श्रीरामकृष्णवचनामृतम्/११

विकिपुस्तकानि तः
नेविगेशन पर जाएँ खोज पर जाएँ

विजयादशमी – भक्तैः सह दक्षिणेश्वरे 1 प्रभाते सामान्यतः नववादनम्। श्रीरामकृष्णः दक्षिणेश्वरे स्वप्रकोष्ठे लघुपर्यङ्के विश्रामं कुर्वन् आसीत्। पुरतः मणिः उपविष्टः। तेन सह भाषणं प्रवर्तते। अद्य विजयादशमी। 1882तमवर्षस्य ऑक्टोबरमासस्य 22 दिनाङ्कः, रविवासरः। साम्प्रतं राखालः श्रीरामकृष्णेन सह एव भवति स्म। नरेन्दः भवनाथः च मध्ये मध्ये गमनागमनं कुरुतः स्म। श्रीरामकृष्णस्य समीपे तस्य भ्रात्रीयः श्री, रामलालः, श्री. हाजरः च उपस्थितौ आस्ताम्। रामः, मनोमोहनः, सुरेशः, मास्तरः, बलरामः, चेत्यादयः बहुधा सप्ताहे एकवारं दर्शनार्थम् आगच्छन्ति स्म। बाबुरामः अधिकाधिकम् एकद्विवारं आगतवान्। सद्यः एव सः आगच्छन् आसीत्। श्रीरामकृष्णः – भवतां दुर्गापूजावकाशः आरब्धः वा? मणिः – आम् महाराज,। पूजायाः सप्तमी अष्टमी नवमी चेति एतेषु दिवसेषु अहं केशवसेनस्य गृहं गतवान्। श्रीरामकृष्णः – सत्यं वा? मणिः – दुर्गापूजायाः सुन्दरी उपपत्तिः मया तत्र श्रुता। श्रीरामकृष्णः – सा कथं तत् कथयतु। मणिः – केशवसेनस्य गृहे प्रतिदिनं प्रभाते दशैकादशवादनपर्यन्तम् उपासना प्रवर्तते। तदा एव सः दुर्गापूजायाः अर्थं विशदीकृतवान्। सः उक्तवान् यद् यदि कश्चन जगन्मातरं प्रसन्नां कुर्यात्, दुर्गामातरं हृदयमन्दिरम् आनयेत् तर्हि लक्ष्मीः, सरस्वती, कार्तिकः गणेशः च तत्र स्वयमेव आगच्छेयुः। लक्ष्मीः इत्युक्ते ऐश्वर्यं, सरस्वती इत्युक्ते ज्ञानं, कार्तिकः इत्युक्ते विक्रमः, गणेशः इत्युक्ते सिद्धिः – इति एतत् सर्वं स्वयमेव लभ्येत, यदि जगन्माता दुर्गा आगच्छेत् तर्हि ...। श्रीरामकृष्णस्य अन्तरङ्गभक्ताः – नरेन्द्रादयः। श्रीरामकृष्णः सर्वं विवरणं श्रुतवान्। मध्ये मध्ये केशवस्य उपासनाविषये प्रश्नं कृतवान्। अन्ते उक्तवान्, “भवन्तः इतस्ततः न बाभ्रमन्तु। अत्रैव आगच्छन्तु। “मम अन्तरङ्गभक्ताः केवलम् अत्रैव आगमिष्यन्ति। नरेन्द्रः, भवनाथः,राखालः च मम अन्तरङ्गभक्ताः। एते न सामान्याः। एकवारं भवान् तान् भोजनार्थम् आह्वयतु। नरेन्द्रविषये भवान् कथं मन्यते?” मणिः – सः बहु उत्तमः, महाराज। श्रीरामकृष्णः – पश्यतु, नरेन्द्रः कथं गुणवान् – गानवादने कथं पटुः – जितेन्द्रियः च, विवाहं कर्तु नेच्छति। बाल्यकालात् तस्य ईश्वरविषये आकर्षणम्। साकारः निराकारः वा; चिन्मयमूर्तेः ध्यानं; मातृध्यानम्। श्रीरामकृष्णः - अस्तु। साम्प्रतं भवतां ध्यानं धारणा च कथं प्रवर्तेते? भवद्भ्यः किं रोचते साकारं वा निराकारं वा? मणिः – साकारं मनः न ध्यायते; निराकारे मनः स्थिरं कर्तुं न शक्यते च। एतादृशं प्रवर्तते साम्प्रतम्। श्रीरामकृष्णः – दृष्टं किम्? निराकारे सहजं मनः स्थिरं भवितुम् एव न शक्नोति। आरम्भे निराकारं किमर्थं न योग्यम्? – तदेव श्रेयस्करम्। मणिः – इत्युक्ते अन्ते सा एव मृण्मूर्तिः ध्यातव्या ननु? श्रीरामकृष्णः – मृण्मूर्तिः किमर्थम्? सा तु चिन्मयी मूर्तिः। मणिः – तत् तु सत्यम्। परं तथापि हस्तपादादयः चिन्तनीयाः एव ननु? परं पुनः मन्ये यत् आरम्भे रूपचिन्तनेन विना मनसः स्थिरीभवनम् अशक्यमेव। भवान् अपि तथैव कथयति। अस्तु, परम् ईश्वरः नानारूपाणि धर्तुं शक्नोति, तदनु स्वमातृरूपे ध्यानं शक्यते किम्? श्रीरामकृष्णः – आम्, सा ( माता) तु गुरुः एव। ब्रह्ममय्याः एकं रूपं च। तदोपरि मणिः किमपि अनुक्त्वा तूष्णीं स्थितः। किञ्चित् कालानन्तरं पुनः श्रीरामकृष्णं पृष्टवान्। मणिः – महाराज, निराकारस्य अनुभवः कथं वर्तते? तस्य वर्णनं किं कर्तुं न शक्यते? श्रीरामकृष्णः – ( किञ्चित् कालं विचार्य) तत् कथमस्ति इति वदानि? एवम् उक्त्वा श्रीरामकृष्णः किञ्चित्कालं मौनं स्थितवान्। अथ साकारनिराकारयोः दर्शनसमये जायमानायाः अनुभूत्याः विषये स्वल्पं कथयित्वा पुनः मौनं स्थितः। श्रीरामकृष्णः – किं सम्यग् अवगतं वा इदं सर्वम्? यथार्थम् अवगन्तुं साधना अतीव आवश्यकी। तालिते प्रकोष्ठे विद्यमानानि सुवर्णाभूषणानि द्रष्टुं प्राप्तुं वा यदि इच्छा वर्तते तर्हि प्रयत्नेन कुञ्चिकया तालम् उद्घाट्य तानि बहिः आननीयानि। अन्यथा तालितप्रकोष्ठस्य द्वारे स्थित्वा बहु कल्पयति, ‘एषः अहं द्वारम् उद्घाटयामि। पेटिकायाः तालं त्रोटयामि। रत्नं बहिः निष्कासयामि’। एतादृशं केवलं मनोराज्यं कृत्वा कार्यं न सिद्ध्येत् ननु? तदर्थं साधना अपेक्ष्यते। 2 अनन्तः श्रीरामकृष्णः, अनन्तः ईश्वरः, वृन्दावनदर्शनं, ज्ञानिमतेन अवताराः असंख्याः, कुटीचकः, तीर्थयात्रा किमर्थम्? श्रीरामकृष्णः – ज्ञानिनः निराकारस्य चिन्तनं कुर्वन्ति। अवतारान् ते न मन्यन्ते। कदाचित् अर्जुनः श्रीकृष्णम् अस्तौत्, “भवान् पूर्णब्रह्म”। तदा श्रीकृष्णः अवदत्, “अहं पूर्णं ब्रह्म अस्मि वा न इति पश्य, अत्र आगच्छतु”। सः तम् एकं स्थानं नीत्वा पृष्टवान्, “हं, किं दृश्यते?” अर्जुनः उदतरत्, “कश्चन विशालः वृक्षः दृश्यते। तस्य जामुनफलसदृशाणां फलानां बहवः गुच्छाः अपि दृश्यन्ते”। कृष्णः उक्तवान्, “ इतोपि समीपम् आगत्य पश्यतु। ते कृष्णफलानां गुच्छाः न । ते तु मम सदृशाणाम् अगणितकृष्णानां बहवः गुच्छाः आलम्बिताः सन्ति”। तात्पर्यं यत् तत्पूर्णब्रह्मरूपवृक्षात् असंख्याः अवताराः उद्भवन्ति नश्यन्ति च। “कबीरदासस्य निराकारे महती आसक्तिः। कृष्णविषये सः वदति, “एतस्य कृष्णस्य कथं भक्तिं करोमि। ताः गोपबालिकाः तालिकाः वादयन्ति स्म। एषः मर्कटसमं नृत्यति स्म”। (सहास्यं) अहं तु साकारवादीनां कृते साकारवादी निराकारवादीनां कृते निराकारवादी! मणिः – (हसन्) यस्य वार्ता प्रवर्तते सः ईश्वरः यथा अनन्तः तथा भवान् अपि अनन्तः! भवतः स्वरूपमपि न अवगम्यते। श्रीरामकृष्णः – (सहास्यम्) भवता अवगतम् इति दृश्यते। - विषयः ज्ञातः किम्? सर्वे धर्माः एकैकवारम् आचरणीयाः द्रष्टव्याः च। सर्वैः मार्गैः गमनं आवश्यकम्। (सोंगटी) सर्वाणि गृहाणि गत्वा पूर्णा भवति। अनन्तरं यदा स्वगृहं गच्छति तदा तां कोपि मारयितुं न शक्नोति। मणिः – सत्यं महाराज। श्रीरामकृष्णः – योगिनां प्रकारद्वयम्। बहूदकः कुटीचकः च। यः सततं तीर्थयात्रां कुर्वन् अटति यस्य चित्तम् अद्यापि न शान्तं जातं सः बहूदकः। बहूनि तीर्थस्थानानि गत्वा यस्य मनः स्थिरं जातं, यः शान्तः जातः सः आसने दृढः भवति। ततः अन्यत्र न गच्छति। तस्मिन् एकस्मिन् स्थाने उपविश्य सः आनन्दम् आस्वादति। पुनः तीर्थगमनं सः न अपेक्षते। कदाचित् तीर्थं गच्छति चेद् भगवतः उद्दीपनार्थमेव। “ मया सर्वे धर्माः एकैकवारम् आचरिताः - हिन्दुः,, मुस्लिमः, ख्रिश्चनः, तथैव शाक्तवैष्णववेदान्तमार्गैः आचरणम् आपतितम्। अन्ते मया अवगतं यत् परमेश्वरः एकः एव। सर्वे तस्य चरणौ एव गच्छन्ति। भिन्नभिन्नमार्गैः इत्येव। “तीर्थयात्रायां कदाचित् बहु कष्टं भवति स्म। कदाचित् बाबुमथुरेण सह बाबुराजस्य सम्मेलनं गतवान्। तत्र सर्वे सांसारिकविषये मग्नाः इति दृष्टम्। वित्तं, भूमिः चेत्यादीनां विषये मुक्ततया वार्ता परवर्तमाना आसीत्। तां श्रुत्वा मम रोदनम् आरब्धम्। मया उक्तम्, अम्ब, माम् अत्र कथं भवती आनीतवती! दक्षिणेश्वरे सम्यक् आसम् अहम्। प्रयागे दृष्टं यत् ते एव तडागाः, तानि दुर्वातृणानि, ते एव वृक्षाः, तानि एव तिन्त्रिणीपर्णानि! “तथापि तीर्थस्थाने मनसि उद्दीपना भवति एव। बाबुमथुरेण सह वृन्दावनं गतवान्। तस्य गृहमहिलाः अपि आसन्। हृदयः अपि आसीत्। कालियादमनघट्टं दृष्ट्वा उद्दीपनं भवति स्म। कथं व्याकुलः भवामि स्म! हृदयः मां बालकवत् स्नापयति स्म। “विहरणार्थं यमुनातीरं सायङ्काले गच्छामि स्म। तृणानि भुक्त्वा गावः यमुनातटं प्रत्यागच्छन्ति स्म। दृष्ट्वैव कृष्णस्य उद्दीपनं भवति स्म। उन्मत्तवत् अहं धावामि स्म – ‘क्व कृष्णः, कृष्णः क्व’ इति भणन्। “शिबिकायाम् उपविश्य श्यामकुण्ड-राधाकुण्डमार्गेण गच्छन् आसम्। मार्गे गोवर्धनपर्वतं द्रष्टुम् अवतीर्णः। तस्य दर्शनमात्रेण व्याकुलः भूत्वा धावन् गोवर्धनपर्वतं आरूढवान्, बाह्यसंज्ञाशून्यः जातः च। तदनु व्रजवासिनः माम् अधः आनीतवन्तः। श्यामकुण्डराधाकुण्डस्य मार्गे सः एव रिक्तप्रदेशः। ते एव वृक्षगुल्माः। ते एव पक्षिणः हिरनाः च सर्वं दृष्ट्वा नितरां विह्वलः जातः। अश्रुभिः वस्त्राणि क्लिन्नानि जातानि। मसि आगतं, सर्वं कृष्णस्य एव वर्तते। स्वयं सः न दृश्यते! शिबिकायाम् उपविष्टः अहम्। परं मुखेन एकं शब्दमपि उद्गरितुं शक्तिः नास्ति। निःशब्दः उपविष्टः। हृदयः शिबिकाम् अन्वागच्छति। वाहकान् सः उक्तवान्, ‘अत्यन्तं सावधानेन चलन्तु’। “गङ्गामाई बहु निभालयति स्म। अति वृद्धा। निधुनवस्य पार्श्वे एकाकिनी एव निवसति स्म। मम अवस्थां भावं च दृष्ट्वा वदति स्म, ‘एषः साक्षात् राधाराणी एव। सा एव एतस्य शरीरं धृत्वा आगता अस्ति। मां दुलाली इति आह्वयति स्म। तया सह वासे अहं पिपासां बुभुक्षां वा विस्मरामि स्म। कदाचित् हृदयः गृहतः भोजनम् आनीय भोजयति स्म। सा अपि पाचनं कृत्वा भोजयति स्म। “गङ्गामाई भावावेशं गच्छति स्म। तस्याः भावं दृष्टुं जनानां सम्मर्दः भवति स्म। कदाचित् सा भावावेशे हृदयस्य स्कन्धौ आरूढवती! “गङ्गामाईं त्यक्तवा कलकत्तानगरं प्रत्यागन्तुं मम इच्छा नासीत्। सर्वं सम्यक् आसीत्। अहं बाष्पिततण्डुलस्य ओदनं खादामि स्म। माई-गङ्गायाः शय्या प्रकोष्ठस्य एकस्मिन् पार्श्वे, मम अपरस्मिन् पार्श्वे इति सर्वा व्यवस्था सम्यक् भवति स्म। इदं सर्वं दृष्ट्वा हृदयः माम् उक्तवान्, “भवतः एतादृशी उदरवेदना। भवतः सेवां कः कुर्यात्?” तदा गङ्गामाई उक्तवती, “ततः किम्? अहं किमर्थं न करोमि? अहं पश्यामि, शुश्रुषां करोमि”। एकं हस्तं हृदयः कर्षति अपरः गङ्गामाई! तदा सहसा मातुः स्मरणं जातम्। सा दीना एकाकिनी दक्षिणेश्वरे कालीवाड्यां ढक्काभवने निवसति.स्म। - समाप्तः, वृन्दावने वासः एव समाप्तः! मया उक्तं. “न, न शक्यम्। मया गन्तव्यमेव!” “वृन्दावने वायुमानं बहु उत्तमम्। नवयात्रिकाः आगच्छन्ति चेत् व्रजबालकाः वदन्ति स्म, ‘ हरिः इति वदतु, पोटलिकाम् उद्घाटयतु!’ सामान्यतः एकादशवादनानन्तरं श्रीरामकृष्णः प्रसादं भुक्तवान्। द्विप्रहरे अल्पां वामकुक्षीं कृत्वा तृतीयं प्रहरं सः भक्तैः सह संभाषणे यापितवान्। मध्ये मध्ये कदाचित् सः प्रणवध्वनिं, ‘चैतन्य चैतन्य’ इति उच्चारणं वा करोति स्म। देवालये सन्ध्यानीराजनं समाप्ता। अद्य विजयादशमी। श्रीरामकृष्णः कालीमन्दिरम् आगतः। जगतन्मातरं प्रणामं कृतवान्। भक्ताः तस्य पादधूलिं स्वीकृतवन्तः। रामलालः कालीमातुः नीराजनं कृतवान्। श्रीरामकृष्णः दादारामलालम् आहूतवान्, “हे रामलाल, क्व अस्ति भवान्?” कालीमात्रे नैवेद्यः समर्पितः। श्रीरामकृष्णः नैवेद्यं स्पर्शं करिष्यति। तदर्थमेव सः रामलालम् आह्वयति। अन्येभ्यः सर्वेभ्यः भक्तेभ्यः प्रसादं दातुं सूचयन् अस्ति।