...सदोषा: अपि उच्चारा: गृहीता: वा?

विकिपुस्तकानि तः

अकारस्य उच्चारणेन अकारस्य सर्वे भेदा: तत्र गृहीता: चेत् अकारस्य सदोषा: अपि उच्चारा: गृहीता: वा?
न।गर्गादय: पाठा: ग्रन्थे सन्ति।तत्र सर्वेषां वर्णानां शुद्धमेव उच्चारणम् आचार्येण कृतम्।अत: सदोषोच्चारस्य ग्रहणाय अवसर: एव नास्ति।

पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: