सदस्यः:Siba865898
राणिपुर झरिआल् प्राचीन-ऐतिहासिक-कीर्तिराजेः मौनसाक्षी भवति वलाङ्गीर जिल्लायाः ग्रमद्वयम् –राणिपुर,झरिआल् च |कदाचित् राणिपुर-झरिआल् नि:स्वर्थे महानुभवतायाः महामन्त्रं समग्रसमाजस्य मङ्गलकामनर्थे गानं कृतवान् |यस्य स्वर: अनुरणितः अभवत् समग्रभारते अनन्तरं विश्वे च | प्रथमे मानवः,अनन्तरं धर्मः,देवता,विश्वाशः |तदनु जन्मः नयति परम्परा | विविधाः धर्मधारायाः क्रमान्वय-परिवर्तनम् अस्मान् अववोधयति सहावस्थानम् एवं च सहानुभूति: |एतदेव स्वरम् –वैष्णव,गाणपत्य,शैव,शाक्त,वौद्ध,जैन तथा तन्त्रस्य मिलनपीठ: रणिपुर-झरिआलस्य प्रत्येके शिलाखण्डे श्रूयते | जाति,धर्म,वर्ण,कर्म, कदापि वादविवादः नास्ति अपितु सहावस्थानस्य वार्तां प्रचारितं करोति महान् तन्त्रपीठ: राणिपुर-झरिआल् | सम्प्रति प्रायः खण्डविखन्डितः ध्वंसाभिमुखी एषः महान् तन्त्रपीठ:,परन्तु अधुना अपि मनसि आनयति शान्तेः मुक्तेः वार्ता | सृष्टिकर्तायाः महान् सृष्टेः उद्देस्यं वर्तते सत्यम्-शिवम्-सुन्दरम् | अद्यतन मानवसमाजं प्रति मौनमुखे एषा एव वार्ता प्रसारयति महान् तन्त्रपीठ: राणिपुर-झरिआल् |