पुरुषसूक्तम्
पुरुषसूक्तम् - ऋक्.१०/९०
ऋग्वेदस्य दशममण्डलस्य नवतितमं षोडशर्चं सूक्तं भवति पुरुषसूक्तम्। सूक्तस्यास्य नारायणो नाम ऋषिः। पुरुषो देवता। अनुष्टुप् छन्दः अन्त्या त्रिष्टुप् च।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
स भूमिं विश्वतोवृत्वात्यतिष्ठद्दशांगुलम्॥१
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्।
उतामृतत्वस्येशानो यदह्नेनाऽतिरोहति॥२
एतावानस्य महिमातो ज्यायांश्च पुरुषः।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
त्रिपादूर्ध्वं उदैत् पुरुषः पादोस्येहाभवत् पुनः।
ततो विश्वङ्व्यक्रामत् साशनानशने अभि॥४
तस्माद्विराडजायत विराजो अधिपूरुषः।
स जातो अत्यरिच्यत पश्चात् भूमिमथो पुरः॥५
यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥६
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः।
तेन देवा अयजन्त साध्या ऋषयश्च ये॥७॥
तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम्।
पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥८॥
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥९॥
तस्मादश्वा अजायन्त ये के चोभयादतः।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः॥१०॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
मुखं किमस्य कौ बाहू का उरू पादा उच्येते॥११॥
ब्राह्मणोऽस्य मुखामासीद् बाहू राजन्य: कृत:।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत॥१२॥
चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत॥१३॥
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१४॥
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम्॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त, यत्र पूर्वे साध्याः सन्ति देवा:॥१६॥
इति पुरुषसूक्तम्।