उपनिषदः

विकिपुस्तकानि तः
०६:३२, २७ आगस्ट् २०१८ पर्यन्तं Ravindranathamenon (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः

ईशावास्योपनिषद्

ईशावास्यम् इदं सर्वम् यत्किंच जगत्यां जगत् || तेन त्यक्तेन भुंजीथा मा गृधः कस्यस्वित् धनम् ||१||

कुर्वन्नैवह कर्माणि जिजीवेषत शतम् समाः एवम् त्वयि नान्यथे तोSस्ति न कर्म लिप्यते नरे ||२||

असूर्या नाम ते लोका अंधेन तमसावृता तांस्ते प्रेत्याभिगच्छंति ये के चात्महनो जनाः ||३||

अनेजदेकम् मनसोजवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् तद्धावतोन्यान् अत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ||४||

तदेजति तन्नैजति तद्दूरे तद्वंतिके तदंतरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ||५||

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति सर्वभूतेषुचात्मानम् ततो न विजुगुप्सते ||६||

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ||७||

स पर्यगात् शुक्रम्अकायम् अव्रणम् अस्नाविरम् शुद्धम् अपापविद्धम् कविर्मनीषि परिभूः स्वयंभूः यथातथ्यतो अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ||८||

अन्धतमः प्रविशन्ति ये अविद्यामुपासते ततो भूय इव ते तमो ये उ विद्यायाम् रताः ||९||

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति शुश्रुम धीराणाम् येनस्तद्विचचक्षिरे ||१०||

विद्यांच्या विद्यांच यस्तद्वेदोभयं सह अविद्यया मृत्युम् तीर्त्वा विद्ययामृतमश्नुते ||११ ||

अंधतमःप्रविशन्ति ये असंभूतिमुपासते ततो भूय इव ते तमो ये उ संभूत्याम् रताः ||१२||

अन्यदेवाहुर्संभवाअन्यदाहुरसंभवात् इति शुश्रुम धीराणां येनस्तद्विचचक्षिरे ||१३||

संभूतिंच विनाशंच यस्तद्वेदोभयं सह विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते ||१४||

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं तत्त्वम् पूषन् अपावृणु सत्यधर्माय दृष्टये ||१५||

पूषन्नेकर्षेयमसूर्यप्राजापत्य व्यूह रश्मीन्समूह तेजोयत्ते रूपं कल्याणतमम् तत् ते पश्यामि योSअसावसौ पुरुषः सोहम् अस्मि ||१६||

वायुरनिलममृतमथेदं भस्मांतम् शरीरम् ओम् क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर ||१७||

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोधि अस्मद्जुहुराणमेनो भूयिष्ठां ते नमउक्तिम् विधेम ||१८||

"https://sa.wikibooks.org/w/index.php?title=उपनिषदः&oldid=6279" इत्यस्माद् प्रतिप्राप्तम्