अनुमानप्रयोगकोशस्य प्रस्तावना

विकिपुस्तकानि तः

भारतीयदर्शनकारै: विश्वजनेभ्य: ये अमूल्या: उपहारा: दत्ता: तेषु अनुमानप्रमाणम् इत्ययम् अन्यतम: उत्तम: च उपहार:।सर्वेषु भारतीयदर्शनेषु अनुमानप्रमाणस्य प्रयोगा: दृश्यन्ते।तथापि तेषां प्रयोगाणां सङ्कलनम् अद्यावधि न जातम्।तत्त्वज्ञानस्य क्षेत्रे एतद् आवश्यकं कार्यम् अवशिष्टम् अस्ति।तद् अत्र आरभ्यते।
अनुमानस्य अध्येतार: आकरग्रन्थेषु एकम् एकम् उदाहरणं प्राप्नुवन्ति।अभ्यासार्थं नैकेषाम् उदाहरणानाम् आवश्यकता अस्ति।सा अनेन कोशेन पूर्यते।अनेन तेषाम् अध्येतॄणाम् अनुमानस्य अभ्यास: सुकर: भविष्यति।

अनुमानप्रयोगकोश: