आनन्दकन्द 2.1

विकिपुस्तकानि तः
उपरसशोधनमारणविधिः

श्रीभैरवी ।
देवदेव चिदानन्द सच्चिदानन्ददायक ।
त्वयैव प्रतिबुद्धास्मि पूर्वं रसविधानकम् ॥ आक-२,१.१ ॥

इदानीं त्वत्प्रसादेन श्रोतुमिच्छाम्यहं प्रभो ।
गन्धाद्युपरसानां च लोहानां हेमपूर्विणाम् ॥ आक-२,१.२ ॥

पद्मरागादिरत्नानां लक्षणं जातिमाह्वयम् ।
संस्कारं च गुणान्ब्रूहि यथा जानाम्यहं प्रभो ॥ आक-२,१.३ ॥

उपरसाः

श्रीभैरवः ।
गन्धतालशिलाताप्यघनहिङ्गुलगैरिकाः ।
चपलाश्मजभूनागहरिद्राश्माग्निजारकाः ॥ आक-२,१.४ ॥

खर्परीतुत्थकङ्कुष्ठगिरिसिन्दूरटङ्कणाः ।
कम्पिल्लविषकासीसगौरीपाषाणभूखगाः ॥ आक-२,१.५ ॥

पोद्दारशृङ्गी सिन्दूरस्तुवरिश्च रसाञ्जनम् ।
नीलाञ्जनं च सौवीरं स्रोतोञ्जनम् अफेनकम् ॥ आक-२,१.६ ॥

पुष्पाञ्जनं शङ्खशुक्तिशम्बूकाश्च वराटकाः ।
साबुणी च नवक्षारचीनक्षाराखुमारकाः ॥ आक-२,१.७ ॥

सर्जगुग्गुलुलाक्षाश्च क्षाराश्च लवणानि च ।
गोरोचनोऽम्लवेतश्च काचच्छगणवालुकाः ॥ आक-२,१.८ ॥

एते उपरसाः ख्याता रसराजस्य कर्मणि ।

द्वादश लोहाः

स्वर्णरूप्यार्ककान्ताभ्रसत्त्वं तीक्ष्णं च मुण्डकम् ॥ आक-२,१.९ ॥

भुजङ्गं त्रपुसं चैव रीतिः कांस्यं च वर्तकम् ।
द्वादशैतानि लोहानि मण्डूरो लोहकिट्टकम् ॥ आक-२,१.१० ॥

नवरत्नानि

माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्यं भिदुरं च नीलम् ।
गोमेधकं चाथ विडूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ आक-२,१.११ ॥

नव उपरत्नानि

सूर्यकान्तश् चन्द्रकान्तस् तारकान्तस्तु कान्तकः ।
वैक्रान्तश्च नृपावर्तः सस्यको विमला तथा ॥ आक-२,१.१२ ॥

पेरोजश्च नवैतानि ह्युपरत्नानि निर्दिशेत् ।

गन्धकः > गन्धकशुद्धिः॑ प्रथमः प्रकारः

उत्पत्तिलक्षणं जातिं गन्धकं शोधयेदतः ॥ आक-२,१.१३ ॥

साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् ।
तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा श्रावेण रोधयेत् ॥ आक-२,१.१४ ॥

भाण्डं निक्षिप्य भूम्यन्तरूर्ध्वं देयं पुटं लघु ।
ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ आक-२,१.१५ ॥

द्वितीयः प्रकारः

कङ्गुणीसर्षपैरण्डतैलं वाथ कुसुम्भजम् ।
मेषीक्षीरं घृतं वाथ गोक्षीरं चारनालकम् ॥ आक-२,१.१६ ॥

एतेष्वेकं तु भाण्डान्तः किंचिदूनं प्रपूरयेत् ।
रुद्ध्वा वस्त्रेण तद्वक्त्रं गन्धचूर्णं तत उपरि ॥ आक-२,१.१७ ॥

लोहपात्रेण रुद्ध्वाथ पृष्ठे स्थाप्य च खर्परम् ।
साग्निम् उत्पलकैः पूर्णमेव द्राव्य समुद्धरेत् ॥ आक-२,१.१८ ॥

तद्धुत्तूरद्रवैः पिष्ट्वा शुष्कं द्राव्यं च पूर्ववत् ।
पुनरेवं प्रकर्तव्यं सुशुद्धो गन्धको भवेत् ॥ आक-२,१.१९ ॥

तृतीयः प्रकारः

यामैकं गन्धकं मर्द्यं बृहत्या चाजगन्धया ।
भृङ्गीधुत्तूरयोर्वाथ तिलपर्ण्याश्च तद्द्रवैः ॥ आक-२,१.२० ॥

तमादाय घृतैस्तुल्यैर् लोहपात्रे क्षणं पचेत् ।
बद्ध्वाग्निना द्रुतं तं वै ह्यजाक्षीरे विनिक्षिपेत् ॥ आक-२,१.२१ ॥

इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकः ।

चतुर्थः प्रकारः

करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ आक-२,१.२२ ॥

क्षिप्त्वा तस्य मुखं बद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।
गन्धकं धूर्तजैर् द्रावैर्दिनं भाव्यं विशोषयेत् ॥ आक-२,१.२३ ॥

तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधापयेत् ।
आच्छाद्य श्रावकेनैव पृष्ठे देयं पुटं लघु ॥ आक-२,१.२४ ॥

द्रुतं गन्धं समादाय भाव्यं धुत्तूरजैर्द्रवैः ।
तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ आक-२,१.२५ ॥

आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।
ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ आक-२,१.२६ ॥

भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे ।
तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ आक-२,१.२७ ॥

घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।
भृङ्गराजद्रवान्तस्थः सम्यक् शुद्धः स जायते ॥ आक-२,१.२८ ॥

पञ्चमः प्रकारः

गन्धकं याममात्रं वा मद्यब्राह्म्यजगन्धयोः ।
भृङ्गधुत्तूरयोर्वापि तिलपर्णीरसेन वा ॥ आक-२,१.२९ ॥

तदादाय घृतोपेतं लोहपात्रे क्षणं पचेत् ।
लघ्वग्निना द्रुतं तच्च मेषीक्षीरे विनिक्षिपेत् ॥ आक-२,१.३० ॥

एवं कृतं सप्तवारं शुद्धं भवति गन्धकम् ।

गन्धकतैलम्॑ प्रथमः प्रकारः

देवदाल्यम्लपर्णी वा नारङ्गं वाथ दाडिमम् ॥ आक-२,१.३१ ॥

मातुलुङ्गं यथालाभं द्रवमेकस्य चाहरेत् ।
गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ आक-२,१.३२ ॥

आतपे त्रिदिनं शुष्कं द्रवं देयं पुनः पुनः ।
धुत्तूरतुलसीकृष्णलशुनं देवदालिका ॥ आक-२,१.३३ ॥

शिग्रुमूलं काकमाची कर्पूरं शंखिनीद्वयम् ।
कृष्णागरु च कस्तूरी वन्ध्या कर्कोटकी समम् ॥ आक-२,१.३४ ॥

मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।
अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ आक-२,१.३५ ॥

त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।
इदं गन्धकतैलं स्यात्सर्वयोगेषु योजयेत् ॥ आक-२,१.३६ ॥

द्वितीयः प्रकारः

अथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु ताम् ॥ आक-२,१.३७ ॥

तद्वर्तिं ज्वलितां दंशे धृतां कुर्यादधोमुखीम् ।
तैलं पतेदधो भाण्डे ग्राह्यं योगेषु योजयेत् ॥ आक-२,१.३८ ॥

गन्धकसत्त्वपातनम्॑ प्रथमः प्रकारः

गन्धकस्तु कुबेराक्षीतैलेन चिरमर्दितः ।
दृढं प्रकटमूषायां ध्मातः सत्त्वं विमुञ्चति ॥ आक-२,१.३९ ॥

द्वितीयः प्रकारः

यद्वा भाण्डोदरे क्षिप्त्वा गन्धकं पूर्वशोधितम् ।
पिधाय ताम्रपात्रेण तस्मिञ्शीतोदकं क्षिपेत् ॥ आक-२,१.४० ॥

मन्दं प्रज्वाल्य तदधो वह्निमुष्णं जलं हरेत् ।
एवं पुनः पुनः शीतजलमूर्ध्वं विनिक्षिपेत् ॥ आक-२,१.४१ ॥

गन्धकस्याग्नितः सत्त्वं स्वर्णाभं सर्वकार्यकृत् ।
न चास्य सत्त्वम् आदद्यात् सत्त्वरूपो हि गन्धकः ॥ आक-२,१.४२ ॥

इति गन्धकतत्त्वज्ञाः केचिदन्ये प्रचक्षते ।

गन्धकद्रुतिः

यद्वा संचूर्णितं गन्धं कटुतैलसमन्वितम् ॥ आक-२,१.४३ ॥

वस्त्रे निक्षिप्य तद्वस्त्रं कारयेद्वर्तिकां दृढाम् ।
ततः सूत्रेण संवेष्ट्य गोघृतेन परिप्लुताम् ॥ आक-२,१.४४ ॥

संदंशेनोद्धृतं कृत्वा वर्तिं चाधः प्रदीपयेत् ।
पक्वाम्रफलसम्भूतरसवर्णा भवेद्द्रुतिः ॥ आक-२,१.४५ ॥

गन्धकस्य गुणाः

गन्धकः कटुकः पाके वीर्योष्णो विमलः सरः ।
विसर्पकुष्ठकण्डूतिक्रिमिगुल्मक्षयापहः ॥ आक-२,१.४६ ॥

अक्षिरोगप्रशमनो वृष्यो विषगदार्तिजित् ।
सर्वसिद्धिप्रदो बल्यस्त्रिदोषघ्नो रसायनः ॥ आक-२,१.४७ ॥

हरितालम्

हरितालं च गोदन्ती तालकं नटमण्डनम् ।
गिरिजाललितं पीतम् अतिगन्धं बिडालकम् ॥ आक-२,१.४८ ॥

हरितालभेदाः

हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।

पत्त्रतालक > फ्य्स्. प्रोपेर्तिएस्

स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ॥ आक-२,१.४९ ॥

तत्पत्त्रतालकं प्रोक्तं बहुपत्रं रसायनम् ।

पिण्डतालक > फ्य्स्. प्रोपेर्तिएस्

निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ॥ आक-२,१.५० ॥

स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ।

अशुद्धहरितालसेवने दोषाः

वातश्लेष्मप्रमेहादिकरम् आयुर्निबर्हणम् ॥ आक-२,१.५१ ॥

तापस्फोटाङ्गसंकोचं हरितालमशोधितम् ।

हरितालशुद्धिः॑ प्रथमः प्रकारः

तालकं कणशः कृत्वा दशांशेन तु टङ्कणम् ॥ आक-२,१.५२ ॥

जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ।
वस्त्रे चतुर्गुणे बद्ध्वा डोलायन्त्रे दिनं पचेत् ॥ आक-२,१.५३ ॥

सचूर्णेनारनालेन दिनं कूष्माण्डजै रसैः ।
स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥ आक-२,१.५४ ॥

द्वितीयः प्रकारः

मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥ आक-२,१.५५ ॥

उत्पलैर्दशभिर्देयं पुटं कुर्यात्पुनः पुनः ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ आक-२,१.५६ ॥

तृतीयः प्रकारः

तालकं पोट्टलं बद्ध्वा सचूर्णे काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥ आक-२,१.५७ ॥

तिलतैले पचेद्यामं यामं च त्रिफलाजले ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकम् ॥ आक-२,१.५८ ॥

तालकसत्त्वपातनम्॑ प्रथमः प्रकारः

लाक्षा राजी तिलाः शिग्रु टङ्कणं लवणं गुडम् ।
तालकार्घ्येण संमर्द्य छिद्रमूषां निरोधयेत् ॥ आक-२,१.५९ ॥

पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चयम् ।

द्वितीयः प्रकारः

तालकं मर्दयेद्दुग्धैः सर्पाक्ष्या वा कषायकैः ॥ आक-२,१.६० ॥

पूर्ववज्जनयेत्सत्त्वं छिद्रमूषानिरोधितम् ।

तृतीयः प्रकारः

लाक्षा राजी गुडं शिग्रु टङ्कणं लवणं तिलाः ॥ आक-२,१.६१ ॥

एभिस्तुल्यं सत्त्वतालं मर्दयेद् रविदुग्धकैः ।
दिनं वा वज्रिणीदुग्धैः कूश्माण्डस्य द्रवैश्च वा ॥ आक-२,१.६२ ॥

तेन कल्केन लिप्त्वान्तश्छिद्रमूषां निरोधयेत् ।
पुटाद्वा धमनात् सत्त्वं ग्राह्यं पातालयन्त्रके ॥ आक-२,१.६३ ॥

चतुर्थः प्रकारः

तालकादष्टमांशेन देयं सूतं च टङ्कणम् ।
कूश्माण्डस्य रसैः स्नुह्याः क्षीरैर् मर्द्याद्दिनत्रयम् ॥ आक-२,१.६४ ॥

तद्गोलं छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् ।

पञ्चमः प्रकारः

भागाः षोडश तालस्य विषपारदटङ्कणाः ॥ आक-२,१.६५ ॥

श्वेताभ्रवङ्गयोश्चूर्णं प्रतिभागं विमिश्रयेत् ।
समं स्नुह्यर्कपयसा मर्दयेद्दिवसद्वयम् ॥ आक-२,१.६६ ॥

तद्गोलं काचकुप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।
सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रे मृदा दृढम् ॥ आक-२,१.६७ ॥

शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् ॥ आक-२,१.६८ ॥

चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् ।
स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ आक-२,१.६९ ॥

ऊर्ध्वलग्नं तालसत्त्वं स्फटिकोपलसन्निभम् ।

षष्ठः प्रकारः

भावितं स्नुक्पयः सिक्तं स्नुहीद्रावैर्द्विसप्तधा ॥ आक-२,१.७० ॥

तिलसर्षपशिग्रूणि लवणं मित्रपञ्चकम् ।
एभिस्तुल्यं शुद्धतालं दिनमेकं विमर्दयेत् ॥ आक-२,१.७१ ॥

भूधरे छिद्रमूषान्तर्ध्मातं सत्त्वं विमुञ्चति ।

तालकस्य गुणाः

तालकं शोधितं श्रेष्ठं कुष्ठमृत्युजरापहम् ॥ आक-२,१.७२ ॥

सौभाग्यसौगन्ध्यकरं परमायुर्विवर्धनम् ।

मनःशिला

मनःशिला स्यात्कुनटी नागास्या रक्तगन्धकः ॥ आक-२,१.७३ ॥

नेपालिका नागजिह्वा कल्याणी सप्तनामका ।

मनःशिलाभेदाः

मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ॥ आक-२,१.७४ ॥

खण्डाख्या चैव तद्रूपं विविच्य परिकल्प्यते ।
श्यामा रक्ता खराङ्गा च भाराढ्या श्यामिका मता ॥ आक-२,१.७५ ॥

तेजस्विनी च निर्भारा ताम्राभा कणवीरका ।
चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ॥ आक-२,१.७६ ॥

उत्तरोक्ता गुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ।

अशुद्धमनःशिलासेवायां दोषाः

अश्मरीं मूत्रकृच्छ्रं च मन्दाग्निं मलबद्धताम् ॥ आक-२,१.७७ ॥

करोति कुष्ठं तापं च शुद्धिहीना मनःशिला ।

मनःशिलाशुद्धिः

अजामूत्रैस्त्र्यहं पच्याद्दोलायन्त्रे मनःशिलाम् ॥ आक-२,१.७८ ॥

सप्तधा दध्यजापित्तैर्घर्मे ताप्यं विशुद्धये ।
जीवन्तीभृङ्गराड्रक्तागस्त्यद्रावैर्मनःशिलाम् ॥ आक-२,१.७९ ॥

दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।
क्षालयेदारनालेन सर्वयोगेषु योजयेत् ॥ आक-२,१.८० ॥

अगस्त्यस्य रसे भाव्या सप्ताहाच्छोधिता शिला ।

मनःशिलासत्त्वपातनम्॑ प्रथमः प्रकारः

तालवच्च शिलासत्त्वं पातनं शोधनं तथा ॥ आक-२,१.८१ ॥

गोमांसैर् मातुलुङ्गाम्लैर् दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पीतैश्च भावयेत् ॥ आक-२,१.८२ ॥

दिनान्ते मर्दयेद्यामं मित्रपञ्चकसंयुतम् ।
गुलिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ॥ आक-२,१.८३ ॥

सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रमृदा दृढम् ।
शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ॥ आक-२,१.८४ ॥

शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् ।
चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् ॥ आक-२,१.८५ ॥

स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ।
ऊर्ध्वलग्नं शिलासत्त्वं बालार्कसदृशोपमम् ॥ आक-२,१.८६ ॥

द्वितीयः प्रकारः

अगस्त्यशिग्रुजैस्तोयैस् त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ॥ आक-२,१.८७ ॥

मनःशिलाया गुणाः

मनःशिला कटूष्णा च सतिक्ता कफवातजित् ।
कण्डूतिक्षयकासघ्नी विषभूताग्निमान्द्यहृत् ॥ आक-२,१.८८ ॥

माक्षिकम्

माक्षिकं मधुधातु स्यान्माक्षीकं हेममाक्षिकम् ।
ताप्यं च तापिजं तार्क्ष्यं तापीदेशसमुद्भवम् ॥ आक-२,१.८९ ॥

माक्षिकभेदाः

माक्षीकं द्विविधं हेममाक्षिकं तारमाक्षिकम् ।
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ आक-२,१.९० ॥

तपतीतीरसम्भूतं पञ्चवर्णं सुवर्णवत् ।
पाषाणबहलः प्रोक्तस्ताप्याख्योऽसौ गुणात्मकः ॥ आक-२,१.९१ ॥

सुवर्णाकारभेदाच्च प्रत्येकं तत्पुनस्त्रिधा ।
कादम्बं कारवेल्लाख्यं तण्डुलीयकसंज्ञकम् ॥ आक-२,१.९२ ॥

अशुद्धमाक्षिकसेवने दोषाः

प्राणविष्टम्भदौर्बल्यवह्निसादाक्षिरोगकृत् ।
माक्षिकं मारयत्येव शुद्धिहीनं सुरार्चिते ॥ आक-२,१.९३ ॥

माक्षिकशुद्धिः॑ प्रथमः प्रकारः

माक्षिकं नरमूत्रेण क्वाथैः कौलुत्थकोद्भवैः ।
वेतसेनाम्लवर्गेण टङ्कणेन कटुत्रिकैः ॥ आक-२,१.९४ ॥

डोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।
दिनं रम्भाद्रवैः पच्यादुद्धृतं पेषयेद् घृतैः ॥ आक-२,१.९५ ॥

एरण्डतैलसंयुक्तैः पुटे पच्यन्विशोधयेत् ।

द्वितीयः प्रकारः

माक्षिकस्य त्रयो भागा भागैकं टङ्कणस्य च ॥ आक-२,१.९६ ॥

मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ आक-२,१.९७ ॥

ताम्रवर्णमयो वापि तावच्छुध्यति माक्षिकम् ।

तृतीयः प्रकारः

अगस्तिपुष्पनिर्यासैः शिग्रुमूलं निघर्षयेत् ॥ आक-२,१.९८ ॥

द्रवैः पाषाणभेद्याश्च पेष्यम् एभिश्च माक्षिकम् ।
तद्वटीं चाथ मूषायां दशभिरुत्पलैः पुटेत् ॥ आक-२,१.९९ ॥

पुनः पुनश्च पिष्ट्वाथ पुटैः षड्भिर्विशुध्यति ।

चतुर्थः प्रकारः

क्षौद्रक्षीरारनालाश्च अष्टभागाः पृथक् पृथक् ॥ आक-२,१.१०० ॥

गव्यं तक्रं चतुर्भागं भागः कौलुत्थजो रसः ।
सर्वं सम्पूरयेद् भाण्डे भागैकं माक्षिकं पचेत् ॥ आक-२,१.१०१ ॥

डोलायन्त्रेण मृद्वग्नौ याममात्रं पुनः पचेत् ।
उद्धृत्य मातुलुङ्गाम्लैः पिष्ट्वा दशभिरुत्पलैः ॥ आक-२,१.१०२ ॥

पुटे पुनः पुनः कुर्यादेवं द्वादशवासरम् ।
शुद्धं भवति माक्षीकं सर्वयोगेषु योजयेत् ॥ आक-२,१.१०३ ॥

पञ्चमः प्रकारः

माक्षिकं कणशः कृत्वा जालिनीमेघनादयोः ।
पिण्डे निक्षिप्य विपचेद्दोलायन्त्रे कुलुत्थजे ॥ आक-२,१.१०४ ॥

क्वाथे तच्छुद्धतां याति प्रशस्तं लोहमारणे ।

षष्ठः प्रकारः

तैले तक्रे गवां मूत्रे कौलुत्थे वाम्लकाञ्जिके ॥ आक-२,१.१०५ ॥

माक्षिकं शोधयेत्प्राज्ञो गिरिदोषनिवृत्तये ।

सप्तमः प्रकारः

कुलुत्थकोद्रवक्वाथनरमूत्राम्लवेतसैः ॥ आक-२,१.१०६ ॥

टङ्कणेनाम्लवर्गेण कटुकत्रितयेन वा ।
डोलायन्त्रे दिनं पाच्यं सूरणकन्दमध्यगम् ॥ आक-२,१.१०७ ॥

दिनं रम्भाद्रवैः पाच्यं ध्मातमुद्धृत्य पेषितम् ।
एरण्डतैलसर्पिर्भ्यां पुटैः शुध्यति माक्षिकम् ॥ आक-२,१.१०८ ॥

अष्टमः प्रकारः

सुवर्णवर्णविमलं ताप्यं वा कणशः कृतम् ।
पुनर्नवायाः कल्कस्थं कौलुत्थे स्वेदयेद्रसे ॥ आक-२,१.१०९ ॥

सैन्धवैर् बीजपूराक्तैर्युक्तं वा पोट्टलीकृतम् ।
डोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ आक-२,१.११० ॥

माक्षिकसत्त्वपातनविधिः॑ प्रथमः प्रकारः

गोदुग्धैश्च स्नुहीक्षीरैर् भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ आक-२,१.१११ ॥

अभ्रवद्धमने सत्वं सस्यकस्याप्ययं विधिः ।

द्वितीयः प्रकारः

दोलायन्त्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ॥ आक-२,१.११२ ॥

चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे पचेद्दिनम् ।
आदाय भावयेद् घर्मे वज्रीक्षीरैर्दिनावधि ॥ आक-२,१.११३ ॥

गृहधूमैर् घृतैः क्षौद्रैः संयुक्तैर् मर्दयेद्दिनम् ।
अन्धमूषागतं ध्मातं सत्त्वं गुञ्जानिभं भवेत् ॥ आक-२,१.११४ ॥

तृतीयः प्रकारः

कदलीकन्दतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ॥ आक-२,१.११५ ॥

पूर्ववद्धमनात् सत्त्वम् इन्द्रगोपसमं भवेत् ।

चतुर्थः प्रकारः

स्नुह्यर्कपयसा स्तन्यैर् माक्षिकं मर्दयेद्दिनम् ॥ आक-२,१.११६ ॥

कङ्कुष्ठं टङ्कणं चैव प्रतिपादांशमिश्रितम् ।
मूकमूषागतं ध्मातं सत्वं मणिनिभं भवेत् ॥ आक-२,१.११७ ॥

पञ्चमः प्रकारः

कदलीकन्दतुलसीजम्बीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ॥ आक-२,१.११८ ॥

रुद्ध्वा ध्माते पतेत् सत्त्वं शुकतुण्डनिभं शुभम् ।

षष्ठः प्रकारः

मूत्रवर्गाम्लवर्गाभ्यां द्विसप्ताहं विभावयेत् ॥ आक-२,१.११९ ॥

माक्षीकं तीव्रघर्मेण दिनमम्लैश्च मर्दयेत् ।
मित्रपञ्चकसंयुक्तं वटीकृत्य धमेद् दृढम् ॥ आक-२,१.१२० ॥

व्योमवद्वङ्कनालेन सत्त्वं शुल्बनिभं भवेत् ।

सप्तमः प्रकारः

स्नुहीक्षीरैर् गवां क्षीरैर् भाव्यम् एरण्डतैलकैः ॥ आक-२,१.१२१ ॥

माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।
पूर्ववद्विधमेत्तेन सत्त्वं लाक्षानिभं भवेत् ॥ आक-२,१.१२२ ॥

अष्टमः प्रकारः

स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपञ्चकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ आक-२,१.१२३ ॥

भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेत्तावद्यावद्द्रवति गोलकम् ॥ आक-२,१.१२४ ॥

सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् ।
विमलानां च सर्वेषां सस्यकस्याप्ययं विधिः ॥ आक-२,१.१२५ ॥

नवमः प्रकारः

संचूर्ण्य माक्षिकं शुद्धं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालेन ह्यधःस्थं स्वर्णचूर्णवत् ॥ आक-२,१.१२६ ॥

जारयेत्तत्समाहृत्य धमेत् सत्त्वं विमुञ्चति ।
योजयेद्वापने चेदं बीजानां यत्र यत्र वै ॥ आक-२,१.१२७ ॥

दशमः प्रकारः

कदलीपत्रजैर्नीरैर्माक्षिकं भावयेद्द्रुतम् ।
गन्धर्वतैलमध्वाज्यैः पक्वमेकदिनं ततः ॥ आक-२,१.१२८ ॥

तत्ताप्यं वज्रमूषायां पक्वायां निक्षिपेत्ततः ।
लोहसंधानकरणं तत्समं तत्र निक्षिपेत् ॥ आक-२,१.१२९ ॥

दृढं प्रमूकमूषायां कोष्ठिकायां निवेशयेत् ।
अङ्गारैः खदिरोद्भूतैर् धमेद्भस्त्राद्वयेन वै ॥ आक-२,१.१३० ॥

वङ्कनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवम् ।

एकादशः प्रकारः

माणिवन्ध्यं वैष्णवं च गृह्णीयात्समभागतः ॥ आक-२,१.१३१ ॥

फलपूररसैः पिष्ट्वा सम्पुटे सुदृढं क्षिपेत् ।
सम्यग्लिप्त्वा वनोद्भूतैश्छाणकैः पुटयेत्ततः ॥ आक-२,१.१३२ ॥

कुकुप्तोत्थं तदाकृष्यं स्वांगशीतं प्रमर्दयेत् ।
फलपूररसैः पक्वैर्मर्दयित्वाथ पूर्ववत् ॥ आक-२,१.१३३ ॥

पुटनं छगणेनैव तावत्कुर्याद्विचक्षणः ।
यावत्तत्पुटितं कल्कं फलपूराम्लमर्दितम् ॥ आक-२,१.१३४ ॥

शाणोत्तेजितनिस्त्रिंशलिप्तं तत्ताम्रताम् इयात् ।
इत्थं शुद्धं च गरुडं टङ्कणं नीरजं रसम् ॥ आक-२,१.१३५ ॥

घृतेन मधुना युक्तं सगुडं गुञ्जया समम् ।
प्राग्वन्मूषागतं कृत्वा धमेत्तत् खदिराग्निना ॥ आक-२,१.१३६ ॥

मृदुसत्त्वं नागसमम् इन्द्रगोपकसन्निभम् ।
पतत्येव न संदेहः सर्वज्ञवचनं तथा ॥ आक-२,१.१३७ ॥

शुक्लदीप्तिरशब्दश्च यदा वैश्वानरो भवेत् ।
तदा तु सत्त्वं पतितं जानीयान्नान्यथा क्वचित् ॥ आक-२,१.१३८ ॥

माक्षिकस्य गुणाः

कषायतिक्तमधुरं कटुकं माक्षिकद्वयम् ।
उष्णं रसायनं कुष्ठशोषहिध्मावमिप्रणुत् ॥ आक-२,१.१३९ ॥

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलकश्च गुणोत्तरः पूर्वरसायनाग्र्यः ॥ आक-२,१.१४० ॥

अभ्रकम्

उत्पत्त्यादि घनस्यादौ कथितं तद्रसायने ।
अधुना सम्प्रवक्ष्यामि तत्क्रियास् तद्गुणानपि ॥ आक-२,१.१४१ ॥

अभ्रकभस्मविधिः॑ प्रथमः प्रकारः

धान्याभ्रकं मेघनादद्रवैः संमर्दयेद् दिनम् ।
शतांशं टङ्कणं दत्त्वा ततो गजपुटे पचेत् ॥ आक-२,१.१४२ ॥

मुस्तासूरणवर्षाभूरसैर् व्यस्तैः पुटं त्रिधा ।
कासमर्दरसैः पञ्च वरागोमूत्रकैरपि ॥ आक-२,१.१४३ ॥

न्यग्रोधस्य जटाक्वाथैर् मर्द्यं दशपुटं पुनः ।
षट् च जम्बीरनीरेण गोक्षीरेण पुटत्रयम् ॥ आक-२,१.१४४ ॥

पेषणं घर्मपाकं च स्थालीपाकं पुटं क्रमात् ।
कुर्याच्चत्वारि कर्माणि टङ्कणं च पुटे पुटे ॥ आक-२,१.१४५ ॥

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ।
अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ॥ आक-२,१.१४६ ॥

भस्मीकरणे विशिष्टसंस्कारः

निश्चन्द्रकं मृतव्योम सामान्यसंस्कृतम् ।
तत्तद्रोगहरद्रव्यक्वाथैः पिष्ट्वा पुटे पचेत् ॥ आक-२,१.१४७ ॥

यन्त्रैस्त्रिः सप्तधा कुर्यात्तत्तद्रोगहरं भवेत् ।
अयं विशेषसंस्कारस्तत्तद्रोगहरो भवेत् ॥ आक-२,१.१४८ ॥

पूर्वाह्ने पेषणं कार्यं मध्याह्ने घर्मपाचनम् ।
सायाह्ने स्थालिकापाकं कुर्याद् रात्रौ पुटं क्रमात् ॥ आक-२,१.१४९ ॥

संस्कारः पञ्चधा प्रोक्तो घनस्य परमेश्वरि ।
धान्याभ्रकरणं सत्त्वपातनं निर्मलक्रिया ॥ आक-२,१.१५० ॥

सुमृतीकरणं चैव त्वमृतीकरणं तथा ।
मारणे घनसत्त्वस्य घनपत्रस्य मारणे ॥ आक-२,१.१५१ ॥

क्रमाच्छ्रेष्ठतमौ प्रोक्तौ शस्तौ दरदटङ्कणौ ।

द्वितीयः प्रकारः

मुस्ताक्वाथेन धान्याभ्रं पञ्चविंशत्पुटे पचेत् ॥ आक-२,१.१५२ ॥

गोमूत्रैश्च तथा क्वाथैस्त्रिफलायाः सुरेश्वरि ।
कासमर्दद्रवैरेकं गोक्षीरेण पुटं त्रिधा ॥ आक-२,१.१५३ ॥

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ।
विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥ आक-२,१.१५४ ॥

तृतीयः प्रकारः

धान्याभ्रकस्य भागैकं भागौ द्वौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ आक-२,१.१५५ ॥

स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ।
विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥ आक-२,१.१५६ ॥

चतुर्थः प्रकारः

धान्याभ्रं मर्दयेदम्लैर्घर्मे संस्थापयेत्ततः ।
पुटं कुर्यात्ततोऽम्लेन सेचनं मर्दनं पुनः ॥ आक-२,१.१५७ ॥

विंशद्वारं ततो दुग्धे पुटनिस्तब्धम् अभ्रकम् ।
क्षिपेत्तं मर्दयेद्दुग्धैर् दुग्धे क्षिप्त्वातपे न्यसेत् ॥ आक-२,१.१५८ ॥

पुटं त्रिः सप्तवाराणि कुर्यादेवं पुनः पुनः ।
तण्डुलं वज्रवल्ली च तालमूली पुनर्नवा ॥ आक-२,१.१५९ ॥

शार्ङ्गेरी मरिचं चैव बला च पयसा सह ।
पूर्वाभ्रं पेषयेदेतैः प्रत्येकैश्च त्र्यहं त्र्यहम् ॥ आक-२,१.१६० ॥

क्षिप्त्वातपे पुटे पच्यात्प्रत्येकेन पुनः पुनः ।
एवं निश्चन्द्रकं व्योम कज्जलाभं मृतं भवेत् ॥ आक-२,१.१६१ ॥

पञ्चमः प्रकारः

धान्याभ्रकस्य शुष्कस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण अम्लैर्भाव्यं दिनत्रयम् ॥ आक-२,१.१६२ ॥

तच्छुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् ।
ऊर्ध्वपात्रे निवार्याथ सिञ्चेदम्लेन केन तम् ॥ आक-२,१.१६३ ॥

धान्यं तत्रैव षड्वारमम्लैः सिञ्च्यात्पुनः पुनः ।
अगस्त्यशिग्रुवर्षाभूमूलपत्रभवै रसैः ॥ आक-२,१.१६४ ॥

पिष्ट्वाभ्रं सेचयेत्तेन षड्धा धाम्यं च सेचयेत् ।
सितामध्वाज्यगोक्षीरैस् तद्धौतं पेष्यमभ्रकम् ॥ आक-२,१.१६५ ॥

रुद्ध्वा षड्भिः पुटैः पाच्यं पिष्ट्वा चैव पुनः पुनः ।
मत्स्याक्ष्याश्चैकवीराया द्रवैः पिष्ट्वा त्रिधा पचेत् ॥ आक-२,१.१६६ ॥

एवं गजपुटैः पाच्यं निश्चन्द्रमयते ऽभ्रकम् ।
पत्त्राभ्रकस्य सिन्दूरं सर्वयोगेषु योजयेत् ॥ आक-२,१.१६७ ॥

षष्ठः प्रकारः

धान्याभ्रं मर्दयेद्यामं मत्स्याक्षीस्वरसैस्ततः ।
पचेद्गजपुटैरेवं सप्तधा तुलसीरसैः ॥ आक-२,१.१६८ ॥

कोकिलाक्षरसैः सप्त कुमारीस्वरसैस्तथा ।
श्वेतदूर्वारसैस्तद्वद्व्याघ्रीकन्दरसैस्तथा ॥ आक-२,१.१६९ ॥

पुनर्नवारसैः सप्त तद्वत् पञ्चामृतैस् ततः ।
निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ॥ आक-२,१.१७० ॥

सप्तमः प्रकारः

धान्याभ्रं टङ्कणं तुल्यं गोमूत्रैस्तुलसीद्रवैः ।
वाकुच्या सूरणैर्नाल्या दिनं पिष्ट्वा पुटे पचेत् ॥ आक-२,१.१७१ ॥

द्रवैः पुनः पुनः पिष्ट्वा दिनान्तेषु पुटे पचेत् ॥ आक-२,१.१७२ ॥

रुद्ध्वा रुद्ध्वा पुटैस्त्वेवं निश्चन्द्रं चाभ्रकं भवेत् ।

अष्टमः प्रकारः

पिष्ट्वा साम्लारनालेन पेटालीमूलजत्वचम् ॥ आक-२,१.१७३ ॥

तद्द्रवैर्मर्दयेदभ्रं दिनं गजपुटे पचेत् ।
एवं सप्तपुटं कार्यं दध्ना च पुटसप्तकम् ॥ आक-२,१.१७४ ॥

यवचिञ्चाद्रवैस्तद्वन्निश्चन्द्रं जायतेऽभ्रकम् ।

नवमः प्रकारः

धान्याभ्रकं रविक्षीरै रविमूलद्रवैश्च वा ॥ आक-२,१.१७५ ॥

मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् ।

दशमः प्रकारः

धान्याभ्रकं तुषाम्लान्तरातपे स्थापयेद्दिनम् ॥ आक-२,१.१७६ ॥

यामं मर्द्यं तु तद्गोलं रुद्ध्वा गजपुटे पचेत् ।
एवं कार्पासतोयान्तः स्थाप्यं पाच्यं पुटे पचेत् ॥ आक-२,१.१७७ ॥

एवं गोक्षीरमध्यस्थं स्थाप्यं पेष्यं पुटे पचेत् ।
पश्चादम्लैश्च गोक्षीरैः कार्पासैश्च पुनः पुनः ॥ आक-२,१.१७८ ॥

घर्मपाकं मर्दनं च स्थालीपाकं पुटं क्रमात् ।
एकविंशत्पुटे प्राप्ते निश्चन्द्रं जायतेऽभ्रकम् ॥ आक-२,१.१७९ ॥

सर्वेषां घातिताभ्राणाम् अमृतीकरणे विधिः ।

अभ्रकस्य गुणाः

अभ्रकं गगनं भृङ्गं बहुपुत्रम् उमाभवम् ॥ आक-२,१.१८० ॥

पत्राभ्रकस्य सिन्दूरममृतं परमं हितम् ।
त्रिदोषघ्नं बलकरं वृष्यमारोग्यदं शुचि ॥ आक-२,१.१८१ ॥

