बहल-रजसे...

विकिपुस्तकानि तः

मूलम्
बहल-रजसे विश्वोत्पत्तौ, भवाय नमो नमः।
प्रबल-तमसे तत् संहारे, हराय नमो नमः।।
जन-सुखकृते सत्त्वोद्रिक्तौ, मृडाय नमो नमः।
प्रमहसि पदे निस्त्रैगुण्ये, शिवाय नमो नमः।। ३०।।

पदच्छेदः-
बहल-रजसे विश्वोत्पत्तौ, भवाय नमः नमः।प्रबल-तमसे तत्संहारे, हराय नमः नमः।।
जन-सुखकृते सत्त्वोद्रिक्तौ, मृडाय नमः नमः।प्रमहसि पदे निस्त्रैगुण्ये, शिवाय नमः नमः।। ३०।।

अन्वय:-
विश्वोत्पत्तौ बहल-रजसे भवाय नमः नमः।तत्संहारे प्रबल-तमसे, हराय नमः नमः।सत्त्वोद्रिक्तौ जन-सुखकृते मृडाय नमः नमः।निस्त्रैगुण्ये प्रमहसि पदे (विद्यमानाय), शिवाय नमः नमः।। ३०।।

सरलार्थः-
विश्वोत्पत्तिकाले यः रजोगुणबहुलः भवति,तस्मै भवाय नमः नमः।तस्य विश्वस्य संहारकाले, यः तमोगुणबहुलः भवति, तस्मै हराय नमः नमः।यदा सत्त्वगुणोद्रेकः भवति, तदा जनसुख-दायकाय मृडाय नमः नमः। तेजोमय-पदस्य प्राप्तये त्रिगुणरहिताय शिवाय नमः नमः।
शिवस्तोत्राणि
शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्

"https://sa.wikibooks.org/w/index.php?title=बहल-रजसे...&oldid=6199" इत्यस्माद् प्रतिप्राप्तम्