श्रीरामकृष्णवचनामृतम्/१

विकिपुस्तकानि तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रथमं दर्शनम्।

तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम्।

श्रवणमंगलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः।। - श्रीमद्भागवततः गोपीगीतम्, रामपञ्चाध्यायी

हे प्रभो, तव लीलानां – तव कथानां वचनानां च – ‘अमृतं संसारदुःखैः तप्तेभ्यः जीवेभ्यः संजीवनदातारं, पापराशिनाशकं च’ इति ऋषिभिः महिमा गीतः। तव अमृतमयानि कथावचनानि श्रवणमात्रेण श्रोतॄणां परमकल्याणं कुर्वन्ति। तेषां महिमा अपारः विद्यते। तं यथार्थं कः कथयितुं शक्नुयात्? तानि आदौ एव सर्वत्र व्याप्तानि सन्ति। तेषां प्रसारं कः कर्तुं शक्नुयात्? तथापि ये अस्मिन् अवनीतले भक्तिभावेन तानि जनेभ्य: विवृण्वन्ति, ते एव सर्वश्रेष्ठाः दातारः।

पुण्यतोया प्रसन्नसलिला भगवती भागीरथी। तस्याः पवित्रे तटे दक्षिणेश्वरस्य कालीवाडी। ऋतुराजस्य वसन्तस्य मधुरः कालः। ईसवीशकस्य 1882 तमवर्षस्य फेब्रुवारीमासः। भगवतः श्रीरामकृष्णस्य शुभजन्मोत्सवानन्तरं केभ्यश्चित् मासेभ्यः अनन्तरं घटिता एषा घटना। श्रीसेनकेशवचन्द्रेण तथा च कुकजोसेफेन सह श्रीरामकृष्णः नौकया गङ्गायाम् अटनार्थं गतवान् आसीत्। तदनन्तरं केभ्यश्चित् दिवसेभ्यः अनन्तरं ( दि. 26 दिने) घटिता एषा कथा।

सायङ्कालस्य शुचिगभीरः समयः। श्रीरामकृष्णस्य प्रकोष्ठे मास्तरः प्रविष्टः। इदमेव मास्तरस्य प्रथमं श्रीदर्शनम्। तेन दृष्टं यत् प्रकोष्ठः भक्तजनैः पूर्णः। सर्वे शान्ततया श्रीरामकृष्णस्य वचनामृतं पिबन्तः सन्ति। सर्वे एव निःशब्दाः, स्तब्धाः, शान्ताः। सहास्यवदनः श्रीरामकृष्णः पूर्वाभिमुखं पर्यङ्के उपविष्टः। ईश्वरविषये वार्ता प्रवर्तिता। भक्तजनाः अधः भूमौ उपविष्टाः।

कर्मत्यागस्य समयः –

विस्मितः मास्तरः उत्थाय एव तद् मनोरमं दृश्यं पश्यन् आसीत्। तं समग्रं दृश्यं दृष्ट्वा सः अमन्यत यत् साक्षात् शुकदेवः एव भगवत्कथां कथयन् अस्ति, सर्वेषां तीर्थाणां तत्र समागमः जातः अस्ति च, अथ वा महाप्रभुश्रीचैतन्यः पुरीधामिना रामानन्दस्वामिना तथा च अन्यैः भक्तैः सह नामगुणसंकीर्तनं कुर्वन् उपविष्टः अस्ति। श्रीरामकृष्णः अवदत्, “यदि एकवारमेव हरिः रामः वा इति नाम जप्यते तर्हि शरीरं रोमाञ्चितं भवति, नेत्रयोः प्रेमाश्रूणि वहन्ति च तदा निश्चयेन ज्ञातव्यं यत् सन्ध्यावन्दनादि कर्माणि अधुना न अपेक्षितानि। कर्मत्यागस्य अधिकारः तदा एव लभ्यते। तदा कर्म स्वयमेव निवृत्तं भवति। अथ तस्यामवस्थायां केवलं रामः हरिः वा ओम् इति जपमात्रेण पर्याप्तम्”। पुनः अवदत्, “सन्ध्या गायत्र्यां लीयते, स्वयं गायत्री ओंकारे विलीयते च”।            

