साहित्य दर्पण

विकिपीडिया, एक मुक्त ज्ञानकोष से

यहां जाईयें: नेविगेशन, ख़ोज

अनुक्रम

[संपादित करें] प्रथमः परिच्छेदः

ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते--

शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ।। साद-१.१ ।।

अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह--

चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ।। साद-१.२ ।।

चतुर्वर्गफलप्राप्तिहि कोव्यतो "रामादिवत्प्रवतितव्यं न रावणादिवत्" इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।
उक्तं च (भामहेन)-- "धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्" ।।

इति ।
किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति" इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।
चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।
ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात् ? किञ्च काव्यस्योपादेयत्वमग्निपुराणे ऽप्युक्तम्-- "नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा" ।।

इति ।
"त्रिवर्गसाधनं नाट्यम्" इति च ।
विष्णुपुराणे ऽपि-- "काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः" ।।

इति ।
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।
एतेनाभिधेयं च प्रदर्शितम् ।
तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह-- "तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि" इति ।
एतच्चिन्त्यम् ।
तथाहि-- यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा-- "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सो ऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः" ।।

इति ।
अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।
प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।
ननु कश्चिदेवांशो ऽत्र दुष्टो न पुनः सर्वो ऽपीति चेत्, तर्हि यत्रांशे दोषः सो ऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।
न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।
तथाहि-- काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।
अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।
यदुक्तं धवनिकृता-- "श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः" ।।

इति ।
किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् ।
नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि "ईषद्दोषौ शब्दार्थौ काव्यम्" इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।
सति संभवे "ईषद्दोषौ" इति चेत् , एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।
नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।
तद्वदत्र श्रुतिदुष्टादयो ऽपि काव्यस्य ।
उक्तं च-- "कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः" ।।

इति ।

किञ्च ।
शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् ।
गुणानां रसैकधर्मत्वस्य "ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः" इत्यादिना तेनैव प्रतिपादितत्वात् ।
रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत् ? तथाप्ययुक्तम् ।
तथाहि-- तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसो ऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् ।
अस्ति चेत् ? कथं नोक्तं रसवन्ताविति विशेषणम् ।
गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत् ? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति ।
नहि प्राणिमन्तो देशाइति केनाप्युच्यते ।
ननु "शब्दार्थौ सगुणौ" इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत् ? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् ।
उक्तं हि-- "काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्" इति ।
एतेन "अनलङ्कृती पुनः क्वापि" इति यदुक्तम्, तदपि परास्तम् ।
अस्यार्थः- सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति ।
तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् ।
एतेन "वक्रोक्तिः काव्यजीवितम्" इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् ।
वक्रोक्तेरलङ्काररूपत्वात् ।
यर्च्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्-- यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।

इति ।
एतच्चिन्त्यम् ।
अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् ।
एतेन-- "अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति" ।।

इत्यादीनामपि काव्यलक्षणत्वमपास्तम् ।
यत्तु ध्वनिकारेणोक्तम्-- "काव्यस्यात्मा ध्वनिः"-- इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,-प्रहेलिकादावतिव्याप्तेः ।
द्वितीयश्चेदोमिति ब्रूमः ।
ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा-- अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ।।

इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत् ? न,-अत्रापि रसाभासवत्तैवेति ब्रूमः, अन्यथा "देवदत्तो ग्रामं याति" इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् ।
अस्त्विति चेत् ? न, रसवत एव काव्यत्वाङ्गीकारात् ।
काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां "रामादिवत्प्रवर्तितव्यं न रावणादिवत्" इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् ।
तथा चाग्नेयपुराणो ऽप्युक्तम्-- "वाग्वैदग्ध्यप्रधाने ऽपि रस एवात्र जीवितम्" इति ।
व्यक्तिविवेककारेणाप्युक्तम्-- "काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः" इति ।
ध्वनिकारेणाप्युक्तम्-- "नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः" इत्यादि ।
ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत् ? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् ।
यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव ।
यत्तु वामनेनोक्तम्-- "रीतिरात्मा काव्यस्य" इति, तन्न॑ रीतेः संघटनाविशेषत्वात् ।
संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् ।
यच्च ध्वनिकारेणोक्तम्-- "अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ" ।।

