समय-मातृका

विकिपीडिया, एक मुक्त ज्ञानकोष से

यहां जाईयें: नेविगेशन, ख़ोज

अनुक्रम

[संपादित करें] प्रथमः समयः (चिन्ता-परिप्रश्नः)

अनङ्ग-वातलास्त्रेण जिता येन जगत्-त्रयी ।
विचित्र-शक्तये तस्मै नमः कुसुम-धन्वने ॥१॥


यस्या दुर्धर-घोर-वक्त्र-कुहरे विश्व-क्षये लक्ष्यते

क्षुब्धाब्धाव् इव लोल-बाल-शफरी कुत्रापि लोक-त्रयी ।
ताम् अज्ञात-विशाल-काल-कलनां तैस् तैः पुराणैर् अपि

प्रौढां देहि-समूह-मोहन-मयीं कालीं करालां नुमः ॥२॥


क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी ।
क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥


अस्ति स्वस्तिमतां विलास-वसतिः सम्भोग-भङ्गी-भुवः

केलि-प्राङ्गणम् अङ्गना-कुल-गुरोर् देवस्य शृङ्गारिणः ।
कश्मीरेषु पुरं परं प्रवरता-लब्धाभिधा-विश्रुतं

सौभाग्याभरणं मही-वर-तनोः सङ्केत-सद्म श्रियः ॥४॥


यत्र त्रिनेत्र-नेत्राग्नि-त्रस्तस् त्यक्त्वा जगत्-त्रयीम् ।
पौरस्त्री-त्रिवली-कूले वसत्य् असम-सायकः ॥५॥

तत्राभूद् अभिभूतेन्दु-द्युतिः कन्दर्प-दर्प-भूः ।
कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥

कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः ।
नेत्रयोः श्यमलत्वेन वेश्या-वृत्तम् अदर्शयत् ॥७॥

सा हर्म्य-शिखरारूढा कदाचिद् गणिका-गुरुम् ।
कामिनां नर्म-सुहृदं ददर्श पथि नापितम् ॥८॥

श्मश्रू-राशी-चित-मुखं काच-काचर-लोचनम् ।
पीवरं तीर-मण्डूकैर् मार्जारम् इव शारदम् ॥९॥

विटानां केलि-पटहं तप्त-ताम्र-घटोपमम् ।
दधानं रोम-मालान्तं स्थूल-खल्वाट-कर्परम् ॥१०॥

ताम्बूल-ष्ठीवन-त्रासाद् उपरि क्षिप्त-चक्षुषम् ।
आनिनाय तम् आहूय सा नेत्राञ्चल-संज्ञया ॥११॥

स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् ।
पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥


ध्यानालम्बनम् आननं कर-तले व्यालम्बमानालकं

लुप्त-व्यञ्जनम् अञ्जनं नयनयोर् निःश्वास-तान्तो’धरः ।
मौन-क्लीब-निलीन-केलि-विहगं निद्रायमाणं गृहे

वेषः प्रोषित-योषितां समुचितः कस्माद् अकस्मात् तव ॥१३॥


किं मेखला मदन-वन्दि-वधूर् नितम्बे

सुश्रोणि नैव बत गायति मङ्गलानि ।
अङ्गं कृशाङ्गि किम् अनङ्ग-यशः-प्रभेण

कर्पूर-चन्दन-रसेन न लिप्तम् एतत् ॥१४॥


प्राप्तं पुरः प्रचुर-लाभम् असंस्पृशन्ती

भावि-प्रभूत-विभवाय कृताभियोगा ।
किं केनचित् सुचिर-सेवन-निष्फलेन

मिथ्योपचार-वचनेन न वञ्चितासि ॥१५॥


लोभाद् गृहीतम् अविभाव्य भयं भवत्या

दर्पात् प्रदर्शितम् अशङ्कितया सखीभिः ।
दत्तं तवाप्रतिमम् आभरणं नृपार्हं

चौरेण किं प्रलपितं नगराधिपाग्रे ॥१६॥


दानोद्यतेन धनिकेन विशेष-सङ्गात्

सक्तो’यम् इत्य् अथ शनैर् अवसायितेन ।
लब्धान्तर-स्वजन-मित्र-विरोधितेन

किं त्वन्-निकार-कुपितेन कृतो विवाहः ॥१७॥


दत्त्वा सकृत् तनु-विभूषणम् अंशुकं वा

यद् वानुबन्ध-विरलीकृत-कामुकेन ।
यक्षेण सर्व-जनता-सुख-भूः प्रपेव

तीक्ष्णेन भीरु किम् उ केनचिद् आवृतासि ॥१८॥


वित्त-प्रदान-विफलेन पलायमाना

कौटिल्य-चारु-चटुला शफरीव तोये ।
गूढं वशीकरण-चूर्ण-मुचा कचेषु

किं केनचिन् न कुहकेन वशीकृतासि ॥१९॥


निष्कासितुं हृदय-स्ञ्चित-तीव्र-वैरे

सन्दर्शित-प्रकट-कूट-धनोपचारे ।
लोभात् त्वयानपचयैः पुनर् आवृतेव

प्राप्तः किम् उ प्रसभयम् अर्थ-वशाद् अनर्थः ॥२०॥


कैर् नित्य-सम्भव-निजं वणिजं त्यजन्त्या

यान्त्या तृण-ज्वलन-दीप्ति-नियोग-लक्ष्मीम् ।
नष्टे सुवस्त्र-विभवे विरते पुराणे

जातस् तव स्तवकितोभय-लाभ-भङ्गः ॥२१॥


सिद्धः प्रयत्न-विभवैः परितोषितस्य

दातुं समुद्यत-मतिः स्वयम् अर्थ-शास्त्रम् ।
नीतस् तव प्रचुर-मत्सरयान्यया किं

गेहान् निधिर् बहु-धनः स्व-सखी-मुखेन ॥२२॥


किं वावसाद-पदवीम् अतिवाह्य कष्टां

लब्धाविकार-विभवेन विवर्जितासि ।
किं मूर्छितासि विरतासि सुखोज्झितासि

ध्यानावधान-वधिरासि निमीलितासि ॥२३॥


अप्य् उद्दाम-व्यसन-सरणेः सङ्गमे कामुकानां

भद्रं भद्रे भुवन-जयिनस् त्वत्-कला-कौशलस्य ।
अप्य् उत्साह-प्रचुर-सुहृदः काम-केली-निवासाः

प्रौढोत्साहास् तव सुवदने स्वस्तिमन्तो विलासाः ॥२४॥


इत्य् आदि तेन हित-संनिहितेन पृष्टा

स्पृष्टा भृशं विभव-भङ्ग-भयोद्भवेन ।
सा तं जगाद सुख-दुःख-सहाय-भूतं

चिन्ता-विशेष-विवशा बहुशः श्वसन्ती ॥२५॥


शृणु कङ्क ममानन्तां चिन्तां सन्ताप-कारिणीम् ।
ययाहम् अवसीदामि ग्रीष्म-ग्लानेव मञ्जरी ॥२६॥

सा सखे करभ-ग्रीवा मातुर् माता स्थिर-स्थितिः ।
व्याली गृह-निधानस्य हता वद्याधमेन मे ॥२७॥

यो’साव् अवद्य-विद्याविद् वैद्यः सद्यः क्षयोद्यतः ।
दर्पाद् आतुर-वित्तेन वृद्धो’पि तरुणायते ॥२८॥

तेन रोग-धराख्येन दत्ता रसवती मम ।
त्रिभाग-शेषतां नीता लौल्य-लोभोद्भवात् तया ॥२९॥

प्रपञ्च-वञ्चना-वैरात् सा तेनातुरतां गता ।
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥३०॥

हिरण्य-वर्णां वसुधां तस्मिन्न् अन्त-क्षणे’पि सा ।
दृष्ट्वा माम् अब्रवीद् वत्से गृह्यतां गृह्यताम् इति ॥३१॥

ततस् तस्याम् अतीतायां गृहं मे शून्यतां गतम् ।
पराभवास्पदीभूतं कामुकैः स्वेच्छया वृतम् ॥३२॥

रिक्तः शक्तो न निर्याति नाप्नोत्य् अवसरं धनी ।
शून्य-शालेव पथिकैर् निरुद्धा कामुकैर् अहम् ॥३३॥

तस्माद् विदेशं गच्छामि नेच्छाम्य् उच्छृङ्खलां स्थितिम् ।
कथं रक्त-विरक्तानां तुल्यां स्वायत्ततां सहे ॥३४॥

इत्य् उद्बाष्प-सदृशस् तस्याः प्रलापं वृद्ध-नापितः ।
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥

भवत्या वित्त-लोभेन निर्विचारतया परम् ।
भिषग्-दुष्ट-भुजङ्गो’सौ स्वयम् एव प्रवेशितः ॥३६ ॥ जनन्यो हि हतास् तेन वेश्यानां पथ्य-युक्तिभिः ।
किं कुट्टनी-कृतान्तो’सौ वैद्यो न विदितस् तव ॥३७॥

स रोगि-मृग-वर्गाणां मृगया-निर्गतः पथि ।
इत्य् आदिभिः स्तुति-पदैर् विट-चेटैः प्रणम्यते ॥३८॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्व-प्राण-हराय च ॥३९॥

अधुना दुःखम् उत्सृज्य मनः-स्थित्यै विधीयताम् ।
कृत्रिमः क्रियतां गेहे रक्षायै जननी-जनः ॥४०॥

व्याघ्रीव कुट्टनी यत्र रक्त-पानामिषैषिणी ।
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ॥४१॥

यत्र तत्र निमग्नानां वेश्यानां जननीं विना ।
सन्ध्ययोर् दिवसस्यापि मुहूर्तार्धस्य न क्षणः ॥४२॥

न भवत्य् एव धूर्तस्य वेश्या-वेश्मन्य् अमातृके ।
चुल्ली-सुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥४३॥

प्रविष्टा कुट्टनी-हीन-गृहं क्षीण-पटा विटाः ।
गाथाः पठन्ति गायन्ति व्यय-द्रविणम् अर्थिताः ॥४४॥

अकण्टका पुष्प-मही वेश-योषिद् अमातृका ।
मन्त्रि-हीना च राज्य-श्रीर् भुज्यते विट-चेटकैः ॥४५॥

अयं पीन-स्तनाभोग-सौभाग्य-विभवोचितः ।
द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥४६॥

खला इवातिचपलाः कृतालिङ्गन-सङ्गमाः ।
न गताः पुनर् आयान्ति बाले यौवन-वासराः ॥४७॥

प्रथम... ...नां पुष्पवतीनां लतानां च ॥४८॥


तस्मान् मानिनि कापि हेम-कुसुमारामोच्चयाय त्वया

माता तावद् अनेक-कूट-कुटिला काचित् समन्विष्यताम् ।
एताः सुभ्रु भवन्ति यौवन-भरारम्भे विजृम्भा-भुवो

वेश्यानां हि नियोगिनाम् इव शरत्-काले घनाः सम्पदः ॥४९॥


अस्त्य् एव सा बहुतराङ्कवती तुलेव

कालस्य सर्व-जन-पण्य-परिग्रहेषु ।
क्षिप्र-प्रकृष्ट-पल-कल्पनया ययासौ

भागी कृतः परिमितत्वम् उपैति मेरुः ॥५०॥


यासौ रामा मलयज-लता-गाढ-संरोध-लीला

निर्यन्त्राणां नियम-जननी भोगिनां मन्त्र-मुद्रा ।
विश्वं यस्याः फल-कलनया लक्ष्यताम् एति पाणौ

तस्या जन्म-क्रम-परिगतं श्रूयतां वृत्तम् एतत् ॥५१॥


तद्-वृत्त-मात्र-श्रवणेन को’पि

संजायते बुद्धि-विशेष-लाभः ।
तयोपदेशे स्वयम् एव दत्ते

भवत्य् असौ हस्त-गता त्रिलोकी ॥५२॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चिन्ता-परिप्रश्नो नाम प्रथमः समयः



[संपादित करें] द्वितीयः समयः (चरितोपन्यासः)

अथ दत्तावधानायां कलावत्यां यथाविधि ।
कथाम् अकथयत् कङ्कः कुट्टिन्याः कपटाश्रयाम् ॥१॥

सर्व-भक्षां नमस्कृत्य ताम् एव भव-भैरवीम् ।
वदामि चरितं तस्याः कुक्षौ यस्या जगत्-त्रयी ॥२॥

परिहास-पुरे पूर्वं पान्थावसथ-पालिका ।
बभूव भूमिका नाम ... ॥३ ॥ .... कन्यका ।
जाता घरट्टमालायाम् अर्घ-घर्घटिकाभिधा ॥४॥

सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।
तद्-गृहेष्व् अकरोच् चौरी पूजा-भाजन-सङ्क्षयम् ॥५॥

सप्त-वर्षैव सा लोभाद् वाक्-प्रौढा हट्ट-तोरणे ।
जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥६॥

सुवृत्त-शङ्ख-लतिका सकूट-कुच-कञ्चुका ।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥७॥

कुङ्कुमार्थी वणिक्-सूनुर् अथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्ण-वर्ण-सुवर्णवान् ॥८ ॥ सभायां नेत्र-वलनालोल-भ्रू-लास्य-विभ्रमैः ।
कृष्टः कौतुकवान् भेजे चपला-सङ्गमं निशि ॥९॥

सा तस्य क्षैब्य-सुप्तस्य निशि कण्ठावलम्बिनी ।
निगीर्य शनकैः सर्वं कर्णाभरण-काञ्चनम् ॥१०॥

अङ्गुलीभ्यः समाकृष्य हेम-बालक-बालिकाः ।
चौर-ग्रस्तेव चुक्रोश हा हतास्मीति स-स्वनम् ॥११॥

प्रतिबुद्धो’थ सहसा स तया मुषितो वणिक् ।
वाससाच्छादित-शिरा ययौ स्वजन-लज्जितः ॥१२॥

ततः सा यौवनवती रुचिराभरणाम्बरा ।
उवास शङ्कर-पुरे मह्लणेति कृताभिधा ॥१३॥

भूरि-भाग्य-भरैः सक्ता सा कामि-कुसुमोच्चये ।
लेभे सम्भोग-विश्रान्तिं न रजन्यां न वासरे ॥१४॥

निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः ।
बभूव तद्-गृहे सङ्ख्या न शुनाम् इव कामिनाम् ॥१५ ॥ कूपे प्रपायाम् उद्याने सूद-पौष्पिक-वेश्मसु ।
सखी-गृहे च तुल्याप्तान् सा सिषेवे’ह्नि कामुकान् ॥१६ ॥


क्षपारम्भे क्षीबं शिशुकम् इव निक्षिप्य शयने

जगामान्यं तस्मिन् सुरत-घन-निद्रा-परम् अपि ।
निशा-शेषे शूलाकुल-निज-सखी-वेश्म-गमना-

पदेशेनान्यं सा सततम् अगमत् स्व-क्रय-भर ॥१७॥


नानावहार-कुपितैः सान्विष्टा सुभगैर् भृशम् ।
पलायमाना गुप्तेषु तस्थौ कामुक-वेश्मसु ॥१८॥

ततः प्रासाद-पालेन नन्दि-सोमेन सा निशि ।
गौरी-गर्भ-गृहं रात्रौ रागान्धेन प्रवेशिता ॥१९॥

निःश्वास-निद्रया तस्मिन् प्रयाते काष्ठ-भूतताम् ।
देवालङ्करणं सर्वं सा गृहीत्वा ययौ जवात् ॥२०॥

ततः समर-सिंहस्य डामरस्यावरुद्धिका ।
भूत्वा नागरिका-नाम प्रताप-पुर-वासिनः ॥२१॥

प्रभूत-पिशिताहार-सम्भारैः स्थूलतां गता ।
सा तस्य भीमसेनस्य हिडिम्बेवाभवत् प्रिया ॥२२॥

सर्वस्व-स्वामि-भावं सा सम्प्राप्ता तस्य रागिणः ।
प्रेरणं बन्धु-युद्धेषु विदधे निधनैषिणी ॥२३॥

हते पितृ-व्रजे तस्मिन् बद्ध-मूला परं गृहे ।
साभूद् अपर-पुत्रस्य श्री-सिंहस्यावरुद्धिका ॥२४॥

विगलद्-यौवना यूनः सा सपत्नी-जिगीषया ।
चकार तस्य स्वीकारं वशीकरण-मूलकैः ॥२५॥

मत्स्य-यूष-घृत-क्षीर-पलाण्डु-लशुनादिभिः ।
प्रत्यायन-प्रसक्ताभूद् यौवनस्य प्रियस्य सा ॥२६॥

अथ भूप-भयात् तस्य प्रत्यासत्ते’थ भूतपे ।
भूरि द्रविणम् आदाय साविशन् नगरान्तरम् ॥२७॥

ततस् तनुतर-स्वच्छ-वसना विनतानना ।
रण्डा मृगवती नाम साभूत् स्पर्श-स्पृहा-मही ॥२८॥

सदा सुरेश्वरीं गत्वा शत-धारा-तटे चिरम् ।
तल-बालुक-दर्भाङ्का सा चक्रे पितृ-तर्पणम् ॥२९॥

तत्र बन्धुरसाराख्यम् अश्वारोहं महा-धनम् ।
तीर्थ-स्थिता सा जग्राह मत्स्यं बक-वधूर् इव ॥३०॥

गृहं मुष्ट्या गृहीत्वेव चित्त-ग्रहण-कोविदा ।
सर्वाय-व्यय-कार्येषु सैव तस्याभवद् विभुः ॥३१॥

मासेन सा गते तस्मिन् पञ्चतां बहु-सञ्चये ।
तस्थौ पादाव् अवष्टभ्य तस्यानुगमनोद्यता ॥३२॥

तद्-बान्धवैर् वार्यमाणा मिथ्यैवारब्ध-दुर्ग्रहा ।
धैर्यावष्टम्भ-गम्भीरम् उवाचार्याङ्गनेव सा ॥३३॥

कुले महति वैधव्यं वैधव्ये शील-विप्लवः ।
शील-भ्रंशे वियोगो’यं वह्निना मम यास्यति ॥३४॥

इत्य् उक्त्वा तीव्र-सङ्कल्प-निश्चलाश्म-मयीव सा ।
तद्-वित्तावाप्त-हर्षेण सत्त्व-व्यक्तिम् इवावहत् ॥३५॥

ततस् तद्-द्रविण-स्वाम्यं राजादेशाद् अवाप्य सा ।
प्रार्थिता राज-पुरुषैस् तस्थौ लीलावलम्बिनी ॥३६॥

अथाश्व-शाला-दिविरं स्वीकृत्य रति-बाडवम् ।
सा चक्रे जीव-लोकस्य स्व-नाम-परिवर्तनम् ॥३७॥

तल्-लाभ-सेवया नित्यं सा तस्य स्नान-कोष्ठके ।
विलास-स्खलितालापैर् दिविरस्याहरन् मनः ॥३८॥


कृत्वा लुण्ठिं दिवसम् अखिलं भूरि-भूर्ज-प्रयोगैर्

भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः ।
प्रातः स्नान-व्यतिकर-कला-दम्भ-सम्भावनाभूर्

माद्यं दाहं नयति दिविरः शान्तिम् अन्तर् जलेन ॥३९॥


प्रवृद्धापर-पुत्राथ दिविराराधन-व्रता ।
निखिलं जीव-लोकं सा विक्रीय धनम् आददे ॥४०॥

सा वेश्म-विक्रयादाने पुत्रैर् आकृष्य वारिते ।
गत्वाधिकरणं चक्रे मठि-भट्टोपसेवनम् ॥४१॥

उत्कोचारब्ध-सङ्घट्टैर् भट्टैः कूट-रथादिभिः ।
सादिष्टाभीष्ट-सम्पत्तिर् जग्राह जय-पट्टकम् ॥४२॥

गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्र-शङ्किनी ।
सा चित्रवेष-प्रच्छन्ना ययौ शाक्त-मठाश्रयम् ॥४३॥

कृष्णीकृत-श्वेत-कचा रङ्गाभ्यङ्गेन भूयसा ।
॰र् जलेव सा तत्र नव-पण्याङ्गनाभवत् ॥४४॥

चलित्वाभ्यागता ... वणिग्-वधूः ।
इति तस्याः प्रवादेन बभूवाधिक-विक्रयः ॥४५॥

सत्यासत्य-कथा-तत्त्वम् अविचार्यैव धावति ।
गतानुगतिकत्वेन प्रवाद-प्रणयी जनः ॥४६॥

क्षीण-जिह्वाधर-करा कोष-पानेन कामिनाम् ।
छिन्नाङ्गुलिः सा जग्राह राग-वेलां पुनः पुनः ॥४७॥

सा चौर-द्रविणादानाद् गृहीता शठ-चेटकैः ।
प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥४८॥

तत्र बन्धन-पालेन भुजङ्गाख्येन सङ्गता ।
निर्विकल्प-सुखा चक्रे मत्स्यापूप-मधु-क्षयम् ॥४९॥

साथ बन्धन-पालस्य गाढालिङ्गन-सङ्गमे ।
क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥५०॥

सा जिह्वा-च्छेद-निःसंज्ञं तम् आक्रन्द-विवर्जितम् ।
स्त्री-वेषं स्वांशुकैः कृत्वा जगामोत्क्षिप्त-शृङ्खला ॥५१॥

सा भग्न-निगडा प्राप्य रजन्यां विजयेश्वरम् ।
महामात्य-सुतास्मीति जगादानुपमाभिधाम् ॥५२॥

सा तत्र भोगमित्रस्य प्रीत्या रत्नैर् अवाकिरत् ।
पुराण-चित्र-रूपस्य यौवनस्याल्प-शेषताम् ॥५३॥


यत्नोत्क्षिप्त-कुचा कचायततया ... करे

बद्धापाटल-पट्टकेन सरल-स्थूलाञ्जन-व्यञ्जना ।
नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी

केयं नूतन-निर्गतेति विदधे सा मुग्ध-संमोहनम् ॥५४॥


ताम् एक-वारं दृष्ट्वैव नग्नां प्रथम-कौतुकात् ।
पथापि तेन वैरस्यान् न कश्चित् पुनर् आययौ ॥५५॥

शीत-शालेव शिशिरे दीप-मालेव वासरे ।
जीर्णा निर्माल्य-मालेव वेश्या कस्योपयुज्यते ॥५६॥

सा तत्र ग्राहकाभावान् मृष्यन्ती पथिकांश् चलान् ।
सन्ध्यायाम् अञ्चलाकर्षैः स्वल्प-भाटीम् अयाचत ॥५७॥

तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना ।
तत्र भैरव-सोमेन भिक्षा-भक्तार्ध-दायिना ॥५८॥


भस्म-स्मेर-शरीर-सञ्चित-रुचिर् दत्ताक्षि-जीवाञ्जना

बिभ्राणा स्फटिकाक्ष-सूत्रम् अमलं वैचित्र्य-मित्रं गले ।
निःसङ्कोच-निलीन-कञ्चुक-कचत्-सुस्तब्ध-बाहु-स्तनी

साभूत् क्षोभ-विधायिनी हत-धियां भिक्षा-क्षणे निर्गता ॥५९॥


जाते तत्राथ दुर्भिक्षे भिक्षाभक्ते’तिदुर्लभे ।
सा रात्रौ देव-मात्रादि ययौ हृत्वा तपस्विनः ॥६०॥

सा कृत्याश्रमकं गत्वा विहारं हारित-स्थितिः ।
भिक्षुकी वज्रघण्टाख्या बभूव ध्यान-निश्चला ॥६१॥


पात्रं तत्र गुणोचितं कर-तले कृत्वाथ भिक्षास्पदं

जीर्णं कामुक-कूट-राग-सदृशं काषायम् आदाय सा ।
चक्रे मुण्डन-मण्डनं परिणमत्-कूष्माण्ड-खण्डोपमं

पिण्डाप्त्यै विट-टक्कना-परिचय-श्रेणी-विहारं शिरः ॥६२॥


पट्वी मण्डल-शिक्षायै प्रणतानां सदैव सा ।
गृहे गृहे कुल-स्त्रीणां ददौ दौःशील्य-देशनाम् ॥६३॥

वश्य-प्रयोगैर् वेश्यानां वणिजाम् ऋद्धि-वर्धनैः ।
मन्त्र-वादेन मूर्खाणां सा परं पूज्यतां ययौ ॥६४॥

तत्रोपासक-दासेन मङ्गलाख्येन सङ्गता ।
सा गर्भं दम्भ-भोगानां मूर्तं विघ्नम् इवादधे ॥६५॥

विच्छिन्ने पिण्ड-पाते सा लम्बमान-महोदरी ।
प्रसूता धर्मम् उत्सृज्य जगाम नगरं पुनः ॥६६॥

कूट-केशवती तत्र चित्रसेनस्य मन्त्रिणः ।
पुत्र-जन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥६७॥

सार्ध-क्षीराभिधा धात्री सिंह-पाद-वृसी-स्थिता ।
बालोत्सङ्गा गृहं सर्वं ग्रासीकर्तुम् इवैक्षत ॥६८॥

क्षीर-सङ्क्षय-रक्षायै सम्प्राप्त-सरसाशना ।
सा मन्त्रि-भवने धात्रा धात्री पात्री-कृता श्रियः ॥६९॥


कण्ठे विद्रुम-मालिका श्रवणयोस् ताडी-युगं राजतं

स्थूल-स्थूल-विभक्ति-सक्त-वटक-प्राग्-भार-भाजौ भुजौ ।
गुल्फास्फाल-विलम्बि-कम्बल-घनारम्भा नितम्ब-स्थली

धात्र्याः सम्भृत-भोजनैर् अभिनवी-भूतं पुराणं वपुः ॥७०॥


ततस् तद्-अपचारेण शिशौ जात-ज्वरे व्यधात् ।
वैद्य-दत्तोपवासा सा मत्स्य-सूप-परिक्षयम् ॥७१॥


पानीयं विनिवारणीयम् अहितं भक्तस्य वार्तैव का

द्वित्राण्य् एव दिनानि धात्रि-दयया धात्री-रसः पीयताम् ।
जीवत्व् एष शिशुर् भजस्व विविधैर् अस्योत्सवैः सम्पदं

वैद्येनेति निवेद्यमानम् अकरोत् सा सर्वम् एवाश्रुतम् ॥७२॥


दृष्ट्वा तत्रातुरं बालं तृणवत्-सुत-रागिणी ।
सा ययौ निर्दया रात्रौ गृहीत्वा हेम-सूतिकाम् ॥७३॥

ततः प्रत्यन्त-विषये प्रभूत-च्छाग-गोचरा ।
ख्याता धनवती नाम स्फीतां चक्रे गृह-स्थितिम् ॥७४॥

साथ मेघापघातेन तस्मिन् पशु-धने वने ।
स्व-काय इव सापाये याते चर्मावशेषताम् ॥७५॥

गृहीत्वा पशुपालस्य स्थूलं निक्षेप-कम्बलम् ।
गत्वावन्तिपुरं चक्रे ताराख्यापूप-विक्रयम् ॥७६ ॥ क्रीत्वा गणेश-नैवेद्यम् अण्डकानां करण्डकम् ।
पुनः पाकोष्मणा नित्यम् अकरोद् विक्रयं पथि ॥७७॥

साभुङ्क्त गृह-नारीणां प्रभूतोज्जाम-तण्डुलम् ।
प्रभूत-लाभ-लुब्धानां मूलस्यापि परिक्षयः ॥७८॥

पान्थ-कन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा ।
मिथ्यासन्न-विवाहार्थम् अयाचत गृहे गृहे ॥७९॥

ततः सा पञ्जिका नाम द्यूत-शाला-पुरः-स्थिता ।
कपटाक्ष-शलाकानाम् अकरोद् गूढ-विक्रयम् ॥८०॥

सा पौष्पिकी मुकुलिका कृत्वा निर्माल्य-विक्रयम् ।
देव-प्रासाद-पालानां मूल्यं भुक्त्वा ययौ निशि ॥८१॥

ग्राम-यात्रासु सा वारि-सत्त्र-दात्री हिमाभिधा ।
रङ्ग-प्रेक्षण-बालानां निनाय वलयादिकम् ॥८२॥

सा नक्षत्र-परावृतिं कृत्वा षट्काष्टकेष्व् अपि ।
विवाहेष्व् अकरोद् यत्नं वर्णाख्या कूट-वर्णनैः ॥८३॥

गण-विज्ञानिका मुग्ध-प्रत्ययैः ख्यातिम् आययौ ।
नामाभिज्ञान-मात्र-ज्ञा न तु चौरान् विवेद सा ॥८४॥

भाव-सिद्ध्य्-अभिधाना सा देवता-वेश-धारिणी ।
उपहारान् प्रयच्छेति वदन्ती नावदत् परम् ॥८५॥

तत उन्मत्तिका भूत्वा सा नग्नालिङ्गिता श्वभिः ।
कुम्भा-देवीति विख्याता प्राप पूजा-परम्पराम् ॥८६॥

क्षिप्रोपदेश-लुब्धेन कुल-दासेन मन्त्रिणा ।
सार्चिता प्रययौ हृत्वा पूजा-राजत-भाजनम् ॥८७॥

साथ तक्षक-यात्रायां चल-हण्ठा दिन-त्रयम् ।
कल्प-पाली कला नाम विदधे मद्य-विक्रयम् ॥८८॥

कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः ।
रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥८९॥

ततः सा भूरि-धत्तूर-मधुना नष्ट-चेतसाम् ।
पान्थानां सर्वम् आदाय निशि शूर-पुरं ययौ ॥९०॥


एवं कृत्वा लवण-सरणौ भारिकं भर्तृ-संज्ञं

तस्मिन् निद्रा-वशम् उपगते रात्रिम् अन्यैः क्षिपन्ती ।
प्रातर् बद्ध्वा पृथु-कटि-तटं सङ्कटे दीर्घ-दाम्ना

मूर्ध्ना भारं दिवसम् अखिलं सा विलासैर् उवाह ॥९१॥


निःशुष्कैर् अतटैर् महा-हिम-पथैर् उल्लङ्घ्य घोरान् गिरीन्

बम्बा-नाम दिनावसान-समये मान्याङ्गना-रूपिणी ।
हेमन्ते वसनावगुण्ठित-मुखी पञ्चाल-धारा-मठे

शीतार्ता घन-लम्ब-कम्बलवती चक्रे स्पृहां कातरा ॥९२॥


साथ सत्यवती नाम वृद्धा ब्राह्मण्य-वादिनी ।
बभ्राम सागर-द्वीप-रशनाभरणां भुवम् ॥९३॥

क्वचिद् योग-कथाभिज्ञा क्वचिन् मासोपवासिनी ।
क्वचित् तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥९४॥

वेध-धूनन-धूपेन मूर्ख-श्रद्धा-विधायिनी ।
महतीं प्रतिपत्तिं सा लेभे भूपति-वेश्मसु ॥९५॥

सेना-स्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् ।
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥९६॥

केदाराम्बु-गया-श्राद्ध-गङ्गा-स्नानादि-वादिनी ।
तत्-फलं बन्धम् आधाय सार्थेभ्यः साग्रहीद् धनम् ॥९७॥

नष्ट-च्छायोपदेशार्थं सार्थिता पथि दस्युभिः ।
रूढा शिबिकया वर्षं प्रपलाय्य ययौ ततः ॥९८॥

चीनानकानाम् अण्डानि साथ रुद्राक्ष-संज्ञया ।
ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्य-वादिनी ॥९९॥

बिल-सिद्धि-धृत-श्रद्धा-गृहीताभरणाम्बरान् ।
सा चिक्षेपान्ध-कूपेषु पाताल-ललनोत्सुकान् ॥१००॥

अङ्ग-विद्ध-विषास्मीति सुस्निग्ध-विष-गण्डकैः ।
सा बबन्ध गले मालां विष-जाङ्गुलिकाभिधा ॥१०१॥

शुल्क-स्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।
मुहूर्त-मोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ ॥१०२॥


वर्षाणां मे सहस्रं गतम् अधिकतरं वेद्म्य् अहं धातु-वादं

सिद्धो मे वाक्-प्रपञ्चः करतल-कलितं त्रैपुरं काम-तत्त्वम् ।
उर्वर्यां गर्व-खर्वी-कृत-सकल-गुरु-ग्राम-भक्त्या तयास्याम्

इत्य् आख्यानेन नीताश् चरण-तल-लिहष् ठक्कुराः कुक्कुरत्वम् ॥१०३॥


पूजा-सज्जा भजन्ते जय-नुतिषु नतिं दिक्षु काम्बोज-भोजाः

सेवा-शुष्कास् तरुष्काः परिचरण-रसे किं च चीनाः प्रलीनाः ।
उत्कण्ठार्तास् त्रिगर्ताः परिचरण-विधौ पीडयन्त्य् एव गौडा

दम्भा-रम्भेण तस्या विदधति कुसुमोत्सङ्गताम् अङ्ग-बङ्गाः ॥१०४॥


भ्रान्त्वा महीं जल-निधि-प्रथिताम् अशेषां

माया-विनीति-विदिताविरतोन्नतिः सा ।
प्राप्ता पुनर् निज-पदं तनु-वीर-शेषा

क्षीणो’पि देहम् इव कस् त्यजति स्व-देशम् ॥१०५॥


सा सर्व-देश-परिशीलित-वेष-भाषा

प्रभ्रष्ट-भूपति-सुताहम् इति ब्रुवाणा ।
छिन्नाङ्गुलिर् दशन-खण्डित-नासिकाग्रा

लालाट-नील-तिलकैर् विदिता ममैव ॥१०६॥


सा चेत् प्रकीर्ण-धन-गेह-निधान-सर्पी

गृह्णाति लोभ-जननी जननी-पदं ते ।
तत्-कामि-लोक-सकलार्थ-समृद्धिम् एतां

यत्नाद् विना सुतनु हस्त-गताम् अवेहि ॥१०७॥


तस्मात् ताम् अहम् एव कूट-कुटिलां गत्वा स्वयं त्वत्-कृते

सर्वज्ञां सकलार्थ-सार्थ-सरणेः सिद्ध्यै समभ्यर्थये ।
किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया

नास्त्य् अन्या गतिर् इत्य् उदीर्य हित-कृत् तूर्णं ययौ नापितः ॥१०८॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चरितोपन्यासो नाम द्वितीयः समयः ।





[संपादित करें] तृतीयः समयः ( प्रदोष-वेश्यालाप-वर्णनम् )

अथ सर्वार्थ-जननीं जननीं वेश-योषिताम् ।
मित्रे स्वभाव-मलिनाम् आनेतुं गन्तुम् उद्यते ॥१॥

सङ्कोच-क्लेश-सञ्जातां शूरताम् इव रागिणाम् ।
आसन्न-श्री-वियोगानां स्वाप-ग्लानिर् अजायत ॥२॥

शनैर् दिन-धने क्षीणे स्वल्प-शेषाम्बरः परम् ।
अलम्बत क्षणं रागी सन्ध्या-धाम्नि दिनेश्वरः ॥३॥

सन्ध्यया क्षिप्र-रागिण्या निरस्तः परितापवान् ।
नीरागः सागर-जले चिक्षेप तपनस् तनुम् ॥४॥

ततस् तिमिर-सम्भारैर् वार-रामा-प्रसाधने ।
कृष्णागुरु-भरोद्भूत-धूप-धूमोद्गत-मायितम् ॥५॥

यामिनी-कामिनी-कीर्ण-केश-पाशोपमं तमः ।
दीप-चम्पक-मालाभिर् विश्रान्ति-नियमं ययौ ॥६॥

अथ स्व-वेश-वनिता-सापत्न्य-कलह-च्युतम् ।
अदृश्यत शशङ्कार्धं दन्त-पत्रम् इवामबरे ॥७॥

रजनी-रमणी-कान्ते दिनान्ते तुहिन-त्विषि ।
उदिते मुदिते लोके बभूव मदनोत्सवः ॥८॥


भुक्तां सहस्र-कर-सम्पदम् अम्बर-श्रीः

कृत्वा जन-स्मरण-मात्र-दशावशेषाम् ।
वेश्येव कामम् अनपेक्षित-पक्ष-पाता

क्षिप्रं शशाङ्क-विभवाभरणा बभूव ॥९॥


ततः कर्तुं प्रवृत्तेषु वेश्यावेश्माग्र-वर्त्मसु ।
विटेषु मधु-लुब्धेषु निर्व्यापारं गतागतम् ॥१०॥

द्वाराग्र-दत्त-कर्णासु ग्रहण-ग्रहणेप्सया ।
कुट्टनीषु तृणापाते’प्य् उन्मुखीषु मुहुर् मुहुः ॥११॥

दिन-कामुक-निर्माल्य-माल्य-ताम्बूलिनीं भुवम् ।
संमृज्य सज्ज-शय्यासु वेश्यास्व् अन्य-प्रतीक्षया ॥१२॥

आस्तीर्यमाण-खट्वान्तः किङ्किणी-क्वाण-संज्ञया ।
पारावतेषु विरुतैर् व्रजत्सु स्मर-वन्दिताम् ॥१३॥

गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।
पूर्वं किं नागतो’सीति वदन्तीष्व् अपरासु च ॥१४॥

उदराबद्ध-वसनैर् जटाग्रन्थि-निपीडनम् ।
कुर्वाणैर् वार-कलहे प्रारब्धे शठ-देशिकैः ॥१५॥

स्वयं मात्रा च युगपद् गृहीतं ग्रहण-द्वये ।
वारे प्राप्ते तृतीये च यान्तीष्व् अन्यास्व् अदर्शनम् ॥१६॥

अनायाते परिचिते प्रत्याख्याते नवागते ।
उभय-भ्रंश-शोकेन सीदन्तीष्व् अपरासु च ॥१७॥

भुक्तोज्झितानाम् अन्यासु पुनः प्राप्तार्थ-सम्पदाम् ।
जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥

यदि त्वां सा सुजननी न जानीयात् सुधा-मयम् ।
अभविष्यद् उपायो मे तत् को’सौ प्राण-धारणे ॥१९॥

नित्यावहार-कुपितं सर्वार्थैर् उपकारिणम् ।
ऋजुम् आवर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥

अन्य-नाम्ना प्रविष्टानां कलहे कूट-कामिनाम् ।
कुट्टनीषु रटन्तीषु घण्टारण-रणोत्कटम् ॥२१॥

प्रसुप्त-कटक-क्षीब-क्षीण-क्षुद्राभृते गृहे ।
सखी-भवनम् अन्यासु यान्तीष्व् आदाय कामुकम् ॥२२॥

बाल-मार्जारिकाह्वान-व्याजेनान्यासु वर्त्मनि ।
कटाक्षैः कलयन्तीषु दूरात् कामुकम् आमिषम् ॥२३॥

एकः स्थितो’न्तः प्राप्तो’न्यः परस्याद्यैव दुर्ग्रहः ।
किं करोमीति जननीं पृच्छन्तीष्व् अपरासु च ॥२४॥

निशा दीर्घा नवः कामी तनयेयं कनीयसी ।
व्यत्येति काल-हाराय वृद्धा-वर्गे कथोद्यते ॥२५॥

नाज्ञाताद् गृह्यते भाटी चरन्ती म्लेच्छ-गायनाः ।
इत्य् अन्यासु वदन्तीषु शून्य-शय्यासु लज्जया ॥२६॥

आयाते वार्यमाणे’पि निर्माणे क्षीण-कामुके ।
व्याज-कुक्षि-शिरः-शूला-क्रन्दिनीषु परासु च ॥२७॥

मुग्ध-कामुक-मित्राणां स्वेच्छया व्यय-कारिणाम् ।
प्रस्तुते स्थिर-लाभाय कुट्टनीभिर् गुण-स्तवे ॥२८॥

लज्जामहे वयं स्वल्प-धनेनेति विभाविनि ।
गण्यमाने दश-गुणे धूर्तैः प्रथम-कामिनाम् ॥२९॥

प्रवास-सक्तेर् अधिकारि-सूनोः स्थितावरुद्धा तनया ममेति ।
काचिद् वदन्ती विजने विगूह्य जग्राह भाटीं त्रिगुणां समृद्धात् ॥३०॥


अल्पं ममैतद् दुहितुर् न योग्यं

न च क्षणो’स्ति त्वम् अदृष्ट-पूर्वः ।
इति ब्रुवाणापि विटं पटान्ते

गाढं गृहीत्वा न मुमोच काचित् ॥३१॥


अमात्य-पुत्रेण सुताद्य नीता

क्षमस्व रात्रिं प्रणयान् ममैकाम् ।
उक्त्वेति काचिज् जरती चकार

रिक्तस्य सक्तस्य च विप्रलम्भम् ॥३२॥


दातव्यं न ददाति वार-विरहे टक्वो‘द्य लब्ध-स्थलः

क्रूरः सैन्य-पतिः प्रयाति रिपुतां सद्यैव वारं विना ।
वृत्तिर् देव-गृहात् कथं नु दिविरे वारोज्झिते लभ्यते

वाटी-पेटक-वारतां गतवती प्रोवाच काचित् सखीम् ॥३३॥


अन्यास् ताः सखि कूट-पाश-निचयैर् आकृष्ट-मुग्ध-श्रियः

कुर्मः किं वयम् एव वञ्चन-कलां जात्या न जानीमहे ।
सद्-भावे सततं स्वभाव-विमुखः सर्वाभिशङ्की जनो

वाक्यैः काचिद् इति प्रकाशम् अकरोत् सक्तार्जवावर्जनम् ॥३४॥


सकलैव सा रसवती नीता क्षणेन क्षपा

पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः ।
इत्य् उद्वेग-परिग्रह-ग्लपित-धीः पृष्टः सहासैर् विटैर्

व्याचष्टे कटु-कुट्टनी-कुटिलताम् अक्लिष्ट-कूटां विटः ॥३५॥


नास्मद्-गेह-प्रवेशः सगुण-जन-कथा-केलि-मात्रोपचारैर्

व्यापारारम्भ-सार-प्रवसद्-अवसरे वासरे कामुकानाम् ।
वृत्तिर् वृत्तानुरोधात् कथम् अपि विदिताद् गृह्यते यामवत्याम्

इत्य् उच्चैः काचिद् ऊचे बहु-गत-गणिका-वर्ग-गर्वोपशान्त्यै ॥३६॥


कुरु तरलिके हारं कण्ठे गृहाण मनोहरे

वलय-युगलं लीले लोलां विलोकय मेखलाम् ।
भज मलयजं चित्रे रात्रिः प्रयाति कठोरताम्

इति चतुरताचार्यस् तासाम् बभूव सखी-जनः ॥३७॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां प्रदोष-वेश्यालाप-वर्णनम् नाम तृतीयः समयः ।




[संपादित करें] चतुर्थः समयः ( पूजाधरोपन्यासः )

अस्मिन्न् अवसरे धूर्त-वार्ता-लीना सुकुट्टनी ।
नापिताख्येन तमसा रजनीव सहाययौ ॥१॥

अस्थि-यन्त्र-शिरा-तन्त्री लीनान्त्रोदर-कृत्तिका ।
शुष्क-काय-करङ्काङ्कावृतेव कट-पूतना ॥२॥

वहन्ती सुबहु-च्छिद्रं शरीरं चर्म-बन्धनम् ।
अन्तर्गत-जगद्-व्याज-शिक्षा-शकुनि-पञ्जरम् ॥३॥

सर्वस्व-ग्रहणेनापि लम्बमान-मुखी सदा ।
तुलेवाङ्क-सहस्राङ्का त्रैलोक्य-तुलने कलेः ॥४॥

समा समधने पापे स-पापाधमगाधमे ।
धात्रा कृत्रिम-रागस्य स्वर-मालेव निर्मिता ॥५॥

सुस्पष्ट-दृष्ट-दीर्घोग्र-दशना भीषणाकृतिः ।
प्रसव-क्रूर-कोपेन संस्थितास्थिरता शुनी ॥६॥

उलूक-वदना काक-ग्रीवा मार्जार-लोचना ।
निर्मिता प्राणिनाम् अङ्गैर् इव नित्य-विरोधिनाम् ॥७॥

वेश्यावनैक-पालिन्या यया राग-महा-व्रते ।
कृता कामुक-लोकस्य खट्वाङ्ग-शरणा तनुः ॥८॥

सक्ताश्रु-पात-जननीं तां विलोक्य कलावती ।
अभिचार-हुतस्याग्नेः कालीं धूम-शिखाम् इव ॥९॥

स-सम्भ्रमोत्थिता तस्याः कृत्वा चरण-वन्दनम् ।
दत्त्वा निजासनं चक्रे स्तुतिं पूजा-पुरःसरान् ॥१०॥


वेश्योपदेश-विषये चतुराननत्वान्

माया-प्रपञ्च-निचयेन जनार्दनत्वात् ।
रिक्त-प्रसक्त-कलहैर् अतिभैरवत्वात्

सर्ग-स्थिति-क्षय-विधातृ-गुणा त्वम् एव ॥११॥


उद्भिन्न-यौवन-मनोहर-रूप-शोभा-

सम्भाविताभिनव-भोग-मनोभवानाम् ।
एणीदृशां त्वद्-उपदेश-विवर्जितानां

मातर् भवन्ति नहि नाम समीहितार्थाः ॥१२॥


तस्माद् भजस्व परिकल्पित-पुत्रिकां मां

भक्ताम् अनन्य-शरणां शरणं प्रपन्नाम् ।
आत्मार्पण-प्रणयिनां नव-दर्शने’पि

जात्यैव पेशल-धियः सदया भवन्ति ॥१३॥


इत्य् अर्थिता कलावत्या प्रत्यासन्न-सुख-स्थितिः ।
मनुष्यामिष-कङ्काली कङ्काली ताम् अभाषत ॥१४॥

सङ्क्रान्त-हृदय-स्नेहा निःशूल-प्रसवोद्भवा ।
गर्भ-भारं विना पुत्रि त्वं सुताभिमता मम ॥१५॥

कङ्केन जन्म-सुहृदा त्वद्-अर्थम् अहम् अर्थिता ।
स्यूतेयं मे विट-च्छिन्ना नासा येन पुनः पुनः ॥१६॥

पात्रं मद्-उपदेशस्य त्वम् एव त्रिदशोचिता ।
सद्-भित्ति-लिखितं चित्रं चित्रताम् एति नेत्रयोः ॥१७॥

श्रूयतां प्रथमं पुत्रि भूत्यै यत् कथयाम्य् अहम् ।
कला-कोषं तु कालेन नित्याभ्यासाद् अवाप्स्यसि ॥१८॥

न कुलेन न शीलेन न रूपेण न विद्यया ।
जीविताभ्यधिकं बुद्धि-लभ्यं धनम् अवाप्यते ॥१९॥

प्रायेण जगति प्रज्ञा नाना स्ति कस्यचित् ।
इयतीं जगतीं वेद्मि पूर्णाम् ऊर्णायिभिर् जडैः ॥२०॥


अज्ञात-कालोचित-कर्म-योगा

रोगा इवाहर्निश-पच्यमानाः ।
जगत्-त्रये देव-मनुष्य-नागाः

प्रज्ञा-दरिद्राः खलु सर्व एव ॥२१॥


ज्येष्ठेन तावत् परमेष्ठिनैव

विचार-शून्येन कृतं किम् एतत् ।
यत् कामिनी-पीन-पयोधराणां

विद्युद्-विलोला किल यौवन-श्रीः ॥२२॥


का नाम बुद्धि-हीनस्य विधेर् अस्ति विदग्धता ।
कूष्माण्डानां न यश् चक्रे तैलम् ऊर्णां च दन्तिनाम् ॥२३॥


रत्नार्थिना जलनिधौ मधुसूदनेन

क्लेशः किलाद्रि-वलन-प्रभवो’नुभूतः ।
किं सैव पूर्वम् अखिलार्थ-विलुण्ठनाय

कान्ताकृतिः कपट-काम-मयी न सृष्टा ॥२४॥


निद्रा मही-भार-परिग्रहश् च

श्री-संश्रयत्वं पर-याचनं च ।
अत्युन्नतत्वं गुण-हीनता च

किं युक्तम् एतत् पुरुषोत्तमस्य ॥२५॥


कृशः शशी गुणा नग्ना भार्या वस्त्रार्ध-हारिनी ।
शम्भोर् धनपति-प्रीतिर् न विद्मः क्वोपयुज्यते ॥२६॥

भस्माङ्गः प्रकटं बिभर्ति ललनां यो’ङ्गे स किं युक्त-कृन्

निःसङ्गः सततं गुणेषु रमते यः किं स सत्यव्रतः ।
यः सक्तः परमेश्वरो’पि वृषभृद्-वर्गे स किं नीतिमान्

गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धी-धनः ॥२७॥


किं कामिनी-प्रणयिना दिन-नायकेन

संशातितं भ्रम-कृता कृतिना स्व-तेजः ।
अर्थेन किं न विहिताभिमुखा मृगाक्षी

वित्तेन तीक्ष्णतरम् अप्य् अबला सहेत ॥२८॥


चन्द्रस्येश्वर-सेवया कृश-तनोः क्षैण्यं न निर्मूलितं

मानी मूर्ध्नि जडः स्थितः कथम् इव प्राप्नोति सम्पूर्णताम् ।
वृद्ध्य्-अर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं

हन्त्य् एव स्व-समीहितं गुण-मदाद् उच्चैः स्थितः सेवकः ॥२९॥


यातः प्रतारयितुम् ईश्वरम् अङ्गनायां

मारः पुरा किम् इति कार्मुक-बाण-पाणिः ।
नाग्रे ततान वनिता-गुण-वर्णनानां

यत् सौ तेन नियतं विननाश मूर्खः ॥३०॥


रक्तो’प्य् अशोक-विटपी परपुष्ट-बन्धोः

प्राप्नोति यस्य विभवे चरण-प्रहारम् ।
तस्मै समृद्दि-सचिवैर् मधुपैर् निपत्य

धूतैर् निपीत-मधवे मधवे नमो’स्तु ॥३१॥


स्वाम्यं सर्व-जगत्सु दिव्य-मुनयस् तत्रोचिता मन्त्रिणो

राष्ट्रं स्वर्ग-मही महा-मणि-गुरुः कोषः सुधाम्भोनिधिः ।
दुर्गं मेरु-शिरः स्व-सैन्यम् अमराः श्रीमान् मुरारिः सुहृत्

सा बुद्धिर् विबुधाधिपस्य तु यया व्याप्तं भगाङ्कैर् वपुः ॥३२॥


लुब्धस्याफल-कालकूट-कटुक-क्रोधस्य निस्तेजसः

सर्वाक्रान्ति-निपीडितस्य जलधेर् दातुं प्रवृत्तस्य ते ।
सङ्ख्यातीत-समस्त-रत्न-वसतेर् मूर्खाः किइम् एतावता

मोहाद् एक-गजाश्व-पादप-सुरा-मात्रेण तुष्टाः सुराः ॥३३॥


रामेण हेम-हरिणाहरणोत्सुकेन

कूटाक्ष-केलि-सरणेन युधिष्ठिरेण ।
ईर्ष्या-रुषा दिव्ज-रुषा जनमेजयेन

दत्तः परं मनुज-वर्त्मनि मौग्ध्य-सेतुः ॥३४॥


नागैस् तार्क्ष्य-समर्पितं तद् अमृतं यत्न-श्रमैर् दुर्लभं

नो पीतं न विलोकितं न पिहितं मोहात् परं हारितम् ।
तस्मान् नास्ति जगत्-त्रये’पि विमलः प्रज्ञा-कणः कस्यचित्

सर्वः प्राक्तन-जन्म-कर्म वशाद् अर्थोद्यमे धावति ॥३५॥


एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
बुद्धि-हीन-प्रसादेन जीवामः केवलं वयम् ॥३६॥

मुग्धः प्रत्ययम् आयाति प्रत्यक्षे’प्य् अन्यथा कृते ।
माया-प्रपञ्च-सारश् च वेश्यानां विभवोद्भवः ॥३७॥

पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः ।
ताम्बूल-कल्क-कलितं ष्ठीवितं हास्य-लीलया ॥३८॥

मुग्धस् ततो’वमानेन सो’भिजातो’भिमानवान् ।
जन-संसदि जज्वाल क्रोधाद् आत्म-वधोद्यतः ॥३९॥

साधो धातु-प्रकोपेन मिथ्या पश्यसि विभ्रमम् ।
न मया ष्ठीवितं किञ्चिद् भित्तौ पाणिः प्रमृज्यताम् ॥४०॥

जात्या चर्म-मयं चक्षुस् तस्मिन् कः प्रत्ययस् तव ।
मम सद्-भाव-शीलायाः प्रमाणं वचनं न किम् ॥४१॥

इत्य् उक्त्वा तीव्र-शपथैर् गलहस्तादि-वादनैः ।
स मया प्रकृतिं नीतस् तथेति प्रत्ययं ययौ ॥४२॥

पदे पदे जगत्य् अस्मिन् निधिर् देवेन निर्मितः ।
विट-चारण-वेश्यानां बुद्धि-हीनावलम्बनम् ॥४३॥

नव-यौवन-काले मे गृहं विप्र-सुतः पुरा ।
विवेश रात्रि-भोगाय नाम्ना शङ्कर-वाहनः ॥४४॥

शाण्ठ्याद् इवातिकठिनं पीनं प्रथम-यौवनम् ।
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहम् अचिन्तयम् ॥४५॥

कठिनो’यं निशा दीर्घा क्षपिता कामुकैर् अहम् ।
तस्माद् भोगावहारो’स्य मया कार्यः प्रयत्नतः ॥४६॥

इति सञ्चिन्त्य सुचिरं मया तैस् तैः कथा-क्रमैः ।
आसन्न-शय्यावसरे यामः पूर्वो’तिवाहितः ॥४७॥

कथा-बन्धे’थ विरते तत्-सङ्गम-निवृत्तये ।
शूलापदेशेन मया कृतः कृतक-निःस्वनः ॥४८॥

सो’थ मुग्धः प्रकृत्यैव सत्य-प्रत्यय-मोहितः ।
चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्ग-मर्दनम् ॥४९॥

सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः ।
प्रययौ सोपरोधेव क्षणदा क्षणवन् मम ॥५०॥

ततः प्रभाते तद्-भोग-वञ्चने चिन्तितं मया ।
पशु-बुद्धिर् वराको’यं मया शूलेन वाहितः ॥५२॥

अनेन मेष-मुग्धेन दत्ता भाटी चतुर्गुणा ।
भोगावहार-न्यायेन ध्रुवं ताम् अनुयाचते ॥५३॥

तस्माद् एव रति-स्पृष्टीकार्यस् तावद् यथा तथा ।
न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥५४॥

इति ध्यात्वाहम् आरब्ध-रति-भोगा क्षपा-क्षये ।
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥

आरूढ-रति-यन्त्रो मे शूल-क्लेश-कृपाकुलः ।
अलं मत्-सङ्गमेनेति सानुरोधो’वदत् स माम् ॥५६॥

आवर्जनाय तस्याथ निर्व्याजार्जव-चेतसः ।
मया मिथ्या-प्रियालापैर् विहितो रञ्जन-क्रमह् ॥५७॥

अहो बतामृत-स्पर्शस् तवाङ्गेषु विभाव्यते ।
अधुनैव मया दृष्टं यस्य प्रत्यक्ष-लक्षणम् ॥५८॥

गूढाङ्गेन त्वया स्पृष्टे ममास्मिन् रमण-स्थले ।
न जाने क्व गतं शूलं मत्-पुण्यैस् त्वम् इहागतः ॥५९॥

इति श्रुत्वैव मद्-वक्यम् सहस साश्रु-लोचनह् ।
रत्य्-अर्ध-रवितः शोकात् सो’न्तः सानुशयः परम् ॥६०॥

निजं वक्षो ललाटं च ताडयित्वा स पाणिना ।
हा कष्टं हा हतो’स्मीति वदन् माम् इदम् अब्रवीत् ॥६१॥

पूर्वं नैतन् मया ज्ञातं यन् मद्-अङ्ग-समागमः ।
शूलं हरति नारीणां मणि-मन्त्रौषधादिवत् ॥६२॥

मन्द-पुण्यस्य जननी वात्सल्य-जननी मम ।
सुचिर-स्थायिना भद्रे शूलेन निधनं गता ॥६३॥

विदितो’यं प्रकारश् चेद् अभविष्यद् असंशयः ।
तज्-जनन्या वियोगो मे नाभविष्यद् विचेतसः ॥६४॥

इत्य् उक्त्वा वञ्चितो’स्मीति स रुदित्वा विनिर्ययौ ।
पुरुषाकार-सन्दिग्ध-निर्विषाण-वृषोपमः ॥६५॥


नित्यं भोजन-मैथुन-प्रणयिनस् त्यक्तान्य-कार्याः परम्

लोके’स्मिन् गल-गर्त-मात्र-सुखिनः सन्त्य् एव शून्याशयाः ।
ये मेष-प्रतिमाः क्षयोद्यत-मतेः सर्वस्व-हर्तुः क्षणाद्

आप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कम् अङ्के शिरः ॥६६॥


इत्य् अबुद्धि-धनाधान-निधानैर् विविधोदयैः ।
कूट-पुण्यैर् असामान्यैस् तारुण्यम् अतिवाह्यते ॥६७॥

असत्येनैव जीवन्ति वेश्याः सत्य-विवर्जिताः ।
एताः सत्येन नश्यन्ति मद्येनैव कुलाङ्गनाः ॥६८॥


सत्यं विनाशाय पराङ्गनानां

असत्य-सारा गणिका-गण-श्रीः ।
सत्येन वेश्या किल दृष्ट-सारा

दरिद्र-शाला इव कस्य सेव्याः ॥६९॥


दानेन नश्यति वणिङ् नश्यति सत्येन सर्वथा वेश्या ।
नश्यति विनयेन गुरुर् नश्यति कृपया च कायस्थः ॥७०॥

वेश्या-जनस्य कितवस्येव वञ्चन-मायया ।
अहो वैदग्ध्यम् इत्य् उक्त्वा परो’पि परितुष्यति ॥७१॥

पुराथ पृथिवीम् एतां भ्रान्त्वा जलधि-मेखलाम् ।
प्राप्ता वेश्यास्पदं लोभात् पुरं पाटलिपुत्रकम् ॥७२॥

कुट्टन्यस् तत्र सर्वज्ञा दृष्ट्वा माम् अल्प-कौशलाम् ।
जहसुः स-स्वनं येन ह्रीताहं क्ष्माम् इवाविशम् ॥७३॥

ततस् तेनावमानेन गणेशायतनाग्रतः ।
स्थिता कृतोपवासाहम् अहङ्कार-विवर्जिता ॥७४॥


अथ स्वप्ने गणेनाहं पृष्टा शङ्कर-सूनुना ।
उपवासाः कियन्तस् ते प्राप्ता इति पुनः पुनः ॥७५॥

स मयाभिहितः कूट-कृत-प्राणान्त-चेष्टया ।
मास-द्वयम् अतिक्रान्तं व्रताद् अनशनस्य मे ॥७६॥

तच् छ्रुत्वा स स्मित-मुखः सर्वज्ञः प्राह मां गणः ।
अहो व्रते’पि स्वप्ने’पि नासत्याद् अस्ति ते च्युतिः ॥७७॥

परितुष्टो’स्मि ते भद्रे निश्चलासत्य-निश्चयात् ।
महामायामय-कला लब्ध-भोगा भविष्यसि ॥७८॥

गणेशानुचरः पूर्वम् इति मह्यं वरं ददौ ।
असत्येनैव वेश्यानां भवन्ति धन-सम्पदः ॥७९॥


धन-प्रधानं जन-जीव-भूतं

लोकेषु तत्रापि विशेष-योगात् ।
जनाभिसार-प्रतिपत्ति-भाजां

महीभुजां वेश-मृगीदृशां च ॥८०॥


धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् ।
प्रज्ञार्थौ जीव-लोके’स्मिन् परस्पर-निबन्धनौ ॥८१॥

ईश्वरः स जगत्-पूज्यः स वाग्मी चतुराननः ।
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥

स एवाहृदयो राहुर् अलसः स शनैश्चरः ।
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥

सुजातस्य प्रयातस्य माङ्गल्य-स्पृहणीयताम् ।
धनिकस्य विकारो’पि क्षीबस्येव जन-प्रियः ॥८४॥

धनिनश् चन्दनस्येव सच्-छायस्य मनो-मुषः ।
निष्फलस्यापि लोको’यं सम्पर्कं बहु मन्यते ॥८५॥

निस्त्रिंशा अपि स-स्नेहा भवन्ति श्रीमतः परम् ।
स्व-केशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥

सेव्यः कवि-बुधादीनां गुरुः शूर-कलावताम् ।
गति-प्रदो’र्थवान् एव व्योम-मार्ग इवोन्नतः ॥८७॥

विक्रीय स्व-गुणं निःस्वः स्वयं मांसम् इव द्विजः ।
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥

गुणिनां चित्त-वैकल्याद् गुणा निर्गुण-वाञ्छया ।
हृदयेष्व् एव सीदन्ति विधवानाम् इव स्तनाः ॥८९॥


विद्वद्भिः परिवारिताः सगुणताम् आयान्ति वित्तैर् नराः

शूरत्वं सुभतैः कुलोन्नततरैः प्रख्यात-सद्-वंशताम् ।
तस्माद् वित्त-समाश्रये गुण-गणे वित्ते च नान्याश्रये

वित्तं वित्तम् अनन्य-चित्त-नियताः सम्पन्-निमित्तं नुमः ॥९०॥


अम्लान-माल्याभरणाम्बरस्य

वराङ्गना-नन्दन-मन्दिरस्य ।
नित्य-प्रकाशोत्सव-सेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥९१॥

अशेष-दोषापगम-प्रकाश- मित्रागमोत्साह-महोत्सवार्हम् ।
विकास-शोभां जनयत्य् अजस्रं

धनं जनानां दिनम् अम्बुजानाम् ॥९२॥


वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः

सद्भिर् जन्तुर् उपैति साधु-पदवीं किं वा बहु ब्रूमहे ।
वित्तेन व्रत-तीर्थ-सार्थ-सरण-क्लेशाभियोगं विना

तीर्यन्ते तत-पातक-व्यतिकरास् ते ब्रह्म-हत्यादयः ॥९३॥


श्रूयतां यत् पुरा वृत्तं वाराणस्यां स्वयं मया ।
श्रुतं विश्रुत-सत्त्वस्य चरितं गृहमेधिनः ॥९४॥

तत्राभवद् ग्र्हपतिर् धरातल-धनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिर् इव रत्नवान् ॥९५॥

अर्थि-कल्पतरोस् तस्य राजार्ह-वर-भोजनैः ।
अवारितम् अभूद् गेहे भोज्य-सत्त्रं सदार्थिनाम् ॥९६॥

तस्य विप्र-सहस्रेषु भुञ्जानेषु सदा गृहे ।
लोके युधिष्ठिर-कथा श्लथादर-कथां ययौ ॥९७॥

ततः कदाचिद् आचार-निधेस् तस्य समाययौ ।
नियतात्मा यतिर् गेहं ज्ञानात्मा नाम दिव्य-धीः ॥९८॥

स पूज्यः पूजितस् तेन श्रद्धयोपनिमन्त्रितः ।
पाक-शालां ययौ द्रष्टुं भक्ष्य-राशि-शतान्विताम् ॥९९॥

तत्रापश्यत् स सर्वान्न-व्यञ्जनादि-गणोपरि ।
सित-यज्ञोपवीताङ्कं लम्बमान-तनुं शवम् ॥१००॥

स्रवद्भिस् तस्य गात्रेभ्यः सूक्ष्म-शोणित-बिन्दुभिः ।
अन्नं सर्व-जनादृष्टैः सिच्यमानं ददर्श सः ॥१०१॥

दृष्ट्वा तद् अतिबीभत्सं घृणा-सङ्कुचिताशयः ।
संस्पृष्ट-कर्णः स ययौ ततस् तूर्णम् अलक्षितः ॥१०२॥

अथ संवत्सरे याते पुनर् अभ्येत्य कौतुकात् ।
सो’पश्यन् मांस-हीनम् तत् स्नायु-बद्धं कलेवरम् ॥१०३॥

शिरामुख-शतैस् तस्य क्लिन्न-स्नेह-कणैश् चितम् ।
स दृष्ट्वा भोज्यम् अगमज् जुगुप्सा-मीलितेक्षणः ॥१०४॥

वर्षेण पुनर् आयातः सो’स्थि-शेष-शव-स्रुतैः ।
अन्न-व्यञ्जनम् अद्राक्षीद् व्याप्तं द्वित्रैर् वसा-कणैः ॥१०५॥

कौतुकाद् वत्सरे याते सो’पश्यत् पुनर् आगतः ।
कपाल-शेष-कलनाद् अन्नोपरि रजश् च्युतम् ॥१०६॥

षड्भिर् मासैर् अथायातः शुद्धं शव-विवर्जितम् ।
रम्यं महानसं दृष्ट्वा पुरोहितम् उवाच सः ॥१०७॥

अहो गृहपतेर् अस्य महा-सत्रेण पातकम् ।
क्षीनम् अल्पेन कालेन लीढं याचक-कोटिभिः ॥१०८॥

बभूव पूर्व-पुरुषोपार्जितास्य गृहाश्रया ।
ब्रह्म-हत्या शतवती सात्र दानात् क्षयं गता ॥१०९॥

यैस् तस्य भवने भुक्तं तैस् तत्-पापं समाहृतम् ।
पापम् अनाश्रयं पुंसां होक्तारम् उपसर्पति ॥११०॥

ब्रह्म-हत्या भवस्यापि या बभूव भय-प्रदा ।
धनेन क्षपिता सेयम् अहो धनम् अहो धनम् ॥१११॥

इत्य् उक्त्वा स शिला-पट्टे लिखित्वा श्लोकम् आदरात् ।
पुरोहितेनार्च्यमानः प्रययौ ज्ञान-लोचनः ॥११२॥

वाच्यमानः स विद्वद्भिः कस् तवाद्भुत-वादिभिः ।
श्लोकार्थ-गौरव-रसान् मया तत्र स्वयं श्रुतः ॥११३॥


शमयति चितं पापं शापं विलुम्पति दुःसहं

कलयति कुलं कल्याणानाम् कलङ्क-कणोज्झितम् ।
धनम् अकलुषं तीर्थं पुंसां तद् एव महत् तपः

सुकृत-निधये श्रद्धा-धाम्ने धनाय नमो नमः ॥११४॥


एतद् आकर्ण्य युक्तार्थम् अर्थ-स्तुति-मयं मया ।
नीतं दशापदेशानां समये सार-तन्त्रताम् ॥११५॥

कुरु चित्तार्जनं तूर्णं भवति योषिता ।
न यौवन-सहायो’यं तनये काय-विक्रमः ॥११६॥

तनु-वल्ली-वसन्त-श्रीर् वदनेन्दु-शरन्-निशा ।
पयोधरोद्गम-प्रावृट् चपला यौवन-द्युतिः ॥११७॥

तारुण्ये तरले सुभ्रूर् भ्रमद्-भ्रू-भङ्ग-विभ्रमे ।
स्त्रीणां पीन-स्तनाभोगा भोगा द्वि-त्रि-दिनोत्सवः ॥११८॥


अयं मुख-सरोरुह-भ्रमर-विभ्रमः सुभ्रुवां

कुच-स्थल-कुरङ्गकः पृथु-नितम्ब-लीला-शिखी ।
न यौवन-मदोदयश् चरति चारु-कान्ति-च्छटा-

कुल-त्रिवलि-कूलिनी-पुलिन-राजहंसश् चिरम् ॥११९॥


आलानम् उन्मूल्य सुखाभिधानं

तारुण्य-नागे गमनोद्यते’स्मिन् ।
पलायते कामि-गणे’ङ्गनानां

विमर्द-भीत्येव कुचाः पतन्ति ॥१२०॥


युवति-तटिनी-प्रावृट्-कालः स-पीन-पयोधरः

कृत-मद-भरारम्भः कामी विलास-शिखण्डिनाम् ।
मदन-पवनालोल ॥१२१॥


क्रीडा-वल्ली-कुसुम-समये राग-पद्माकरार्के

दर्पोद्याने वदन-शशभृत्-कौमुदी-कार्तिके’स्मिन् ।
याते मुग्ध-द्रविण-तुलया यौवने कामि-मित्रे

पण्य-स्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥१२२॥


न तु यौवन-मात्रेण लभन्ते ललनाः श्रियम् ।
भोगार्हा वृद्ध-करिणी तरुणी हरिणी वने ॥१२३॥

रूपवत्य् अद्भुतास्मीति कान्ते त्याज्यस् त्वया मदः ।
वने मयूराः शुष्यन्ति बलिम् अश्नन्ति वायसाः ॥१२४॥

पूर्णां वक्र-चलां ते जनाः ।
क्षीणो’पि वृद्धिम् आयाति कुटिलैक-कलः शशी ॥१२५॥


भ्रू-युग्मं कुसुमेषु-कार्मुक-लता-लावण्य-लीला-हरं

वक्त्रं न्यक्-कृत-चन्द्र-बिम्बम् अधरो बिम्ब-प्रभा-तस्करः ।
रूपं नेत्र-रसायनं किम् अपरं सुश्रोणि तत्रापि ते

शिक्षा-हीनतया मद-द्विरदवत् प्राप्नोति नार्थाक्रियाम् ॥१२६॥

तवेयं यौवन-तरोश् छाया विस्मय-कारिणी ।
यया कामुक-लोकस्य स्मर-तापः प्रवर्तते ॥१२७॥

राग-सागर-सञ्जात-विद्रुम-द्रुम-पल्लवैः ।
तवाधरे स्मित-रुचिः करोति कुसुम-भ्रमम् ॥१२८॥


भाति सुचन्दन-तिलकं

कालागुरु-कुटिल-पल्लवाभरणम् ।
वदनं नन्दनम् एतद्

भ्रू-लतिकालास्य-ललितं ते ॥१२९॥


यातः सुन्दरि सुतरां स्तन-भार-परिश्रमः शनकैः ।
प्रोषित-शैशव-शोकाद् इव मध्यः कृशतरत्वं ते ॥१३०॥

तथाप्य् उपाय-शून्येन रूपेणानेन सुन्दरि ।
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव सम्पदः ॥१३१॥


गुणवती ललितापि न शोभते

तनुतरार्थ-कदर्थनयान्विता ।
सुकवि-सूक्तिर् इवार्थवती

परं व्रजति वेश-वधूः स्पृहणीयताम् ॥१३२॥


संसक्तेषु सुरामयी धन-गुणाधानेषु लक्ष्मी-मयी

स्फीतार्थेषु सुधा-मयी विषमयी निष्क्रान्त-वित्तेषु च ।
वेश्या शङ्ख-मयी नितान्त-कुटिला सद्-भाव-लीनेषु या

देवानाम् अपि सुभ्रु मोह-जननी क्षीरोद-वेलेव सा ॥१३३॥


इति तया वचनामृतम् अर्पितं

श्रवण-पेयम् अवाप्य कलावती ।
जननि मे द्रविणाधिगमोचितं

परिचयं कथयेति जगाद ताम् ॥१३४॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां पूजाधरोपन्यासो नाम चतुर्थः समयः ।




[संपादित करें] पञ्चमः समयः ( राग-विभागोपन्यासः )

अथ मन्मथ-मत्तानं करिणाम् इव कामिनाम् ।
बन्धाय बन्धकी-शिक्षाम् आचचक्षे जरच्-छिखा ॥१॥

श्रूयतां पुत्रि सर्वत्र विचित्रोपाय-वृत्तये ।
मया दुहितृ-वात्सल्याद् अर्थ्यं किंचित् तद् उच्यते ॥२॥

पूर्वं भाव-परीक्षैव कार्या यत्नेन कामिनाम् ।
ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥

कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् ।
लाक्षा-रागो’थ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥

हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः ।
सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥

रागः सीसक-संज्ञश् च लौहो मणि-समुद्भवः ।
काच-रागस् तथा शैलो ह्य् अष्टौ धात्व्-अनुकारिणः ॥६॥

सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च ।
वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥

राहु-रागो’ष्टमश् चेति रागा गगन-सङ्गिनः ।
श्रोत्र-रागो’क्षि-रागश् च रसना-संश्रयस् तथा ॥८॥

त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः ।
अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥

वृष-रागो’श्व-रागश् च कृकलासाह्वयस् तथा ।
मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥

मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः ।
शुक-रागो हंस-रागस् तथा पारावताभिधः ॥११॥

मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः ।
कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥

केश-रागो’स्थि-रागश् च नखाख्यः पाणि-सङ्गतः ।
दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥

कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः ।
छाया-रागस् तथा भूत-रागो’पस्मारवान् अपि ॥१४॥

ग्रह-रागो’थ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् ।
पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥

कौसुमः कुम्भ-रागश् च नारङ्गाङ्को’थ दाडिमः ।
मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥

भ्रामरो’प्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः ।
भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥

रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः ।
संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयताम् इदम् ॥१८॥

कौसुम्भो रक्षितः स्थायी क्षणान् नाश्यत्य् उपेक्षितः ।
स्वभाव-रूक्षः सैन्दूरः स्नेह-श्लेषेण धार्यते ॥१९॥

अल्प-लीनः सुखायैव घनो दुःखाय कौङ्कुमः ।
तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥

तप्तः शीतश् च माञ्जिष्ट्ःः स्थिर-भोग-क्षमः समः ।
स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥

सुरक्षितो’पि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देह-क्षय-स्थायी वार्यमाणो’पि निश्चलः ॥२२॥

सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥

रीति-नाम्नस् तु मालिन्यं स्नेहेनाप्य् उपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥

तीक्ष्ण-स्वभावाल् लोहस्य काठिन्याच् च न नम्रता ।
मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥

स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः ।
शैलो’पि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥

सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः ।
चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥

ऐन्द्रायुधो बहु-रुचिर् वक्र-माया-विलास-भूः ।
वैद्युतस् तरलारम्भ-दृष्ट-नष्ट-विकार-कृत् ॥२८॥

अङ्गारः स्त्री-जनावज्ञा-ज्वलितो लोहिताननः ।
केतु-संज्ञः स्फुटानर्थ-कारी बन्ध-वधादिभिः ॥२९॥

आर्कस् तीक्ष्णतया नित्य-सन्तापः सततोदयः ।
मित्र-क्षयैषी विषमो राहु-रागो महा-ग्रहः ॥३०॥

श्रौत्रः कर्ण-सुखाभ्यासाद् गुणाकर्णन-तत्परः ।
अक्षिजन्मा परं रूप-मात्रे परिणत-स्पृहः ॥३१॥

रासनो विविधास्वाद-भोज्य-संहार-लौल्यवान् ।
त्वङ्-मयः सर्वम् उत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥

घ्राणाख्यः पुष्प-धूपादि-भूरि-सौरभ-लोभ-भृत् ।
मानसः सतताभ्यस्त-स्पृहा-मात्र-मनोरथः ॥३३॥

बुद्ध्याख्यो गुणवत् कान्तासक्ति-व्यसन-वर्जितः ।
अहङ्काराभिधः श्लाघ्य-सङ्गमोन्नति-लक्षणः ॥३४॥

वृष-संज्ञश् च तारुण्यात् काय-दर्प-बलोद्भवः ।
अश्वस् तु रत-मात्रार्थी तत्-कालोद्यत-कातरः ॥३५॥

कृकलासाभिधानश् च स्त्रैण-दर्शन-चञ्चलः ।
मेषाक्यः शष्प-कवलाभ्यास-तुल्य-रति-स्पृहः ॥३६॥

श्वाख्यो रत्य्-अन्त-विमुखः स्त्री-रहस्य-प्रकाशकः ।
गार्दभः क्रूर-संमर्द-तृप्ति-मात्र-परायणः ॥३७॥

मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः ।
कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥

शुकाभिधो’न्तर् निःस्नेहः कामं मुख-सुख-स्थितिः ।
हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥

पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः ।
मायूरः स्व-वपुः-स्फीत-रूप-प्रमद-नृत्तवान् ॥४०॥

बहुशः सुरतासङ्ग-मात्रार्थी चटकाभिधः ।
कृकवाकु-भवः कान्ता-क्लेश-लेश-विभागवान् ॥४१॥

कोकिलो मधुरालापः प्रभूत-प्रसरत्-कथः ।
जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥

केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः ।
अस्थि-संस्थो’न्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥

नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः ।
प्राणि-नामा प्रबुद्धो’पि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥

दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा ।
पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥

तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः ।
कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नो’तिकत्थनः ॥४६॥

सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः ।
अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥

अपस्माराभिधः क्रूर-कोपाक्षेपः क्षणे क्षणे ।
ग्रहो वस्त्राञ्चल-ग्राही सजने विजने पथि ॥४८॥

गान्धर्वो गीत-नृत्तादि-रस-संसक्त-मानसः ।
यक्षः क्षिप्तो न निर्याति गृहावृत्ति-विचक्षणः ॥४९॥

यत् तत् प्रलाप-मुखरः क्षोभाखस् त्यक्त-यन