२ अध्याय 02 पदच्छेद-अन्वयार्थसहित:।

विकिपुस्तकानि तः

॥अथ द्वितीयोध्याय:॥( दिनचर्याध्याय:।) अथातो दिनचर्याध्यायं व्याख्यास्याम:। इति ह स्माहुरात्रेयादयो महर्षय:। ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुष:। पदच्छेद: - ब्राह्मे मुहूर्ते उत्तिष्ठेत् स्वस्थ: रक्षार्थम् आयुष:। अन्वय: - स्वस्थ: आयुष: रक्षार्थं ब्राह्मे मुहूर्ते उत्तिष्ठेत् । अन्वयार्थ:- स्वस्थ: मनुष्य: आयुष्यस्य रक्षणार्थम् ब्राह्मे मुहूर्ते जागृत: भवेत्। सरलार्थ:- नीरोग: मनुष्य: जीवनस्य रक्षणार्थं ब्राह्मे मुहूर्ते जागृत: भवेत्। शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्तत:।1 अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्। प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्।2 कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम्। भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्।3 पदच्छेद: - शरीरचिन्तां निर्वर्त्य कृतशौचविधि: तत:।1

अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभ-आदिजम्। प्रात: भुक्त्वा च मृदु-अग्रं कषाय-कटु-तिक्तकम्।2

कनीनी-अग्र-सम-स्थौल्यं प्रगुणं द्वादश-अङ्गुलम्। भक्षयेत् दन्तपवनं दन्त-मांसानि अबाधयन्।3

अन्वय: - अन्वयार्थ:- शरीरचिन्तां निर्वर्त्य, तत: कृतशौचविधि:, प्रात: भुक्त्वा च, शरीरविषये चिन्तनं कृत्वा अनन्तरं शौचविधिं कृत्वा प्रात:काले भोजनं कृत्वा च अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभ-आदिजं मृदु-अग्रं कषाय-कटु-तिक्तकं अर्क -न्यग्रोध-खदिर-करञ्ज-ककुभ-आदि-वृक्षेभ्य: जातं मृदु-अग्रयुतं कषाय-कटु-तिक्तरसात्मकं कनीनी-अग्र-सम-स्थौल्यं, प्रगुणं, द्वादश-अङ्गुलं, दन्तपवनं कनिष्ठिका-अग्र-समं स्थौल्यं यस्य अस्ति तत्, सरलं द्वादश-अङ्गुलमितं दन्तशुद्धिकरं काष्ठं दन्त-मांसानि अबाधयन् भक्षयेत् ।2,3 दन्त-मांसानां पीडां न कृत्वा भक्षयेत् ।2,3

सरलार्थ:- शरीरविषये चिन्तनं करणीयम् ।अनन्तरं शौचविधिं कृत्वा तत: दन्तशोधक-काष्ठस्य चर्वणं करणीयम् ।तदर्थं अर्क:, न्यग्रोध:, खदिर: करञ्ज:, ककुभ: इत्यादीनां वृक्षाणां काष्ठस्य प्रयोग: करणीय:।एषा दन्तशुद्धिक्रिया प्रात:काले तथा च भोजनोत्तरं करणीया। दन्तशोधक-काष्ठस्य अग्रं मृदु भवेत्।काष्ठस्य रस: कषाय:, कटु: अथवा तिक्त: भवेत् ।कनिष्ठिकाया: अग्रस्य स्थूलता यावती भवति, तावती स्थूलता काष्ठस्य भवेत् ।काष्ठं सरलं भवेत्।काष्ठस्य दैर्घ्यं द्वादश-अङ्गुलं भवेत् । चर्वणकाले दन्त-मांसानां बाध: न भवेत् ।3

नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती।तृष्णास्यपाकहृन्नेत्रशिर:कर्णामयी च तत्॥4 पदच्छेद: - न अद्याद् अजीर्ण-वमथु-श्वास-कास-ज्वर-अर्दिती । तृष्णा-आस्यपाक-हृत्-नेत्र-शिर:-कर्ण-आमयी च तत्॥4

अन्वय: - अन्वयार्थ:- अजीर्ण-वमथु-श्वास-कास-ज्वर-अर्दिती, तृष्णा-आस्यपाक-हृत्-नेत्र-शिर:- यस्य अजीर्णं, वमथु:,श्वास:,कास:,ज्वर:,अर्दितं, तृष्णा, मुखपाक:, हृद्रोग:, नेत्ररोग:, शिरोरोग: कर्ण-आमयी च तत् न अद्याद् । 4 कर्णरोग: इति एतेषु कश्चिद् रोग: विद्यते स: दन्तकाष्ठं न भक्षयेत् । 4


सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्। पदच्छेद: - सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णो: तत: भजेत्। अन्वय: - अन्वयार्थ:- तत: सौवीरम् अञ्जनं भजेत् ।(यत: तत्) नित्यम् अक्ष्णो: हितम् । अनन्तरम् सौवीरनामकम् अञ्जनं सेवेत। (यत: तत्) नित्यं नेत्रयो: कृते हितकरम् ।

चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम्।5 योजयेत्सप्तरात्रेऽस्मात्स्रावणार्थं रसाञ्जनम्। पदच्छेद: - चक्षु: तेजोमयं तस्य विशेषात् श्लेष्मत: भयम्।5 योजयेत् सप्तरात्रे अस्मात् स्रावणार्थं रस-अञ्जनम्।

अन्वय: - अन्वयार्थ:- चक्षु: तेजोमयम् ।तस्य विशेषात् श्लेष्मत: भयम् ।अस्मात् सप्तरात्रे नेत्रम् आग्नेयम् अस्ति।तस्य विशेषात् कफदोषत: भयम्। अत: सप्तरात्रे सति स्रावणार्थं रस-अञ्जनं योजयेत्। (नेत्रस्य)स्रावणार्थं रस-अञ्जनं योजयेत्।

ततो नावनगण्डूषधूमताम्बूलभाग्भवेत्।6 पदच्छेद: - तत: नावन-गण्डूष-धूम-ताम्बूल-भाग् भवेत्।6 अन्वय: - अन्वयार्थ:-

तत: नावन-गण्डूष-धूम-ताम्बूल-भाग् भवेत्।6  अनन्तरं नावनं, गण्डूष:, धूम:, ताम्बूलं इति एतान् सेवेत। 6 

ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्। विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि॥7

पदच्छेद: - ताम्बूलं क्षत-पित्तास्र-रूक्ष-उत्कुपितचक्षुषाम्। विष-मूर्च्छा-मद-आर्तानाम् अपथ्यं शोषिणाम् अपि॥7

अन्वय: - अन्वयार्थ:- ताम्बूलं क्षत-पित्तास्र-रूक्ष-उत्कुपितचक्षुषां , विष-मूर्च्छा-मद-आर्तानां ताम्बूलसेवनम् क्षतं, रक्तपित्तं, रूक्षता, नेत्राभिष्यन्द:, विषपीडा, मूर्च्छा, मद: इति एतै: रोगै: ग्रस्तानां शोषिणाम् अपि अपथ्यम् । शोषग्रस्तानां च अहितकरम् ।7

अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा। दृष्टिप्रसादपुष्ट्यायु:स्वप्नसुत्वक्त्वदार्ढ्यकृत्॥8 पदच्छेद: - अभ्यङ्गम् आचरेत् नित्यं स: जरा-श्रम-वातहा। दृष्टिप्रसाद-पुष्टि-आयु:स्वप्न-सुत्वक्त्व-दार्ढ्य-कृत्॥8

अन्वय: - अन्वयार्थ:- अभ्यङ्गं नित्यम् आचरेत्।स: जरा-श्रम-वातहा, दृष्टिप्रसाद-पुष्टि-आयु:स्वप्न- अभ्यङ्गं प्रतिदिनं कुर्यात् ।स:(अभ्यङ्ग:) जरा-श्रम-वात-नाशक:(तथा) दृष्टिप्रसाद-पुष्टि-आयु:स्वप्न- सुत्वक्त्व-दार्ढ्य-कृत् ॥8 सुत्वक्त्व-दार्ढ्य-कर: (अस्ति)।8

शिर:श्रवणपादेषु तं विशेषेण शीलयेत्। पदच्छेद: - शिर:-श्रवण-पादेषु तं विशेषेण शीलयेत्। अन्वय: - अन्वयार्थ:- शिर:-श्रवण-पादेषु तं विशेषेण शीलयेत्। मस्तकं, कर्णौ तथा पादौ इत्यत्र तम् (अभ्यङ्गं) अतिशयेन कुर्यात् ।

वर्ज्योऽभ्यङ्ग: कफग्रस्तकृतसंशुद्ध्यजीर्णिभि:॥9

पदच्छेद: - वर्ज्य: अभ्यङ्ग: कफग्रस्त-कृतसंशुद्धि-अजीर्णिभि:॥9 अन्वय: - अन्वयार्थ:- अभ्यङ्ग: कफग्रस्त-कृतसंशुद्धि-अजीर्णिभि: वर्ज्य:॥9 अभ्यङ्ग: कफग्रस्तेन, कृतसंशोधनेन, अजीर्णग्रस्तेन च न आचरणीय:।9

लाघवं कर्मसामर्थ्यं दीप्तोग्निर्मेदस: क्षय:। विभक्तघनगात्रत्वं व्यायामादुपजायते॥10 पदच्छेद: - लाघवं कर्मसामर्थ्यं दीप्त: अग्नि: मेदस: क्षय:। विभक्त-घन-गात्रत्वं व्यायामात् उपजायते॥10 अन्वय: - अन्वयार्थ:- लाघवं, कर्मसामर्थ्यं, दीप्त:अग्नि:,मेदस: क्षय:,विभक्त-घन-गात्रत्वं ,व्यायामात् लघुता, कर्मणि सामर्थ्यं, प्रदीप्त: अग्नि:, मेदस: क्षय:, विभक्त-गात्रत्वं, घन-गात्रत्वं च व्यायामात् उपजायते॥10

भवति ॥10 

वातपित्तामयी बालो वृद्धोजीर्णी च तं त्यजेत्। पदच्छेद: -

वातपित्तामयी बाल: वृद्ध: अजीर्णी च तं त्यजेत्। 

अन्वय: - अन्वयार्थ:- वातपित्तामयी बाल: वृद्ध: अजीर्णी च तं त्यजेत्। वातरोगी पित्तरोगी बाल: वृद्ध: अजीर्णग्रस्त: च तं (व्यायामं ) न कुर्यात् । अर्धशक्त्या निषेव्यस्तु बलिभि: स्निग्धभोजिभि:।11 शीतकाले वसन्ते च मन्दमेव ततोन्यदा। पदच्छेद: - अर्धशक्त्या निषेव्य: तु बलिभि: स्निग्ध-भोजिभि:।11 शीतकाले वसन्ते च मन्दम् एव तत: अन्यदा। अन्वय: - अन्वयार्थ:- बलिभि: स्निग्ध-भोजिभि: तु शीतकाले वसन्ते च अर्धशक्त्या निषेव्य: । सबलै: स्निग्ध-भोजिभि: तु शीतकाले वसन्ते च शक्त्या: अर्धमानेन व्यायाम: (करणीय:) तत: अन्यदा मन्दम् एव (निषेव्य:)11 शीत-वसन्तकालत: भिन्नकाले मन्दम् एव (व्यायाम: करणीय:)।11 तं कृत्वानुसुखं देहं मर्दयेच्च समन्तत:।12 पदच्छेद: - तं कृत्वा अनुसुखं देहं मर्दयेत् च समन्तत:।12 अन्वय: - अन्वयार्थ:- तं कृत्वा देहं समन्तत: अनुसुखं मर्दयेत् च ।12 व्यायामं कृत्वा देहं सर्वत: सुखकररीत्या मर्दयेत् च ।12 तृष्णा क्षय: प्रतमको रक्तपित्तं श्रम: क्लम:। अतिव्यायामत: कासो ज्वरश्छर्दिश्च जायते।13 पदच्छेद: - तृष्णा क्षय: प्रतमक: रक्तपित्तं श्रम: क्लम:।अतिव्यायामत: कास: ज्वर: छर्दि: च जायते।13 अन्वय: - अन्वयार्थ:-

अतिव्यायामत: तृष्णा, क्षय:, प्रतमक:, रक्तपित्तं, श्रम:,क्लम:,कास:, ज्वर:, छर्दि: च जायते।13 व्यायामजागराध्वस्त्रीहास्यभाष्यादिसाहसम्। गजं सिंह इवाकर्षन् भजन्नति विनश्यति॥14 पदच्छेद: - व्यायाम-जागर-अध्व-स्त्री-हास्य-भाष्य-आदि-साहसम्। गजं सिंह: इव आकर्षन् भजन् अति विनशति॥14 अन्वय: - अन्वयार्थ:- व्यायाम-जागर-अध्व-स्त्री-हास्य-भाष्य-आदि-साहसम् अति भजन् (मनुष्य:) व्यायाम: प्रजागर:, मार्गक्रमणं. मैथुनं, हास्यं, भाष्यम् इत्यादि साहसम् अतिमात्रया कुर्वन् मनुष्य: गजम् आकर्षन् सिंह: इव विनशति॥14 गजम् आकर्षन् सिंह: इव विनशति॥14

उद्वर्तनं कफहरं मेदस: प्रविलायनम्। स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ॥15 पदच्छेद: - उद्वर्तनं कफहरं मेदस: प्रविलायनम्। स्थिरीकरणम् अङ्गानां त्वक्प्रसादकरं परम् ॥15 अन्वय: - अन्वयार्थ:- उद्वर्तनं कफहरं, मेदस:प्रविलायनम्, अङ्गानां स्थिरीकरणं, परं त्वक्प्रसादकरं (च)।15 उद्वर्तनं कफनाशकं मेदस: प्रविलायनम् अङ्गानां स्थिरीकरणम् अत्यन्तं त्वक्प्रसादकरं (च भवति)।

दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्। कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित्॥16 पदच्छेद: - दीपनं वृष्यम् आयुष्यं स्नानम् ऊर्जा-बल-प्रदम्। कण्डू-मल-श्रम-स्वेद-तन्द्रा-तृड्-दाह-पाप्मजित्॥16 अन्वय: - अन्वयार्थ:- स्नानं दीपनं, वृष्यम्, आयुष्यम्, ऊर्जा-बल-प्रदं ,कण्डू-मल-श्रम-स्वेद-तन्द्रा- स्नानं अग्निदीपनं, वृष्यम् ,आयुष्यवर्धकम् ऊर्जा-बल-प्रदं, कण्डू-मल-श्रम-स्वेद-तन्द्रा-तृड्-दाह - तृड्-दाह –पाप्म-जित् (च भवति)॥16 पाप्म-नाशकं (च भवति) ॥16


उष्णाम्बुनाध: कायस्य परिषेको बलावह:। तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम् ॥17 पदच्छेद: - उष्णाम्बुना अध: कायस्य परिषेक: बलावह:। तेन एव तु उत्तम-अङ्गस्य बलहृत् केश-चक्षुषाम् ॥17 अन्वय: - अन्वयार्थ:- उष्णाम्बुना अध: कायस्य परिषेक: बलावह:। उष्णाम्बुना अध: शरीरस्य स्नानं बलकरम् । तेन एव तु उत्तम-अङ्गस्य (परिषेक:) केश-चक्षुषाम् बलहृत् ॥17 तेन एव(उष्णाम्बुना) तु मस्तकस्य (स्नानं ) केश-चक्षुषाम् बलं हरति ॥17

स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु। आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्॥18 पदच्छेद: - स्नानम् अर्दित-नेत्र-आस्य-कर्णरोग-अतिसारिषु। आध्मान-पीनस-अजीर्ण-भुक्तवत्सु च गर्हितम्॥18 अन्वय: - अन्वयार्थ:- स्नानम् अर्दित-नेत्र-आस्य-कर्णरोग-अतिसारिषु, आध्मान-पीनस-अजीर्ण- स्नानम् अर्दितग्रस्त:, नेत्ररोगी ,मुखरोगी, कर्णरोगी अतिसारी ,आध्मानयुक्त:,पीनसयुक्त:,अजीर्णयुक्त:(तथा) भुक्तवत्सु च गर्हितम्॥18 भुक्तवान् मनुष्य: च इति एतेषां विषये निषिद्धम् ।18

जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात्। न वेगितोन्यकार्य: स्यान्नाजित्वा साध्यमामयम्॥19 पदच्छेद: - जीर्णे हितं मितं च अद्यात् न वेगान् ईरयेद् बलात्। न वेगित: अन्यकार्य: स्यात् न अजित्वा साध्यम् आमयम्॥19 अन्वय: - अन्वयार्थ:- जीर्णे हितं मितं च अद्यात्। वेगान् बलात् न ईरयेद् । वेगित: जीर्णे( सति) हितंकरं मितं च खादेत् । वेगान् बलपूर्वकं न प्रवर्तयेत् ।यस्य वेग: अस्ति स: अन्यकार्य: न स्यात् ।साध्यम् आमयम् अजित्वा अन्यकार्य: न स्यात् ॥19 अन्यकार्ये मग्न: न स्यात् । साध्यं रोगम् न जित्वा अन्यकार्ये मग्न: न स्यात् । ॥19 सुखार्था: सर्वभूतानां मता: सर्वा: प्रवृत्तय:। सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्॥20 पदच्छेद: - सुखार्था: सर्वभूतानां मता: सर्वा: प्रवृत्तय:। सुखं च न विना धर्मात् तस्माद् धर्मपर: भवेत्॥20 अन्वय: - अन्वयार्थ:- सर्वभूतानां सुखार्था: सर्वा: प्रवृत्तय: मता:। सुखं च धर्मात् विना न ।तस्माद् सर्वप्राणिनां सुखनिमित्तं सर्वाणि कर्माणि अभिप्रेतानि। सुखं च धर्मात् विना न (लभ्यते) । तस्माद्

     धर्मपर: भवेत्॥20

(मनुष्य:) धर्मप्रधान: भवेत्॥20 भक्त्या कल्याणमित्राणि सेवेतेतरदूरग:। पदच्छेद: - भक्त्या कल्याणमित्राणि सेवेत इतर-दूरग:। अन्वय: - अन्वयार्थ:- कल्याणमित्राणि भक्त्या सेवेत। इतर-दूरग: (भवेत्)। कल्याणकर-मित्राणि दम्भरहितबुद्ध्या सेवेत । अकल्याणकरमित्रेभ्य: दूर: (भवेत् )। हिंसास्तेयान्यथाकामं पैशून्यं परुषानृते।21 सम्भिन्नालापं व्यापादमभिध्या दृग्विपर्ययम्। पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत्॥22 पदच्छेद: - हिंसा-स्तेय-अन्यथाकामं पैशून्यं परुष-अनृते।21 सम्भिन्न-आलापं व्यापादम् अभिध्या दृग् विपर्ययम्। पापं कर्म इति दशधा काय-वाक्-मानसै: त्यजेत्॥22 अन्वय: - अन्वयार्थ:- हिंसा-स्तेय-अन्यथाकामं, पैशून्यं, परुष-अनृते, सम्भिन्न-आलापं, हिंसा, चौर्यँ, निषिद्धकामसेवा , परभेदकरवचनं, कठोरवचनम्, असत्यवचनम् असम्बद्धवचनम् व्यापादम्, अभिध्या, दृग्-विपर्ययम् इति दशधा पापं कर्म परानिष्टस्य चिन्तनम् परगुणासहिष्णुता ,शास्त्रदृष्टिवैपरीत्यम् इति दशविधं पापं कर्म काय- वाक्- मानसै: त्यजेत्॥22 शरीरेण ,वाण्या, मनसा च त्यजेत्॥22

अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तित:। पदच्छेद: - अवृत्ति-व्याधि-शोक-आर्तान् अनुवर्तेत शक्तित:।

अन्वय: - अन्वयार्थ:- अवृत्ति- व्याधि- शोक-आर्तान् शक्तित: अनुवर्तेत । अर्थार्जनस्य साधनं येषां नास्ति,ये व्याधिग्रस्ता:, शोकग्रस्ता: (तेषां) स्वसामर्थ्यानुसारं साहाय्यं कुर्यात् ।

आत्मवत्सततं पश्येदपि कीटपिपीलिकम् ।23 पदच्छेद: - आत्मवत् सततं पश्येद् अपि कीट-पिपीलिकम् ।23

अन्वय: - अन्वयार्थ:- कीटपिपीलिकम् अपि सततम् आत्मवत् पश्येत् ।23 क्षुद्रजन्तून् अपि सततं स्वसदृशं जानीयात् ।23

अर्चयेद्देवगोविप्रवृद्धवैद्यनृपातिथीन्। पदच्छेद: - अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृप-अतिथीन्।

अन्वय: - अन्वयार्थ:- देव-गो-विप्र- वृद्ध- वैद्य- नृप- अतिथीन् अर्चयेद् । देव:, गौ:, ब्राह्मण:, वृद्ध:, वैद्य:, नृप:, तथा अतिथि: एतान् पूजयेत् ।

विमुखान्नार्थिन: कुर्यान्नावमन्येत नाक्षिपेत्।24 पदच्छेद: - विमुखान् न अर्थिन: कुर्यात् न अवमन्येत न आक्षिपेत्।24 अन्वय: - अन्वयार्थ:- अर्थिन:विमुखान् न कुर्यात्। (तान् )न अवमन्येत, न आक्षिपेत्।24 याचकान् निराशान् न कुर्यात् । तान् न अवमन्येत न आक्षिपेत्।24

उपकारप्रधान: स्यादपकारपरेप्यरौ। पदच्छेद: - उपकारप्रधान: स्याद् अपकार-परे अपि अरौ। अन्वय: - अन्वयार्थ:- अपकार-परे अपि अरौ उपकारप्रधान: स्याद् अपकार-परे अपि शत्रौ उपकारप्रधान: भवेत् ।

सम्पद्विपत्स्वेकमना हेतावीर्ष्येत्फले न तु।25 पदच्छेद: - सम्पद्-विपत्सु एकमना: हेतौ ईर्ष्येत् फले न तु।25

अन्वय: - अन्वयार्थ:- सम्पद्-विपत्सु एकमना (भवेत्)। हेतौ ईर्ष्येत् , न तु फले ।25 सम्पत्तौ विपत्तौ च समचित्त: (भवेत् )। हेतुविषये ईर्ष्यां कुर्यात् न तु फलविषये। ।25

काले हितं मितं ब्रूयादविसंवादि पेशलम्। पदच्छेद: काले हितं मितं ब्रूयाद् अविसंवादि पेशलम्। अन्वय: - अन्वयार्थ:- काले हितं मितं अविसंवादि पेशलं ब्रूयाद् । (उचित)-काले हितकरम् अल्पं सत्यं मधुरं (च) वदेत् ।

पूर्वाभिभाषी सुमुख: सुशील: करुणामृदु:।26 नैक: सुखी न सर्वत्र विश्रब्धो न च शङ्कित:।

पदच्छेद: - 

पूर्वाभिभाषी सुमुख: सुशील: करुणा-मृदु:।26 न एक: सुखी, न सर्वत्र विश्रब्ध:, न च शङ्कित:। अन्वय: - अन्वयार्थ:- पूर्वाभिभाषी सुमुख: सुशील: करुणामृदु: (स्यात् )।एक: सुखी न (भवेत्) । पूर्वाभिभाषी प्रसन्नवदन: सुशील: करुणया मृदु: स्यात् ।एकाकी (मनुष्य:) सुखी न (भवेत्) । सर्वत्र विश्रब्ध: न (भवेत्)।(सर्वत्र) शङ्कित: च न (भवेत्)। सर्वत्र विश्वस्त: न (भवेत्) । (सर्वत्र) शङ्कित: च न (भवेत्) । न कञ्चिदात्मन: शत्रुं नात्मानं कस्यचिद्रिपुम्।27 प्रकाशयेन्नापमानं न च नि:स्नेहतां प्रभो:।

पदच्छेद: - न कं-चिद् आत्मन: शत्रुं न आत्मानं कस्यचिद् रिपुम्।27 प्रकाशयेत् न अपमानं न च नि:स्नेहतां प्रभो:। अन्वय: - अन्वयार्थ:- आत्मन: कं-चित् शत्रुं न (प्रकाशयेत्)।आत्मानं कस्यचिद् रिपुं न (प्रकाशयेत्) स्वस्य कम् अपि शत्रुं न प्रकटं कुर्यात् । स्वं कस्य अपि शत्रुरूपेण न प्रकटं कुर्यात्। (आत्मन:) अपमानं न (प्रकाशयेत्)।प्रभो: नि:स्नेहतां च न (प्रकाशयेत् )। (स्वस्य) अपमानं न प्रकटं कुर्यात्। प्रभो: (स्वविषये) नि:स्नेहतां च न प्रकटं कुर्यात्।

जनस्याशयमालक्ष्य यो यथा परितुष्यति।28 तं तथैवानुवर्तेत पराराधनपण्डित:।

पदच्छेद: - जनस्य आशयम् आलक्ष्य य: यथा परितुष्यति।28 तं तथा एव अनुवर्तेत पर-आराधन-पण्डित:।

अन्वय: - अन्वयार्थ:- जनस्य आशयम् आलक्ष्य य: यथा परितुष्यति, पर-आराधन-पण्डित: (भूत्वा) जनस्य मनोगतम् ज्ञात्वा य: (जन: ) येन उपायेन परितुष्यति, पर-आराधन-कुशल: (भूत्वा ) तं तथा एव अनुवर्तेत । तं तथा एव आराधयेत् ।

न पीडयेदिन्द्रियाणि न चैतान्यतिलालयेत्।29 पदच्छेद: - न पीडयेद् इन्द्रियाणि न च एतानि अतिलालयेत्।29

 अन्वय: - अन्वयार्थ:- 

इन्द्रियाणि न पीडयेद् ।न च एतानि अति-लालयेत्।29 इन्द्रियाणि न पीडयेद् । न च एतानि (इन्द्रियाणि) अतिलालयेत् । 29 त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्।

पदच्छेद: - त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्।

अन्वय: - अन्वयार्थ:-

त्रिवर्गशून्यम्  आरम्भं न भजेत् ।तं       च  अविरोधयन् (भजेत् )।  धर्म-अर्थ-काम-रहितम् आरम्भं  न   भजेत्।तं (धर्म-अर्थ-कामं ) च परस्परम् अबाधयन् भजेत् । 

अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्।30

पदच्छेद: - अनुयायात् प्रतिपदं सर्वधर्मेषु मध्यमाम्।30 अन्वय: - अन्वयार्थ:- सर्वधर्मेषु मध्यमां प्रतिपदम् अनुयायात् सर्वधर्मेषु मध्यमं मार्गम् अनुसरेत् ।30 नीचरोमनखश्मश्रुर्निर्मलाङ्घ्रिमलायन:। स्नानशील: सुसुरभि: सुवेषोनुल्बणोज्ज्वल:॥31 पदच्छेद: - नीचरोम-नख-श्मश्रु: निर्मल-अङ्घ्रि-मलायन:। स्नानशील: सुसुरभि: सुवेष: अनुल्बण-उज्ज्वल:॥31

अन्वय: - अन्वयार्थ:- 

नीचरोम-नख-श्मश्रु:, निर्मल-अङ्घ्रि-मलायन:,स्नानशील:, सुसुरभि:, यस्य रोमाणि ,नखानि, श्मश्रूणि ह्रस्वानि, यस्य पादौ मलमार्गा: निर्मला:, य: नित्यस्नायी, सुगन्धयुत:, सुवेष:, अनुल्बण-उज्ज्वल: (भवेत्) ॥31 सुवेष:, अनुद्धत:, शोभमान: (तादृश: मनुष्य: भवेत् )॥31 धारयेत्सततं रत्नसिद्धमन्त्रमहौषधी:।

पदच्छेद: - धारयेत् सततं रत्न-सिद्धमन्त्र-महा-औषधी:। अन्वय: - अन्वयार्थ:- रत्न-सिद्धमन्त्र-महा-औषधी: सततं धारयेत् रत्नं, सिद्धमन्त्रं, -महा-औषधी: (च) सदा (शरीरे) धारयेत् । सातपत्रपदत्राणो विचरेद्युगमात्रदृक्।32 स-आतपत्र-पदत्राण: युगमात्र-दृक् विचरेद् ।32 छत्रेण सहित:, पदत्राणेन सहित:, हस्तचतुष्टयमिते अन्तरे दृष्टिं कृत्वा भ्रमेत् ।32 - - - - - - - - - - निशि चात्ययिके कार्ये दण्डी मौली सहायवान् पदच्छेद: - निशि च आत्ययिके कार्ये दण्डी मौली सहायवान् अन्वय: - अन्वयार्थ:- निशि आत्ययिके कार्ये च दण्डी मौली सहायवान् (च भवेत्)। निशि कष्टमये कार्ये च दण्डयुक्त: शिरोवेष्टनयुक्त: सहायवान् (च भवेत्)।

चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन् ।33॥ नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च॥ पदच्छेद: चैत्य-पूज्य-ध्वज-अशस्तच्छाया-भस्म-तुष-अशुचीन् ।33॥ न आक्रामेत् शर्करा-लोष्ट-बलिस्नानभुवो न च॥ अन्वय: - अन्वयार्थ:- चैत्य- पूज्य- ध्वज-अशस्तच्छाया- भस्म-तुष-अशुचीन् न आक्रामेत् देवताधिष्ठित: वृक्ष:, पूज्यजन:, ध्वज:,अमङ्गलवस्तु इति एतेषां छायां, भस्म, तुषम् अशुचीन् न आक्रामेत् शर्करा-लोष्ट-बलिस्नानभुवो च न आक्रामेत् शर्करां मृत्पिण्डं बलिभूमिं स्नानभूमिं च न आक्रामेत् ॥33

नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्।34 सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानवत्। पदच्छेद: नदीं तरेत् न बाहुभ्यां न अग्निस्कन्धम् अभिव्रजेत्।34 सन्दिग्ध-नावं वृक्षं च न आरोहेत् दुष्टयानवत्। अन्वय: - अन्वयार्थ:- नदीं बाहुभ्यां न तरेत्।अग्नि-स्कन्धम् न अभिव्रजेत्।सन्दिग्ध-नावं वृक्षं च नदीं बाहुभ्यां न तरेत्। अग्निराशिं प्रति न गच्छेत् ।सन्दिग्ध-नौकां वृक्षं च दुष्टयानवत् न आरोहेत् । विकृतयानवत् न आरोहेत्

नासंवृतमुख: कुर्यात्क्षुतिहास्यविजृम्भणम् ।।35 पदच्छेद: न असंवृतमुख: कुर्यात् क्षुति-हास्य-विजृम्भणम् ।35 अन्वय: - अन्वयार्थ:- असंवृतमुख: क्षुति-हास्य-विजृम्भणम् न कुर्यात् ।35 विवृत-मुख: (सन्) छिक्कां , हास्यं , विजृम्भिकां (च ) न कुर्यात् ।35

नासिकां न विकुष्णीयान्नाकस्माद्विलिखेद्भुवम्। नाङ्गैश्चेष्टेत विगुणं नासीतोत्कटकश्चिरम्।36

पदच्छेद: नासिकां न विकुष्णीयात् न अकस्माद् विलिखेद् भुवम्। न अङ्गै: चेष्टेत विगुणं न आसीत उत्कटक: चिरम्।36 अन्वय: - अन्वयार्थ:- नासिकां न विकुष्णीयात्।भुवम् अकस्माद् न विलिखेद् ।अङ्गै: विगुणं न नासिकां न विकर्षेत् । भूमिम् अकारणं न उत्किरेत् । अवयवै: विकृतं न चेष्टेत। उत्कटक: चिरं न आसीत।36 चेष्टां कुर्यात्। उत्कटकासने दीर्घकालं न उपविशेत् ।36

देहवाक्चेतसां चेष्टा: प्राक् श्रमाद्विनिवर्तयेत्।नोर्ध्वजानुश्चिरं तिष्ठेत् पदच्छेद: देह-वाक् चेतसां चेष्टा: प्राक् श्रमाद् विनिवर्तयेत्।न ऊर्ध्वजानु: चिरं तिष्ठेत् अन्वय: - अन्वयार्थ:- देह-वाक् चेतसां चेष्टा: श्रमात् प्राक् विनिवर्तयेत्।ऊर्ध्वजानु: चिरं न तिष्ठेत् । देहस्य वाण्या: मनस: चेष्टा: श्रमाद् पूर्वं विनिवर्तयेत्। ऊर्ध्वजानुदशायां : दीर्घकालं न तिष्ठेत् ।

नक्तं सेवेत न द्रुमम्॥37॥तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्। सूनाटवीशून्यगृहश्मशानानि दिवापि न॥38 पदच्छेद: नक्तं सेवेत न द्रुमम्॥37॥तथा चत्वर-चैत्यान्त: चतुष्पथ-सुरालयान्। सूना-अटवी-शून्यगृह-श्मशानानि दिवा अपि न॥38 अन्वय: - अन्वयार्थ:- नक्तं द्रुमं तथा चत्वर- चैत्यान्त:- चतुष्पथ-सुरालयान् न सेवेत सूना- रात्रौ वृक्षं तथा नागरिकाणां वार्तास्थानं, चैत्यसमीपस्थानं चतुष्पथं , देवालयान् न सेवेत। वधस्थानं, अटवी-शून्यगृह-श्मशानानि दिवा अपि न (सेवेत) ॥38 अरण्यं शून्यगृहं , श्मशानं दिवसकाले अपि न (सेवेत) ॥38

सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत्। नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च॥39 पदच्छेद: - सर्वथा ईक्षेत न आदित्यं न भारं शिरसा वहेत्। न ईक्षेत प्रततं सूक्ष्मं दीप्त-अमेध्य-अप्रियाणि च॥39 अन्वय: - अन्वयार्थ:- सर्वथा आदित्यं न ईक्षेत। भारं शिरसा न वहेत्। सूक्ष्मं सर्वथा सूर्यं न पश्येत् । भारं शिरसा न वहेत्। सूक्ष्मवस्तु दीप्त- अमेध्य- अप्रियाणि च प्रततं न ईक्षेत ॥39 दीप्तवस्तु अपवित्रवस्तु अप्रियवस्तु च सततं न पश्येत् ॥39 मद्यविक्रयसन्धानदानादानानि नाचरेत्। पदच्छेद: मद्यविक्रय-सन्धान-दान-आदानानि न आचरेत्। अन्वय: - अन्वयार्थ:- मद्यविक्रय-सन्धान-दान-आदानानि न आचरेत्। मद्यस्य विक्रयं, सन्धानं, दानम् आदानं (च) न कुर्यात् ।

पुरोवातातपरजस्तुषारपरुषानिलान्।40 पदच्छेद: -

पुरोवात-आतप-रज:-तुषार-परुष-अनिलान्।40

अन्वय: - अन्वयार्थ:- पुरोवात-आतप- रज:-तुषार-परुष-अनिलान् त्यजेत्।40 पुरोवातम् ,पुर:आतपं, रज:, तुषारं, परुष-वातं (च) त्यजेत्।40 अनृजु: क्षवथूद्गारकासस्वप्नान्नमैथुनम्। पदच्छेद: - अन्-ऋजु: क्षवथु-उद्गार-कास-स्वप्न-अन्न-मैथुनम्। अन्वय: - अन्वयार्थ:- अन्-ऋजु: क्षवथु-उद्गार-कास-स्वप्न-अन्न-मैथुनं त्यजेत् विषमस्थितिस्थ: क्षवथुम् ,उद्गारं, कासं, स्वप्नम् , अन्नं, मैथुनं (च) त्यजेत्।

कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिन:।41  पदच्छेद: - 
कूल-छायां नृपद्विष्टं व्याल-दंष्ट्रि-विषाणिन:।41

अन्वय: - अन्वयार्थ:- कूलस्य छायां नृपद्विष्टं (जनं), व्यालं, दंष्ट्रिणं, विषाणिनं (च) त्यजेत्। ।41 तटस्य छायां, नृपस्य द्वेषपात्रं (जनं), दुष्टप्राणिनं, दंष्ट्रायुक्तपशुं, शृङ्गयुक्तपशुं (च) त्यजेत्। ।41

हीनानार्यातिनिपुणसेवां विग्रहमुत्तमै:।  पदच्छेद: - 
हीन अनार्य-अतिनिपुणसेवां विग्रहम् उत्तमै:।

अन्वय: - अन्वयार्थ:- हीन अनार्य-अतिनिपुणसेवां त्यजेत्। उत्तमै: (सह)विग्रहं त्यजेत्। । हीनस्य, असाधो:, अतिगणनापरस्य सेवां त्यजेत्। उत्तमै: (सह) कलहं त्यजेत्। ।

सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्।42

पदच्छेद: - सन्ध्यासु अभ्यवहार-स्त्री-स्वप्न-अध्ययन-चिन्तनं त्यजेत्। ।42 अन्वय: - अन्वयार्थ:- सन्ध्यासु अभ्यवहारं, स्त्रियम् , स्वप्नम्, अध्ययनं, चिन्तनं त्यजेत्। ।42 सन्ध्यासमयेषु भोजनम्, स्त्रीसङ्गं, निद्राम्, अध्ययनं, चिन्तनं त्यजेत्। ।42

शत्रुसत्रगणाकीर्णगणिकापणिकाशनम्। पदच्छेद: - शत्रु-सत्र-गण-आकीर्ण-गणिका-पणिका-अशनम्। अन्वय: - अन्वयार्थ:- शत्रु-अशनं, सत्र-अशनं, गण-आकीर्ण-अशनं, गणिका-अशनं, पणिका-अशनं शत्रुदत्तं भोजनं,यज्ञभोजनं, कथकादीनां गणै: व्याप्तं भोजनं, वेश्यादत्तं भोजनं, निन्द्यद्रव्याणां विक्रेत्रा दत्तं भोजनं त्यजेत्। त्यजेत्। गात्रवक्त्रनखैर्वाद्यं हस्तकेशावधूननम्।43 पदच्छेद: -

गात्र-वक्त्र-नखै: वाद्यं हस्त-केश-अवधूननम्।43

अन्वय: - अन्वयार्थ:- गात्र-वक्त्र-नखै: वाद्यं हस्त-केश-अवधूननम् त्यजेत्।।43 गात्रेण ,मुखेन, नखै: च ध्वनिकरणं (तथा) हस्तानां ,केशानां च कम्पनं त्यजेत्।।43

तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्।  पदच्छेद: - 
तोय-अग्नि-पूज्य-मध्येन यानं धूमं शव-आश्रयम् ।

अन्वय: - अन्वयार्थ:- तोय-अग्नि-पूज्य-मध्येन यानं (तथा) शव-आश्रयं धूमं त्यजेत्। तोय-अग्नि-पूज्य-मध्येन गमनं (तथा) प्रेतदाहजन्यं धूमं त्यजेत्।

मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत्॥44 

पदच्छेद: - मद्य-अतिसक्तिं विश्रम्भ-स्वातन्त्र्ये स्त्रीषु च त्यजेत्॥44 अन्वय: - अन्वयार्थ:- मद्य-अतिसक्तिं स्त्रीषु विश्रम्भ-स्वातन्त्र्ये च त्यजेत्॥44 मद्य-अतिसक्तिं स्त्रीषु विश्वासं स्वातन्त्र्यं च त्यजेत्॥44 आचार्य: सर्वचेष्टासु लोक एव हि धीमत:। अनुकुर्यात्तमेवातो लौकिकेर्थे परीक्षक:॥45 पदच्छेद:

आचार्य: सर्वचेष्टासु लोक: एव हि धीमत:।

अनुकुर्यात् तम् एव अत: लौकिके अर्थे परीक्षक:॥45 अन्वय: - अन्वयार्थ:- हि धीमत: सर्वचेष्टासु लोक: एव आचार्य:, अत: तम् एव लौकिके अर्थे यस्मात् बुद्धिमत: मनुष्यस्य सर्वकार्येषु लोक: एव गुरु:, अत: तम् एव (लोकं) लौकिके विषये परीक्षक: (भूत्वा) अनुकुर्यात् ॥45 परीक्षक: (भूत्वा) अनुसरेत् ॥45

आर्द्रसन्तानता त्याग: कायवाक्चेतसां दम:। स्वार्थबुद्धि: परार्थेषु पर्याप्तमिति सद्व्रतम्॥46 पदच्छेद: - आर्द्र-सन्तानता त्याग: काय-वाक्-चेतसां दम:। स्वार्थबुद्धि: परार्थेषु पर्याप्तम् इति सद्व्रतम्॥46 अन्वय: - अन्वयार्थ:- आर्द्र-सन्तानता, त्याग:, काय-वाक्-चेतसां दम:, परार्थेषु स्वार्थबुद्धि: इति सर्वसत्वेषु कृपालुता, दानं, कायस्य वाण्या: मनस: नियमनं, परस्य कार्यम् स्वस्य एव इति भाव: इति पर्याप्तम् सद्व्रतम्॥46 सम्पूर्णं सद्व्रतम्॥46

नक्तन्दिनानि मे यान्ति कथम्भूतस्य सम्प्रति। दु:खभाङ्न भवत्येवं नित्यं सन्निहितस्मृति:॥47 पदच्छेद: - नक्तन्दिनानि मे यान्ति कथम्भूतस्य सम्प्रति। दु:खभाक् न भवति एवं नित्यं सन्निहित-स्मृति:॥47 अन्वय: - अन्वयार्थ:- सम्प्रति कथम्भूतस्य मे नक्तन्दिनानि यान्ति एवं नित्यं सन्निहित-स्मृति: अधुना कीदृशस्य मम निशा: दिनानि च यान्ति एवं नित्यं यस्य स्मृति: जागृता स: दु:खभाक् न भवति ॥47 दु:खी न भवति ॥47

इत्याचार: समासेन यं प्राप्नोति समाचरन्। आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्॥48 इति आचार: समासेन यं प्राप्नोति समाचरन्। पदच्छेद: आयु:आरोग्यम् ऐश्वर्यं यश: लोकान् च शाश्वतान्॥48 अन्वय: - अन्वयार्थ:- इति समासेन आचार:, यं समाचरन् आयु: आरोग्यम् ऐश्वर्यं यश: इति सङ्क्षेपत: आचार:, यं समाचरन् मनुष्य: आयुष्यम् आरोग्यम् ऐश्वर्यं यश: शाश्वतान् लोकान् च प्राप्नोति ॥48 शाश्वतान् लोकान् च प्राप्नोति