मिथ्यात्वमिथ्यात्वम्?

विकिपुस्तकानि तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्र.-मिथ्यात्वमिथ्यात्वविषये चर्चां कुरुत।
आक्षेप: -
प्रपञ्चस्य मिथ्यात्वं सत्यम् अथवा मिथ्या?
यदि सत्यं तर्हि ब्रह्म सत्यं, मिथ्यात्वमपि सत्यम् इति द्वैतापत्ति:।
यदि प्रपञ्चस्य मिथ्यात्वं मिथ्या तर्हि प्रपञ्च: सत्य:।ब्रह्म सत्यं प्रपञ्चमिथ्यात्वमपि सत्यमिति पुन: द्वैतापत्ति:।
एकस्मिन् धर्मिणि प्रसक्तयो: मिथो विरुद्धधर्मयो: एकस्य मिथ्यात्वे अपरस्य सत्यत्वमिति नियम:।सत्यत्वं तथा मिथ्यात्वमिति मिथो विरुद्धौ धर्मौ प्रपञ्चे प्रसक्तौ। अत: प्रपञ्चमिथ्यात्वं यदि मिथ्या तर्हि प्रपञ्च: सत्य:।

समा.-
मिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चस्य सत्यत्वं न भवति।एकस्मिन् धर्मिणि प्रसक्तयो: मिथो विरुद्धयो: धर्मयो: एकसत्त्वेऽपरमिथ्यात्वं तदैव युज्यते, यदा उभयो: धर्मयो: मिथ्यात्वावच्छेदकं समानं नास्ति।
शुक्तौ रजतं वा रजताभाव: वा इति कश्चिदेक एव धर्म: सम्भवति यतो हि रजतमिथ्यात्वे मिथ्यात्वावच्छेदकधर्म: रजतत्वम्।रजताभावमिथ्यात्वे मिथ्यात्वावच्छेदकधर्म: रजत्त्वाभाव:।एतादृशे स्थले अपराभावे अपरसत्त्वं श्क्यम्।
यदा गजे गोत्वम् अश्वत्वं चोभयमपि प्रसक्तं तदा गोत्वनिषेधस्य निषेध्यतावच्छेदकधर्म: गजत्वाभाव:। अश्वत्वनिषेधस्य निषेध्यतावच्छेदकधर्म: अपि गजत्वाभाव:।उभयो: निषेध्यतावच्छेदकधर्म: समान:।अत: गजे गोत्वबाधे सति अश्वत्वं न सिद्ध्यति।
प्रपञ्चे सत्यत्वं तथा मिथ्यात्वमिति उभयमपि प्रसक्तम्।उभयो: मिथ्यात्वावच्छेदकधर्म: समान: ‘दृश्यत्वम्’।अत: एकसत्त्वे अपरसद्भाव: न सिद्ध्यति।

आक्षेप:-
दृष्टान्तो विषम:।गोत्वाश्वत्वे न परस्पराभावरूपे।दार्ष्टन्तिके तु सत्यत्वमिथ्यात्वे परस्परअभावरूपे स्त:।
समाधानम्-
न। प्रपञ्चे सत्यत्वमिथ्यात्वयो: न परस्परविरहरूपत्वम्। सत्यत्वं नाम अबाध्यत्वम्।असत्त्वं नाम क्वचिदप्युपाधौ सत्त्वेन अप्रतीयमानत्वम्। अत: सत्त्वासत्त्वयो: परस्पराभावरूपत्वं नास्ति।
अथवा
परस्परविरुद्धरूपत्वम् अङ्गीकृतं चेदपि न तयो: मिथ: बाध्यबाधकभाव:। यतो हि तौ विषमसत्ताकौ।
प्रपञ्चस्य सत्यत्वम् – प्रातिभासिकम्।
प्रपञ्चस्य मिथ्यात्वम् – व्यावहारिकम् अथवा पारमार्थिकम्।
अत: तयो: बाध्यबाधकभावो न सम्भवति।

आक्षेप:-
विषमसत्ताकत्वे बाध्यबाधकभाव: नास्तीत्यत्र किं प्रमाणम्?
समा.- समसत्ताकत्वं नाम एकबाधकबाध्यत्वम्।विषमसत्ताकत्वं नाम एकसाधकबाधकत्वम्।
दृष्टान्त:-शुक्तौ शुक्तिभेदज्ञानं तथा रजतज्ञानं चिन्त्यताम्। शुक्तिज्ञानं शुक्तिभेदज्ञानस्य बाधकं, रजतज्ञानस्य बाधकं च।एवं शुक्तिभेदज्ञाने तथा रजतज्ञाने एकबाधक-बाध्यत्वमस्ति अत: उभयो: सत्ता समाना (प्रातिभासिकी)गण्यते।
सिद्धान्त:-
ब्रह्मणि प्रपञ्च: तथा प्रपञ्चस्य मिथ्यात्वं चिन्त्यताम्।‘नेह नानास्ति किञ्चन’ इत्यनेन श्रुतिवचनेन प्रपञ्च: बाध्यते तथा प्रपञ्चस्य मिथ्यात्वम् अपि बाध्यते अत: उभयो: सत्ता समाना (प्रातिभासिकी) अस्ति।

लघूत्तरप्रश्ना:   दीर्घोत्तरप्रश्ना: