पुरुषसद्भाव:…

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.१-साङ्ख्यकारिकारीत्या पुरुषसद्भावं साधयत।
उ.- व्यक्तम् अव्यक्तं तथा ज्ञ: इति त्रय: पदार्था: साङ्ख्यकारिकायाम् उद्दिष्टा:।तत्र व्यक्तं महदादिप्रपञ्च:।अव्यक्तं प्रधानम्।ज्ञ: पुरुष:।व्यक्ताव्यक्तपदार्थयो: वर्णानानन्तरं पुरुषाख्याय पदार्थस्य सिद्धि: ईश्वरकृष्णेन एवं कृता-
सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययात् अधिष्ठानात्।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च॥सां.का.१७
अन्वय:-
सङ्घातपरार्थत्वात्, त्रिगुणादिविपर्ययात्, अधिष्ठानात्, भोक्तृभावात्, कैवल्यार्थं प्रवृत्ते: च पुरुष: अस्ति।
अत्र पुरुष: अस्तीति प्रतिज्ञावाक्यम्। प्रतिज्ञासाधका: पञ्च हेतव: अग्रे उक्ता:, ते एवम्-

सङ्घातपरार्थत्वात्-
अव्यक्तं तथा महदादिप्रपञ्च: सुखदु:खमोहात्मक: विद्यते।अत: एतत् सर्वं सङ्घातरूपम्।तत्रेदमनुमानम् –
अयं सङ्घात: परार्थ:, सङ्घातत्वात्।
य: य: सङ्घात:, स: स: परार्थ: यथा रथादि:।
अनेन अनुमानेन व्यक्ताव्यक्तभिन्नस्य पुरुस्य सिद्धि: भवति।
आक्षेप:-
रथादिसङ्घात: शरीरादे: सङ्घातान्तरस्य कृते भवति।पुरुष: तु सङ्घातरूप: नास्ति। अत: प्रधानादिसङ्घात: असंहतस्य पुरुषस्य कृते अस्ति इति वक्तुं न शक्यते।
समाधानम्-
सङ्घात: अपरस्य सङ्घातस्य कृते इति अभ्युपगम्यते चेत् अनवस्थादोष: भविष्यति। यतो हि अयम् अपर: सङ्घात: तृतीयस्य सङ्घातस्य कृते, सोऽपि चतुर्थास्य सङ्घातस्य कृते इति अप्रामाणिक-अनन्त-कल्पनाप्रवाह: प्राप्त:। स एव अनवस्थादोष:। अत: प्रधानादिसङ्घात: असंहतस्य पुरुषस्य कृते इत्येव मन्तव्यम्।

त्रिगुणादिविपर्ययात्
पूर्वं पदार्थधर्मा: उक्ता:-
त्रैगुण्यमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्॥सां.का.१२

व्यक्ताव्यक्तयो: धर्मा: तद्विपरीतधर्मा:
त्रिगुणात्मकत्वम् त्रैगुण्यविपर्यय:
अविवेक: विवेक:
विषयत्वम् विषयित्वम्
सामान्यम् असामान्यत्वम्
प्रसवधर्मिता अप्रसवधर्मिता

अत्र त्रिगुणात्मकत्वादिधर्मा: ये उक्ता: तेषां धर्मी व्यक्तं तथा प्रधानम्।ये तद्विपरीता: धर्मा:, तेषां कश्चिद् धर्मी आवश्यक:।स धर्मी पुरुष:।अत्रेदमनुमानम्- त्रैगुण्यादिविपर्ययरूपा: धर्मा: , किञ्चिन्निष्ठा:, धर्मत्वात् ,
य: य: धर्म: स: स: किञ्चिन्निष्ठ: रूपादिवत्।
एवं त्रिगुणादिविपर्ययाद् हेतो: पुरूष: सिद्ध्यति।

अधिष्ठानात्
सुखदु:खमोहात्मक: प्रपञ्च:।तस्य कश्चन अधिष्ठाता आवश्यक:।स च प्रधानाद् महदादिभ्यश्च भिन्न: आवश्यक:।स अधिष्ठाता पुरुष:।
प्रधानं किञ्चिदधिष्ठितं, त्रिगुणात्मकत्वात्
यद् यत् त्रिगुणात्मकं त्तत् किञ्चिदधिष्टितं, यथा रथ:।
अनेन अनुमानेन यद् अधिष्ठानं सिद्ध्यति, तदधिष्ठानम् एव पुरुष:।

भोक्तृभावात्
त्रिगुणात्मकं प्रधानं भोग्यम् अस्ति।अत: तस्य भोक्ता कश्चिद् अभ्युपगन्तव्य:। प्रधानादिप्रपञ्च: सभोक्तृक:,भोग्यत्वात्
यद् यद् भोग्यं तत् तत् सभोक्तृकं यथा रथादि:।
प्रधानादिप्रपञ्च: भोग्य: अत: सभोक्तृक:।
एवं भोक्ता सिद्ध्यति।स: भोक्ता एव पुरुष:।

केचन भोक्तृभावाद् इति हेतुम् अन्यथा व्याख्यान्ति।भोग्या: बुद्ध्यादय: दृश्या:।द्रष्टारं विना द्रष्टृता नोपपद्यते।अत: दृश्यादन्य: कश्चिद् द्रष्टा अस्ति , स एव पुरुष:।

बुद्ध्यादय: सद्रष्टृका:, दृश्यत्वात्, 
यद् यद् दृश्यं तत् तत् सद्रष्टृकम् यथा रथादि:
प्रधानमपि दृश्यम् अत: सद्रष्टृकम्।

अनेन अनुमानेन पुरुष: सिद्ध्यति।

कैवल्यार्थं प्रवृत्तेश्च
केवलस्य भाव: कैवल्यम्।कैवल्ये आध्यात्मिक-आधिदैविक-आधिभौतिकदु:खानाम् आत्यन्तिकी निवृत्ति: विद्यते।एतादृशी दु:खनिवृत्ति: महदादित्त्वेषु न सम्भवति यतो हि तानि सुखदु:खमोहात्मकानि एव।परं द्रष्टार: महर्षय: तु दु:खरहितं कैवल्यं प्राप्तुं प्रवर्तन्ते।अत: दु:खरहित: कश्चित् पदार्थ: अभ्युपेय़: , स: पदार्थ: पुरुष:।
कैवल्यम् अस्ति, महर्षीणां प्रवृत्ते:
यद् नास्ति, तदर्थं महर्षीणां प्रवृत्ति: नास्ति यथा खपुष्पम्।
कैवल्यं महर्षिप्रवृत्तिरहितं नास्ति,अत: कैवल्यम् अस्ति।
अनेनानुमानेन कैवल्यं सिद्ध्यति।तच्च कैवल्यं प्रधानादिभिन्नमेव अङ्गीकरणीयम् । अत: परुषाख्यं तत्त्वं सिद्ध्यति।
एवं साङ्ख्यकारिकायां एभि: पञ्चभिर्हेतुभि: पुरुषतत्त्वस्य सिद्धि: कृता।

वर्ग: साङ्ख्यकारिकाप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=पुरुषसद्भाव:…&oldid=5194" इत्यस्माद् पुनः प्राप्तिः