विलक्षणत्वाधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

न विलक्षणत्वादस्य तथात्वं च शब्दात्।२.१.४
पू.- चेतनं ब्रह्म अचेतनस्य जगत: कारणं प्रकृतिर्वा भवितुं नार्हति, विलक्षणत्वात्।ब्रह्म चेतनं शुद्धं च।जगदचेतनं सुखदु:खमोहात्मकं च।यत्र प्रकृतित्वं तत्र कार्यविलक्षणत्वाभाव:, यथा मृत्कुम्भौ, कनकरुचके वा।
वे.- जगत: कारणं चेतनमिति शब्दाद् ज्ञायते।अत: जगत: चेतनत्वमपि श्रुत्यनुसारिभि: उत्प्रेक्षणीयम्।
पू.- यदि शब्दशरणतया एव जगत: चेतनत्वं कल्प्यते, तर्हि साक्षात् ‘विज्ञानं चाविज्ञानं च’ (तैत्ति.२.६) इति शब्दादेव जगतोऽचेतनत्वं किमिति नाङ्गीक्रियते?
वे.- चेतनत्वमपि अचेतनानां भूतानामिन्द्रियाणां च श्रूयते –आपो अब्रुवन् –(श.ब्रा. ३.२.४१)। अत: यदचेतनमिति भवतोच्यते तदपि चेतनमेव। दार्ष्टान्तिकं ब्रह्म|दृष्टान्ता: घटशरावादयो विकारा:।दार्ष्टान्तिकं नामरूपात्मकं जगत्।अत्र श्रुताद्वाचारम्भणशब्दात् दार्ष्टान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते।
पू. आरम्भणशब्दादिभ्य: इत्यत्र आदिपदेन किं गृह्यते?
वे.- आत्मैकत्वपरं वचनजातमत्र गृह्यते, यथा-
१ ऐतदात्म्यमिदं सर्वं, तत्सत्यं, स आत्मा, तत्त्वमसि। - छा. ६.८.७
२ इदं सर्वं यदयमात्मा।बृ. २.४.६
३ ब्रह्मैवेदं सर्वम्।मु. २.२.११
४ आत्मैवेदं सर्वम्।छा.७.२५.२
५ नेह नानास्ति किञ्चन।बृ.४.४.१९

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्।२.१.५
पू.- अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्।मृदब्रवीत् ...इत्यादिभिर्वचनै: मृदादीनां चेतनत्वं नाशङ्कनीयम्।एते अभिमानि-देवतानां व्यपदेशा:।
वे.- कुत:?
पू.- विशेषादनुगतेश्च ।विशेषो नाम भोक्तार: तथा भूतेन्द्रियाणि इति एतेषु चेतनाचेतनलक्षण: प्रविभाग:, य: पूर्वमुक्त:।भूतेन्द्रियाण्यपि यदि चेतनान्यङ्गीक्रियन्ते, तर्हि स विभागो नोपपद्यते।
सर्वत्र अभिमानिन्य: देवता: अनुगता: इति मन्त्रार्थवादेतिहासपुराणेभ्य: अवगम्यते।यथा अग्निर्वाग्भूत्वा मुखं प्राविशत्- (ऐ.आर.२.४.२.४) ।तस्मादचेतनमिदं जगत्।सचेतनाद् ब्रह्मणो विलक्षणम्।अत: जगत: कारणं प्रकृतिर्वा ब्रह्म भवितुं नार्हति।

दृश्यते तु। २.१.६
वे.- परन्तु कारणविलक्षणं कार्यं लोके दृश्यते।यथा चेतनात् पुरुषात् अचेतनानि नखलोमानि जायन्ते। अचेतनाद्गोमयाच्चेतना: वृश्चिकादय:। अत: विलक्षणत्वमिति हेतु: प्रत्युक्त:।यथाश्रुति चेतनमेव ब्रह्मकारणत्वेन ग्राह्यं भवति।

असदिति चेत् न प्रतिषेधमात्रत्वात् २.१.७

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ।२.१.८
पू.- अपीति: प्रलय:।तदानीं कार्यं कारणे विलयं गच्छति।
१ यदि स्थूलं सावयवम् अचेतनं परिच्छिन्नम् अशुद्धं जगत् ब्रह्मणि लयं गच्छति, तर्हि जगद्वत् ब्रह्मापि दुष्टं भविता।
२ अपीतौ समस्तविभागस्य लय:।तत: पुनरुत्पत्तौ भोक्तृभोग्यविभागस्य नियमकारणाभावात् भोक्तृभोग्योत्पत्ति: न समञ्जसा स्यात्।
३ अपीतौ भोक्तॄणां ब्रह्मणा सह एकीभाव:।भोक्तृषु केचन मुक्ता: केचन बद्धाश्च।बद्धानां कर्मादय: प्रलयं गता: चेत् पुनरुत्पत्ते: निमित्तं बद्धमुक्तेषु समानम्।अथापि पुनरुत्पत्तौ मुक्तानामपि उत्पत्ति: स्यात्।

न तु दृष्टान्ताभावात्।२.१.९
अस्मात् कारणाद् ब्रह्मकारणपरमौपनिषदं दर्शनमसमञ्जसमिति मन्यामहे।

स्वपक्षदोषाच्च।२.१.१०
वे.- प्रतिवादिना ब्रह्मकारणपक्षे ये दोषा: उद्भाविता:, ते प्रधानकारणवादेऽपि सम्भवन्ति यथा,-
१ जगद् ब्रह्मविलक्षणमतो न ब्रह्मकार्यं भवितुमर्हतीति दोष: अस्मत्पक्षे अस्ति चेत् स दोष: प्रधानकारणवादेऽप्यस्ति।शब्दादिमज्जगत् शब्दादिहीनात् प्रधानाद्विलक्षणमेव।
२ अपीतौ जगद् ब्रह्मणा सह एकीभूय तद्दूषयेदिति दोष: अस्मत्पक्षे अस्ति चेत् स दोष: प्रधानकारणवादेऽप्यस्ति।
३ अपीतौ ब्रह्मणा सह बद्धमुक्तानामेकीभावात् उत्पत्तिनिमित्तस्य च लयात् ,पुन: सर्गकाले उत्पत्तिनिमित्ताभावात् मुक्तानामपि उत्पत्ति: स्यादिति दोष: अस्मत्पक्षे अस्ति चेत् स दोष: प्रधानकारणवादेऽप्यस्ति।
एते दोषा: उभयपक्ष-साधारणा: अत: नान्यतरस्मिन् पक्षे चोदयितव्या:।

तर्काप्रतिष्ठानात् अपि अन्यथानुमेयमिति चेद् एवमप्यविमोक्षप्रसङ्ग:।२.१.११

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद:
"https://sa.wikibooks.org/w/index.php?title=विलक्षणत्वाधिकरणम्&oldid=5596" इत्यस्माद् प्रतिप्राप्तम्