मास्तरः सिद्धेश्वरेण सह वराहनगरे उद्यानात् उद्यानम् अटन् अत्र (दक्षिणेश्वरे) प्राप्तवान्। अद्य रविवासरः,.. अवकाशदिनम्। समयः आसीत् अतः अटनार्थं निर्गतः। अत्र आगमनात् प्राक् सः कञ्चित् समयं बण्डोपाध्यायप्रसन्नस्य उद्याने भ्रमन् आसीत्। तदा सिद्धेश्वरः उक्तवान्, “गङ्गातटे किमपि अतिसुन्दरम् उद्यानं वर्तते। पश्यतु, इच्छति चेत् तत्र गच्छावः। एकः परमहंसः तत्र निवसति”।

अग्रद्वारात् वाटिकायां प्रविश्य मास्तरः सिद्धेश्वरः च साक्षात् श्रीरामकृष्णस्य प्रकोष्ठं गतवन्तौ। विस्मितः मास्तरः तत् पवित्ररम्यं स्थानं पश्यन् स्वगतं वदति, “अहाहा, कियत् रमणीयं स्थानमेतत्! कियान् आकर्षकः पुरुषः एषः! तथा च एतानि अमृतोपमानि वचनानि! इतः निर्गमनस्य इच्छा एव न वर्तते”। कालान्तरेण पुनः स्वेन सह एव चिन्तयति, “ एकदा पश्यामः ननु क्व आगतः इति। अनन्तरं पुनः अत्र आगत्य उपविशामः”।

इति विचिन्त्य देवस्थानदर्शनस्य एषणया सः सिद्धेश्वरेण सह बहिः आगतः, तस्य आगमनमात्रात् सायंनीराजनस्य पवित्रः मधुरः च ध्वनिः श्रुतिपथम् आगतः। तस्मिन् एव समये शंखघण्टाझल्लरीमृदुंगादीनां वाद्यानां सम्मिश्रः निनादः आरब्धः। उद्यानस्य दक्षिणतः धक्कावाद्यस्य मङ्गलरवः आगतः। सः स्वरमेलः भागीरथ्याः वक्षसि भ्रमन् इव दूरम्, अतिदूरं च गत्वा क्वचित् विलीयमान: आसीत्। मन्दः मन्दः कुसुमगन्धवाही वसन्तवायुः। ज्योत्स्ना सद्यः एव स्वसुषमां वितन्वती आसीत्। देवालये सर्वत्र देवतानां नीराजनसिद्धता प्रवर्तिता। द्वादशशिवमन्दिरेषु श्रीराधाकान्तस्य मन्दिरे श्रीभवतारिण्याः देवालये च प्रारब्ध नीराजनं दृष्ट्वा मास्तरस्य चेतः कथं सगद्गदितं जातम्। सिद्धेश्वरः तस्मै अकथयत्, “ एषः राज्ञीरासमण्याः देवालयः। अत्र पूजादि: देवसेवा नियतं प्रवर्तते। कतिपयः मुनय: भिक्षुकाश्च अत्र अन्नं लभन्ते । तथा जल्पन्तौ तौ भवतारिण्याः मन्दिरात् बहिः आगत्य मध्ये विद्यमानात् विस्तीर्णात् प्राङ्गणात् मन्दं मन्दं चलन्तौ श्रीरामकृष्णस्य प्रकोष्ठसमीपं आगतौ। अधुना प्रकोष्ठस्य पिहितं द्वारं ताभ्यां दृष्टम्।

सद्यः एव धूपः ज्वालितः आसीत्। मास्तरेण आङ्गलशिक्षणं प्राप्तम्। आङ्ग्लरीतिः तेन अभ्यस्ता। अनुमतिं विना प्रवेशः न साधुः इति सः अमन्यत। द्वारे एव वृन्दा नाम दासी स्थिता आसीत्। तां सः अपृच्छत्, “किम् अये, सः सत्पुरुषः अन्त: अस्ति किम्?” सा उदतरत्, “आम् अस्ति एव”।

मास्तरः - कदा आरभ्य महोदयः अत्र वर्तते?

वृन्दा –  किम्? बहुभ्यः दिनेभ्यः सः अत्र वर्तते।

मास्तरः - तथा किम्? सः बहूनि पुस्तकानि पठन् स्यात्?

वृन्दा – पुस्तकानि? हम्...। भोः, सर्वं तस्य जिह्वाग्रे वर्तते। सर्वं कण्ठस्थम्।

मास्तरस्य अध्ययनं सद्यः एव समाप्तम् आसीत्। श्रीरामकृष्णः पुस्तकानि न पठति इति श्रुत्वा सः अतीव विस्मित:।

मास्तरः – अधुना तस्य सन्ध्यासमयः जातः स्यात् नु? आवाभ्याम् अन्त: गन्तव्यं किम्? कृपया अन्ते सूचनां ददाति किम्?

वृन्दा – किमर्थं, किं तेन? भवन्तौ एव अन्त: गच्छतां भोः। मुक्तमनसा अन्त: गत्वा उपविशताम्।

अथ तौ प्रकोष्ठं प्रविष्टवन्तौ। तौ दृष्टवन्तौ यत् प्रकोष्ठे श्रीरामकृष्णः एकाकी पर्यङ्के उपविष्टः आसीत्। सद्यः एव धूपः ज्वालितः आसीत्। द्वाराणि सर्वाणि पिहितानि आसन्। अन्ते पदस्थापनमात्रेण एव मास्तरः हस्तौ संयुज्य नमस्कारं कृतवान्। तेन “उपविशताम्” इति उक्ते सति सः तथा च सिद्धेश्वरः भूमौ उपविष्टवन्तौ।

“ कुत्र वसतां, किं कुरुतां, वराहनगरं किमर्थम् आगतौ  च?” इत्यादीनां प्रश्नानाम् उत्तररूपेण मास्तरः स्वपरिचयं विस्तरेण कृतवान्। परन्तु सः निरीक्षितवान् यत् श्रुण्वतः एव श्रीरामकृष्णस्य मनः क्वचित् अन्यत्र इव लग्नम् इति। पश्चात् तेन ज्ञातं यत् ‘भावः’ इति वदन्ति सः एषः एव। कश्चन मत्स्यान् ग्रहितुम् उपविष्टः इव। मत्स्येन आमिषं दष्टं चेत् यष्टिः आकर्षिता भवति, तेन रज्जुं बद्धः जले तरन् यष्टिखण्डः आन्दोलितः भवति। तदा सः जनः यथा त्वरया यष्टिं धरन्तीं मुष्टिम् आकृष्य तरन्तं यष्टिखण्डम् एकाग्रतया चिन्तया च निरीक्षमाण: वर्तते, केनापि सह शब्दमात्रमपि न वदति, पूर्णतः तथा भावस्थस्य श्रीरामकृष्णस्य अवस्था दृश्यते स्म। गच्छता कालेन मास्तरेण श्रुतं स्वतः दृष्टं च यत् सायङ्कालानन्तरं तस्य एतादृशं भावान्तरं सदा भवति स्म। कदाचित् सः बाह्यसंज्ञाशून्यः भवति स्म।

मास्तरः - भवन्तः अधुना संन्ध्यावन्दनं कुर्वन्त: स्युः। अतः अधुना आगच्छाव आवाम् किम्?

श्रीरामकृष्णः – ( भावस्थः) ....सन्ध्या ?... अहम् .... न तथा किमपि।

तदनन्तरं काचित् वार्ता जाता। अनन्तरं मास्तरः प्रणम्य गन्तुम् अनुमतिं याचितवान्। आपृच्छन् श्रीरामकृष्णः अवदत्, “ पुनः आगच्छताम्.... हम्”।

मार्गे गच्छन् मास्तरः स्वमनसि अचिन्तयत्, “ कः स्यात् एषः सौम्यदर्शनः पुरुषः? एनं प्रति पुनः आगमनस्य प्रबला इच्छा मनसि उत्पद्यते। पुस्तकानि न पठित्वा अपि जनः श्रेष्ठः भवितुमर्हति नु? अहो आश्चर्यम्! अत्र पुनः आगमनस्य इच्छा भवन्ती अस्ति। ‘पुनः आगच्छतु’ इति सः अवदत् एव। श्वः परश्वः वा आगमिष्यामि”।