सर्वरोगहरं सौम्यं विषघ्नं च रसायनम् ।

चिन्नबर् > स्य्नोन्य्म्स्

हिङ्गुलो दरदं चूर्णपारदश्च रसोद्भवः ॥ आक-२,१.१८२ ॥

रसगर्भः सुरङ्गश्च लोहघ्नः सिद्धिपारदः ।

चिन्नबर् > सुब्त्य्पेस्

हिङ्गुलस्त्रिविधो ज्ञेयश्चर्मारः शुकतुण्डकः ॥ आक-२,१.१८३ ॥

हंसपादश्च तत्राद्यं तारकर्मणि योजयेत् ।
अधमं तं विजानीयाच्छुकतुण्डं च मध्यमम् ॥ आक-२,१.१८४ ॥

हेमतारक्रियामार्गे योजयेत्परमेश्वरि ।
हंसपादो महाश्रेष्ठः सर्वकर्मकरो हि सः ॥ आक-२,१.१८५ ॥

तस्य सत्त्वं सूत एव दरदस्य त्रिभेदतः ।

शुकतुण्ड > फ्य्स्. प्रोपेर्तिएस्

हेमकिट्टस्य सदृशस्तद्रूपस् तीक्ष्णमारकः ॥ आक-२,१.१८६ ॥

चर्मारस्तीक्ष्णरूपः स्यात्सुप्रीतः शुकतुण्डकः ।

हंसपाद > प्रोपेर्तिएस्

जपाकुसुमसङ्काशो हंसपादो महोत्तमः ॥ आक-२,१.१८७ ॥

रसायने सर्वसूतहरणे सर्वरञ्जने ।
लोहानां मारणे श्रेष्ठो वर्णोत्कर्षणकर्मणि ॥ आक-२,१.१८८ ॥

रसकस्य तथा रागबन्धे धौरेयकः स्मृतः ।
मलदोषादिकं नास्ति सर्वकार्येषु पूज्यते ॥ आक-२,१.१८९ ॥

हिङ्गुलशुद्धिः

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ आक-२,१.१९० ॥

हिङ्गुलसत्त्वपातनम्

दरदं पातनायन्त्रे पातितं च जलाशये ।
सत्त्वं सूतकसङ्काशं विमुञ्चति न संशयः ॥ आक-२,१.१९१ ॥

हिङ्गुलस्य गुणाः

ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति हिङ्गुले ।
नवज्वरहरः प्रोक्तः सम्पातज्वरनाशनः ॥ आक-२,१.१९२ ॥

गैरिकम्

गैरिकं गिरिधातुः स्याद्रक्तधातुर्गवेधुकम् ।

गैरिक > सुब्त्य्पेस्

गैरिकं द्विविधं प्रोक्तं तत्राद्यं स्वर्णगैरिकम् ॥ आक-२,१.१९३ ॥

पाषाणगैरिकं चान्यत्पूर्वं श्रेष्ठतमं गुणैः ।

गैरिकस्य गुणाः

शोणितं मसृणं स्निग्धं स्वादु वृष्यं हिमं लघु ॥ आक-२,१.१९४ ॥

चक्षुष्यं रक्तपित्तघ्नं विषहिध्मावमिप्रणुत् ।
तापज्वरहरं श्रेष्ठं हेमघ्नं रक्तगैरिकम् ॥ आक-२,१.१९५ ॥

पाषाणगैरिक > फ्य्स्. प्रोपेर्तिएस्

पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ।

चपलः

देहवेधी लोहवेधी चपला रसबन्धिनी ॥ आक-२,१.१९६ ॥

चपला बहुभेदा च सर्वलोहस्वरूपतः ।
हेमस्तारो रविमयः सीसात्मा वङ्गरूपधृक् ॥ आक-२,१.१९७ ॥

तीक्ष्णरूपः कांस्यरूपो रक्तो विषमयस्तथा ।

चपलस्वरूपम्

सत्त्वलोहस्वरूपास्ते विषो हरितलोहभाक् ॥ आक-२,१.१९८ ॥

विषाख्यं चपलं प्राप्य निर्जीवे तस्य दापयेत् ।
पुटेनारण्यजैश् छाणैः सधूमं सर्वथा त्यजेत् ॥ आक-२,१.१९९ ॥

नश्येत तस्य धूमं वै स्पर्शनं दूरतस्त्यजेत् ।
अशनात्तस्य संस्पर्शान्म्रियते सद्य एव हि ॥ आक-२,१.२०० ॥

धूमावलोकनाच्छीर्षपीडा संजायते ज्वरः ।
एवं दत्तपुटे शान्ते गृह्णीयाच्चपलं ततः ॥ आक-२,१.२०१ ॥

चपलस्य गुणाः

तस्य संस्पर्शमात्रेण हीरको म्रियते क्षणात् ।
सर्वेषां चपलानां वै स्वभावः समुदाहृतः ॥ आक-२,१.२०२ ॥

वङ्गस्तम्भे नागराजे क्रमे वातीव शस्यते ।
सर्वलोहानि कुर्वन्ति सुवर्णं तारमेव च ॥ आक-२,१.२०३ ॥

युक्त्याथ शोधितः सूते विना बीजं च वा तथा ।
शतं वापि सहस्रं वा लक्षं कोटिं च वेधयेत् ॥ आक-२,१.२०४ ॥

वज्रेण रसराजेन बीजेन च समाश्रिता ।
धूमतो वेधयेल्लोहान् रसजीर्णः स्वयं गलेत् ॥ आक-२,१.२०५ ॥

निष्पत्य तेन देहस्य चपलेन महात्मना ।

शिलाजतु

अश्मजं गिरिजं शैलमश्मलाक्षा शिलाजतु ॥ आक-२,१.२०६ ॥

शिलाजतु > सुब्त्य्पेस्

शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनम् ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः स्मृतः ॥ आक-२,१.२०७ ॥

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ आक-२,१.२०८ ॥

स्वर्णरूप्याकगर्भेभ्यः शिलाधातुर् विनिःसरेत् ।

शिलाजतोर्गुणाः

स्वर्णगर्भगिरेर् जातं जपापुष्पनिभं गुरु ॥ आक-२,१.२०९ ॥

ससत्त्वं स्वादु परमं परमं तद्रसायनम् ।
रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ आक-२,१.२१० ॥

शिलाजं पाण्डुरोगघ्नं विशेषात्पित्तरोगजित् ।
ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥ आक-२,१.२११ ॥

शिलाजं कफवातघ्नं तीक्ष्णोष्णं दीपनं परम् ।
वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारं ह्यधूमकम् ॥ आक-२,१.२१२ ॥

सलिलेऽप्यवलीनं च तत्सिद्धं हि शिलाजतु ।
गोमूत्रगन्धि कृष्णं गुग्गुलुकाभं सशर्करं मृत्स्नम् ।
स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम् ॥ आक-२,१.२१३ ॥

सर्वं च तिक्तकटुकं स्वादु नात्युष्णशीतलम् ॥ आक-२,१.२१४ ॥

वृष्यं त्रिदोषजिद्भेदि चक्षुष्यं च रसायनम् ।
क्षयशोफोदरार्शोघ्नं मेहमूत्रग्रहापहम् ॥ आक-२,१.२१५ ॥

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूलामयोन्मूलनम् ।
प्लीहविनाशनं जठरहृच्छूलघ्नम् आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ आक-२,१.२१६ ॥

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ आक-२,१.२१७ ॥

भूनागः

भूनागः क्षितिनागश्च भूलता रक्तजन्तुकः ।
क्षितिजः क्षितिजन्तुश्च विषघ्नो रक्ततुण्डकः ॥ आक-२,१.२१८ ॥

यासां छेदे न रक्तं प्रभवति सततं प्रायशो रक्तभूमौ ।
संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तासु सत्त्वम् ।
तद्युक्त्या पारदेन्द्रश्चरति यदि समं सारणायन्त्रयोगैः ।
बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥ आक-२,१.२१९ ॥

भूनागसत्त्वस्य गुणाः

सत्त्वं भूनागजं क्ष्वेलयक्षराक्षसमृत्युजित् ।
सर्ववश्यकरं सर्वरोगघ्नं च रसायनम् ॥ आक-२,१.२२० ॥

रसेन्द्रे जारणाकर्मजारितं कोटिवेधकृत् ।
सुवर्णादीनि लोहानि रक्तानि ग्रसति क्षणात् ॥ आक-२,१.२२१ ॥

भूनागसत्त्वपातनम्॑ प्रथमः प्रकारः

रक्तभूजातभूनागमृत्तिकां क्षालयेज्जलैः ।
यावत् सत्त्वावशेषं स्याद् धौतसत्त्वं तदेव हि ॥ आक-२,१.२२२ ॥

मित्रपञ्चकयुक्तं तन्मूषायां धमयेद् दृढम् ।
निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥ आक-२,१.२२३ ॥

एवं त्रिवारं धमनात्सत्त्वशेषं समाहरेत् ।

द्वितीयः प्रकारः

भूनागमृत्तिकां भाण्डे भूनागैः सह निक्षिपेत् ॥ आक-२,१.२२४ ॥

षण्मासान्तं समान्तं वा जलैः सिञ्चेन्मुहुर्मुहुः ।
अस्य सत्त्वं विधानेन गृह्णीयाद् अभ्रसत्त्ववत् ॥ आक-२,१.२२५ ॥

तृतीयः प्रकारः

रक्तभूमिजभूनागान् पञ्जरस्थेन बर्हिणा ।
भक्षयेत्तु शरत्काले नित्यं तन्मलमाहरेत् ॥ आक-२,१.२२६ ॥

लाक्षासर्जरसः सर्जी गुग्गुलुर्मित्रपञ्चकम् ।
ऊर्णा क्षाराश्च पटवो नीलसर्पेन्द्रगोपकौ ॥ आक-२,१.२२७ ॥

मत्स्यश्च नीलसरटः कूर्मपृष्ठं शशास्थि च ।
माक्षीकं शिखिशंखतुत्थं च सर्वांशं बर्हिणो मलम् ॥ आक-२,१.२२८ ॥

सर्वं निक्षिप्य मूषायां धमेत् तीव्राग्निना दृढम् ।
निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥ आक-२,१.२२९ ॥

एवं त्रिवारधमनात् सत्त्वशेषं समाहरेत् ।

हरिद्राश्मा

हरिद्राश्मा निशाग्रावः पीताङ्गः पीतकर्षणः ॥ आक-२,१.२३० ॥

तत्सत्त्वकं सितं स्वर्णं श्रेष्ठं रसरसायने ।

अग्निजारः

अग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भो ऽग्निजः स्मृतः ॥ आक-२,१.२३१ ॥

वडबाग्निमलो ज्ञेयो जरायुश्चार्णवोद्भवः ।
अग्निज्वालोऽग्निजारश्च प्रोक्तः सिन्धुप्लवो दश ॥ आक-२,१.२३२ ॥

सामुद्रस्याग्निनक्रस्य जरायुर्बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ आक-२,१.२३३ ॥

जाराभं दहति स्पर्शात्पिच्छिलं सागरोत्प्लवम् ।
जरायुस्तच्चतुर्वर्णं श्रेष्ठं तेषु सलोहितम् ॥ आक-२,१.२३४ ॥

अग्निजारस्य गुणाः

स्यादग्निजारः कटुकोष्णवीर्यः तुन्दामयघ्नः कफवातहारी ।
पित्तप्रदः शोणितसन्निपातशूलादिवातामयनाशकश्च ॥ आक-२,१.२३५ ॥

अग्निजारस् त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
मर्दनो रसवीर्यस्य दीपनो जारणस्तथा ॥ आक-२,१.२३६ ॥

खर्परी (रसकम्)

खर्परी रसकं तुत्थखर्पर्यमृतसम्भवा ।
रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥ आक-२,१.२३७ ॥

सदंशो दर्दुरः प्रोक्तो निर्दंशः कारवेल्लकः ।
सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥ आक-२,१.२३८ ॥

घनसत्त्वनिभं बाह्ये शुभं हारिद्रवत्ततः ।
अच्छं खर्परवत् तुत्थम् उत्तमं सतोदरम् ॥ आक-२,१.२३९ ॥

खर्पर्या गुणाः

रसकः सर्वदोषघ्नः कफपित्तविनाशनः ।
चक्षूरोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ आक-२,१.२४० ॥

नागार्जुनेन निर्दिष्टौ रसस्य रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ आक-२,१.२४१ ॥

रसश्च रसकश् चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयीं सिद्धिं दास्यतस्तु न संशयः ॥ आक-२,१.२४२ ॥

खर्परीसत्त्वपातनम्

जयन्तीत्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ।
पादांशं रसकस्येदं पिष्ट्वा मूषाः प्रलेपयेत् ॥ आक-२,१.२४३ ॥

नलिकासम्पुटं बद्ध्वा शोषयेद् आतपे खरे ।
ग्राह्यं पातालयन्त्रेण सत्त्वं ध्माते पुटेऽथ वा ॥ आक-२,१.२४४ ॥

खर्परीशुद्धिः

रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।
तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात् ॥ आक-२,१.२४५ ॥

मयूरतुत्थम्

मयूरतुत्थं तुत्थं च नीलाश्मा ताम्रभस्म च ।
मयूरग्रीवकं क्ष्वेडनाशनं सस्यकं प्रिये ॥ आक-२,१.२४६ ॥

मयूरग्रीवसङ्काशं घृष्टे गोक्षीरसन्निभम् ।
अप्सु च प्लवते क्षिप्तमेतन्मायूरतुत्थकम् ॥ आक-२,१.२४७ ॥

अथवा शुकपिच्छाभमन्तः काञ्चनबिन्दुभिः ।
अङ्कितं घर्षयेत्तुत्थम् आयसे चाम्लसंयुते ॥ आक-२,१.२४८ ॥

भवेद् अयस्ताम्रनिभम् एतन्मायूरतुत्थकम् ।

मयूरतुत्थशुद्धिः

विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः ॥ आक-२,१.२४९ ॥

दशांशं टङ्कणं दत्त्वा पाच्यं मृदुपुटे ततः ।
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ आक-२,१.२५० ॥

मयूरतुत्थसत्त्वपातनम्

तुत्थं च टङ्कणं चैव तुल्यं श्लक्ष्णं विमर्दयेत् ।
मूषायां तं विनिक्षिप्य रुद्ध्वा तीव्राग्निना धमेत् ॥ आक-२,१.२५१ ॥

इन्द्रगोपनिभं सत्त्वं पतत्येव न संशयः ।

मयूरतुत्थस्य गुणाः

तुत्थं कटुकषायोष्णं श्वित्रनेत्रामयापहम् ॥ आक-२,१.२५२ ॥

विषदोषेषु सर्वेषु प्रशस्तं कान्तिकारकम् ।

कङ्कुष्ठ > स्य्नोन्य्म्स्

कङ्कुष्ठं काककुष्ठं च रेचकं रागदायकम् ॥ आक-२,१.२५३ ॥

कङ्कुष्ठ > सुब्त्य्पेस्

कंकुष्ठं च द्विधा प्रोक्तं हेमतारात्मकं तथा ।

कङ्कुष्ठ > मेदिच्. प्रोपेर्तिएस्

व्रणजन्तुज्वरघ्नं च शूलोदावर्तगुल्महृत् ॥ आक-२,१.२५४ ॥

गिरिसिन्दूरम्

महागिरिषु चाल्लोव पाषाणान्तस्थितो रसः ।
शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥ आक-२,१.२५५ ॥

त्रिदोषशमनं भेदि रसबन्धनकारकम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ आक-२,१.२५६ ॥

टङ्कणम्

टङ्कणं टङ्कणक्षारो रसक्षारो रसाधिकः ।
लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥ आक-२,१.२५७ ॥

मालतीतीरसम्भूतः क्षारश्रेष्ठो नवाह्वयः ।
अश्मरीमतिसारं च निहन्यात्स्थावरं विषम् ॥ आक-२,१.२५८ ॥

रससिद्धिकरः प्रोक्तो नागार्जुनपुरःसरैः ।

कम्पिल्लकः

इष्टचूर्णस्य सङ्काशश्चन्द्रिकाढ्योऽतिरेकः ॥ आक-२,१.२५९ ॥

सौराष्ट्रदेशखनिजः स हि कम्पिल्लको मतः ।
पित्तव्रणाध्मानविबन्धनघ्नः श्लेष्मोदरार्तिक्रिमिगुल्महारी ।
मूलामशूलज्वरशोफहारी कंपिल्लको रिच्य मलापहारी ॥ आक-२,१.२६० ॥

वत्सनाभिः

उत्पत्यादि विषस्यादौ कथितं हि रसायनम् ॥ आक-२,१.२६१ ॥

अमृतं स्याद्वत्सनाभो विषम् उग्रं महौषधम् ।
गरलं मरणं नागः स्तोककं प्राणहारकम् ॥ आक-२,१.२६२ ॥

सर्वकुष्ठहरं प्रोक्तं सर्वव्याधिविनाशनम् ।
सन्निपातादिरोगाणां विनिवृत्तिकरं प्रिये ॥ आक-२,१.२६३ ॥

कासीस > स्य्नोन्य्म्स्

कासीसं धातुकासीसं केसरं हंसलोमशम् ।
शोधनं पांशुकासीसं शुभ्रं सत्त्वाह्वयं मतम् ॥ आक-२,१.२६४ ॥

कासीस > सुब्त्य्पेस्

कासीसं त्रिविधं शुभ्रं कृष्णं पीतमिति स्मृतम् ।
कासीसं पुष्पकासीसं हीरकासीसमित्यथ ॥ आक-२,१.२६५ ॥

पीतं कृष्णं सितं रक्तं चतुर्धेति परे जगुः ।

कासीस > मेदिच्. प्रोपेर्तिएस्

कासीसमुष्णं सक्षारकषायाम्लं सतिक्तकम् ॥ आक-२,१.२६६ ॥

वातश्लेष्मप्रशमनं चक्षुष्यं रञ्जकं परम् ।
मूत्रकृच्छ्राश्मरीकुष्ठकण्डूव्रणविषापहम् ॥ आक-२,१.२६७ ॥

गौरीपाषाणकः

गौरीपाषाणकः पीतो व्यक्तदेहश्च चूर्णकः ।
रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ आक-२,१.२६८ ॥

तुवरी फटकी च

भूमिस्तुवरिका फुल्लतुवरी रञ्जिका क्षितिः ।
चित्रभूश् चीनकारश्च मञ्जिष्ठारागदायिनी ॥ आक-२,१.२६९ ॥

खगस्तु फटकी दुग्धपाषाणो नेत्ररोगहा ।
कर्पूराख्यशिलाधातुर् मञ्जिष्ठारागरञ्जकः ॥ आक-२,१.२७० ॥

पोदारशृङ्गी

सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्जुनस्य गिरेः पार्श्वे जातं पोदारशृङ्गिकम् ॥ आक-२,१.२७१ ॥

सीससत्त्वं मरुच्छ्लेष्मशमनं पुङ्गदापहम् ।
रसबन्धनम् उत्कृष्टं केशरञ्जनमुत्तमम् ॥ आक-२,१.२७२ ॥

सिन्दूर > स्य्नोन्य्म्स्

सिन्दूरनागगर्भे सैमन्तिकवीरपांसु नागभवम् ।
रक्तं च नागरेणुः गणपतिभूषा सुरङ्ग इत्याख्या ॥ आक-२,१.२७३ ॥

सौभाग्यं चैव शृङ्गारं मङ्गल्यम् अरुणं रजः ।

सिन्दूर > मेदिच्. प्रोपेर्तिएस्

सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् ॥ आक-२,१.२७४ ॥

किलासविषकण्डूतिविसर्पशमनं परम् ।
हिङ्गुले ये गुणाः सन्ति ते गुणास्तिमुरौ प्रिये ॥ आक-२,१.२७५ ॥

रसाञ्जनम्

रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् ।
रीत्यां तु धाम्यमानायां तत्किट्टं तु रसाञ्जनम् ॥ आक-२,१.२७६ ॥

तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् ।
कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ आक-२,१.२७७ ॥

दार्वीक्वाथभवं कण्ठविकासि क्षिप्तम् अक्ष्णि यत् ।
तद् रसाञ्जनमुद्दिष्टं कषायं कटु तिक्तकम् ॥ आक-२,१.२७८ ॥

किंचिद् उष्णं कफहरं छेदनं लेखनं लघु ।
रक्तपित्तप्रशमनं नेत्ररोगविनाशनम् ॥ आक-२,१.२७९ ॥

रसाञ्जनं तार्क्ष्यशैलं ज्ञेयं वर्यञ्जनं तथा ।
रसनाभं चाग्निसारं द्वादशाह्वयकीर्तितम् ॥ आक-२,१.२८० ॥

नीलाञ्जनम्

नीलं नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् ।
कपोतकं च कापोतं सम्प्रोक्तं शक्रभूमिजम् ॥ आक-२,१.२८१ ॥

शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकषायकम् ।
चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ आक-२,१.२८२ ॥

सौवीराञ्जनम्

सौवीरमञ्जनं स्निग्धमवघृष्टं शिलातले ।
अञ्जनाभं शिलारूपमेतच्छ्रेष्ठम् अकृत्रिमम् ॥ आक-२,१.२८३ ॥

सौवीरमञ्जनं चैव रक्तपित्तहरं हितम् ।
विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥ आक-२,१.२८४ ॥

स्रोतोञ्जन > स्य्नोन्य्म्स्

स्रोतोद्भवं स्रोतनदीभवं च स्रोतोञ्जनं वारिभवं तथान्यम् ।
सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ आक-२,१.२८५ ॥

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युतिः ।
घर्षणे गैरिकच्छायं स्रोतोञ्जनमिदं भवेत् ॥ आक-२,१.२८६ ॥

स्रोतोञ्जन > मेदिच्. प्रोपेर्तिएस्

स्रोतोऽञ्जनं शीतकटुकषायं क्रिमिनाशनम् ।
रसायनं रसे योज्यं स्तन्यवृद्धिकरं परम् ॥ आक-२,१.२८७ ॥

स्रोतोऽञ्जनं हिमं स्निग्धं तृष्णाहृत्स्वादु लेखनम् ।
नेत्र्यं हिध्मावमिच्छर्दिकफपित्तास्रकोपनुत् ॥ आक-२,१.२८८ ॥

अहिफेनम्

श्रान्तस्य मथनाक्षोभाद् वासुकेर् वदनोत्थिताः ।
द्वीपान्तरे पतन्ति स्म सविषाः स्वेदबिन्दवः ॥ आक-२,१.२८९ ॥

यत्र यत्र पतन्ति स्म प्ररूढा गुल्मरूपतः ।
तेषु जातं तु निर्यासमफेनं ब्रुवते जनाः ॥ आक-२,१.२९० ॥

चतुर्विधमफेनं स्याज्जारणं मारणं तथा ।
धारणं सारणं चैव क्रमाद्वक्ष्यामि लक्षणम् ॥ आक-२,१.२९१ ॥

श्वेतं तु जारणं प्रोक्तं कृष्णवर्णं तु मारणम् ।
धारणं पीतवर्णं च कर्बुरं सारणं तथा ॥ आक-२,१.२९२ ॥

जारणं जरयेदन्नं मारणं मृत्युदायकम् ।
धारणं च वयःस्तम्भं सारणं मलसारकम् ॥ आक-२,१.२९३ ॥

अफेनं सन्निपातघ्नं वृष्यं बल्यं च मोहदम् ।
ग्रहणीमतिसारं च नाशयेत्षण्डतामपि ॥ आक-२,१.२९४ ॥

पुष्पाञ्जन > स्य्नोन्य्म्स्

पुष्पाञ्जनं पुष्पकेतुः कौस्तुभः कुसुमाञ्जनम् ।
रीतिकं रीतिकुसुमं रीतिपुष्पं च पुष्पकम् ॥ आक-२,१.२९५ ॥

पुष्पाञ्जन > मेदिच्. प्रोपेर्तिएस्

पुष्पाञ्जनं हितं प्रोक्तं पित्तहिक्काप्रदाहनुत् ।
नाशयेद् विषकासार्तिसर्वनेत्रामयापहम् ॥ आक-२,१.२९६ ॥

शङ्ख

शङ्खोऽर्णवभवः कम्बुर् जलजः पावनध्वनिः ।
कुटिलोऽन्तर्महानादः श्वेतपीतः सुनादकः ॥ आक-२,१.२९७ ॥

सस्वनो दीर्घनादश्च बहुनादो हरप्रियः ।
क्षुल्लकः क्षुद्रशङ्खः स्याच्छंबूको नखशङ्खकः ॥ आक-२,१.२९८ ॥

शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः ।
गुल्मशूलकफश्वासनाशनो विषदोषहा ॥ आक-२,१.२९९ ॥

क्षुल्लकः कटुकः स्निग्धः शूलहारी च दीपनः ।
शुक्तिर् मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ॥ आक-२,१.३०० ॥

मुक्तास्फोटस्तौतिकस्तु मौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकसूश्चैव मुक्तामाता तथा स्मृता ॥ आक-२,१.३०१ ॥

मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ आक-२,१.३०२ ॥

जलशुक्तिः क्षुद्रशुक्तिः क्रिमिसुस्फुटिका च सा ।
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ॥ आक-२,१.३०३ ॥

तथा विषहरा रुच्या पाचनी बलदायिनी ।

कपर्द

कपर्दको वराटश्च कपर्दश्च वराटिका ॥ आक-२,१.३०४ ॥

चराचरश्चरो वर्यो बालक्रीडनकश्च स ।
पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ॥ आक-२,१.३०५ ॥

रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञका ।
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥ आक-२,१.३०६ ॥

पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ।
परिणामादिशूलघ्नी ग्रहणीक्षयनाशनी ॥ आक-२,१.३०७ ॥

कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ॥ आक-२,१.३०८ ॥

तदन्ये पुंवराटाः स्युर् गुरवः श्लेष्मपित्तलाः ।
कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ॥ आक-२,१.३०९ ॥

गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ।

साबुणि

सर्वक्षारो बहुक्षारः समूहक्षारसाबुणिः ॥ आक-२,१.३१० ॥

स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ।
सर्वक्षारम् अतिक्षारं चक्षुष्यं बस्तिशोधनम् ॥ आक-२,१.३११ ॥

उदावर्तक्रिमिघ्नं च बिडवद्वस्त्रशोधनम् ।

नवसार

करीरपीलुकाष्ठेषु पच्यमानेष्टकोद्भवः ॥ आक-२,१.३१२ ॥

क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ।
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥ आक-२,१.३१३ ॥

गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।

सौराष्ट्री

गोपित्तेन शतं वारान्सौराष्ट्रीं भावयेत्ततः ॥ आक-२,१.३१४ ॥

धमित्वा पातयेत्सत्वं क्रामणं चातिगुह्यकम् ।

आखुपाषाण

मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ॥ आक-२,१.३१५ ॥

आखुपाषाणनामायं लोहसङ्करकारकः ।
आखुग्रावा सरो रूक्षो वमिशीतज्वरापहः ॥ आक-२,१.३१६ ॥

तारकर्मणि संपूज्यो मेदोदुर्मांसकृन्तनः ।

सर्जरस

रालः सर्जरसश्चैव यक्षधूपो ऽग्निवल्लभः ॥ आक-२,१.३१७ ॥

देवेष्टः शालनिर्यासः सुरभिर् धूपवल्लभः ।
रालस्तु पञ्चधा प्रोक्तो रक्तः पीतः सितोऽसितः ॥ आक-२,१.३१८ ॥

नानावर्णश्च विज्ञेयः कृष्णस्तेषु गुणोत्तरः ।
रालस्तु शिशिरः स्निग्धः कषायस्तिक्तको रसे ॥ आक-२,१.३१९ ॥

वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।

गुग्गुलु

दानवेन्द्रविजितान्पुरा सुरान् भ्रष्टकान्तिधृतिधैर्यतेजसः ।
वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम् ॥ आक-२,१.३२० ॥

मरुभूमिषु जायन्ते प्रायशः पुरपादपाः ॥ आक-२,१.३२१ ॥

भानोर् मयूखैः संतप्ता ग्रीष्मे मुञ्चन्ति गुग्गुलुम् ।
गुग्गुलुः पञ्चधा प्रोक्तो महिषाक्षश्च नीलकः ॥ आक-२,१.३२२ ॥

पद्मस्तु कुमुदश्चैव सुवर्णः पञ्चमः प्रिये ।
महिषाक्षश्च नीलश्च दन्तिनां गुणदायकौ ॥ आक-२,१.३२३ ॥

वाजिनां कुमुदः पद्मो नराणां स्वर्णवर्णकः ।
एरण्डबीजतैले वा तिलतैलेऽथवा घृते ॥ आक-२,१.३२४ ॥

पञ्चतिक्तशृतैः क्वाथैः शुद्धिं कुर्यात्सुगुग्गुलुम् ।
दोलायन्त्रे पचेत्तावद्यावन्निर्मलता भवेत् ॥ आक-२,१.३२५ ॥

एवं विशुद्धं संग्राह्यं तत्तद्योगेषु योजयेत् ।
पिटकागण्डमालाद्या नश्यन्ति च मरुद्गदाः ॥ आक-२,१.३२६ ॥

यवक्षार

यवक्षारोऽमृतः पाक्यो यवजो यवशूकजः ।
यवशूको यवाह्वश्च यवपाक्यो यवारुजः ॥ आक-२,१.३२७ ॥

यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् ।
आमशूलाश्मरीकृच्छ्रविषदोषहरः परः ॥ आक-२,१.३२८ ॥

सर्जक्षार

सद्यःक्षारः सर्जिकश्च क्षारः सज्जी सुवर्जिकः ।
सर्जीकः कटुरूक्षश्च तीक्ष्णो वातकफार्तिनुत् ॥ आक-२,१.३२९ ॥

गुल्मानाहवमिघ्नश्च मेहजाठररोगहृत् ।

लवणक्षार

लोणारं लवणोत्थं लवणासुरं च लवणमेदश्च ॥ आक-२,१.३३० ॥

जतुजं लवणक्षारं लवणं च क्षारलवणं च ।
लोणकक्षारम् अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् ॥ आक-२,१.३३१ ॥

क्षारं लवणम् ईषच्च वातगुल्मादिशूलनुत् ।

वज्रकक्षार

वज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् ॥ आक-२,१.३३२ ॥

सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ।
वज्रकक्षारम् अत्युष्णं तीक्ष्णं क्षारं च रोधनम् ॥ आक-२,१.३३३ ॥

गुल्मोदरार्तिविष्टम्भशूलप्रशमनं परम् ।

सामुद्रलवण

सामुद्रकं तु सामुद्रं सामुद्रलवणं शिवम् ॥ आक-२,१.३३४ ॥

सेअ सल्त् > मेदिच्. प्रोपेर्तिएस्

सामुद्रं लघु हृद्यं च वारितासृजपित्तलम् ।
विदाहि कफवातघ्नं दीपनं रुचिकृत् प्रियम् ॥ आक-२,१.३३५ ॥

सैन्धव

सैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् ।
शुद्धं शिवात्मकं पथ्यं माणिमन्थं नवाभिधम् ॥ आक-२,१.३३६ ॥

सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि ।
पूतं नस्यात्त्रिदोषघ्नं व्रणदोषविबन्धजित् ॥ आक-२,१.३३७ ॥

सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् ।
रसवीर्यविपाकेषु गुणाढ्यं पूतनं सितम् ॥ आक-२,१.३३८ ॥

काचलवण

नीलकाचोद्भवं काचतिलकं चैव काचसम्भवम् ।
काकसौवर्चलं काचलवणं पाक्यजं स्मृतम् ॥ आक-२,१.३३९ ॥

काचोत्थं हृद्यगन्धं च तत्काललवणं तथा ।
कुरुविन्दं काचमलं कतिमं च चतुर्दश ॥ आक-२,१.३४० ॥

काचाख्यं लवणं रुच्यमीषत्क्षारं सपित्तलम् ।
दाहदं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ आक-२,१.३४१ ॥

बिडलवण

बिडं च बिडकं खण्डं कृतक्षारं च आसुरम् ।
सुपाक्यं लवणं खण्डं धूर्तं कृत्रिमकं दश ॥ आक-२,१.३४२ ॥

बिडम् उष्णं सलवणं दीपनं वातनाशनम् ।
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ आक-२,१.३४३ ॥

सौवर्चल

सौवर्चलं च रुचकं तिलकं हृद्यगन्धकम् ।
अक्षं च कृष्णलवणं रुच्यं कोद्रविकं तथा ॥ आक-२,१.३४४ ॥

सौवर्चल > मेदिच्. प्रोपेर्तिएस्

सौवर्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् ।
ऊर्ध्ववातामशूलार्तिविबन्धारोचकं जयेत् ॥ आक-२,१.३४५ ॥

अम्लवेतस

अम्लोऽम्लवेतसो वेधी रसाम्लो वीतवेतसः ।
वेतसारश् चाम्लसारः शरवेधी च वेधकः ॥ आक-२,१.३४६ ॥

नीलश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः ।
अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥ आक-२,१.३४७ ॥

सहस्रवेधी वीराम्लो गुल्मकेतुर् धराक्षिधा ।
शङ्खमांसादिद्रावी स्यद् द्विधा चैवाम्लवेतसः ॥ आक-२,१.३४८ ॥

अम्लवेतसमत्यम्लं कषायोष्णामवातजित् ।
कफार्शःसमगुल्मामम् अरोचकहरं परम् ॥ आक-२,१.३४९ ॥

काच

काचस् तुषारसारश्च रसखोटमलापहः ।
शृङ्गारी चाभ्रधारी च सर्वनेत्रामयापहा ॥ आक-२,१.३५० ॥

छगण

पिष्टकं छगणश्छाणमुत्पलं च वनोत्पलम् ।
करिण्डोपलशाठी च वरटी छगणाभिधा ॥ आक-२,१.३५१ ॥

रसलोहदोषहारि ख्यातं तद्भस्म दुरितसंहृतये ।

अङ्गार

शिखित्राः पावकोच्छिष्टा अङ्गाराः कोलिशा मताः ॥ आक-२,१.३५२ ॥

कोकिलाश्चेति चाङ्गारा निर्वाणाः पयसा विना ।

सिकता

सिकता प्रवाहजनिता सिक्ता पानीयचूर्णका सूक्ष्मा ॥ आक-२,१.३५३ ॥

सा वालुका श्रमघ्नी संसेकात्सन्निपातघ्नी ।

उपरसशोधन

कासीसं भावयेद् घर्मे दिनं जम्बीरजैर्द्रवैः ॥ आक-२,१.३५४ ॥

शुध्यते टङ्कणं गैरी कङ्कुष्ठं च वराटिका ।
शङ्खं नीलाञ्जनं चैव पृथक् शोध्यं दिने दिने ॥ आक-२,१.३५५ ॥

गोदुग्धैस्त्रिफलाक्वाथैर् भृङ्गद्रावैः शिलाजतु ।
मर्दयेदायसे पात्रे दिनैकं तच्च शुध्यति ॥ आक-२,१.३५६ ॥

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चयम् ॥ आक-२,१.३५७ ॥

सूर्यावर्तं वज्रकन्दं कदली देवदालिका ।
शिग्रुः कोशातकी वन्ध्या काकमाची च वालुका ॥ आक-२,१.३५८ ॥

आसामेकरसेनैव त्रिक्षारैर् लवणैः सह ।
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः ॥ आक-२,१.३५९ ॥

सौवीरं कान्तपाषाणः शुद्धा भूनागमृत्तिका ।
सर्वे उपरसाश्चाथ पृथग्भाव्यं दिनं दिनम् ॥ आक-२,१.३६० ॥

ततः पाच्यं च तद्द्रावैर्डोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वे उपरसाः पृथक् ॥ आक-२,१.३६१ ॥

पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।
अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ आक-२,१.३६२ ॥

वनसूरणभूधात्रीमण्डूकीकरवीरकैः ।
कारवल्लीक्षीरकन्दरक्तोत्पलशमीघनैः ॥ आक-२,१.३६३ ॥

मेषशृङ्गीशशवसाशक्रवारुणिटङ्कणैः ।
तैलमत्स्यवसाव्योषद्रवैर् एतैः सकाञ्जिकैः ॥ आक-२,१.३६४ ॥

एतैः समस्तैर् व्यस्तैर्वा डोलायन्त्रे दिनत्रयम् ।
अभ्रपत्राद्युपरसान् शुद्धिहेतोः प्रपाचयेत् ॥ आक-२,१.३६५ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.1&oldid=7087" इत्यस्माद् प्रतिप्राप्तम्