च.वि.१.०९

विकिपुस्तकानि तः

तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येना-भिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत्॥ च.वि.१.९॥

पदच्छेदः-
तत्र खलु अनेकरसेषु द्रव्येषु अनेकदोष-आत्मकेषु च विकारेषु रस-दोष-प्रभावम् एकैकश्येन अभिसमीक्ष्य ततः द्रव्य-विकारयोः प्रभावतत्त्वं व्यवस्येत्॥ च.वि.१.९॥

अन्वयः-
तत्र खलु अनेकरसेषु द्रव्येषु अनेकदोष-आत्मकेषु च विकारेषु रस-दोष-प्रभावम् एकैकश्येन अभिसमीक्ष्य ततः द्रव्य-विकारयोः प्रभावतत्त्वं व्यवस्येत्॥ च.वि.१.९॥

सरलार्थः-
यस्मिन् द्रव्ये नैके रसाः सन्ति, तस्य द्रव्यस्य प्रभावस्य निश्चयार्थं प्रथमं द्रव्यगतस्य एकस्य एकस्य रसस्य प्रभावः समीक्षणीयः।अनन्तरं सकलस्य द्रव्यस्य प्रभावतत्त्वं निश्चितं करणीयम्।
यस्मिन् विकारे नैके दोषाः सन्ति, तस्य विकारस्य प्रभावस्य निश्चयार्थं प्रथमं विकारजनकस्य एकस्य एकस्य दोषस्य प्रभावः समीक्षणीयः।अनन्तरं सकलस्य विकारस्य प्रभावः निश्चितः करणीयः। च.वि.१.९।

आयुर्वेददीपिका-
अथ कथं तर्हि संसृष्टानां रसानां दोषाणां च प्रभावः ज्ञेयः इति आह- तत्र खलु इत्यादि। तत्र च अनेकरसद्रव्यस्य अनेकदोषविकारस्य च प्रत्येक-रस-दोष-प्रभाव-मेलकेन प्रभावं कथयन् रससंसर्ग-दोषसंसर्गयोः अपि तादृशम् एव प्रभावं कथयति, यतः रसदोष-संसर्ग-प्रभावौ अत्र द्रव्यविकार-आश्रयित्वाद् रसदोषयोः द्रव्यविकार-प्रभावत्वेन उच्येते । अनेन न्यायेन साक्षाद् अनुक्तः अपि एकरसद्रव्य-एकदोष-विकारयोः अपि प्रभावः असंसृष्टरसदोषप्रभावकथनाद् उक्तः एव ज्ञेयः।एकैकश्येन अभिसमीक्ष्य इति प्रत्येकम् उक्तरसादिप्रभावेण अनेकरसं द्रव्यम् अनेकदोषं च विकारं समुदितप्रभावम् अभिसमीक्ष्य॥ च.वि.१.९॥

सुशीला पञ्जिका-
अनेकरसेषु इति।अनेके रसाः यस्मिन् तद् अनेकरसम्।द्रव्यस्य विशेषणम्। येषु द्रव्येषु एकस्माद् अधिकाः रसाः सन्ति तेषु द्रव्यषु इत्यर्थः।
अनेकदोष-आत्मकेषु इति।अनेके दोषाः अनेकदोषाः।अनेकदोषाः आत्मा येषां ते अनेकदोषात्मकाः।आत्मशब्दः अत्र स्वरूपार्थकः।तेन अनेकदोषाः स्वरूपं येषां ते अनेकदोषात्मकाः।विकारविशेषणमिदम्।येषु विकारेषु अनेके दोषाः स्वरूपभूताः सन्ति ते अनेकदोषात्मकाः विकाराः।
रस-दोष-प्रभावम् इति।रसाः च दोषाः च रसदोषाः।तेषां प्रभावः रसदोषप्रभावः।
एकैकश्येन इति। एकैकशः इति अस्मात् शब्दात् यत्प्रत्यये कृते एकैकश्यम् इति शब्दः सिद्ध्यति इति वाचस्पत्यः। एकैकशः भावः इति तस्यार्थः।
द्रव्य-विकारयोः इति।द्रव्यं च विकारः च द्रव्यविकारौ।तयोः द्रव्यविकारयोः। द्रव्यविकारयोः प्रभावतत्त्वम् इत्यन्वयः।
प्रभावतत्त्वमिति।प्रभावस्य तत्त्वं प्रभावतत्त्वम्।प्रभावस्य स्वरूपमिति अर्थः ॥ च.वि.१.९॥

च.वि.१.०८        चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका       च.वि.१.१०
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.०९&oldid=7320" इत्यस्माद् प्रतिप्राप्तम्