्थम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१२/२१) शौवहानम् नाम नगरम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१३/२१) शौवादंष्ट्रः मणिः इति ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१४/२१) इकारादिग्रहणम् च श्वागणिकाद्यर्थम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१५/२१) इकारादिग्रहणम् च कर्तव्यम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१६/२१) किम् प्रयोजनम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१७/२१) श्वागणिकाद्यर्थम् ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१८/२१) श्वगणेन चरति श्वागणिकः ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-१९/२१) तदन्तस्य च अन्यत्र प्रतिषेधः ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-२०/२१) तदन्तस्य च अन्यत्र प्रतिषेधः वक्तव्यः ।

(पा-७,३.८; अकि-३,३१९.११-२२; रो-५,१९७.४-१९८.५; भा-२१/२१) श्वाभस्त्रेः स्वम् श्वाभस्त्रम्

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१/३२) किमर्थम् इदम् उच्यते ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२/३२) अवयवात् ऋतोः इति वक्ष्यति तदुत्तरपदस्य यथा स्यात् अचाम् आदेः मा भूत् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-३/३२) न एतत् अस्ति प्रयोजनम् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-४/३२) अवयवात् इति पञ्चमी तत्र अन्तरेण अपि उत्तरपदग्रहणम् उत्तरपदस्य एव भविष्यति ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-५/३२) उत्तरार्थम् तर्हि सुसर्वार्धात् जनपदस्य इति ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-६/३२) सुसर्वार्धात् इति पञ्चमी ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-७/३२) दिशः अमद्राणाम् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-८/३२) दिशः इति पञ्चमी ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-९/३२) प्राचाम् ग्रामनगराणाम् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१०/३२) दिशः इति एव ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-११/३२) सङ्ख्यायाः संवत्सरसङ्ख्यस्य च ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१२/३२) सङ्ख्यायाः इति पञ्चमी ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१३/३२) वर्षस्य अभविष्यति ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१४/३२) सङ्ख्यायाः इति एव ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१५/३२) परिमाणान्तस्य असञ्ज्ञाशाणयोः इति ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१६/३२) सङ्ख्यायाः इति एव ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१७/३२) इदम् तर्हि प्रयोजनम् जे प्रोष्ठपदानाम् उत्तरपदस्य यथा स्यात् पूर्वपदस्य मा भूत् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१८/३२) प्रोष्ठपदासु जातः प्रोष्ठपादः ब्राह्मणः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-१९/३२) तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२०/३२) तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२१/३२) किम् प्रयोजनम् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२२/३२) द्व्याशीतिकाद्यर्थम् ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२३/३२) अचाम् आदिवृद्धेः अवकाशः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२४/३२) ऐतिकायनः , औपगवः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२५/३२) उत्तरपदवृद्धेः अनवकाशः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२६/३२) द्विषाष्टिकः , त्रिषाष्टिकः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२७/३२) इह उभयम् प्राप्नोति ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२८/३२) द्व्याशीतिकः , त्र्याशीतिकः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-२९/३२) उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-३०/३२) कः पुनः अत्र विशेषः अचाम् आदिवृद्धौ वा सत्याम् उत्तरपदवृद्धौ वा ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-३१/३२) अयम् अस्ति विशेषः ।

(पा-७,३.१०; अकि-३,३२०.२-१६; रो-५,१९८.७-१९९.९; भा-३२/३२) यदि अत्र अचाम् आदिवृद्धिः स्यात् ऐजागमः प्रसज्येत

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१/२८) नगरग्रहणम् किमर्थम् न प्राचाम् ग्रामाणाम् इति एव सिद्धम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२/२८) न सिध्यति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-३/२८) अन्यः ग्रामः अन्यत् नगरम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-४/२८) कथम् ज्ञायते ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-५/२८) एवम् हि कः चित् कम् चित् पृच्छति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-६/२८) कुतः भवान् आगच्छति ग्रामात् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-७/२८) सः हि आह ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-८/२८) न ग्रामात् नगरात् इति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-९/२८) ननु च भो यः एव ग्रामः तत् नगरम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१०/२८) कथम् ज्ञायते ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-११/२८) लोकतः ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१२/२८) ये हि ग्रामे विधयः न इष्यन्ते साधीयः ते नगरे न क्रियन्ते ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१३/२८) तत् यथा ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१४/२८) अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते सुतराम् नागरः अपि न भक्ष्यते ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१५/२८) तथा ग्रामे न अध्येयम् इति साधीयः नगरे न अधीयते ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१६/२८) तस्मात् यः एव ग्रामः तत् नगरम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१७/२८) कथम् यत् उक्तम् एवम् हि कः चित् कम् चित् पृच्छति कुतः भवान् आगच्छति ग्रामात् सः आह न ग्रामात् नगरात् इति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१८/२८) संस्त्यायविशेषम् असौ आचष्टे ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-१९/२८) संस्त्यायविशेषाः हि एते ग्रामः घोषः नगरम् संवाहः इति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२०/२८) एवम् तर्हि सिद्धे सति यत् ग्रामग्रहणे नगरग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र ग्रामग्रहणे नगरग्रहणम् न भवति इति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२१/२८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२२/२८) विशिष्टलिङ्गः नदीदेशः अग्रामाः इति अत्र नगरप्रतिषेधः चोदितः सः न वक्तव्यः भवति ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२३/२८) यदि एतत् ज्ञाप्यते उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् इति अत्र नगरग्रहणम् कर्तव्यम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२४/२८) बाहीकग्रामेभ्यः च नगरग्रहणम् कर्तव्यम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२५/२८) दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु नगरग्रहणम् कर्तव्यम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२६/२८) इदम् चतुर्थम् ज्ञापकार्थम् ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२७/२८) तत्र अतिनिर्बन्धः न लाभः ।

(पा-७,३.१४; अकि-३,३२०.१८-३२१.१०; रो-५,१९९.११-२०१.३; भा-२८/२८) तस्मात् यस्मिन् एव ग्रामग्रहणे नगरग्रहणम् न इष्यते तस्य प्रतिषेधः वक्तव्यः

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१/२२) संवत्सरग्रहणम् अनर्थकम् परिमाणान्तस्य इति कृतत्वात् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-२/२२) संवत्सरग्रहणम् अनर्थकम् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-३/२२) किम् कारणम् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-४/२२) परिमाणान्तस्य इति कृतत्वात् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-५/२२) परिमाणान्तस्य असञ्ज्ञाशाणयोः इति एव सिद्धम् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-६/२२) ज्ञापकम् तु कालपरिमाणानाम् वृद्धिप्रतिषेधस्य ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-७/२२) एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् वृद्धिः न भवति इति ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-८/२२) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-९/२२) द्वैरात्रिकः , त्रैरात्रिकः , अत्र वृद्धिः न भवति ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१०/२२) न एतत् अस्ति प्रयोजनम् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-११/२२) न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१२/२२) इदम् तर्हि ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१३/२२) द्वसमिकः , त्रैसमिकः ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१४/२२) इदम् च अपि प्रयोजनम् द्वैरात्रिकः , त्रैरात्रिकः ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१५/२२) ननु च उक्तम् न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा इति ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१६/२२) अयम् अस्ति विशेषः ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१७/२२) यदि अत्र उत्तरपदवृद्धिः स्यात् अचाम् आदेः वृद्धिः न स्यात् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१८/२२) अपरः आह ॒ ज्ञापकम् तु कालपरिमाणानाम् परिमाणाग्रहणस्य ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-१९/२२) एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् परिमाणग्रहणेन ग्रहणम् न भवति इति ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-२०/२२) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-२१/२२) अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि द्विवर्षा , त्रिवर्षा ।

(पा-७,३.१५; अकि-३,३२१.१२-२५; रो-५,२०१.५-१८; भा-२२/२२) परिमाणपर्युदासेन पर्युदासः न भवति

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-१/१०) परस्य वृद्धिः न इति अनुवर्तते उताहो न ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-२/१०) किम् च अतः ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-३/१०) यदि अनुवर्तते प्रवाहणेयी भार्या अस्य इति प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-४/१०) अथ निवृत्तम् न दोषः भवति ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-५/१०) यथा न दोषः तथा अस्तु ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-६/१०) अथ वा पुनः अस्तु अनुवर्तते ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-७/१०) ननु च उक्तम् प्रवाहणेयी भार्या अस्य प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति इति ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-८/१०) न एषः दोषः ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-९/१०) मा भूत् एवम् ।

(पा-७,३.२८; अकि-३,३२२.२-६; रो-५,२०२.२-७; भा-१०/१०) जातेः इति एवम् भविष्यति

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-१/८) अयम् योगः शक्यः अवक्तुम् ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-२/८) कथम् अयाथातथ्यम् , आयथातथ्यम् , अयाथापुर्यम् , आयथापुर्यम् ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-३/८) यदा तावत् पूर्वपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-४/८) न यथातथा , अयथातथा ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-५/८) अयथातथाभावः आयथातथ्यम् ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-६/८) यदा उत्तरपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-७/८) यथातथाभावः याथातथ्यम् ।

(पा-७,३.३१; अकि-३,३२२.८-११; रो-५,२०२.९-२०३.३; भा-८/८) न याथातथ्यम् अयाथातथ्यम्

(पा-७,३.३२; अकि-३,३२२.१३-१६; रो-५,२०३.५-८; भा-१/६) हन्तेः तकारे तद्धिते प्रतिषेधः ।

(पा-७,३.३२; अकि-३,३२२.१३-१६; रो-५,२०३.५-८; भा-२/६) हन्तेः तकारे तद्धिते प्रतिषेधः वक्तव्यः ।

(पा-७,३.३२; अकि-३,३२२.१३-१६; रो-५,२०३.५-८; भा-३/६) वार्त्रघ्नम् , भ्रौणघ्नम् ।

(पा-७,३.३२; अकि-३,३२२.१३-१६; रो-५,२०३.५-८; भा-४/६) उक्तम् वा ।

(पा-७,३.३२; अकि-३,३२२.१३-१६; रो-५,२०३.५-८; भा-५/६) किम् उक्तम् ।

(पा-७,३.३२; अकि-३,३२२.१३-१६; रो-५,२०३.५-८; भा-६/६) धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१/१७) कृद्ग्रहणम् किमर्थम् ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-२/१७) इह मा भूत् ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-३/१७) ददौ , दधौ ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-४/१७) न एतत् अस्ति प्रयोजनम् ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-५/१७) अचिण्णलोः इति वर्तते ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-६/१७) यदि अचिण्णलोः इति वर्तते अदायि , अधायि इति अत्र न प्राप्नोति ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-७/१७) वचनात् चिणि भविष्यति ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-८/१७) अचिण्णलोः इति वर्तते ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-९/१७) एवम् अपि चौडिः , बालाकिः इति अत्र प्राप्नोति ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१०/१७) लोपः अत्र बाधकः भविष्यति ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-११/१७) इदम् इह सम्प्रधार्यम् ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१२/१७) लोपः क्रियताम् युक् इति किम् अत्र कर्तव्यम् ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१३/१७) परत्वात् युक् ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१४/१७) एवम् तर्हि अचाम् आदेः इति वर्तते ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१५/१७) यत्र अचाम् आदिः आकारः तत्र युक् इति ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१६/१७) एवम् अपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः , अत्र प्राप्नोति ।

(पा-७,३.३३; अकि-३,३२२.१८-३२३.४; रो-५,२०३.१०-२०४.२; भा-१७/१७) तस्मात् कृद्ग्रहणम् कर्तव्यम्

(पा-७,३.३४; अकि-३,३२३.५-७; रो-५,२०४.४-५; भा-१/२) अत्यल्पम् इदम् उच्यते ॒ अनाचमेः इति ।

(पा-७,३.३४; अकि-३,३२३.५-७; रो-५,२०४.४-५; भा-२/२) अवमिकमिचमीनाम् इति वक्तव्यम् ॒ वामः , कामः , आचामः

(पा-७,३.३७; अकि-३,३२३.९-१२; रो-५,२०४.६-१०; भा-१/५) णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम् ।

(पा-७,३.३७; अकि-३,३२३.९-१२; रो-५,२०४.६-१०; भा-२/५) णिच्प्रकरणे धूञ्प्रीञोः नुक् वक्तव्यः ।

(पा-७,३.३७; अकि-३,३२३.९-१२; रो-५,२०४.६-१०; भा-३/५) धूनयति , प्रीणयति ।

(पा-७,३.३७; अकि-३,३२३.९-१२; रो-५,२०४.६-१०; भा-४/५) पातेः लुग्वचनम् ।

(पा-७,३.३७; अकि-३,३२३.९-१२; रो-५,२०४.६-१०; भा-५/५) पालयति

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-१/११) स्थग्रहणम् किमर्थम् ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-२/११) इदम् विचारयिष्यते इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-३/११) तत् यदा सङ्घतग्रहणम् तदा स्थग्रहणम् कर्तव्यम् इह अपि यथा स्यात् कारिका , हारिका ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-४/११) यदा हि वर्णग्रहणम् तदा केवलः ककारः प्रत्ययः न अस्ति इति कृत्वा वचनात् भविष्यति ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-५/११) अथ असुपः इति कथम् इदम् विज्ञायते ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-६/११) असुब्वतः अङ्गस्य इति ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-७/११) आहोस्वित् न चेत् सुपः परः आप् इति ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-८/११) किम् च अतः ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-९/११) यदि विज्ञायते असुब्वतः अङ्गस्य इति बहुचर्मिका अत्र न प्राप्नोति ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-१०/११) अथ विज्ञायते न चेत् सुपः परः आप् इति न दोषः भवति ।

(पा-७,३.४४.१; अकि-३,३२३.१४-२१; रो-५,२०४-२०५; भा-११/११) यथा न दोषः तथा अस्तु

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१/३५) इदम् विचार्यते ॒ इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२/३५) कः च अत्र विशेषः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३/३५) इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-४/३५) इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकास्वु अप्राप्तिः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-५/३५) एतिकाः चरन्ति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-६/३५) वचनात् भविष्यति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-७/३५) अस्ति वचने प्रयोजनम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-८/३५) किम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-९/३५) कारिका , हारिका ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१०/३५) अस्तु तर्हि वर्णग्रहणम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-११/३५) वर्णग्रहणम् चेत् व्यवहितत्वात् अप्रसिद्धिः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१२/३५) वर्णग्रहणम् चेत् व्यवहितत्वात् न प्राप्नोति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१३/३५) कारिका , हारिका ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१४/३५) अकारेण व्यवहितत्वात् न प्राप्नोति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१५/३५) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१६/३५) एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१७/३५) एवम् तर्हि आह अयम् प्रत्ययस्थात् कात् पूर्वस्य इति न क्व चित् अव्यवधानम् तत्र वचनात् भविष्यति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१८/३५) वचनप्रामाण्यात् इति चेत् रथकट्यादिषु अतिप्रसङ्गः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-१९/३५) वचनप्रामाण्यात् इति चेत् रथकट्यादिषु दोषः भवति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२०/३५) रथकट्या , गर्गकाम्या ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२१/३५) न एषः दोषः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२२/३५) येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२३/३५) केन च न अव्यवधानम् वर्णेन एकेन ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२४/३५) सङ्घातेन पुनः व्यवधानम् भवति न भवति च ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२५/३५) अथ वा पुनः अस्तु सङ्घातग्रहणम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२६/३५) ननु च उक्तम् इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः इति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२७/३५) परिहृतम् एतत् वचनात् भविष्यति इति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२८/३५) ननु च उक्तम् अस्ति वचने प्रयोजनम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-२९/३५) किम् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३०/३५) कारिका , हारिका इति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३१/३५) अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३२/३५) अन्तादिवद्भावेन व्यपवर्गः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३३/३५) उभयतः आश्रये न अन्तादिवत् ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३४/३५) एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।

(पा-७,३.४४.२; अकि-३,३२३.२२-३२४.१८; रो-५,२०६-२०८; भा-३५/३५) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् अपि इत्त्वम् इति यत् अयम् न यासयोः इति प्रतिषेधम् शास्ति

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-१/११) ममक(ऋ॒ मामक)नरकयोः उपसङ्ख्यानम् अप्रत्ययस्थत्वात् ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-२/११) ममक(ऋ॒ मामक)नरकयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-३/११) मामिका , नरिका ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-४/११) किम् पुनः कारणम् न सिध्यति ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-५/११) अप्रत्ययस्थत्वात् ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-६/११) त्यक्त्यपोः च प्रतिषिद्धत्वात् ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-७/११) त्यक्त्यपोः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-८/११) दाक्षिणात्यिका , अमात्यिका ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-९/११) किम् पुनः कारणम् न सिध्यति ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-१०/११) प्रतिषिद्धत्वात् ।

(पा-७,३.४४.३; अकि-३,३२४.१९-२५; रो-५,२०८; भा-११/११) उदीचाम् आतः स्थाने यकपूर्वायाः इति प्रतिषिद्धत्वात्

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१/४८) न यत्तदोः इति वक्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२/४८) इह अपि यथा स्यात् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३/४८) यकाम् यकाम् अधीते , तकाम् तकाम् पचामहे इति ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४/४८) प्रतिषेधे त्यकनः उपसङ्ख्यानम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-५/४८) प्रतिषेधे त्यकनः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-६/४८) उपत्यका , अधित्यका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-७/४८) तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-८/४८) न कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-९/४८) आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इत्त्वम् भवति इति यत् अयम् मृदः तिकन् इति इत्त्वभूतम् निर्देशम् करोति ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१०/४८) पावकादीनाम् छन्दसि उपसङ्ख्यानम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-११/४८) पावकादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१२/४८) हिरण्यवर्णाः श्रुचयः पावकाः , ऋक्षकाः , अलोमकाः ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१३/४८) छन्दसि इति किमर्थम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१४/४८) पाविका , अलोमिका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१५/४८) आशिषि च ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१६/४८) आशिषि च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१७/४८) जीवतात् जीवका , नन्दतात् नन्दका , भवतात् भवका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१८/४८) उत्तरपदलोपे च ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-१९/४८) उत्तरपदलोपे च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२०/४८) देवदत्तिका , देवका , यज्ञदत्तिका , यज्ञका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२१/४८) क्षिपकादीनाम् च ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२२/४८) क्षिपकादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२३/४८) क्षिपका , ध्रुवका , धुवका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२४/४८) तारका ज्योतिषि ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२५/४८) तारका ज्योतिषि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२६/४८) तारका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२७/४८) ज्योतिषि इति किमर्थम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२८/४८) तारिका दासी ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-२९/४८) वर्णका तानवे ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३०/४८) वर्णका तान्तवे उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३१/४८) वर्णका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३२/४८) तान्तवे इति किमर्थम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३३/४८) वर्णिका भागुरी लोकायतस्य ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३४/४८) वर्तका शकुनौ प्राचाम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३५/४८) वर्तका शकुनौ प्राचाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३६/४८) वर्तका शकुनिः ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३७/४८) शकुनौ इति किमर्थम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३८/४८) वर्तिका भागुरी लोकायतस्य ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-३९/४८) प्राचाम् इति किमर्थम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४०/४८) वर्तिका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४१/४८) अष्टका पितृदेवत्ये ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४२/४८) अष्टका पितृदेवत्ये उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४३/४८) अष्टका ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४४/४८) पितृदेवत्ये इति किमर्थम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४५/४८) अष्टिका खारी ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४६/४८) वा सूतकापुत्रकावृन्दारकाणाम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४७/४८) वा सूतकापुत्रकावृन्दारकाणाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-७,३.४५.; अकि-३,३२५.२-३२६.९; रो-५,२०८.१०-२१०.१५; भा-४८/४८) सूतका , सूतिका , पुत्रका , पुत्रिका , वृन्दारका , वृन्दारिका

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-१/८) किमर्थम् स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्य इति एव उच्येत ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-२/८) स्त्रीविषयः यः आकारः तस्य स्थाने यः अकारः तस्य प्रतिषेधः यथा स्यात् ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-३/८) इह मा भूत् ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-४/८) शुभम् याति इति शुभंयाः शुभंयिका , भद्रंयिका ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-५/८) यकपूर्वे धात्वन्तप्रतिषेधः ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-६/८) यकपूर्वे धात्वन्तप्रतिषेधः वक्तव्यः ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-७/८) किम् प्रयोजनम् ।

(पा-७,३.४६; अकि-३,३२६.११-१६; रो-५,२११.२-७; भा-८/८) सुनयिका , अशोकिका , अपाकिका

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-१/११) एषाद्वे नञ्पूर्वे अनुदाहरणे असुपः इति प्रतिषेधात् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-२/११) अथ भस्त्राग्रहणम् किमर्थम् न अभाषितपुंस्कात् इति एव सिद्धम् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-३/११) भस्त्राग्रहणम् उपसर्जनार्थम् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-४/११) उपसर्जनार्थः अयम् आरम्भः ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-५/११) अभस्त्रिका , अभस्त्रका ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-६/११) नञ्पूर्वग्रहणानर्थक्यम् च उत्तरपदमात्रस्य इद्वचनात् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-७/११) नञ्पूर्वग्रहणम् च अनर्थकम् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-८/११) किम् कारणम् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-९/११) उत्तरपदमात्रस्य इद्वचनात् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-१०/११) उत्तरपदमात्रस्य इत्त्वम् वक्तव्यम् ।

(पा-७,३.४७; अकि-३,३२६.१८-३२७.३; रो-५,२११.९-२१२.३; भा-११/११) निर्भस्त्रका , निर्भस्त्रिका , बहुभस्त्रका , बहुभस्त्रिका

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१/५७) किम् इदम् ठादेशे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२/५७) कः च अत्र विशेषः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३/५७) ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४/५७) ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५/५७) पठिता , पठितुम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-६/५७) अस्तु तर्हि सङ्घातग्रहणम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-७/५७) सङ्घातग्रहणम् चेत् अणादिमाथितिकादीनाम् प्रतिषेधः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-८/५७) सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-९/५७) उणादीनाम् तावत् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१०/५७) कण्ठः , वण्ठः , शण्ठः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-११/५७) इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१२/५७) वर्ङग्रहणे पुनः सति अल्विधिः अयम् भवति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१३/५७) तस्मात् विशिष्टग्रहणम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१४/५७) तस्मात् विशिष्टस्य ठकारस्य ग्रहणम् कर्तव्यम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१५/५७) न कर्तव्यम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१६/५७) अस्तु तावत् वर्णग्रहणम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१७/५७) ननु च उक्तम् ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१८/५७) न एषः दोषः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-१९/५७) अङ्गात् इति वर्तते ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२०/५७) न वा अङ्गात् इति पञ्चमी अस्ति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२१/५७) एवम् तर्हि प्रत्ययस्थस्य इति वर्तते ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२२/५७) क्व प्रकृतम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२३/५७) प्रत्ययस्थात् कात् पूर्वस्य अतः इत् आपि असुपः इति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२४/५७) तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२५/५७) अर्थात् विभक्तिविपरिणामः भविष्यति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२६/५७) तत् यथा ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२७/५७) उच्चानि देवदत्तस्य गृहाणि ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२८/५७) आमन्त्रयस्व एनम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-२९/५७) देवदत्तम् इति गम्यते ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३०/५७) देवदत्तस्य गावः अश्वाः हिरण्यम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३१/५७) आढ्यः वैधवेयः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३२/५७) देवदत्तः इति गम्यते ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३३/५७) पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् प्रथमानिर्दिष्टम् द्वितीयानिर्दिष्टम् च भवति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३४/५७) एवम् इह अपि पुरस्तात् पञ्चमीनिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३५/५७) एवम् अपि उणादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३६/५७) न वक्तव्यः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३७/५७) उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३८/५७) एवम् अपि कर्मठः इति अत्र प्राप्नोति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-३९/५७) एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४०/५७) अङ्गस्य यः ठकारः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४१/५७) किम् च अङ्गस्य ठकारः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४२/५७) निमित्तम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४३/५७) यस्मिन् अङ्गम् इति एतत् भवति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४४/५७) कस्मिन् च एतत् भवति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४५/५७) प्रत्यये ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४६/५७) अथ वा पुनः अस्तु सङ्घातग्रहणम् ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४७/५७) ननु च उक्तम् सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः इति उणादीनाम् तावत् प्रतिषेधः न वक्तव्यः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४८/५७) परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-४९/५७) यत् अपि उच्यते इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति इति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५०/५७) न एषः दोषः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५१/५७) अकारलोपस्य स्थानिवद्भावात् न भविष्यति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५२/५७) न सिध्यति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५३/५७) पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५४/५७) अयम् अपि पूर्वविधिः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५५/५७) पूर्वस्मात् अपि विधिः पूर्वविधिः इति ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५६/५७) अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि न दोषः ।

(पा-७,३.५०; अकि-३,३२८.२-३२९.५; रो-५,२१२.७-२१५.१; भा-५७/५७) क्रियते न्यासे एव विशिष्टग्रहणम् ठस्य इति