वैश्वानराधिकरणम्...

विकिपुस्तकानि तः

प्र.- वैश्वानराधिकरणम् आरचयत।
उत्तरम्-
सन्दर्भ:- प्रथमाध्याये द्वितीये पादे सप्तमम् इदम् अधिकरणम्।
सूत्राणि- अस्मिन् अधिकरणे एतानि सूत्राणि समाविष्टानि-

विषय: - यस्तु एनम् एवं प्रादेशमात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते...

विशय: - इह वैश्वानरशब्देन -
१ किं जाठराग्नि: अपेक्षित: ? २ उत भूताग्नि: ? ३ अथवा देवताग्नि: ? ४ अथवा शारीर: (जीव:)? ५ अथवा परमात्मा?

पूर्वपक्ष: १ (जाठराग्निपक्ष:)-
विषयवाक्ये ‘य: अन्त:पुरुषे प्रतिष्ठित:’ इति वचनमस्ति।अत: इह वैश्वानर: नाम जाठराग्नि:।

पूर्वपक्ष: २(भूताग्निपक्ष:) – २.१ इह वैश्वानर: इति भूताग्नि:।यतो हि अग्नि: वैश्वानर:, गार्हपत्य: इति एतेषां शब्दानां प्रयोग: विषयवाक्ये विद्यते।एते शब्दा: अग्निमहाभूतं बोधयन्ति।
अत्र ‘अग्ने: द्युलोक: मूर्धा’इति वर्णनं कृतम्।यस्य मूर्धा नाम द्युलोक: इति वर्णनं भूताग्ने: एव सम्भवति।अत: अत्र वैश्वानर: नाम भूताग्नि:।

पूर्वपक्ष: ३ (देवताग्निपक्ष:)
अत्र वैश्वानरशब्देन अग्निदेवता ग्राह्या।यतो हि
३.१ ‘वैश्वानरस्य सुमतौ स्याम’ इति वेदे यत्र उक्तं तत्र वैश्वानरस्य देवतारूपेण वर्णनम् अस्ति।अत: वैश्वानरशब्देन देवता अभिप्रेता अस्ति श्रुते:।
३.२ ‘द्युलोक: मूर्धा’ इति वर्णनं देवताया: एव सम्भवति, ऐश्वर्ययोगात्।

पूर्वपक्ष:४ (शारीरपक्ष:)
अत्र वैश्वानर: शारीर: (आत्मा)।यतो हि –
४.१ आत्मानं वैश्वानरम् उपास्ते इति वैश्वानरशब्दस्य आत्मशब्देन सह सामानाधिकरण्यम् अस्ति।
४.२ अस्य प्रकरणस्य उपक्रम: ‘ को नु आत्मा?’ इति प्रश्नेन जात:।अत: तस्य प्रश्नस्य उत्तरे आत्मन: वर्णनं भवितुमर्हति, नान्यस्य।
४.३ ‘प्रादेशमात्रं वैश्वानरम् उपास्ते’ इति विषयवाक्ये उक्तम्।प्रादेशमात्रं परिमाणं जीवस्य एव सम्भवति, न परमेश्वरस्य।यतो हि परमेश्वर: व्यापक:।

उत्तरपक्ष: (परमात्मपक्ष:)-
यद्यपि अत्र वैश्वानरशब्दस्य प्रयोग: अस्ति, तथापि वैश्वानरशब्दस्य य: साधारण: अर्थ:, ततोऽपि कश्चन विशेष: अर्थ: अत्र प्रतिपादित:।यथा वैश्वानरस्य मूर्धा नाम द्युलोक:, चक्षु: नाम विश्वरूपप्राण:, अस्य स्थानं सर्वेषु आत्मसु अन्त: अस्ति इत्यादि।अत: वैश्वानरशब्देन न साधारणोऽग्नि: न ग्राह्य:, न वा जीव: ग्राह्य:।अत्र प्रतिपादित: विशेष: अर्थ: ईश्वरे एव सङ्गच्छते।
२ स्मृतिग्रन्थेषु अपि ईश्वर: इति अनेन अर्थेन वैश्वानरशब्दस्य प्रयोग: दृश्यते।
३ विषयवाक्ये वैश्वानर: पुरुष: इति उल्लेख: अस्ति।जाठराग्निपक्षे भूताग्निपक्षे च एतद् नोपपद्यते।
४ द्युमूर्धाद्यवयवा: भूताग्ने: सम्भवन्ति परं तस्य पुरुषान्त:प्रतिष्ठत्वं न सम्भवति न वा पुरुषत्वं सम्भवति।
५ वैश्वानरस्य ‘आत्मा’ इति शब्देन उल्लेख: विषयवाक्ये कृत:।अयमुल्लेख: न जाठराग्ने: सम्भवति, न भूताग्ने: न वा देवताग्ने:।
६ अत्र जाठराग्नि: परमेश्वरस्य प्रतीकम्। तेन रूपेण एव स: उपास्य: इति तात्पर्यम्।जैमिनिमतेन तु अत्र परमेश्वरस्य उपासना साक्षात् उक्ता , न तु प्रतीकाधारेण।
७ प्रादेशमात्रम् इति परिमाणम् अभिव्यक्तिनिमित्तम् अस्ति अत: न विरुद्ध्यते इति आश्मरथ्य: नाम आचार्य: मन्यते।
८ परमात्मा मनसा स्मर्यते।मन: च प्रादेशमात्रपरिमाणे हृदये स्थितम्।अत: उपचारात् परमात्मन: परिमाणं प्रादेशमात्रम् इति बादरि: आचार्य: मन्यते।

निर्णय: -
इह वैश्वानरशब्देन परमेश्वर: एव ग्राह्य:।

ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=वैश्वानराधिकरणम्...&oldid=5676" इत्यस्माद् प्रतिप्राप्तम्