माध्वमतेन ईशस्वरूपं .....

विकिपुस्तकानि तः

माध्वमतेन ईशस्वरूपं वर्णयत।

माध्वमते विष्णुः एव ईशपदार्थः।सः स्वतन्त्रः।सः सर्वोत्कृष्टः।तदर्थम् इदं प्रमाणम्

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।

सर्वेषां वेदानां तात्पर्यं विष्णौ एव वर्तते।अन्यत्र क्वचित् उत्कर्षः दृश्यते चेत् तद् अवान्तरं तात्पर्यं मन्तव्यम्।विष्णोः उत्कर्षे महातात्पर्यम्। जीवः विष्णुप्रसादेन मोक्षं लभते।विष्णुप्रसादार्थं विष्णुः जीवेभ्यः उत्कृष्टः इति ज्ञानम् आवश्यकम्।‘अहमेव विष्णुः’ इति अभेदग्रहः विष्णुप्रसादबाधकः।
यथा सेवकः स्वामिनः स्वस्माद् उत्कर्षं मन्यते चेदेव तस्मिन् स्वामी प्रसीदति।सेवकः स्वामिना सह स्वस्य ऐक्यं प्रस्थापयितुम् इच्छति चेत् स्वामी तस्मिन् प्रसादं न कुरुते , प्रत्युत तं दण्डयते।
ब्रह्मा च शिवः च उभौ अपि क्षरौ।लक्ष्मीः अक्षरा।एवं क्षरात् अक्षराद् अपि हरिः उत्तमः।यतो हि सः स्वतन्त्रः, सर्वशक्तिमान्, ज्ञानसुखादिगुणैः सम्पन्नः निःसीमः च।सर्वे जीवाः सर्वाणि भूतानि च ईशवशगाः।मुक्ताः जीवाः अपि विष्णोः देशे वसन्ति परं ते न स्वतन्त्राः।ते अपि विष्णुवशगाः।विष्णुः तेषाम् अधिपः।


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्