अप्रयुक्तानां शब्दानां साधुत्वनिर्धारणं कथं..?

विकिपुस्तकानि तः

अप्रयुक्तानां शब्दानां साधुत्वनिर्धारणं कथं भवति?यथा ऊष तेर पेच इत्यादीनाम्।
भवान् एतान् शब्दान् मुखेन वदति, तथापि तान् ‘अप्रयुक्तान्’ इति वदति इति व्याघातदोष: अयम्।ऊष तेर इत्यादीनाम् अर्था: यदा विवक्षिता:, तदा तेषां प्रयोगा: भवन्ति एव।तत्पर्यायाणां प्रयोगे सति एतेषां प्रयोग: न स्यात्। तत्तु स्वाभाविकमेव।यथा ऊष ऊषिता:।तेर तीर्णा:।चक्रे कृतवन्ता:।पेच पक्ववन्त:।
यद्यपि ऊष इत्यादय: शब्दा: प्रचारे न सन्ति, तथापि व्याकरणशास्त्रे तेषां सिद्धि: अवश्यं दर्शनीया।अत्रेदमुदाहरणम्-शतवर्षं यावत् कश्चिद् यज्ञ: प्रवर्तते। तादृशं यज्ञम् इदानीं केऽपि न कुर्वन्ति।तथापि तस्य वर्णनं याज्ञिके भवति। तथापि विरलप्रचाराणां शब्दानामपि सिद्धि: व्याकरणशास्त्रे वक्तव्या।
‘अप्रयुक्ता:’ इति येषां विषये भवान् वदति, ते कदाचित् देशान्तरे ग्रन्थान्तरे वा प्रयुक्ता: स्यु:।यदि तेषाम् उपलब्धौ महान् प्रयत्न: भवति, तर्हि तेषाम् अपि प्रयोगा: प्राप्यन्ते। तादृशं प्रयत्नम् अकृत्वा अकस्माद् ‘अमुकशब्दस्य प्रयोग: न दृश्यते’ इति निर्णयवचनं नोचितम्।

पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: