Wikibooks:समुदायद्वारम्
Wikibooks इत्यस्मात्
आत्मीय संस्कृतमित्राणि,
- 'विकिपुस्तकानि' इत्येतस्मिन् विभागे किं योजनीयं किं न इति विषये चिन्तनम् अपेक्षितमिति भाति । विकिस्रोतसि ये ग्रन्थाः योज्यन्ते ते अत्र न अपेक्षिताः । मूलग्रन्थस्य योजनं न अत्र उद्दिष्टम् । अत्र तु पाठ्यपुस्तकमात्रम् अपेक्षते । अधुना मुखपुटे दृश्यमानाः विषयाः तु स्रोतसि भवेयुः ननु ? एतेषाम् अपसारणं किं भवद्भिः अनुमन्येत ? स्वाभिप्रायः सूच्यताम् । Shubha (वार्ता) ०५:४०, १६ जून् २०१२ (UTC)