इति ।
अत्र वाच्यात्मत्वं "काव्यस्यात्माध्वनिः-" इति स्ववचनविरोधादेवापास्तम् ।
तत्किं पुनः काव्यमित्युच्यते--

वाक्यं रसात्मकं---

रसस्वरूपं निरूपयिष्यामः ।
रस एवात्मा साररूपतया जीवनाधायको यस्य ।
तेन विना तस्य काव्यत्वानङ्गीकारात् ।
"रस्यते इति रसः" इति व्युत्पत्तियोगाद्भावतदाभासादयो ऽपि गृह्यन्ते तत्र रसो यथा-- शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ।।

अत्र हि संभोगश्र्टङ्गाराख्यो रसः ।
भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्-- यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी ।
क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ।।

अत्र भगवद्विषयारतिर्भावः ।
रसाभासो यथा-- मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।।

अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः ।
एवमन्यत् ।
दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते--

---दोषास्तस्यापकर्षकाः ।

श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते ।
एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते--

उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।। साद-१.३ ।।

गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयो ऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते ।
इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दो ऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते ।
अतश्च "गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः" इत्युक्तं भवतीति प्रागेवोक्तम् ।
एषामपि विशेषोदाहरणानि वक्षयामः ।
इति श्रीमन्नारायणचरणारबिन्धमधुव्रत- साहत्यार्णवकर्णधार-ध्वनिप्रस्थापन-परमाचार्यकविसूक्तिरत्नाकराष्टादशभाषा-वारविलासिनीभुजङ्ग-सान्धिविग्रहिक-महापात्र-श्रीविश्वनाथ-कविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।



[संपादित करें] द्वितीयः परिच्छेदः

वाक्यस्वरूपमाह--

वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।

योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः ।
पदोच्चयस्यैतदभावे ऽपि वाक्यत्वे "वह्निना सिञ्चिति" इत्याद्यपि वाक्यं स्यात् ।
आकाङ्क्षा प्रतीतिपर्यवसानविरहः ।
स च श्रोतुर्जिज्ञासारूपः ।
निराकाङ्क्षस्य वाक्यत्वे "गौरश्वः पुरुषो इस्ती" इत्यादीनामप वाक्यत्वं स्यात् ।
आसत्तिर्बुद्ध्यविच्छेदः ।
बुद्धिविच्छेदे ऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् ।
अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वे ऽपि पदोच्चयधर्मत्वमपचारात् ।

वाक्योच्चयो महावाक्यम्

योग्यताकाङ्क्षासत्तियुक्त इत्येव ।

इत्थं वाक्यं द्विधा मतम् ।। साद-२.१ ।।

इत्थमिति वाक्यत्वेन महावाक्यत्वेन च ।
उक्तं च तन्त्रवार्तिके-- "स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते" ।।

इति ।
तत्र वाक्यं यथा--"शून्यं वासगृहम्-ऽित्यादि (२२ पृ.) ।
महावाक्यं यथा-- रामायण-महाभारत-रघुवंशादि ।
पदोच्चयो वाक्यमित्युक्तम् ।
तत्र किं पदलक्षणमित्यत आह--

वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः ।

यथा--घट. ।
प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः ।
अनन्वितेति वाक्यमहावाक्ययोः ।
एकेति साकाङ्क्षानेकपदवाक्यानाम् ।
अर्थबोधका इति कचटतपेत्यादीनाम् ।
वर्णा इति बहुवचनमविवक्षितम् ।

अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।। साद-२.२ ।।

एषां स्वरूपमाह--

वाच्योर्ऽथो ऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ।। साद-२.३ ।।

ता अभिधाद्याः ।

तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा ।

उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य "गामानय" इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालो ऽस्य वाक्यस्य "सास्नादिमत्पिण्डानयनमर्थः" इति प्रथमं प्रतिपद्यते, अनन्तरं च "गां बधान" "अश्वमानय" इत्यादावावापोद्वापाभ्यां गोशब्दस्य "सास्नादिमानर्थः" आनयनपदस्य च "आहरणमर्थः" इति संकेतमवधारयति ।
क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा-- "इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति" इत्यत्र ।
क्वचिदाप्तोपदेशात्, यथा-- "अयमश्वशब्दवाच्यः" इत्यत्र ।
तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम ।

सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ।। साद-२.४ ।।

जातिर्गोपिण्डादिषु गोत्वादिका ।
गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः ।
शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति ।
द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहर-डित्थडवित्थादयः ।
क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः ।
एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः ।
एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् ।
अथ लक्षणा--

मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ।। साद-२.५ ।।

"कलिङ्गः साहसिकः" इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे ।
ञसंभवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च "गङ्गायां घोषः" इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृते ऽसंभवन् स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम ।
पूर्वत्र हेतू रूढिः प्रसिद्धिरेव ।
उत्तरत्र "गङ्गातटे घोषः" इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् ।
हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणो ऽतिप्रसङ्गः स्यात्, इत्युक्तम्-- "रूढेः प्रयोजनाद्वासौ" इति ।
केचित्तु "कर्मणि कुशलः" इति रूढावुदाहरन्ति ।
तेषामयमभिप्रायः-- कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृते ऽसंभवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति ।
तदन्ये न मन्यन्ते ।
कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वे ऽपि दक्षरूपस्यैव मुख्यार्थत्वात् ।
अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् ।
व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे "गौः शेते" इत्यत्रापि लक्षणा स्यात् ।
"गमेर्डेः" (उणादि--२-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ।
तद्भेदानाह--

मुख्यार्थस्येतराक्षेपो वाक्यार्थे ऽन्वयसिद्धये ।
स्यादात्मनो ऽप्युपादानादेषोपादानलक्षणा ।। साद-२.६ ।।

रूढावुपादानलक्षणा यथा-- "श्वेतो धावति" ।
प्रयोजने यथा-- "कुन्ताः प्रविशन्ति" ।
अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनो ऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते ।
पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् ।
अत्र च मुख्यार्थस्यात्मनो ऽप्युपादानम् ।
लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।
इयमेवाजहत्स्वार्थेत्युच्यते ।

अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ।। साद-२.७ ।।

रूढिप्रयोजनयोर्लक्षणलक्षणा यथा-- "कलिङ्गः साहसिकः" "गङ्गायां घोषः" इति च ।
अनयोर्हि पुरुषतटयोर्वाक्यार्थे ऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
यथा वा-- "अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्" ।।

अत्रापकारादीनां वाक्यार्थे ऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति ।
अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः ।
इयमेव जहत्स्वार्थेत्युच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।

ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।

विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ।। साद-२.८ ।।

सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।

विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा ।
इयमेव रूपकालङ्कारस्य बीजम् ।
रूढावुपादानलक्षणा सारोपा यथा-- "अश्वः श्वेतो धावति" ।
अत्र हि श्वेतगुणवानश्वो ऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते ।
प्रयोजने यथा-- "एते कुन्ताः प्रविशन्ति" ।
अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् ।
रूढौ लक्षणलक्षणा सारेपा यथा-- "कलिङ्गः पुरुषो युध्यते" ।
अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः ।
प्रयोजने यथा-- "आयुर्घृतम्" ।
अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते ।
अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् ।
यथा वा-- राजकीये पुरुषे गच्छति "राजासौ गच्छति" इति ।
अत्र स्वस्वामिभावलक्षणः सम्बन्धः ।
यथा वा-- अग्रमात्रे ऽवयवभागे "हस्तो ऽयम्" ।
अत्रावयवावयवि भावलक्षणसम्बन्धः ।
"ब्राह्मणो ऽपि तक्षासौ" ।
अत्र तात्कर्म्यलक्षणः ।
इन्द्रार्थासु स्थूणासु "अमी इन्द्राः" ।
अत्र तादर्थ्यलक्षणः सम्बन्धः ।
एवमन्यत्रापि ।
निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना ।
अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ।
तदेवमष्टप्रकारा लक्षणा ।

सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ।। साद-२.९ ।।

सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।

ताः पूर्वोक्ता अष्टभेदा लक्षणाः ।
सादृश्येतरसंबन्धाः कार्यकारणभावादयः ।
अत्र शुद्धानां पूर्वोदाहरणान्येव ।
रूढावुपादानलक्षणा सारेपा गौणी यथा-- एतानि तैलानि हेमन्ते सुखानि" ।
अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते ।
प्रयोजने यथा-- राजकुमारेषु तत्सदृशेषु च गच्छत्सु"एते राजकुमारा गच्छन्ति" ।
रूढावुपादानलक्षणा साध्यवसाना गौणी यथा-- "तैलानि हेमन्ते सुखानि" ।
प्रयोजने यथा-- "राजकुमारा गच्छन्ति" रूढौ लक्षणलक्षणा सारेपा गौणी यथा-- "राजा गौडेन्द्रं कण्टकं शोधयति" ।
प्रयोजने यथा-- "गौर्वाहीकः" रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा-- "राजा कण्टकं शोधयति" ।
प्रयोजने यथा--गौर्जल्पति" ।
अत्र केचिदाहुः--गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते ।
ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति ।
तदयुक्तम्-- गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्रबोधनाच्च ।
अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् ।
अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते ।
तदप्यन्ये न मन्यन्ते ।
तथाहि-- अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद् ? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थे ऽस्यासङ्केतित्वात् ।
न द्वितीयः,-- अविनाभावलभ्यस्यार्थस्य शाब्दे ऽन्वये प्रवेशासंभवात् ।
शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते ।
न द्वितीयः,-- यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।
तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानो ऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति ।
वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् ।
इयं च गुणयोगाद्रौणीत्युच्यते ।
पूर्वा तूपचारामिश्रणाच्छुद्धा ।
उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् ।
यथा--अग्रिमाणवकयोः" ।
शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।

व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ।। साद-२.१० ।।

प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः ।
तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः ।
यथा-- "उपकृतं बहु तत्र-" इति ।
अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः ।
यथा-- उपदिशतिं कामिनीनां यौवनमद एव ललितानि" ।।

अत्र"उपदिशति" इत्यनेन "आविष्करोति" इति लक्ष्यते ।
आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते ।

धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।

एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः ।
दिङ्भात्रं यथा-- "स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामो ऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव" ।।

अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् ।
"गङ्गायां घोषः" इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् ।

तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ।। साद-२.११ ।।

रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः ।
किञ्च--

पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।

ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः ।
तत्र पदगतत्वे यथा-- "गङ्गायां घोषः" ।
वाक्यगतत्वे यथा-- "उपकृतं बहु तत्रऽिति ।
एवमशीतिप्रकारा लक्षणा ।
अथ व्यञ्जना--

विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ।। साद-२.१२ ।।

सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।

"शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः" इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरो ऽन्यो ऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
तत्र--

अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ।। साद-२.१३ ।।

अभिधामूलामाह--

अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थे ऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ।। साद-२.१४ ।।

आदिशब्दाद्विप्रयोगादयः ।
उक्तं हि-- "संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ।।

सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः" ।।

इति ।
"सशङ्ख्चक्रो हरिः" इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते ।
"अशङ्खचक्रो हरिः" इति तद्वियोगेन तमेव ।
"भीमार्जुनौ" इति अर्जुनः पार्थः ।
"कर्णार्जुनौ" इति कर्णः सूतपुत्रः ।
"स्थाणुं वन्दे" इति स्थाणुः शिवः ।
"सर्वं जानाति देवः" इति देवो भवान् ।
"कुपितो मकरध्वजः" इति मकरध्वजः कामः ।
"देवः पुरारिः" इति पुरारिः शिवः ।
"मधुना मत्तः पिकः" इति मधुर्वसन्तः ।
"यातु वो दयितामुखम्" इति मुखं सांमुख्यम् ।
"विभाति गगने चन्द्रः, इति चन्द्रः शशी ।
"निशि चित्रभानुः" इति चित्रभानुर्वाह्निः ।
"भाति रथाङ्गम्" रथाङ्गम्" इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः ।
इदं च के ऽप्यसहमाना आहुः-- स्वरो ऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव ।
उदात्तादिरूपो ऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव" इति एतद्विषये उदाहरणमुचितमेव इति, तन्न॑ तथाहि-- स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् ।
किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः॑ न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे-- "काव्यमार्गे स्वरो न गण्यते" इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
आदिशब्दात् "एतावन्मात्रस्तनी" इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।
एवमेकस्मिन्नर्थे ऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना ।
यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम्-- "दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः ।
नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः" ।।

अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते ।
एवमन्यत् ।
लक्षणामूलामाह--

लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ।। साद-२.१५ ।।

"गङ्गायां घोषः" इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना ।
एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह--

वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः ।
प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ।। साद-२.१६ ।।

व्यञ्जनेति सम्बध्यते ।
तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम-- "कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्- दूरे पतिः कथय किं करणीयमद्य" ।।

अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते ।
बोद्धव्यवैशिष्ट्ये यथा-- "निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो ऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक्म्" ।।

अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् ।
तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते ।
अन्यसंनिधिवैशिष्ट्ये यथा-- "उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व" ।।

अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते ।
अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् ।

भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते ।

इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः ।
एतद्वैशिष्ट्ये यथा-- "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमये ऽसौ" ।।

अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते-- चेष्टावैशिष्ट्ये यथा-- "संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्" ।।

अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते ।
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।

त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ।। साद-२.१७ ।।

"अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः ।
तत्र वाच्यार्थस्य व्यञ्जना यथा-"कालो मधुः-" इत्यादि ।
लक्ष्यार्थस्य यथा--"निः शेषच्युतचन्दनम्ऽ--इत्यादि ।
व्यङ्ग्यार्थस्य यथा--"उअ णिच्चल-" इत्यादि ।
प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते ।

शब्दबोध्यो व्यनक्त्यर्थः शब्दो ऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ।। साद-२.१८ ।।

यतः शब्दो व्यञ्जकत्वे ऽप्यर्थान्तरमपेक्षते, अर्थो ऽपि शब्दम्, तदेकस्य व्यञ्जकत्वे ऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।

अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः ।
शब्दो ऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ।। साद-२.१९ ।।

अभिधोपाधिको वाचकः ।
लक्षणोपाधिको लक्षकः ।
व्यञ्जनोपाधिको व्ययञ्जकः ।
किञ्च--

तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ।। साद-२.२० ।।

अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः ।
तदर्थश्च तात्पर्यार्थः ।
तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ।
इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।




[संपादित करें] तृतीयः परिच्छेदः

अथ को ऽयं रस इत्युच्यते--

विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ।। साद-३.१ ।।

विभावादयो वक्ष्यन्ते ।
सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः, व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।
तदुक्तं लोचनकारैः-- "रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद् व्यवहारः" इति ।
अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् ।
ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।
तदुक्तम्-- "रसावस्थः परम्भावः स्थायितां प्रतिपद्यते" इति ।
अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते--

सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ।। साद-३.२ ।।

लोकोत्तरचकत्कारप्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ।। साद-३.३ ।।

"रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते" इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् ।
तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः ।
अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः ।
स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या ।
चिन्मय इति स्वरूपार्थे मयट् ।
चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः ।
तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् ।
तदाह धर्मदत्तः स्वग्रन्थे-- रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम्" ।।

इति ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः ।
यदुक्तम्-- "पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्" ।
इति ।
यद्यपि "स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः" इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि "रसः स्वाद्यते" इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः ।
तदुक्तम्-"रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रसः" इति ।
एकमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरैक्यमापतितम् ।
ततश्च-- "स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।
यथा दीपो ऽन्यथाभावे को विशेषो ऽस्य कारकात्" ।।

इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् ।
अत एवाहुः-- "विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः ।
अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः" इति ।
अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति ।
ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते--

करुणादावपि रसे जायते यत्परं सुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम् ।। साद-३.४ ।।

आदिशब्दाद्बीभत्सभयानकादयः ।
तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते--

किञ्च तेषु यदा दुःखं न को ऽपि स्यात्तदुन्मुखः ।

नहि कश्चत् सचेता आत्मनो दुःखाय प्रवर्त्तते ।
करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात् सुखमयत्वमेव ।
अनुपपत्त्यन्तरमाह--

तथा रामायणादीनां भविता दुःखहेतुता ।। साद-३.५ ।।

करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् ।
ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह--

हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् ।
शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ।। साद-३.६ ।।

अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्यो ऽपीति का क्षतिः ।। साद-३.७ ।।

ये खलु रामवनवासादयो लोके "दुःखारणानि" इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते ।
तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते ।
अतश्च "लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते" इति लोक एव प्रतिनियमः ।
काव्ये पुन) "सर्वेभ्यो ऽपि विभावादिभ्यः सुखमेव जायते" इति नियमान्न कश्चिद्दोषः ।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते--

अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।

तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह--

न जायते तदास्वादो विना रत्यादिवासनाम् ।। साद-३.८ ।।

वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् ।
यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् ।
उक्तञ्च धर्म्मदत्तेन-- "सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः" ।।

इति ।
ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते--

व्यापारो ऽस्ति विभावादेर्नाम्ना साधारणीकृतिः ।
तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ।। साद-३.९ ।।

प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।

ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते--

उत्साहादिसमुद्वोधः साधारण्याभिमानतः ।। साद-३.१० ।।

नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।

रत्यादयो ऽपि साधारण्येनैव प्रतीयान्त इत्याह--

साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ।। साद-३.११ ।।

रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् ।
परगतत्वेन त्वरस्यतापातः ।
विभावादयो ऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह--

परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदो न विद्यते ।। साद-३.१२ ।।

ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते--

विभावनादिव्यापारमलौकिकमुपेयुषाम् ।
अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ।। साद-३.१३ ।।

आदिशब्दादनुभावसञ्चारणो ।
तत्र विभावनं रत्यादेविशेषणास्वादाङ्कुरणयौग्यतानयनम् ।
अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् ।
सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।
विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते --

कारण-कार्य-सञ्चारिरूपा अपि हि लोकतः ।
रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ।। साद-३.१४ ।।

ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते--

प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।
ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ।। साद-३.१५ ।।

प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।

यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः ।
ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत् कथं तेषामेकस्य द्वयोर्वा सद्भावे ऽपि स स्यादित्युच्यते--

सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ।। साद-३.१६ ।।

भ्क्तटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ।

अन्यसमाक्षेपश्च प्रकरणादिवशात् ।
यथा-- "दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली धन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः" ।।

अत्र मालविकामभिलषतो ऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने ऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः ।
एकमन्याक्षेपे ऽप्यूह्यम् ।
"अनुकार्य्यगतो रसः" इति वदतः प्रत्याह--

पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ।। साद-३.१७ ।।

अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ।।

सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात् कथं रसरूपतामियात् ।
(क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् ।
अनुकर्त्तृगतत्वञ्चास्य निरस्यति--

शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ।। साद-३.१८ ।।

दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् ।

किञ्च--

काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ।। साद-३.१९ ।।

यदि पुनर्नटो ऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत् तदा सो ऽपि सभ्यमध्य एव गण्यते ।

नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः ।

यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा॑ प्रतीतिमन्तरेणाभावात् ।

यस्मादेष विभावादिसमूहालम्बनात्मकः ।। साद-३.२० ।।

तस्मान्न कार्यः--

यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् ।
ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् ।
नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति ।
रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः ।

-- नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले हि न भावो ऽष्यस्य विद्यते (क) ।। साद-३.२१ ।।

न खलु नित्यस्य वस्तुनो ऽसंवेदनकाले ऽसम्भवः ।

नापि भविप्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् ।
कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानो ऽपि ।। साद-३.२२ ।।

विभावादिपरामर्शविषयत्वात् सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ।। साद-३.२३ ।।

न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते ।
तथाभिलापसंसर्गयोग्यत्वविरहान्न च ।। साद-३.२४ ।।

सविकल्पकंसंवेद्यः--

सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।

--साक्षात्कारतया न च ।
परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ।। साद-३.२५ ।।

तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह--

तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।

तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह--

प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ।। साद-३.२६ ।।

चर्वणा आस्वादनम् ।
तच्च "स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः" इत्युक्तप्रकारम् ।
ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति लक्षणं कृतमित्युच्यते--

निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।

यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते ।

अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ।। साद-३.२७ ।।

तस्य रसस्य ।
आदिशब्दादलक्ष्यत्वादि ।
ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह--

रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् ।
अतो ऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ।। साद-३.२८ ।।

यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् ।
यदुक्तम्-- "यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावे ऽपि व्यवहार इति भावः" इति ।
"सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः" इति च ।
"अभिन्नो ऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः" इति च ।
ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः ।
तादात्म्यादेवास्याखण्डत्वम् ।
रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वे ऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते ।
तदुक्तम् -- "विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।
प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्" ।।

इति ।
"परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः" इति च ।
अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह--

रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः ।

ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः "विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः" इति विभावा उच्यन्ते ।
तदुक्तं भर्त्तृहरिणा-- "शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् ।
प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते" ।।

इति ।
तद्भेदावाह--

आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।

स्पष्टम् ।
तत्र--

आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ।। साद-३.२९ ।।

आदिशब्दान्नायिकाप्रतिनायिकादयः ।
अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र नायकः--

त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही ।
दक्षो ऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ।। साद-३.३० ।।

दक्षः क्षिप्रकारी ।
शीलं सद्वृतम् ।
एवमादिगुणसम्पन्नो नेता नायको भवति ।
तद्भेदानाह--

धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ।। साद-३.३१ ।।

स्पष्टम् ।
तत्र धीरोदात्तः--

अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः ।
स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ।। साद-३.३२ ।।

अविकत्थनो ऽनात्मश्लाघाकरः ।
महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः ।
निगूढमानो विनयच्छन्नगर्वः ।
दृढव्रतो ऽङ्गीकृतनिर्वाहकः ।
यथा--रामयुधिष्टिरादिः ।
अथ धीरोद्धतः--

मायापरः प्रचण्डश्चपलो ऽहङ्कारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ।। साद-३.३३ ।।

यथा--भीमसेनादिः. अथ धीरललितः--

निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।

कला नृत्यादिका ।
यथा--सत्नवाल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः--

सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ।। साद-३.३४ ।।

यथा--मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह--

एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।

तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः ।

एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ।। साद-३.३५ ।।

द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा-- स्नाता तिष्ठति कुन्तलेश्वरसुता, वारो ऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च ।
इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ।।

कृतागा अपि निःशङ्कस्तर्जितो ऽपि न लज्जितः ।
दृष्टदोषो ऽपि मिथ्यावाक्कथितो धृष्टनायकः ।। साद-३.३६ ।।

यथा मम-- शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपो ऽपि वामभ्रुवः ।।

अनुकूल एकनिरतः--

एकस्यामेव नायिकायामासक्तो ऽनुकूलनायकः ।
यथा-- अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः ।
किन्त्वन्ये ऽपि जना वदन्ति सुभगो ऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ।।

शठो ऽयमेकत्र बद्धभावो यः ।
दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ।। साद-३.३७ ।।

यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागो ऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः ।
यथा-- "शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो- विषेणाघूर्णन्ती किमपि न सखी मे गणयति" ।।

एषां च त्रैविध्यादुत्तममध्याधमत्वेन ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ।। साद-३.३८ ।।

एषामुक्तषोडशभेदानाम् ।
अथ प्रसङ्गादेतेषां सहायानाह--

दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु ।
किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ।। साद-३.३९ ।।

तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्ते ऽनन्तरोक्तैर्नायकसामान्यगुणैः किञ्चिदूनः पीठमर्द्दनामासहायो भवति ।
यथा-रामचन्द्रादीनां सुग्रीवादयः ।
अथ शृङ्गारसहायाः--

शृङ्गारे ऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।। साद-३.४० ।।

आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः ।
तत्र विटः--

संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः ।
वेशोपचारकुशलो वाग्ग्मी मधुरो ऽथ बहुमतो गोष्ठ्याम् ।। साद-३.४१ ।।

चेटः प्रसिद्ध एव ।

कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः ।। साद-३.४२ ।।

स्वकर्म हास्यादि ।
अर्थचिन्तने सहायमाह--

मन्त्रीस्यादर्थानां चिन्तायां--

अर्थास्तन्त्रावापादयः ।
यत्त्वत्र सहायकथनप्रस्तावे-- "मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने" इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो ।
"नायकस्यार्थचिन्तने मन्त्री सहायः" इत्युक्ते ऽपि नायकस्यार्थत एव सिद्धत्वात् ।
यदप्युक्तम्-- "मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः" इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् ।
न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः॑ तस्यार्थचिन्तनाद्यभावात् ।
अथान्तः पुरसहायाः--

--तद्वदवरोधे ।
वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ।। साद-३.४३ ।।

मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सो ऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ।। साद-३.४४ ।।

आद्यशब्दान्मूकादयः ।
तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्-- नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ।।

शकारो मृच्छकटिकादिषु प्रसिद्धः ।
अन्ये ऽपि यथादर्शनं ज्ञातव्याः ।
अथ दण्डसहायाः--

दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।

दुष्टनिग्रहो दण्डः ।
स्पष्टम् ।

ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ।। साद-३.४५ ।।

ब्रह्मविदो वेदविदः, आत्मविदो वा ।
अत्र च--

उत्तमाः पीठमर्दाद्याः--

आद्यशब्दान्मन्त्रिपुरोहितादयः ।

--मध्यौ विटविदूषकौ ।
तथा शकारचेटाद्या अधमाः परिकीर्तिताः ।। साद-३.४६ ।।

आद्यशब्दात्ताम्बूलिकगान्धिकादयः ।
अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह--

निसृष्टार्थो मितार्थश्च तथा संदेशहारकः ।
कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ।। साद-३.४७ ।।

तत्र कार्यप्रेष्यो दूत इति लक्षणम् ।
तत्र--

उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ।। साद-३.४८ ।।

उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।

मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।
यावद्भाषितसंदेशहारः संदेशहारकः ।। साद-३.४९ ।।

अथ सात्त्विकनायकगुणाः--

शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ।। साद-३.५० ।।

तत्र--

शूरता तक्षता सत्यं महोत्साहो ऽनुरागिता ।
नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ।। साद-३.५१ ।।

तत्रानुरागिता यथा-- अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।।

एवमन्यदपि ।
अथ विलासः--

धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।

यथा-- दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारके ऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ।।

संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ।। साद-३.५२ ।।

ऊह्यमुदाहरणम् ।

भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।

यथा-- आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पो ऽप्याकारविभ्रमः ।।

व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ।। साद-३.५३ ।।

यथा-श्रुताप्सरोगीतिरप क्षणो ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।।

अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्यये ऽप्यसहनं तत्तेजः समुदाहृतम् ।। साद-३.५४ ।।

वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ।। साद-३.५५ ।।

एषामुदाहरणान्यूह्यानि ।

अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ।। साद-३.५६ ।।

नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति ।
सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वस्त्री--

विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।

यथा-- "लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंइं ।
अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइं ।।

सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ।। साद-३.५७ ।।

तत्र--

प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ।। साद-३.५८ ।।

तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्-- मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति ।
कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा- दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ।।

प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये-- दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ।।

रतौ वामा यथा-- "दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया" ।।

माने मृदुर्यथा-- "सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।।

समधिकलज्जावती यथा-- "दत्ते सालसमन्थरम्--ऽित्यत्र (११३ पृ-) श्लोके ।
अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् ।
अथ मध्या--

मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ।। साद-३.५९ ।।

विचित्रसुरता यथा-- "कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः" ।।

प्ररूढस्मरा यथात्रैवोदाहरणो ।
प्ररूढयोवना यथा मम-- "नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः ।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा" ।।

एवमन्यत्रापि ।
अथ प्रगल्भा--

स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ।। साद-३.६० ।।

स्मरान्धा यथा-- "धन्यासि या कथयसि प्रियसंगमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)" ।।

गाढतारुण्या यथा-- "अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततो ऽपि ।
मध्यो ऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः" ।।

समस्तरतकोविदा यथा-- "क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकु